सुश्रुत संहिता चौखम्बा — पृष्ठ 1231–1240

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1231–1240

पृष्ठ 1231

सुश्रुत संहिता चौखम्बा, पृष्ठ 1231 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya alich Chennai and eGangotri २०७३

शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् ।

पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् ॥ १७६ ॥

सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्व केम् ।

शृतं शीतकषायं वा सोत्पलं शर्करायुतम् ॥ १७ ९ ॥

गुडूचीझरोक्षाणां सारिवोत्पलयोस्तथा ।

शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः ॥ १७८ ॥

द्राक्षाऽऽरग्वधयोश्चापि काश्मर्य्यस्याथवा पुनः ।

स्वादुति कषायारणां कषायैः शर्करायुतैः ॥ १७ ९ ॥

सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च ।

शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् ॥ १८० ॥

वामयेत्पाययित्वा तेन तृष्णा प्रशाम्यति ।

क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः ॥ १८१ ॥

अन्तर्दा “ विधातव्यमेभिश्चान्यैश्च शीतलैः ।

पद्मकं " मधुकं द्राक्षां पुण्डरीकमथोत्पलम् ॥ १८२ ॥

यवान् भृष्टानुशीराणि " समङ्गां काश्मरीफलम् ।

निदध्यादप्सु चालोड्य निशापर्युषितं ततः ॥ १८३ ॥

चौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः । १ सारिवाद्यं = द्रव्यसङ्ग्रहणीयाध्यायोक्ततारिवादिद्रव्यम् । २ उत्पलपूर्वकं = द्रव्यसङ्ग्रहणीयाध्यायोक्तमुत्पलादिद्रव्यम् । ३ सोत्पलम् उत्पलादिगणद्रव्य स-हितम्, अर्थादुत्पलादिगणकृतम् । ४ पद्म = कमलम्, उत्पलं = नीलोत्पलम् | ५ पित्तज्वरे आवस्थिकं योगत्रयं वक्ति - द्राक्षेति । द्राक्षाऽऽरग्वधयोः फलं ग्राह्यम् । ६ स्वादुतिक्तकषायाणां = यथालाभं रसविशेष विज्ञानीयाध्यायो क्तमधुरति -क्तकषायवर्गाभिहितानां द्रव्याणाम् । ७ सुशीतैः = शीतकषायैरित्यर्थः । ८ मद • नफलादिवमनद्रव्येण वामयेदित्यर्थः । ४ ९ क्षीरिकषायैः = न्यग्रोधादिपञ्चक्षीरिवृक्ष-काथैः 1: 1 १० पानलेपपरिषेकावगाहादिकं विधातव्यमित्यथः । श्रन्यैः = काकोल्या -दिभिः, शीतलैः = शीतवीर्यै:, तथा शीतस्पर्शैरपि । ११ पित्तज्वरावस्थायां शीतकषायमाचष्टे – पद्मकमिति । पद्मकं = पद्मकाष्ठम्, पुण्डरीकं = सिताम्भोजम् । १२ समङ्गा - ' लजालू- लजौनी - छुईमुई ' इति नाम्ना ६८ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1232

सुश्रुत संहिता चौखम्बा, पृष्ठ 1232 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-१०७४ bigitized by Arya Samaj Foundation Chennal and eGangotri [ अ ० ३ ९ जिह्वाता लुगलक्लोमशोषे मूर्ध्नि च दापयेत् ॥ १८४ ॥

केशेरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ।

शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोग्तथा ॥ १८५ ॥

वैरस्ये धारयेत्कल्कं गण्डूषञ्च तथा हितम् ।

सप्तच्छेदं गुडूचीञ्च निम्बं स्फूर्जकमेव च ॥ १८६ ॥

क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे ।

कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी ॥ १८७ ॥

कौटजञ्च फलं हन्यात्सेव्यमानं कफज्वरम् ।

हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् ॥ १८८ ॥

कुष्ठमिन्द्रयवान् मूर्वा पटोलं चापि साधितम् ।

पिबेन्मरिच संयुक्तं सक्षौद्रं कफजे उबरे ॥ १८ ९ ॥

सारिवाऽतिविषाकुष्ठपुराख्यैः सदुरालभैः ।

मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् ॥ १ ९ ० ॥

मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी ।

परूषकाणि च क्वाथः कफज्वरविनाशनः ॥। १ ९ १ ॥

राजवृक्षादिवर्गस्य कषायो मधुसंयुतः ।

कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः ॥ १ ९ २ ॥

नागरं धान्यकं " भार्गीमभयां सुरदारु च । उद्यते । १ क्लोम्नि = तिलके । २ पित्तज्वरे गण्डूषस्य योगद्वयमभिधत्ते --केशरमिति । ३ मुखवैरस्ये इत्यर्थः । ४ कफज्वरे संशमनमभिदधाति - सप्तच्छदमिति । सप्तच्छदः - सप्तपर्णः ‘ सा-` तला - सतवन ' इति ख्यातः, स्फूर्जकः = फणिज्जकः । ५ नागपुष्पं = नागकेसरम् । ६ श्रुतिविषा == ' अतीस ' इति ख्याता । इति ख्याता । 1 ७ पुराख्यः = गुग्गुलुः, दुरालभा = ' जवासा ' ८ वृक्षकबीजानि = कुटजबीजानि, इन्द्रयवा इति यावत् । कटुरो • हिणी = ' कुटकी ' इति ख्याता । ९ द्वन्द्वजज्वरे संशमनयोगान्निर्दिशति - राजेति । राजवृक्षादिवर्गस्य = श्रार • ग्वधादिगणस्य । १० भाग = ' भारङ्गी ' इति ख्याता । श्रभया = हरीतकी, सुरदारु = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1233

सुश्रुत संहिता चौखम्बा, पृष्ठ 1233 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] १०७५ Digitized by Arya Samaj Poundation Chennai and eGangotri वचां पर्पटकं मुस्तं भूतोकैमथ कट्फलम् ॥ १ ९ ३ ॥

