सुश्रुत संहिता चौखम्बा — पृष्ठ 1241–1250
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1241–1250
पृष्ठ 1241
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ३ ९ ] १०८३ उत्तरतन्त्रम् त्रासयेदागमे चैनं तदह र्भोजयेन्न च ॥ २५ ९ ॥
अत्यभिष्येन्दिगुरुभिर्वा मयेद्वा पुनः पुनः ।
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् ॥ २६० ॥
पुराणं वा घृतं काममुदौरं वा विरेचनम् ।
निरूहयेद्वा मतिमान् सुस्त्रिनं तदहर्नरम् ॥ २६१ ॥
अजान्योश्चर्म रोमाणि वचा कुष्टं पलङ्कषा ।
निम्बपत्रं मधुयुतं धूपनन्तस्य दापयेत् ॥ २६२ ॥
बैडालं वा शक्रयोज्यं वेपमानस्य धूपनम् ।
पिप्पली सैन्धवं तैलं नैपाली चेक्षणाञ्जनम् ॥ २६३ ॥
उदरोक्तानि सर्पषि यान्युक्तानि पुरा मया ।
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् ॥ २६४ ॥
भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः ।
जयेद् भूताभिषङ्गोत्थं, विज्ञानाद्यैश्च मानसम् ॥ २६५ ॥
कृत्रिम चौरैरित्यर्थः । १ आग मे = ज्वरागमनसमये, त्रासयेत् = भयमुत्पादयत् । २ श्रत्यभिष्यन्दिगुरुभिः मदनफल साधिताभिः क्षीरादिभिः ॥ ३ उदारं = येन विरे-चनेन पीडा न स्यात्तादृशम् । ४ विषमज्वरे धूपनं निर्दिशति - अजेति । अजा छगलो, अविर्मेषी, तयोश्च मै. ५ बैडालं = बिडालसम्बन्धि -रोमाणीत्यर्थः । पलङ्कषागुग्गुलुः । । शकृत् = विष्ठा, ६ विषमज्वरेऽञ्जनं ब्रवीति - पिप्पलीति । नैपाली = मनःशिला । ७ अजितं सर्पिः = अजेयाख्यं घृतमित्यर्थः । ८ भूताभिषङ्गोत्थज्वरचिकित्सितमाचष्टे - भूतेति । बन्धः = समन्त्रै रज्ज्वा-दिभिर्बन्धनम्, आवेशनं समन्त्रैः सर्षपादिभिस्ताडनम्, पूजनं = बल्युपहार स्तुत्या • दिभिरर्चनम् । तन्त्रान्तरेऽस्य चिकित्सामाह – “ सहदेवाया मूलं विधिना कण्ठे निबद्ध-मपहरति । एकद्वित्रिचतुर्भिर्दिवसै भूतज्वरं पुंसाम् ॥ ” इति । ९ मानसज्वरचिकित्सामाह - विज्ञानाद्यैरिति I । श्रादिशब्दाद् धैर्यस्मृतिज्ञानस-माघयो ग्राह्याः । मानसं = कामशोकक्रोधभयजम् । “ कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयो मलाः । भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥ ” इति कामादीनां निजो दोष: । " क्रोधजे पित्तजित्कार्यं धार्यं सद्वाक्यमेव च । श्राश्वासेनेष्टलाभेन वायोः प्रशमनॆन च ॥ इर्षणैश्च समं यान्ति क्रामक्रोधभयज्जराः । कामैरथ मनोध्नैश्च पित्त-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1242
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितार्थी Digitized by Arya Samaj Foundation Chennai and eGangotri १०८४ [ अ ० ३ ९
श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् ।
अभिशापाभिचारोत्थौ ज्वरौ होमादिनो जयेत् ॥ २६६ ॥
दानस्वस्त्ययनातिथ्यैरुत्पतिग्रहपीडितम् । 7. अभिघातज्वरे कुर्य्यात् क्रियामुष्णविवर्जिताम् ॥ २६७ ॥
कषायमधुरां स्निग्धां यथादोषमथापि वा ।
औषधीगन्धविषजौ विषपित्तप्रसाधनैः ॥ २६८ ॥
जयेत्, कषायं च हितं सर्वगन्धकृतं तथा ।
