सुश्रुत संहिता चौखम्बा — पृष्ठ 1231–1240
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1231–1240
पृष्ठ 1231
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya alich Chennai and eGangotri २०७३
शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् ।
पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् ॥ १७६ ॥
सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्व केम् ।
शृतं शीतकषायं वा सोत्पलं शर्करायुतम् ॥ १७ ९ ॥
गुडूचीझरोक्षाणां सारिवोत्पलयोस्तथा ।
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः ॥ १७८ ॥
द्राक्षाऽऽरग्वधयोश्चापि काश्मर्य्यस्याथवा पुनः ।
स्वादुति कषायारणां कषायैः शर्करायुतैः ॥ १७ ९ ॥
सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च ।
शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् ॥ १८० ॥
वामयेत्पाययित्वा तेन तृष्णा प्रशाम्यति ।
क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः ॥ १८१ ॥
अन्तर्दा “ विधातव्यमेभिश्चान्यैश्च शीतलैः ।
पद्मकं " मधुकं द्राक्षां पुण्डरीकमथोत्पलम् ॥ १८२ ॥
यवान् भृष्टानुशीराणि " समङ्गां काश्मरीफलम् ।
निदध्यादप्सु चालोड्य निशापर्युषितं ततः ॥ १८३ ॥
चौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः । १ सारिवाद्यं = द्रव्यसङ्ग्रहणीयाध्यायोक्ततारिवादिद्रव्यम् । २ उत्पलपूर्वकं = द्रव्यसङ्ग्रहणीयाध्यायोक्तमुत्पलादिद्रव्यम् । ३ सोत्पलम् उत्पलादिगणद्रव्य स-हितम्, अर्थादुत्पलादिगणकृतम् । ४ पद्म = कमलम्, उत्पलं = नीलोत्पलम् | ५ पित्तज्वरे आवस्थिकं योगत्रयं वक्ति - द्राक्षेति । द्राक्षाऽऽरग्वधयोः फलं ग्राह्यम् । ६ स्वादुतिक्तकषायाणां = यथालाभं रसविशेष विज्ञानीयाध्यायो क्तमधुरति -क्तकषायवर्गाभिहितानां द्रव्याणाम् । ७ सुशीतैः = शीतकषायैरित्यर्थः । ८ मद • नफलादिवमनद्रव्येण वामयेदित्यर्थः । ४ ९ क्षीरिकषायैः = न्यग्रोधादिपञ्चक्षीरिवृक्ष-काथैः 1: 1 १० पानलेपपरिषेकावगाहादिकं विधातव्यमित्यथः । श्रन्यैः = काकोल्या -दिभिः, शीतलैः = शीतवीर्यै:, तथा शीतस्पर्शैरपि । ११ पित्तज्वरावस्थायां शीतकषायमाचष्टे – पद्मकमिति । पद्मकं = पद्मकाष्ठम्, पुण्डरीकं = सिताम्भोजम् । १२ समङ्गा - ' लजालू- लजौनी - छुईमुई ' इति नाम्ना ६८ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1232
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-१०७४ bigitized by Arya Samaj Foundation Chennal and eGangotri [ अ ० ३ ९ जिह्वाता लुगलक्लोमशोषे मूर्ध्नि च दापयेत् ॥ १८४ ॥
केशेरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ।
शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोग्तथा ॥ १८५ ॥
वैरस्ये धारयेत्कल्कं गण्डूषञ्च तथा हितम् ।
सप्तच्छेदं गुडूचीञ्च निम्बं स्फूर्जकमेव च ॥ १८६ ॥
क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे ।
कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी ॥ १८७ ॥
कौटजञ्च फलं हन्यात्सेव्यमानं कफज्वरम् ।
हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् ॥ १८८ ॥