निष्काथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम् ।

दातव्यं श्वासकासघ्नं श्लेष्मोत्से के गलग्रहे ॥ १ ९ ४ ॥

हिक्कासु कण्ठश्वयथौ शूले हृदय पार्श्वजे ।

बलापटोलत्रिफलायष्ट्याह्नानां वृषस्य च ॥ १ ९ ५ ॥

काथो मधुयुतः पोतो हन्ति पित्तकफज्वरम् ।

कटुका विजया द्राक्षामुस्तपर्पटकैः कृतः ॥ १ ९ ६ ॥

कषायो नाशयेत्पीतः श्लेष्मपित्तभवं ज्वरम् ।

भार्गव चापपैंटकधान्यहिङ्ग्वभयाघनैः ॥ १ ९ ७ ॥

काश्मर्थ्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे ।

सशर्करामामात्रां कटुकामुष्णवारिणा ॥ १ ९ ८ ॥

पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम् ।

किराततिक्तममृतां द्राक्षामामलकं शटीम् ॥। १ ९९ ॥

निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत् ।

राहना वृषोऽथ त्रिफला राजवृक्षफलैः सह ॥। २०० ॥

कषायः साधितः पीतो वातपित्तज्वरं जयेत् ।

सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् ॥ २०१ ॥

यथादोषोच्छ्रयञ्चापि ज्वरान् सर्वानुपाचरेत् ।

' वृश्चीव बिल्ववर्षास्वः पयश्चोदकमेव च ॥ २०२ ॥

पचेत् " क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् । देवदारु ३ हृदय. । १ भूतीकं == रोहिषतृणम् । २ श्लेष्मोत्सेके = श्लेष्मवृद्धौ । पाश्र्वजे च शूले इत्यर्थः । ४ विजया = हरीतकी । ५ अक्षमात्र = कर्षप्रमाणाम् । ६ किराततिक्तं = ' चिरायता ' इति प्रथते । अमृता = गुडूची, शटी = ' कचूर ' इति ख्याता । ७ वृषः = वासक इत्यर्थः । ८ सन्निपाते सामान्यचिकित्सामाह - सर्वदोषेति । षायेण मिलितान् । ९ यस्य दोषस्य उच्छ्रयो वृद्धिर्भवति, संसृष्टान् = वाताद्युक्तक · तद्दोषप्रतीका रे णेत्यर्थः । १० वृश्चीवः — श्वेतपुनर्नवा, वर्षाभू: = रक्तपुनर्नवा । ११ “ द्रव्यादष्टगुणं क्षीरं क्षीरा-तोयं चतुर्गुणम् । क्षीरावशेषं कर्तव्यं क्षीरपाके स्वयं विधिः ॥ ” इति परिभाषोक्तविधि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1234

सुश्रुत संहिता चौखम्बा, पृष्ठ 1234 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-१०७६६ by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ९ उदकांशास्त्रयः क्षीरं शिंशपासौर संयुतम् ॥ २०३ ॥

तत् क्षीरशेषं कथितं पेयं सर्वज्वरापहम् ।

नलवेतसयोर्मूले मूर्वायां देवदारुणि ॥ २०४ ॥

कषायं विधिवत् कृत्वा पेयमेतज्वरापहम् ।

हरिद्रा भद्रमुस्तं च त्रिकला कैटुरोहिणी ॥। २०५ ॥

पिचुमन्दः पटोली च देवदारु निदिग्धिका ।

एषाँ कषायः पीतस्तु सन्निपातज्वरं जयत् ॥ २०६ ॥

अविपक्ति प्रसेकं च शोफं कासमरोचकम् ।

त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे ॥ २०७ ॥

अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम् ।

सुखाम्बुना प्रागुदद्यात्पाययेताक्ष सम्मितम् ॥ २०८ ॥

एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम् ।

द्रव्याणि दीपनीयानि तथा वैरेचनानि च ॥ २० ९ ॥

एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत् " ।

सर्पिमँध्वभयातैललेहोऽयं सर्वजं ज्वरम् ॥ २१० ॥

शान्तिं नयेत् त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम् ।

ज्वरे१२तुविषमे काय्यँमूर्ध्वं चावश्च शोधनम् ॥ २११ ॥

ना पचेदित्यर्थः । १ शिशपासारः पलप्रमाणः, क्षीरम् अष्टपलप्रमाणम् । २ मूर्वा = ' मरोरफली ' इति ख्याता । ३ कटुरोहिणी = ' कुटकी ' इति ख्याता । ४ पिचुमन्दः = निम्बः, निदिग्धिका कण्टकारिका । ५ प्रसेकः = लालास्रावः । ६ वा अथवा त्रिदोषजे त्रैफलः क्वाथः ससर्पिष्कः सर्पिषा युक्तः पेयः पातव्य 1 ७, अनन्ता = ' जवासा ' इति ख्याता, बालकं = नेत्रवाला ' इति ख्याता । ८ श्रक्षसम्मि • तं = कर्षंप्रमाणमित्यर्थः । ९ दोपनीयानि = पिप्पल्यादीनि अग्निसन्दीपनीयानि, वैरेचनानि = त्रिवृदभ-यादीनि विरेचनद्रव्याणि । १० प्रयोजयेत् = सन्निपातजीर्णज्वरावस्थायामेकशो द्विशो बाऽपि दोषबलं विचार्य दापयेदित्यर्थः । ११ प्रबलं = दाहादियुक्तम्, तदुक्तं तन्त्रा-न्तरे— “ पथ्यातैलघृतक्षौद्रैर्ले हो | दाइश्रमज्वरान् । कासासृपित्त वीसर्पश्वासान् इन्ति वमोरपि ॥ ” इति । १२ सर्वेषु विषमज्वरेषु कफपित्ताधिकतया वमनविरेचनार्थमुपदिशति - ज्वर इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1235