निम्बदारुकषायं वा हितं सौमनसं यथा ॥ २६ ९ ॥
यवान्नविकृतिः सर्पिर्मद्यञ्च विषमे हितम् ।
सम्पूजयेद् द्विजान् गाश्च देवमीशानमम्बिकाम् ॥ २७० ॥
कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् ।
दिह्यादुष्णेन वर्गेण परश्वोष्णो विधिहितः ॥ २७१ ॥
सिनेत कोष्णैराना लशुक्तगोमूत्रमस्तुभिः ।
दिह्यात् ' पलाशैः पिष्टैर्वा सुरसाऽर्जकशिग्रुजैः ॥ २७२ ॥
ध्नैश्चाप्युपक्रमैः । सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ॥ ” इति तन्त्रा-न्तरीया चिकित्सा | १ विविधागन्तुज्वरचिकित्सितभाख्याति - श्रमेति । २ आदिशब्दाच्छान्तिज-पादयो बोध्याः । ३ उत्पातः = श्रनिष्टसूचकं निर्घातादि । ४ सर्वगन्धं नाम— “ चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति । ५ सुमना जाती तत्कृतं सौमनसम् । ६ ज्वरे शीतप्रतीकारं प्रतिपादयति - कफेति । ७ दिइयात् = लिम्पेत्, उष्णे. न वर्गेण = भद्रदार्वादिना, सुरसादिना एलादिना वा । ८ श्ररनालं = काञ्जिकम्, शुक्तं = चुक्रम् । श्रस्य कल्पना तन्त्रान्तरेऽभिहिता । तद्यथा - " प्रस्थमेकं तु भक्तस्य त्रयं सौवीरकस्य च । अर्धी प्रस्थं तु दध्नश्च भिषगम्लस्य दापयेत् ॥ पलषोडशकं चैव शोषितस्यार्द्रकस्य च । सैन्धवं पिप्पलीं चैव चूर्णीकृत्य विनिक्षिपेत् ॥ स्थापयेत्सुदृढे भाण्डे सर्पिषा परिभाविते । हेमन्ते वासराण्यष्टौ वसन्ते षट् दिनानि च ॥ प्रावृट्काले चतुरहं वर्षास्वपि च वासयेत् । श्रत ऊर्ध्वं क्षिपेच्चूर्णं चातुर्जातात् पलद्वयम् ॥ ” इति । ९ पलाशैः - पत्रैः, ' पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ' इत्यमरः । सुर े सा = तुलसी, श्रर्जकः = कुठेरकः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1243
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] १०८५ Digitized by Arya Samaj Foundation Chennai and eGangotri तर
क्षौरतैलेन वाऽभ्यङ्गः सशुक्तेन विधोयते ।
पानमारग्ववादेश्च क्वथितस्य विशेषतः ॥ २७३ ॥
अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः ।
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् ॥ २७४ ॥
प्रवेश्यौगिक कार्पासकौशेयाम्वरसंवृतम् ।
शाययेद् ग्लानैदेहञ्च कालागुरुविभूषितम् ॥ २७५ ॥
स्तनाढ्या रूपसम्पन्नाः कुशला नवयौवनाः ।
भजेयुः प्रमदा मात्रैः शीतदैन्यापहाः शुभाः ॥। २७६ ॥
शरच्छशाङ्कवदना नीलोत्पलविलोचनाः ।
स्फुरित भ्रूलतामङ्गललाटतटकम्पनाः ॥ २७७ ॥
प्रलम्ब बिम्बप्रचलद्विम्बीफलनिभाधराः ।
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः ॥ २७८ ॥
कुङ्कुमागुरुदिग्धाङ्गयो घनतुङ्गपयोधराः ।
सुगन्धिधूपित श्लक्ष्णस्तांशुकविभूषणाः ॥ २७ ९ ॥
गाढमालिङ्गन्येयुस्तं तरुं बनलता इव ।
प्रह्लादं चास्य विज्ञाय ताः खोरपनयेत् पुनः ॥ २८० ॥
तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम् ।
भोजयेद्धितमन्नञ्च यथा सुखमवाप्नुयात् ॥ २८१ ॥
दाहाभिभूते तु विधिं कुर्य्याद्दाहविनाशनम् ।
मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा ॥ २८२ ॥
१ पलाशक्षारसिद्धं तैलं क्षारतैलम् । २ श्रवगाहः = = वातघ्नक्काथपूर्णभाजने निम • ज्जनम्, सुखोष्णः = ईषदुष्णः । ३ एभिः = भद्रदार्वाद्युष्णवर्गप्रलेपादिभिः । ४ वातरहिते गृहे प्रवेश्येत्यर्थः । ५ ग्लानदेहं कालागुरुविभूषितं पुरुषं स्तनाढ्यादि-गुणयुक्ताः प्रमदा मृदुमर्दनार्थं गात्रैः कृत्वा भजेयुरिति सम्बन्धः । ६ श्रालिङ्गनयोग्या ललना वर्णयति - शरदिति । एवम्भूताः स्त्रियः तरुं वनलता इव तं पुरुषमालिङ्गयेयुरिति सम्बन्धः । ७ अन्यथा तत्संसर्गान्महाननर्थः स्यात् । = दितमन्नं = वातश्लेष्मद्दरमाहारम् । ९ ज्वरे दाहप्रतीकारमुपदिशति - दाहेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1244
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां Digitized by Arya Samaj Fouxulation Chennai and eGangotri [ अ ०३ ९
दाहज्वरात मतिमान् वामयेत् क्षिप्रमेव च ।
शतधौत घृताभ्यक्तं दिह्याद्वा यवशक्तुभिः ॥ २८३ ॥
कोलामलक संयुक्तैः शुक्तधान्याम्लसंयुतैः ।
अम्लपिष्टैः सुशीतैश्च फेनिलौपल्लवैस्तथा ॥ २८४ ॥
अम्लपिः सुशीतैर्वा पलाशत रुजैर्दिहेत् ।
बदरीपल्लवोत्थेनं फेनेनारिष्टकस्य च ॥ २८५ ॥
लिप्तेऽङ्गे दाहतृण्मूच्छः प्रशाम्यन्ति च सर्वशः ।
यैवार्द्धकुडवं पिष्ट्रा मञ्जिष्ठाऽर्द्धपलं तथा ॥ २८६ ॥
अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत् ।
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् ॥ २८७ ॥
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः ।
उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् ॥ २८८ ॥
तत्कषायाम्लसंसिद्धाः स्नेहाचाभ्यञ्जने हिताः ।
तेषां शीतकषाये वा दाहार्त्तमवगाहयेत् ॥ २८ ९ ॥
दाहवेगे त्वतिक्रान्ते " तस्मादुद्धृत्य मानवम् ।
परिषिच्याम्बुभिः शीतैः प्रलिम्पेञ्चन्दनादिभिः ॥ २ ९ ० ॥
ग्लानं वा " दोनमनसमाश्लिषेयुर्वराङ्गनाः । १० १ तन्त्रान्तरेऽपि— “ स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक् । पित्तं ज्ञाखा वि. रेकेण वमनेनाथवा हरेत् ॥ ” इति । २ शतवारान् शीतलजलेन धौतं फेनिलं घृतं शतधौतघृतं तेनाभ्यक्तम् । दिह्यात् - लिम्पेत् । ३ फेनिला = उपोदिका, ' पोई ' इति ख्याता । ४ पलाशतरुजैः = पलाश पल्लवैरित्यर्थः । ५ बदरीपल्लवोत्थेन फेनेन श्ररिष्टकस्य निम्बस्य च फेनेन श्रङ्गे लिप्ते दादतृ मू. र्च्छाः सर्वशः प्रशाम्यन्तीति सम्बन्धः । फेनकल्पना तु - काञ्जिकपूर्णपात्रे काञ्जिकपि-ष्टान् बदरीपल्लवान् स्थापयित्वा करेण विलोडिते फेन उत्तिष्ठेदिति । ६ प्रह्लादन. तैलमभिधत्ते - यवार्धेति । ७ अम्लप्रस्थशतोन्मिश्रं = कालिकप्रस्थशत मिलितम् । ८ तेषां न्यग्रोधादिकाकोल्याद्युत्पलादीनां कषायैः क्वाथै: अम्लैः काञ्जिकैश्च संसिद्धा इति तत्कषायाम्लसंसिद्धाः । ९ अवगाहयेत् = द्रवपूर्णभाजने निमज्जनं कारयेत् । १० तस्मात् = न्यग्रोधादि. शीतकषायावगाहात् । ११ दीनमनसं = क्लिष्टचित्तम्, श्राश्लिषेयुः = श्रालिङ्गेयुरि • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1245