कुष्ठमिन्द्रयवान् मूर्वा पटोलं चापि साधितम् ।
पिबेन्मरिच संयुक्तं सक्षौद्रं कफजे उबरे ॥ १८ ९ ॥
सारिवाऽतिविषाकुष्ठपुराख्यैः सदुरालभैः ।
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् ॥ १ ९ ० ॥
मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी ।
परूषकाणि च क्वाथः कफज्वरविनाशनः ॥। १ ९ १ ॥
राजवृक्षादिवर्गस्य कषायो मधुसंयुतः ।
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः ॥ १ ९ २ ॥
नागरं धान्यकं " भार्गीमभयां सुरदारु च । उद्यते । १ क्लोम्नि = तिलके । २ पित्तज्वरे गण्डूषस्य योगद्वयमभिधत्ते --केशरमिति । ३ मुखवैरस्ये इत्यर्थः । ४ कफज्वरे संशमनमभिदधाति - सप्तच्छदमिति । सप्तच्छदः - सप्तपर्णः ‘ सा-` तला - सतवन ' इति ख्यातः, स्फूर्जकः = फणिज्जकः । ५ नागपुष्पं = नागकेसरम् । ६ श्रुतिविषा == ' अतीस ' इति ख्याता । इति ख्याता । 1 ७ पुराख्यः = गुग्गुलुः, दुरालभा = ' जवासा ' ८ वृक्षकबीजानि = कुटजबीजानि, इन्द्रयवा इति यावत् । कटुरो • हिणी = ' कुटकी ' इति ख्याता । ९ द्वन्द्वजज्वरे संशमनयोगान्निर्दिशति - राजेति । राजवृक्षादिवर्गस्य = श्रार • ग्वधादिगणस्य । १० भाग = ' भारङ्गी ' इति ख्याता । श्रभया = हरीतकी, सुरदारु = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1233
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] १०७५ Digitized by Arya Samaj Poundation Chennai and eGangotri वचां पर्पटकं मुस्तं भूतोकैमथ कट्फलम् ॥ १ ९ ३ ॥
निष्काथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम् ।
दातव्यं श्वासकासघ्नं श्लेष्मोत्से के गलग्रहे ॥ १ ९ ४ ॥
हिक्कासु कण्ठश्वयथौ शूले हृदय पार्श्वजे ।
बलापटोलत्रिफलायष्ट्याह्नानां वृषस्य च ॥ १ ९ ५ ॥
काथो मधुयुतः पोतो हन्ति पित्तकफज्वरम् ।
कटुका विजया द्राक्षामुस्तपर्पटकैः कृतः ॥ १ ९ ६ ॥
कषायो नाशयेत्पीतः श्लेष्मपित्तभवं ज्वरम् ।
भार्गव चापपैंटकधान्यहिङ्ग्वभयाघनैः ॥ १ ९ ७ ॥
काश्मर्थ्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे ।
सशर्करामामात्रां कटुकामुष्णवारिणा ॥ १ ९ ८ ॥
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम् ।
किराततिक्तममृतां द्राक्षामामलकं शटीम् ॥। १ ९९ ॥
निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत् ।
राहना वृषोऽथ त्रिफला राजवृक्षफलैः सह ॥। २०० ॥
कषायः साधितः पीतो वातपित्तज्वरं जयेत् ।
सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् ॥ २०१ ॥
यथादोषोच्छ्रयञ्चापि ज्वरान् सर्वानुपाचरेत् ।
' वृश्चीव बिल्ववर्षास्वः पयश्चोदकमेव च ॥ २०२ ॥
पचेत् " क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् । देवदारु ३ हृदय. । १ भूतीकं == रोहिषतृणम् । २ श्लेष्मोत्सेके = श्लेष्मवृद्धौ । पाश्र्वजे च शूले इत्यर्थः । ४ विजया = हरीतकी । ५ अक्षमात्र = कर्षप्रमाणाम् । ६ किराततिक्तं = ' चिरायता ' इति प्रथते । अमृता = गुडूची, शटी = ' कचूर ' इति ख्याता । ७ वृषः = वासक इत्यर्थः । ८ सन्निपाते सामान्यचिकित्सामाह - सर्वदोषेति । षायेण मिलितान् । ९ यस्य दोषस्य उच्छ्रयो वृद्धिर्भवति, संसृष्टान् = वाताद्युक्तक · तद्दोषप्रतीका रे णेत्यर्थः । १० वृश्चीवः — श्वेतपुनर्नवा, वर्षाभू: = रक्तपुनर्नवा । ११ “ द्रव्यादष्टगुणं क्षीरं क्षीरा-तोयं चतुर्गुणम् । क्षीरावशेषं कर्तव्यं क्षीरपाके स्वयं विधिः ॥ ” इति परिभाषोक्तविधि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1234