सुश्रुत संहिता चौखम्बा, पृष्ठ 1235 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya उत्तरतन on Chennai and eGangotri १०७७

घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम् ।

गुडप्रगाढां त्रिफलां पिवेद् वा विषमार्दितः ॥ २१२ ॥

गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् ।

प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् ॥ २१३ ॥

त्रिचतुर्भिः पिवेत् क्वाथं पञ्चभिर्वा समन्वितैः ।

मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च ॥ २१४ ॥

हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते ।

सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम् ॥ २१५ ॥

दशमूलीकषायेण मागधीर्वा प्रयोजयेत् ।

पिप्पलीवर्द्धमानं वा पिवेत् क्षीररसाशनः ॥ २१६ ॥

ताम्रचूर्डस्य मांसेन पिबेद्वा मद्यमुत्तमम् ।

" कोलाग्निमन्यत्रिफलाक्वाथे दध्ना घृतं पचेत् ॥ २१७ ॥

तिल्वकावापमेतद्धि विषमज्वरनाशनम् ।

पिप्पल्यतिविषाद्राक्षासारिवाबिल्वचन्दनैः ॥ २१८ ॥

ऊर्ध्व शोधनं = वमनम् 9 अधः शोधनं = विरेचनम् । १ कफप्रधानं विषमज्वरमि. त्यर्थः । २ विषमादितः = विषमज्वरपीडितः । ३ धात्री == आमलकी । ४ रसोनम् = अम्लरसरहितं, लशुनमित्यर्थः । तदुक्तम् - " पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ ” इति । ५ त्रिभिर्द्रव्यैः चतुर्भिः पञ्च-• भिर्वा समन्वितैः साधितं क्वाथं विषमज्वरान् प्रतीकर्तु पिवेदित्यर्थः । ६ रोहिणी = ' कुटकी ' इति ख्याता । ७ त्रिविधो योगो यथा - मधुकपटोल रोहिणीभिस्त्रिभिर्द्रव्यैरेको योगः, मधुकपटो-लरोहिणीमुस्तकैश्चतुभिद्वितीयो योगः, मधुकपटोलरोहिणीमुस्तकहरीतकीभिः पञ्चभिस्तृ-यो योगः । ८ पिप्पलीवर्धमानं नाम क्रमाभिवृद्धा पिप्पली, तत्प्रयोगो वातव्या • विचिकित्सिते द्रष्टव्यः । ९ ताम्रचूडस्य = कुक्कुटस्येत्यर्थः । १० कोलं = पञ्चकोलम् । घृतनिर्माणविधिः – पलशत प्रमाणानि पञ्चकोलादिद्र-व्याणि द्वादशाधिकपलप्रमाणे पानीये पक्त्वा चतुर्थांशमष्टाविंशत्यधिकशतमवशेषयेत्, ततस्तेन क्वाथेन चतुर्गुणेन तथा चतुर्गुणेन च दध्ना द्वात्रिंशत्पलप्रमाणं घृतम्, अष्ट-पलप्रमाणं पट्टिकारोधं च दत्त्वा पुनः पचेदिति । अनेनैव विधिनाऽन्यान्यपि तैलघृ-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1236

सुश्रुत संहिता चौखम्बा, पृष्ठ 1236 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri कटुकेन्द्रयवोशीरसिंहीतामलको घनैः । [ अ ० ३ ९ त्रायमाणास्थि रोधात्रीविश्वभेषजचित्रकैः ॥ २१ ९ ॥