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Samah Chennai and eGangotri १०८७ पेलवेक्षौमसंवीताश्चन्दनार्द्रपयोधराः ॥ २ ९ १ ॥
बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः ।
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः खैः ॥ २ ९ २ ॥
प्रह्लादं चास्य विज्ञाय ताः खीरपनयेत् पुनः ।
हितञ्च भोजयेदन्नं तथाऽऽप्नोति सुखं महत् ॥ २ ९ ३ ॥
पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितञ्च यत् ।
निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु ॥ २ ९ ४ ॥
दुर्निवारतरं तद्धि ज्वरार्त्तानां विशेषतः ।
छर्दिमूच्छपिपासादीनविरोधाज्ज्वरस्य च ॥ २ ९ ५ ॥
उपद्रवान् जयेच्चापि प्रत्यनीकेन हेतुना ।
विशेषमपरं चात्र शृणुपद्रवनाशनम् ॥ २ ९ ६ ॥
मधुकं रजनीमुस्तं दाडिमं साम्लवेतसम् ।
अञ्जनं तिन्तिडीकञ्च नलदं पत्रमुत्पलम् ॥ २ ९ ७ ॥
त्यथः । १ पेलवक्षौमेन कोमलपट्टवस्त्रेण संवीताः सम्यगाच्छादिताः । २ ताः स्त्रियोऽम्बुरुहैरुत्पलादिभिः सुखैः स्पृशन्त्यः शीतैः स्तनैः कृत्वा भजेयुरिति योजनी • यम् । ३ अस्य प्रह्लादं हर्षे विज्ञाय पुनस्ताः स्त्रोरपनयेत्, अन्यथा तत्संसर्गान्महा-ननर्थः स्यादिति भावः । ४ पित्तहरमन्नमित्यर्थः । ५ समवायिषु = संसर्गिषु, प्राचुर्येण पित्तसम्बन्धयुक्ते • ष्वित्यर्थः । तन्त्रान्तरेऽप्युक्तम् - " समवाये हि दोषाणां पूर्वं पित्तमुपाचरेत् । ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् ॥ ” इति । अन्यत्र मारुतमित्यस्य अन्यस्मिन्ना-मये वायोरेवादौ प्रतिक्रियां कुर्यादित्यर्थः । यथा- '- " वातस्यानुजयेत् पित्तं पित्तस्यानु-जयेत् क्रफम् । त्रयाणां वा जयेत् पूर्वं यो भवेद् बलवत्तमः ॥ ” इति । “ सन्निपातज्वरे पूर्वं कुर्यादामकफापहम् । पश्चाच्छ्लेष्मणि संक्षीणे शमयेत् पित्तमारुतौ ॥ ” इति वच • नेन आदौ श्रमश्लेष्मणः शमनमर्थात् प्रकृतिस्थापनमुच्यते, न तु निर्हरणम् । ६ हि यस्मात् ज्वरार्तानां दाहज्वरपीडितानां तत् पित्तं विशेषतो दुर्निवारतरमित्यर्थः । ७ अथ ज्वरोपद्रवचिकित्सितमभिधत्ते - छर्दीति । उपद्रवपदेन " व्य! घेरुपरि यो व्याधिर्भवत्युत्तरकालजः । उपक्रमाविरोधी च स उपद्रव उच्यते ॥ ” इति तन्त्रान्त-रोक्तं बोध्यम् । ८ प्रत्यनीकेन = स्ब चिकित्सितेनेत्यर्थः । ९ अञ्जनं = रसाञ्जनम्, तिन्तिडीकं = चुक्रम्, नलदं = मांसी, पत्रं = ' तेजपात ' इति ख्यातम्, उत्पलं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1246
पाठ पढ़ें पाठ छिपाएँ
१० by Arya Samaj Foun सुश्रुतसंहितायां cangotri [ अ ० ३ ९
त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु ।
दिह्यादेभिर्ज्वरर्त्तस्य मधुशुक्तयुतैः शिरः ॥ २ ९ ८ ॥
शिरोऽभितापसम्मोहवमिहिकाप्रवेपथून् ।
प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान् ॥ २ ९९ ॥
मधूकमथ हीवेरमुत्पलानि मधूलिकाम् ॥ ३०० ॥
लीढ़वा चूर्णानि मधुना सर्पिषा च जयेद् वमिम् ।