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-१०७६६ by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ९ उदकांशास्त्रयः क्षीरं शिंशपासौर संयुतम् ॥ २०३ ॥
तत् क्षीरशेषं कथितं पेयं सर्वज्वरापहम् ।
नलवेतसयोर्मूले मूर्वायां देवदारुणि ॥ २०४ ॥
कषायं विधिवत् कृत्वा पेयमेतज्वरापहम् ।
हरिद्रा भद्रमुस्तं च त्रिकला कैटुरोहिणी ॥। २०५ ॥
पिचुमन्दः पटोली च देवदारु निदिग्धिका ।
एषाँ कषायः पीतस्तु सन्निपातज्वरं जयत् ॥ २०६ ॥
अविपक्ति प्रसेकं च शोफं कासमरोचकम् ।
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे ॥ २०७ ॥
अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम् ।
सुखाम्बुना प्रागुदद्यात्पाययेताक्ष सम्मितम् ॥ २०८ ॥
एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम् ।
द्रव्याणि दीपनीयानि तथा वैरेचनानि च ॥ २० ९ ॥
एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत् " ।
सर्पिमँध्वभयातैललेहोऽयं सर्वजं ज्वरम् ॥ २१० ॥
शान्तिं नयेत् त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम् ।
ज्वरे१२तुविषमे काय्यँमूर्ध्वं चावश्च शोधनम् ॥ २११ ॥
ना पचेदित्यर्थः । १ शिशपासारः पलप्रमाणः, क्षीरम् अष्टपलप्रमाणम् । २ मूर्वा = ' मरोरफली ' इति ख्याता । ३ कटुरोहिणी = ' कुटकी ' इति ख्याता । ४ पिचुमन्दः = निम्बः, निदिग्धिका कण्टकारिका । ५ प्रसेकः = लालास्रावः । ६ वा अथवा त्रिदोषजे त्रैफलः क्वाथः ससर्पिष्कः सर्पिषा युक्तः पेयः पातव्य 1 ७, अनन्ता = ' जवासा ' इति ख्याता, बालकं = नेत्रवाला ' इति ख्याता । ८ श्रक्षसम्मि • तं = कर्षंप्रमाणमित्यर्थः । ९ दोपनीयानि = पिप्पल्यादीनि अग्निसन्दीपनीयानि, वैरेचनानि = त्रिवृदभ-यादीनि विरेचनद्रव्याणि । १० प्रयोजयेत् = सन्निपातजीर्णज्वरावस्थायामेकशो द्विशो बाऽपि दोषबलं विचार्य दापयेदित्यर्थः । ११ प्रबलं = दाहादियुक्तम्, तदुक्तं तन्त्रा-न्तरे— “ पथ्यातैलघृतक्षौद्रैर्ले हो | दाइश्रमज्वरान् । कासासृपित्त वीसर्पश्वासान् इन्ति वमोरपि ॥ ” इति । १२ सर्वेषु विषमज्वरेषु कफपित्ताधिकतया वमनविरेचनार्थमुपदिशति - ज्वर इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1235
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya उत्तरतन on Chennai and eGangotri १०७७
घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम् ।
गुडप्रगाढां त्रिफलां पिवेद् वा विषमार्दितः ॥ २१२ ॥
गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् ।
प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् ॥ २१३ ॥
त्रिचतुर्भिः पिवेत् क्वाथं पञ्चभिर्वा समन्वितैः ।
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च ॥ २१४ ॥
हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते ।
सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम् ॥ २१५ ॥
दशमूलीकषायेण मागधीर्वा प्रयोजयेत् ।
पिप्पलीवर्द्धमानं वा पिवेत् क्षीररसाशनः ॥ २१६ ॥
ताम्रचूर्डस्य मांसेन पिबेद्वा मद्यमुत्तमम् ।
" कोलाग्निमन्यत्रिफलाक्वाथे दध्ना घृतं पचेत् ॥ २१७ ॥
तिल्वकावापमेतद्धि विषमज्वरनाशनम् ।
पिप्पल्यतिविषाद्राक्षासारिवाबिल्वचन्दनैः ॥ २१८ ॥
ऊर्ध्व शोधनं = वमनम् 9 अधः शोधनं = विरेचनम् । १ कफप्रधानं विषमज्वरमि. त्यर्थः । २ विषमादितः = विषमज्वरपीडितः । ३ धात्री == आमलकी । ४ रसोनम् = अम्लरसरहितं, लशुनमित्यर्थः । तदुक्तम् - " पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ ” इति । ५ त्रिभिर्द्रव्यैः चतुर्भिः पञ्च-• भिर्वा समन्वितैः साधितं क्वाथं विषमज्वरान् प्रतीकर्तु पिवेदित्यर्थः । ६ रोहिणी = ' कुटकी ' इति ख्याता । ७ त्रिविधो योगो यथा - मधुकपटोल रोहिणीभिस्त्रिभिर्द्रव्यैरेको योगः, मधुकपटो-लरोहिणीमुस्तकैश्चतुभिद्वितीयो योगः, मधुकपटोलरोहिणीमुस्तकहरीतकीभिः पञ्चभिस्तृ-यो योगः । ८ पिप्पलीवर्धमानं नाम क्रमाभिवृद्धा पिप्पली, तत्प्रयोगो वातव्या • विचिकित्सिते द्रष्टव्यः । ९ ताम्रचूडस्य = कुक्कुटस्येत्यर्थः । १० कोलं = पञ्चकोलम् । घृतनिर्माणविधिः – पलशत प्रमाणानि पञ्चकोलादिद्र-व्याणि द्वादशाधिकपलप्रमाणे पानीये पक्त्वा चतुर्थांशमष्टाविंशत्यधिकशतमवशेषयेत्, ततस्तेन क्वाथेन चतुर्गुणेन तथा चतुर्गुणेन च दध्ना द्वात्रिंशत्पलप्रमाणं घृतम्, अष्ट-पलप्रमाणं पट्टिकारोधं च दत्त्वा पुनः पचेदिति । अनेनैव विधिनाऽन्यान्यपि तैलघृ-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1236
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri कटुकेन्द्रयवोशीरसिंहीतामलको घनैः । [ अ ० ३ ९ त्रायमाणास्थि रोधात्रीविश्वभेषजचित्रकैः ॥ २१ ९ ॥
पक्वमेतैर्वृतं पीतं विजित्य विषमाग्निताम् ।
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ॥ २२० ॥
क्षयकासं ससन्तापं पार्श्वशूलानपास्यति ।
गुडूचीत्रिफलावासात्रायमाणावासकैः ॥ २२१ ॥
क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः ।
द्राक्षामागधिकाऽम्भोदनागरोत्पलचन्दनैः ॥ १२२ ॥
पीतं सर्पिः क्षयश्वासकासाजीर्णज्वरान् जयेत् ।
कलशीबृहती द्राक्षात्रायन्तीनिम्बगोक्षुरैः ॥ २२३ ॥
बलापर्पट काम्भोदशालपर्णीयवासकैः ।
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् ॥ २२४ ॥
शटीतामल की भार्गीमेदाऽऽमलकपौष्करैः ।
क्षारद्विगुणसंयुक्तं जीर्णज्वरमपोहति ॥ २२५ ॥
शिरःपार्श्वरुजाकासक्षयप्रशमनं परम् ।
पटोलीपर्पटारिष्ट ' गुडूचीत्रिफलावृषैः ॥ २२६ ॥
कटुजाम्बुदै भूनिम्बयासयष्ट्याह्नचन्दनैः ।
दार्वीशकय वोशीरत्रायमाणाकणोत्पलैः ॥ २२७ ॥