पक्वमेतैर्वृतं पीतं विजित्य विषमाग्निताम् ।

जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ॥ २२० ॥

क्षयकासं ससन्तापं पार्श्वशूलानपास्यति ।

गुडूचीत्रिफलावासात्रायमाणावासकैः ॥ २२१ ॥

क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः ।

द्राक्षामागधिकाऽम्भोदनागरोत्पलचन्दनैः ॥ १२२ ॥

पीतं सर्पिः क्षयश्वासकासाजीर्णज्वरान् जयेत् ।

कलशीबृहती द्राक्षात्रायन्तीनिम्बगोक्षुरैः ॥ २२३ ॥

बलापर्पट काम्भोदशालपर्णीयवासकैः ।

पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् ॥ २२४ ॥

शटीतामल की भार्गीमेदाऽऽमलकपौष्करैः ।

क्षारद्विगुणसंयुक्तं जीर्णज्वरमपोहति ॥ २२५ ॥

शिरःपार्श्वरुजाकासक्षयप्रशमनं परम् ।

पटोलीपर्पटारिष्ट ' गुडूचीत्रिफलावृषैः ॥ २२६ ॥

कटुजाम्बुदै भूनिम्बयासयष्ट्याह्नचन्दनैः ।

दार्वीशकय वोशीरत्रायमाणाकणोत्पलैः ॥ २२७ ॥

धात्रीभृङ्गरजोभीरु " काक्रमाचीरसैर्वृतम् । तानि पाचनीयानि येषु प्रमाणं नोक्तम् । १ सिं = बृहत्कण्टकारिका, तामलका = भूम्यामलकी, ' झटामलाज्झटा ताली शिवा तामलकीति च ' इत्यमरः । २ स्थिरा = शालपर्णी, विश्वभेषजं = ' सोंठ ' इति प्रथते । ३ हलीमकः = पाण्डुरो. गप्रभेदः । ४ अपास्यति = नाशयतीत्यर्थः । ५ यवासकः - ' जवासा ' इति ख्यातः । ६ मागधिका = पिप्पली । ७ कलशी = पृश्निपर्णी, बृहती = कण्टकारिका, त्रायन्तो = त्रायमाणा । ८ पर्पटकः = ‘ वित्तपापड़ा ' इति ख्यातः । श्रम्भोदः = मुस्ता । ९ शटी = ' कचूर ' इति प्रथते । वामलकी = भूम्यामलकी । १० श्ररिष्टः = निम्बः, वृष: = वासा । ११ अम्बुदः = मुस्ता, भूनिम्ब: = ' चिरायता ' इति, यासः = ' जवासा ' इति, यष्टया-यष्टीमधु । १२ शक्रयवः = इन्द्रयत्रः, कणा = पिप्पली, उत्पलं = कुष्ठम् । १३ भीरुः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1237

सुश्रुत संहिता चौखम्बा, पृष्ठ 1237 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" अ ० ३ ९ ] Digitized by Arya Sa व स्तन dhennai and eGangotri सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनत्रान् ॥ २२८ ॥