कफप्रेसेका पित्तहिक्काश्वासांश्च दारुणाम् ॥ ३०१ ॥
लिहन् ज्वरार्त्तस्त्रिफलां पिप्पलीच समाक्षिकाम् ।
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ॥। ३०२ ॥
विदारी दाडिमं लोध्रं दैधित्थं वीजपूरकम् ।
एभिः प्रदद्यान्मूर्द्धानं तृड्दाहार्त्तस्य देहिनः ॥ ३०३ ॥
दाडिमस्य सितायाश्च द्राक्षाऽऽमलकयोस्तथा ।
वैरस्ये धारयेत् कल्कं गण्डूषञ्च यथा हितम् ॥ ३०४ ॥
क्षीरेक्षुरस माक्षीकसर्पिस्तैलोष्णवारिभिः ।
शून्ये मृध्नि हितं नस्यं जीवनीयतं घृतम् ॥ ३०५५ ॥
चूर्णितै त्रिफलाश्यामा त्रिवृत्पिप्पलिसंयुतैः ।
सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ॥ ३०६ ॥
नीलोत्पलम् । १ मधुशुक्तलक्षणमुक्तम्– “ जम्बीरस्य फलरसं पिप्पली चूर्ण संयुतम् । मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् । मासेन तज्जातरसं मधुशुक्तं प्रकी-तितम् ॥ ” इति । = २ हीवेरं = ' नेत्रवाला ' इति, मधूलिका - मूर्वा । ३ असृपित्तं रक्तपित्तम् । ४ दधिवर्णो द्रवस्तिष्ठत्यस्मिन्निति दधित्थं, कपित्थमित्यर्थः । ' अथ कपित्थे स्युर्दधित्थ. ग्राहिमन्मथाः ' इत्यमरः । ५ प्रदिह्यात् = प्रलिम्पेदित्यर्थः । ६ वैरस्ये = मुखबैरस्ये । दाडिमादीनां कल्कं क्षीरादिभिर्गण्डूषं च यथाहितं धारयेदिति सम्बन्धः । ७ शून्य. त्वेनानुभृते इत्यर्थः । जीवनीयानि = द्रव्यसङ्ग्रहणीयाध्यायोक्तानि काकोलीप्रभृतीनि दश द्रव्याणि । जीवकर्षभको मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषप-यौं जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्तीति चरकः । ८ श्यामा = वृद्धदारकः, ' विधारा ' इति ख्याता । त्रिवृत्- ' निसोत ' इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1247
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ९ ] Digitized by Arya Samaj Poundation Chennai and eGangotri ama Foundation Chennai
पक्वे पित्तज्वरे रक्ते ' चोर्ध्वगे वेपथौ तथा ।
कफवातोत्थयोरे ' स्नेहाभ्यङ्गैर्विशोधयेत् ॥ ३०७ ॥
हृतदोषो भ्रमार्त्तस्तु लिह्यात् चौद्रसिताऽभैयाः ।
वातन्नमधुरैर्योज्या निरूहा वातजे ज्वरे ॥ ३०८ ॥
विभज्य दोषं प्राणञ्च यथास्वं चानुवासनाः! उत्पलादिकषायाद्याश्चन्दनोशीरसंयुताः ॥ ३० ९ ॥
शर्करामधुराः शीताः पित्तज्वरहर । मताः ।
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ॥ ३१० ॥
गैरिकाञ्जर्न मञ्जिष्ठामृणालान्यथ पद्मकम् ।
श्लक्ष्णपिष्टन्तु पयसा शर्करामधुसंयुतम् ॥ ३११ ॥
सुपूतं शीतलं बस्ति दह्यमानाय दापयेत् ।
ज्वरदाहापहं तेषु " सिद्धचैवानुवासनम् ॥ ३१२ ॥
१५ ' आरग्वध गणक्काथाः पिप्पल्यादिसमायुताः ।
सक्षौद्रमूत्रा " देयाः स्युः कफज्वरविनाशनाः ॥ ३१३ ॥