धात्रीभृङ्गरजोभीरु " काक्रमाचीरसैर्वृतम् । तानि पाचनीयानि येषु प्रमाणं नोक्तम् । १ सिं = बृहत्कण्टकारिका, तामलका = भूम्यामलकी, ' झटामलाज्झटा ताली शिवा तामलकीति च ' इत्यमरः । २ स्थिरा = शालपर्णी, विश्वभेषजं = ' सोंठ ' इति प्रथते । ३ हलीमकः = पाण्डुरो. गप्रभेदः । ४ अपास्यति = नाशयतीत्यर्थः । ५ यवासकः - ' जवासा ' इति ख्यातः । ६ मागधिका = पिप्पली । ७ कलशी = पृश्निपर्णी, बृहती = कण्टकारिका, त्रायन्तो = त्रायमाणा । ८ पर्पटकः = ‘ वित्तपापड़ा ' इति ख्यातः । श्रम्भोदः = मुस्ता । ९ शटी = ' कचूर ' इति प्रथते । वामलकी = भूम्यामलकी । १० श्ररिष्टः = निम्बः, वृष: = वासा । ११ अम्बुदः = मुस्ता, भूनिम्ब: = ' चिरायता ' इति, यासः = ' जवासा ' इति, यष्टया-यष्टीमधु । १२ शक्रयवः = इन्द्रयत्रः, कणा = पिप्पली, उत्पलं = कुष्ठम् । १३ भीरुः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1237
पाठ पढ़ें पाठ छिपाएँ
" अ ० ३ ९ ] Digitized by Arya Sa व स्तन dhennai and eGangotri सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनत्रान् ॥ २२८ ॥
हन्यान्नयनवदनश्रवण घ्राणजान् गदान् ।
विडैङ्गत्रिफला मुस्त मञ्जिष्ठादाडिमोत्पलैः ॥ २२ ९ ॥
प्रियङ्ग्वेलैलैब लूकचन्दनामरदारुभिः ।
बर्हिष्ठे कुष्ठरजनीपर्णिनीसारिवाद्वयैः ॥ २३० ॥
हरेणुका त्रिवृद्दन्तीव चातालोश केसरैः ।
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह ॥ २३१ ॥
जीर्णज्वरश्वासकास गुल्मोन्मादगरापहम् ।
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् ॥ २३२ ॥
अलक्ष्मीग्रहरक्षोऽग्निमान्द्यापस्मारपापनुत् ।
शस्यते नष्टशुकाणां बन्ध्यानां गर्भदं परम् ॥ २३३ ॥
मेध्यचक्षुष्यमायुष्यं रेतोमार्गविशोधनम् ।
एतैरेवं तथा द्रव्यैः सर्वगन्धैश्च साधितम् ॥ २३४ ॥
१०७ ९ शतावरी, काकमाची = ‘ मकोय ' इत्युद्वुव्यते । पटोल्यादिघृत साधने पटोलीप्रभृ त्युत्प-लान्तानां द्रव्याणां कल्कं, धात्रीप्रभृतीनां च स्वरसो ग्राह्यः । १ कल्याणकघृतमाख्याति - विडङ्गेति । उत्पलमंत्र नीलोत्पलम् । २ एला = लध्वेला, एलावालूकम् ' एलुआ ' इति ख्यातम्, चन्दनं = रक्तचन्दनम्, अमर • दारु = देवदारु | ३ बर्हिष्ठं = ' नेत्रवाला ' इति ख्यातम् । ' बालं हीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ' इत्यमरः । रजनीद्वयं = हरिद्रा दारुहरिद्रा च, पणिनीद्वयं = शालपर्णी पृश्निपर्णी च सारिवाद्वयं = सारिवा उत्पलसारिवा च । ४ हरेणुका = रेणुका, निर्गुण्डीबोजमिति यावत् । त्रिवृत् = ' निसोत ' इवि, ५ द्वि-क्षीरं = गोश्ळगल्याश्च क्षीरम् । एतत् कल्याणकघृतं विडङ्गादिद्रव्याणामष्टपलप्रमाणेन कल्केन, एकप्रस्थप्रमितेन क्षीरेण, चतुःप्रस्थप्रमाणेन जलेन, प्रस्थप्रमाणेन गव्यघृतेन साधयेत् । ६ मेधायै प्रज्ञायै हितं मेध्यमित्यर्थः । ७ मद्दाकल्याणकघृतं बर्णयति – एतैरेवेति । एतैः = कल्याणकघृतौक्तैर्विडङ्गादि-भिर्द्रव्यैः, तथा “ चातुर्जातककर्पूरकक्को ला गुरुकुङ्कुमम् । लवङ्गसहितं चैव स ंगन्धं विनिर्दिशेत् ॥ ” इत्युक्तः सर्वगन्धैश्च कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतं साधितं तत् सर्पिः, पुनरिमैश्चम्पकाशोकशिरीषकुसुमैस्तथा नलदपद्मानां केसरैर्दाडिमस्य च कुसुमैः वृतं युक्तं तत्क्षीरेण कपिलाक्षीरेण सबैकध्यं कृतं प्रसाध्य, एतेन घृतमिदं पाकद्वय-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1238
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri
कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम् ।