हन्यान्नयनवदनश्रवण घ्राणजान् गदान् ।

विडैङ्गत्रिफला मुस्त मञ्जिष्ठादाडिमोत्पलैः ॥ २२ ९ ॥

प्रियङ्ग्वेलैलैब लूकचन्दनामरदारुभिः ।

बर्हिष्ठे कुष्ठरजनीपर्णिनीसारिवाद्वयैः ॥ २३० ॥

हरेणुका त्रिवृद्दन्तीव चातालोश केसरैः ।

द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह ॥ २३१ ॥

जीर्णज्वरश्वासकास गुल्मोन्मादगरापहम् ।

एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् ॥ २३२ ॥

अलक्ष्मीग्रहरक्षोऽग्निमान्द्यापस्मारपापनुत् ।

शस्यते नष्टशुकाणां बन्ध्यानां गर्भदं परम् ॥ २३३ ॥

मेध्यचक्षुष्यमायुष्यं रेतोमार्गविशोधनम् ।

एतैरेवं तथा द्रव्यैः सर्वगन्धैश्च साधितम् ॥ २३४ ॥

१०७ ९ शतावरी, काकमाची = ‘ मकोय ' इत्युद्वुव्यते । पटोल्यादिघृत साधने पटोलीप्रभृ त्युत्प-लान्तानां द्रव्याणां कल्कं, धात्रीप्रभृतीनां च स्वरसो ग्राह्यः । १ कल्याणकघृतमाख्याति - विडङ्गेति । उत्पलमंत्र नीलोत्पलम् । २ एला = लध्वेला, एलावालूकम् ' एलुआ ' इति ख्यातम्, चन्दनं = रक्तचन्दनम्, अमर • दारु = देवदारु | ३ बर्हिष्ठं = ' नेत्रवाला ' इति ख्यातम् । ' बालं हीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ' इत्यमरः । रजनीद्वयं = हरिद्रा दारुहरिद्रा च, पणिनीद्वयं = शालपर्णी पृश्निपर्णी च सारिवाद्वयं = सारिवा उत्पलसारिवा च । ४ हरेणुका = रेणुका, निर्गुण्डीबोजमिति यावत् । त्रिवृत् = ' निसोत ' इवि, ५ द्वि-क्षीरं = गोश्ळगल्याश्च क्षीरम् । एतत् कल्याणकघृतं विडङ्गादिद्रव्याणामष्टपलप्रमाणेन कल्केन, एकप्रस्थप्रमितेन क्षीरेण, चतुःप्रस्थप्रमाणेन जलेन, प्रस्थप्रमाणेन गव्यघृतेन साधयेत् । ६ मेधायै प्रज्ञायै हितं मेध्यमित्यर्थः । ७ मद्दाकल्याणकघृतं बर्णयति – एतैरेवेति । एतैः = कल्याणकघृतौक्तैर्विडङ्गादि-भिर्द्रव्यैः, तथा “ चातुर्जातककर्पूरकक्को ला गुरुकुङ्कुमम् । लवङ्गसहितं चैव स ंगन्धं विनिर्दिशेत् ॥ ” इत्युक्तः सर्वगन्धैश्च कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतं साधितं तत् सर्पिः, पुनरिमैश्चम्पकाशोकशिरीषकुसुमैस्तथा नलदपद्मानां केसरैर्दाडिमस्य च कुसुमैः वृतं युक्तं तत्क्षीरेण कपिलाक्षीरेण सबैकध्यं कृतं प्रसाध्य, एतेन घृतमिदं पाकद्वय-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1238

सुश्रुत संहिता चौखम्बा, पृष्ठ 1238 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri

कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम् ।

तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ॥ २३५ ॥

सुमनञ्चम्पकाशोक शिरीषकुसुमैर्वृतम् । [ अ ० ३ ९ तथा नलदपद्मानां केशरैर्दाडिमस्य च ॥ २३६ ॥

तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च ।

कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ॥ २३७ ॥

दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् ॥ २३८ ॥

दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम् ।

अधृष्यः सर्वभूतानां वलीपलितवर्जितः ॥ २३ ९ ॥

अस्याभ्यासाद् घृतस्येह जीवेद्वर्षशतत्रयम् ।

गव्यं दधि च मूत्रञ्च क्षीरं सर्पिः शकृद्रसः ॥ २४० ॥

समभागानि पाच्यानि कल्कांश्चैतान् समावपेत् ।

त्रिफलां चित्रकं मुस्तं हरिद्राऽतिविषे वचाम् ॥ २४१ ॥

विडङ्गं त्र्यूषणञ्चव्यं सुरदारु तथैव च ।

पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् ॥ २४२ ॥

पञ्चगव्यमृते गर्भारपाच्यमन्यद् वृषेण च ।

बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु ॥ २४३

जीज्यरे च शोफे च पाण्डुरोगे च पूजितम् । साधितं भवतीति ज्ञेयम्, ततो ब्राह्मणैरभिमन्त्रितं साधकस्य वैद्यस्य आतुरस्य च प्रशस्त तिथिनक्षत्रादौ मनुष्यदेवाय भूपतये दत्तमिदं महाकल्याणकं सर्वज्वरान् हन्तीति समुदितार्थः । १ ' सुमना मालती जाती ' इत्यमरः । २ श्रधृष्यः = अजेय इत्यर्थः । सर्वभूतानां = सकलप्राणिनाम् । ३ पञ्चगव्यसाधनमाइ— गव्यमिति । ४ पाच्यानि = पचनीयानि, क. रुकान् = स्नैहचतुर्थभागान् । ५. कल्कद्रव्याण्येव निर्दिशति - त्रिफलामिति । अतिविषा = ' अतीस ' इति ख्याता । ६ व्यूषणं = त्रिकटुकम् । ७ श्रगर्भपञ्चगव्य-मुद्दिशति - पचेति । गर्भादृते = कल्कं विना, अन्यत् = द्वितीयम् । वृषेण वाप्तकेन, बलया, गुडूच्या, च तद्वदैव पूर्वोक्तकल्पनयैव पाच्यम् । एतेन घृतत्रयं सञ्जात-मिति बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1239

सुश्रुत संहिता चौखम्बा, पृष्ठ 1239 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya spn Chennai and eGangotri

एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत् ।

पञ्चजं पञ्चमहिषं चतुरुष्ट्र मथापि च ॥ २४४ ॥

त्रिफलोशी रशम्पार्क कटुकाऽतिविषाघनैः ।

शतावरी सप्तपर्ण गुडूची रजनीद्वयैः ॥ २४५ ॥

चित्रकत्रिवृतामूर्वा पटोलारिष्टबालकैः ः ।

किराततिक्तकवचाविशौला पद्मकोत्पलैः ॥ २४६ ॥

सारिवाद्वययष्ट्याह्नचविकारक्तचन्दनैः

दुरालभापर्पटकत्रायमाणाऽटरूषकैः ॥ २४७ ॥

रास्नाकुङ्कुममञ्जिष्ठामागंधोनागरैस्तथा । १०८१ धात्रीफलरसः सम्यग् द्विगुणैः साधितं हविः ॥। २४८ ॥

परिसर्पज्वरश्वास गुल्म कुष्ठ निवारणम् ।

पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् ॥ २४ ९ ॥

" पटोलकटुकादार्वीनिम्बवासाफलन्त्रिकम् ।

दुरालभापपेटकत्रायमाणाः पलोन्मिताः ॥ २५० ॥

प्रस्थमामलकानाञ्च क्काथयेत्सलिलार्मणे " । II तेन पावशेषेण वृतप्रस्थं विपाचयेत् ॥ २५१ ॥

कल्कैः: " कुटजभूनिम्बघनयष्ट्याह्नचन्दनैः । = १ पञ्चाविकादिघृतं दर्शयति-- एतेनवेति । एतेनैव कल्पेन = पूर्वोक्तपञ्चगव्य • विधिना, पञ्चाविकं = मेष्या दध्यादीनि पञ्च । २ पञ्चाजं - छगल्या दध्यादीनि पञ्च, पञ्चमद्दिषं = महिष्या दध्यादीनि पच, चतुरुष्ट्रम् = उष्ट्या दध्यादीनि चत्वारि पुरीषरसरहितानि । ३ शम्पाकः = आरग्वधः, घनः = मुस्ता । ४ मूर्वा = मरोर -फली ' इति ख्याता, अरिष्टः = निम्त्रः, बालक: - ' नेत्रवाला ' इति ख्यातः । ५ विशा ला = इन्द्रवारुणी, पद्मकं पद्मकाष्ठम्, उत्पलं == नीलोत्पलम् । ६ सारिवाद्वयं = सारिवा उत्पलसारिवा च, यष्ट्याह्न = यष्टीमधु, चविका = चव्यम् । ७ दुरालभा = ' जवासा ' इति, पर्पटकः = ' पित्तपापड़ा ' इति, त्रायमाणा त्रायन्ती, अटरूषकः = वातकः । ८ मागधी = पिप्पली, नागरः = शुण्ठी । ९ हविः घृतमित्यर्थः । १० अन्यघृतमभिदधाति - पटोलेति । दाव = दारुहरिद्रा 1 , फलन्त्रिकं = त्रिफला । ११ अर्मणे = द्रोणपरिमाणे । १२ कुटजः = ' कुरैया ' इति, भूनिम्बः = ' चिरायता ' इति, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1240