कफन्नैरेव संसिद्धा " द्रव्यैश्चाप्यनुवासनाः । १०८ ९ १ ऊर्ध्वगे ऊर्ध्वगामिनि रक्ते इत्यर्थः । २ कफवातोत्थयोर्ज्वरयोः, पक्कयोरिति शेषः । विशोधयेत् = शमं नयेदित्यर्थः । ३ श्रभया = हरीतकी । ४ दातज्वरे निरूहानुवासनद्रव्याणि निर्दिशति - वातघ्नेति । वातघ्नानि भद्रदा-र्वादीनि, मधुराः काकोल्यादयः । ५ विभज्य == हीनमध्योत्तमादिभेदेन विचार्य, दोषं प्राणं बलं चेत्यर्थः । अर्थादल्पप्रकुपिते दोषे बले च अल्पः, मध्यमे मध्यमः, उत्तमे च उत्तमो निरूहः कार्यः । ६ पित्तज्वरे निरूहानुवासनद्रव्याणि दर्शयति - उत्पलादीति । श्रत्र निरूह-पदमाकृष्यते, तेन उत्पलादिकषायाद्या निरूद्दा इत्यर्थः । ७ चन्दनं = रक्तचन्दनम्, मधुकं = यष्टीमधु, उत्पलं = नीलोत्पलम् । ८ श्रञ्जनं = रसाञ्जनं सौवीराञ्जनं वा, मञ्जिष्ठा = ' मजीठ ' इति, मृणालं = विसम्, पद्मकं = पद्मकाष्ठम्, ' पद्माख ' इति ` प्रथते । ९ निरूइवस्तिमित्यर्थः । १० तेषु = आम्रादिस्वक्प्रभृतिषु द्रव्येषु । ११ कफ-ज्वरे निरूहानुवासनद्रव्याण्याद - आरग्वधेति । १२ ' निरूहा ' इति शेषः । १३ आ-रग्वधादिगणद्रव्यैरित्यर्थः । ६ ९ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1248
पाठ पढ़ें पाठ छिपाएँ
१० ९ ० सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ९ संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ॥ ३१४ ॥
संसृष्टैरेव संसृष्टा द्रेव्यैश्चाप्यनुवासनाः ।
वौतरोगापहाः सर्वे स्नेहा ये सम्यगोरिताः ॥ ३१५ ॥
विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे ।
निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ॥ ३१६ ॥
पैत्तिके मधुरै स्तिक्तः सिद्धं सपिश्च पूज्यते ।
श्लैष्मि के कटुतिक्तैश्च, संसृष्टानीतरेषु च ॥ ३१७ ॥
हृतावशेषं पित्तन्तु त्वक्स्थं जनयति ज्वरम् ।
पिबेदिक्षुरसं तत्रं शीतं वा शर्करोदकम् ॥ ३१८ ॥
शालिषष्टिकयोरन्नमश्नीयात् क्षीरसम्प्लुतम् ।
कफवातोत्थयोरेव " ग्वेदाभ्यङ्गौ प्रयोजयेत् ॥ ३१ ९ ॥
घृतं " द्वादशरात्रात्तु देयं सर्वज्वरेषु च ।
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ॥ ३२० ॥
धातून् " प्रक्षोभयन् दोषो मोक्षकाले बलीयते । १ संसर्गसन्निपातयोर्निरूहानुवासनद्रव्याणि श्रभिधत्ते- संसर्ग इति । संसृष्टाः = मिलिताः, बस्तयः = निरूद्दबस्तयः । २ संसृष्टैद्रव्यैः = मिलितद्रव्यैः । ३ अनु. वासनविषये तैलं निषेधति - वातेति । सर्वे स्नेहाः = सर्पिस्तलवसामज्जानः । ४ योज्याः, अनुवासनविधिनेत्यर्थः । ५ ते == सर्पिस्तैलवसामज्जानः, श्रभ्यङ्गादौ तैलस्यापि प्रयोगं कर्तुं निखिलेनेति पदमुपात्तन् । ६ अभ्यञ्जनादिष्वित्यर्थः । ७ सं-सृष्टानि = अन्योऽन्य मिश्राणि सर्पिरादीनि, इतरेषु = सन्निपातेषु । ८ हृतावशेषपित्तचिकित्सितमभिदधाति - हृतेति । हृतावशेषं = निर्हरणावशि ष्टम् । ९ तत्र = - हृतावशेषपित्तज्वरे । १० अन्नम् = श्रोदनमित्यर्थः । ११ हृतावशे. षयोः कफवातज्वरयोरित्यर्थः । १२ ज्वरे घृतदानयोग्यकालमभिधत्ते - वृतमिति । सर्वज्वरेषु लङ्घनोष्णोदकपानादिपाचनैः पक्वेषु द्वादशरात्राद् द्वादशरादूध्व ' घृतं देयम्, हि यस्मात् तेनान्तरेण तेन समयेन दोषा वातादयः सन्निपातकारकाः, पाकप्राप्त. त्वात् स्वमाशयं निजं स्थानं गता भवन्तीत्यर्थः । १३ मुच्यमानज्वरलक्षणं ब्रवीति - धातूनिति 1 । दोषो मोक्षकाले धातून् प्रक्षोभ-यन् चालयन् बलीयते बलीवाचरति, यथा दीपो निर्वाणावस्थायां महर्ती ज्वालां ऽ दर्शयन् निर्वाणं याति, तद्वदयमपि ज्वरारम्भको दोषो बलीयते इति तात्पर्यम् । तेन CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1249