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ॥ २३५ ॥
सुमनञ्चम्पकाशोक शिरीषकुसुमैर्वृतम् । [ अ ० ३ ९ तथा नलदपद्मानां केशरैर्दाडिमस्य च ॥ २३६ ॥
तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च ।
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ॥ २३७ ॥
दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् ॥ २३८ ॥
दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम् ।
अधृष्यः सर्वभूतानां वलीपलितवर्जितः ॥ २३ ९ ॥
अस्याभ्यासाद् घृतस्येह जीवेद्वर्षशतत्रयम् ।
गव्यं दधि च मूत्रञ्च क्षीरं सर्पिः शकृद्रसः ॥ २४० ॥
समभागानि पाच्यानि कल्कांश्चैतान् समावपेत् ।
त्रिफलां चित्रकं मुस्तं हरिद्राऽतिविषे वचाम् ॥ २४१ ॥
विडङ्गं त्र्यूषणञ्चव्यं सुरदारु तथैव च ।
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् ॥ २४२ ॥
पञ्चगव्यमृते गर्भारपाच्यमन्यद् वृषेण च ।
बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु ॥ २४३
जीज्यरे च शोफे च पाण्डुरोगे च पूजितम् । साधितं भवतीति ज्ञेयम्, ततो ब्राह्मणैरभिमन्त्रितं साधकस्य वैद्यस्य आतुरस्य च प्रशस्त तिथिनक्षत्रादौ मनुष्यदेवाय भूपतये दत्तमिदं महाकल्याणकं सर्वज्वरान् हन्तीति समुदितार्थः । १ ' सुमना मालती जाती ' इत्यमरः । २ श्रधृष्यः = अजेय इत्यर्थः । सर्वभूतानां = सकलप्राणिनाम् । ३ पञ्चगव्यसाधनमाइ— गव्यमिति । ४ पाच्यानि = पचनीयानि, क. रुकान् = स्नैहचतुर्थभागान् । ५. कल्कद्रव्याण्येव निर्दिशति - त्रिफलामिति । अतिविषा = ' अतीस ' इति ख्याता । ६ व्यूषणं = त्रिकटुकम् । ७ श्रगर्भपञ्चगव्य-मुद्दिशति - पचेति । गर्भादृते = कल्कं विना, अन्यत् = द्वितीयम् । वृषेण वाप्तकेन, बलया, गुडूच्या, च तद्वदैव पूर्वोक्तकल्पनयैव पाच्यम् । एतेन घृतत्रयं सञ्जात-मिति बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1239
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya spn Chennai and eGangotri
एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत् ।
पञ्चजं पञ्चमहिषं चतुरुष्ट्र मथापि च ॥ २४४ ॥
त्रिफलोशी रशम्पार्क कटुकाऽतिविषाघनैः ।
शतावरी सप्तपर्ण गुडूची रजनीद्वयैः ॥ २४५ ॥
चित्रकत्रिवृतामूर्वा पटोलारिष्टबालकैः ः ।
किराततिक्तकवचाविशौला पद्मकोत्पलैः ॥ २४६ ॥
सारिवाद्वययष्ट्याह्नचविकारक्तचन्दनैः
।
दुरालभापर्पटकत्रायमाणाऽटरूषकैः ॥ २४७ ॥
रास्नाकुङ्कुममञ्जिष्ठामागंधोनागरैस्तथा । १०८१ धात्रीफलरसः सम्यग् द्विगुणैः साधितं हविः ॥। २४८ ॥
परिसर्पज्वरश्वास गुल्म कुष्ठ निवारणम् ।
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् ॥ २४ ९ ॥
" पटोलकटुकादार्वीनिम्बवासाफलन्त्रिकम् ।
दुरालभापपेटकत्रायमाणाः पलोन्मिताः ॥ २५० ॥
प्रस्थमामलकानाञ्च क्काथयेत्सलिलार्मणे " । II तेन पावशेषेण वृतप्रस्थं विपाचयेत् ॥ २५१ ॥