सुश्रुत संहिता चौखम्बा, पृष्ठ 1240 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०८२ by Arya Samaj सुसंहितायां Gangotri [ अ ०३ ९ सपिप्पली कैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् ॥ २५२ ॥

प्राणकर्णाक्षिवदनवर्त्मरोगत्रणापहम् ।

रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् ॥ २५३ ॥

कामलाज्वरवी सर्पगण्डमालाहरं परम ।

शृतम्पयः शर्करा च पिप्पल्यो मधुसर्पिषी ॥ २५४ ॥

पचसारमिदं पेयं मथितं विषमज्वरे ।

क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते ॥ २५५ ॥

लाक्ष विश्वनिशामूर्वा मञ्जिष्ठास्वर्जिकामयैः ।

षडगुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ॥ २५६ ॥

क्षीरिवृ । सनारिष्टजम्बूसतच्छदार्जुनैः ।

शिरीषखदिरास्फोटांमृतवल्लघटरूषकैः ॥ २५७ ॥

कटुकापपैंटोशीरवचातेजोवती घनैः ।

साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् ॥ २५८ ॥

निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः । घनः = सुस्ता, यष्टयाह्न = यष्टीमधु । १ शुक्लयोः = नेत्रगतरोगयोः । २ पञ्चसार-षेयमाइ - शृतमिति । शृतं = क्कथितम् पयः = क्षोरम् । ३ हस्तेन मथितमित्यर्थः । ४ जीर्णज्वरे लाक्षाऽऽदितैलमाख्याति - लाक्षेति । लाक्षा = ' लाख ' इति, विश्व = ‘ सोंठ ' इति, निशा = हरिद्रा, मूर्वा = ' मरोरफली ' इति, मञ्जिष्ठा = ' मजीठ ' इति, स्व-जिंका = ' सज्जीखार ' इति, श्रामयं = कुष्ठम् । लाक्षाऽऽदिद्रव्याणां कल्कमष्टपलप्र मा-णम्, तैलं द्वात्रिंशत्पलप्रमितम्, तैलात् षड्गुणेन तक्रेण सिद्धं तैलं ज्वरयोः शीत-पूर्वकयोर्दाहपूर्वकयोश्च श्रन्तकृन्नाशकृदित्यर्थः । ५ क्षीरिवृक्षादितैलं दर्शयति - क्षीरीति । क्षीरिवृक्षाः = न्यग्रोधादयः पञ्च, असनः = बीजकः, श्ररिष्टः = निम्बः, खप्तच्छदः = ' सतवन ' इति, अर्जुन: == ‘ काहू ' इति। ६ श्रास्फोटा = श्वेतार्कः, अमृतवल्ली = गुडूची, अटरूषकः = वासा । ७ ते-जोवती = काकमदनिका, घनः मुस्ता । श्रत्र क्षीरिवृक्षादिद्रव्याणां कल्कमष्टपलप्रमितं तैलं प्रस्थप्रमाणं स्नेद्दचतुर्गुणेन जलेन साधयेत् । = विषमज्वरे विशेषचिकित्सितमभिधत्ते - निर्विषैरिति । निर्विषैः विषरहितैः, भुजगैः = डुण्डुभादिसर्षैः, विनीतैः = नम्रीकृतैः, नागैः = हस्तिभिः, कृततस्करैः = CC - 0. Gurukul Kangri Collection, Haridwar