कल्कैः: " कुटजभूनिम्बघनयष्ट्याह्नचन्दनैः । = १ पञ्चाविकादिघृतं दर्शयति-- एतेनवेति । एतेनैव कल्पेन = पूर्वोक्तपञ्चगव्य • विधिना, पञ्चाविकं = मेष्या दध्यादीनि पञ्च । २ पञ्चाजं - छगल्या दध्यादीनि पञ्च, पञ्चमद्दिषं = महिष्या दध्यादीनि पच, चतुरुष्ट्रम् = उष्ट्या दध्यादीनि चत्वारि पुरीषरसरहितानि । ३ शम्पाकः = आरग्वधः, घनः = मुस्ता । ४ मूर्वा = मरोर -फली ' इति ख्याता, अरिष्टः = निम्त्रः, बालक: - ' नेत्रवाला ' इति ख्यातः । ५ विशा ला = इन्द्रवारुणी, पद्मकं पद्मकाष्ठम्, उत्पलं == नीलोत्पलम् । ६ सारिवाद्वयं = सारिवा उत्पलसारिवा च, यष्ट्याह्न = यष्टीमधु, चविका = चव्यम् । ७ दुरालभा = ' जवासा ' इति, पर्पटकः = ' पित्तपापड़ा ' इति, त्रायमाणा त्रायन्ती, अटरूषकः = वातकः । ८ मागधी = पिप्पली, नागरः = शुण्ठी । ९ हविः घृतमित्यर्थः । १० अन्यघृतमभिदधाति - पटोलेति । दाव = दारुहरिद्रा 1 , फलन्त्रिकं = त्रिफला । ११ अर्मणे = द्रोणपरिमाणे । १२ कुटजः = ' कुरैया ' इति, भूनिम्बः = ' चिरायता ' इति, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1240
पाठ पढ़ें पाठ छिपाएँ
१०८२ by Arya Samaj सुसंहितायां Gangotri [ अ ०३ ९ सपिप्पली कैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् ॥ २५२ ॥
प्राणकर्णाक्षिवदनवर्त्मरोगत्रणापहम् ।
रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् ॥ २५३ ॥
कामलाज्वरवी सर्पगण्डमालाहरं परम ।
शृतम्पयः शर्करा च पिप्पल्यो मधुसर्पिषी ॥ २५४ ॥
पचसारमिदं पेयं मथितं विषमज्वरे ।
क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते ॥ २५५ ॥
लाक्ष विश्वनिशामूर्वा मञ्जिष्ठास्वर्जिकामयैः ।
षडगुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ॥ २५६ ॥
क्षीरिवृ । सनारिष्टजम्बूसतच्छदार्जुनैः ।
शिरीषखदिरास्फोटांमृतवल्लघटरूषकैः ॥ २५७ ॥
कटुकापपैंटोशीरवचातेजोवती घनैः ।
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् ॥ २५८ ॥
निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः । घनः = सुस्ता, यष्टयाह्न = यष्टीमधु । १ शुक्लयोः = नेत्रगतरोगयोः । २ पञ्चसार-षेयमाइ - शृतमिति । शृतं = क्कथितम् पयः = क्षोरम् । ३ हस्तेन मथितमित्यर्थः । ४ जीर्णज्वरे लाक्षाऽऽदितैलमाख्याति - लाक्षेति । लाक्षा = ' लाख ' इति, विश्व = ‘ सोंठ ' इति, निशा = हरिद्रा, मूर्वा = ' मरोरफली ' इति, मञ्जिष्ठा = ' मजीठ ' इति, स्व-जिंका = ' सज्जीखार ' इति, श्रामयं = कुष्ठम् । लाक्षाऽऽदिद्रव्याणां कल्कमष्टपलप्र मा-णम्, तैलं द्वात्रिंशत्पलप्रमितम्, तैलात् षड्गुणेन तक्रेण सिद्धं तैलं ज्वरयोः शीत-पूर्वकयोर्दाहपूर्वकयोश्च श्रन्तकृन्नाशकृदित्यर्थः । ५ क्षीरिवृक्षादितैलं दर्शयति - क्षीरीति । क्षीरिवृक्षाः = न्यग्रोधादयः पञ्च, असनः = बीजकः, श्ररिष्टः = निम्बः, खप्तच्छदः = ' सतवन ' इति, अर्जुन: == ‘ काहू ' इति। ६ श्रास्फोटा = श्वेतार्कः, अमृतवल्ली = गुडूची, अटरूषकः = वासा । ७ ते-जोवती = काकमदनिका, घनः मुस्ता । श्रत्र क्षीरिवृक्षादिद्रव्याणां कल्कमष्टपलप्रमितं तैलं प्रस्थप्रमाणं स्नेद्दचतुर्गुणेन जलेन साधयेत् । = विषमज्वरे विशेषचिकित्सितमभिधत्ते - निर्विषैरिति । निर्विषैः विषरहितैः, भुजगैः = डुण्डुभादिसर्षैः, विनीतैः = नम्रीकृतैः, नागैः = हस्तिभिः, कृततस्करैः = CC - 0. Gurukul Kangri Collection, Haridwar