पाठ पढ़ें पाठ छिपाएँ
उत्तरतन्त्रम् । अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ॥ ३२१ ॥
लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च ।
वथुश्चान्नकाङक्षा च ज्वरमुक्तस्य लक्षणम् ॥ ३२२ ॥
शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः ।
रोगराडू रोगसङ्घातो ज्वर इत्युपदिश्यते ॥ ३२३ ॥
व्यापित्वात सर्वसंस्पर्शात कृच्छ्रुत्वादन्तसम्भवात् । ४ अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ॥ ३२४ ॥
१० ९ १ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम ( प्रथमोऽध्यायः, आदितः ) एकोनचत्वारिंशोऽध्यायः ॥ ३ ९ ॥ दोषेण व्याकुलं चित्तं यस्य स पुरुषो म्रियमाण इव ईहते अर्थाद् मुमूर्षुवद् गात्रवि-क्षेपणादिव्यापारं करोतीत्यर्थः । १ ज्वरमुक्तलक्षणमाख्याति - लघुत्वमिति । लघुत्वं शिरसः = शिरोलघुत्वम्, आपाण्डु = ईषत्पाण्डु | तन्त्रान्तरे - " देहो लघुर्व्यपगतक्लममोइतापः पाको मुखे करणसौष्ठवमव्यथत्वम् । स्वेदः क्षयः प्रकृतियोगि मनोऽन्नलिप्सा कण्डूश्च मुनि विग तज्वरलक्षणानि ॥ ” इति । २ ज्वरस्य अन्यरोगेभ्यो गरीयस्त्वं प्रतिपादयति - श-विति । ज्वरस्य मूर्तिमत्त्वमुक्तम् - " रुद्रको पाग्निसम्भूतः सर्वभूतप्रतापनः । त्रिपा-दभस्मप्रहरणस्त्रिशिराः सुमहोदरः । वैयाघ्रचर्मवसनः कपिलो माल्यविग्रहः । पिङ्गे-क्षणो ह्रस्वजङ्ङ्घो बीभत्सो बलवान् महान् ॥ पुरुषो लोकनाशार्थमसौ ज्वर इति स्मृतः ॥ ” इति भावप्रकाशे । हरिवंशेऽपि -- “ ज्वर त्रिपाद त्रिशिराः षड्भुजो नवलो -चनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ ” इति । ३ व्यापित्वात् = पुरुषपश्वादिसर्वप्राणिषु व्यापनात्, सर्वसंस्पर्शात् = देहेन्द्रिय-मनस्तापित्वात्, तदुक्तं चरके - " देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली । ज्वरः प्रधान रोगाणामुक्तो भगवता पुरा ॥ ” इति । ४ व्यापित्वादिहेतोरेव ज्वरः श्रन्तक इत्यु -पदिश्यते इति सम्बन्धनीयम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनचत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1250
पाठ पढ़ें पाठ छिपाएँ
१० ९ २ सुश्रुतसंहितायां--Digitized by Arya Samaj Foundation Chennai and eGangotri
चत्वारिंशत्तमोऽध्यायः ।
अर्थातोऽतीसारप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
गुर्वेतिस्निग्धरूक्षो ष्णद्र व स्थूलातिशीतलैः ।
विरुद्धाध्यशनाजीर्णैर सात्म्यैश्चापि भोजनैः ॥ ३ ॥
स्नेहाद्यैरतियुक्तैश्च मिध्यायुक्तैर्विपाद्भयात् । [ अ ० ४० शोकाद् दुष्टाम्बुमद्यातिपानात् सात्म्यर्त्तपर्य्ययात् ॥ ४ ॥
जलातिरमणैर्वेगविघातैः कृमिदोषतः । चत्वारिंशत्तमोऽध्यायः । १ ज्वरातीसारयोरन्योन्योपद्रवाज्ज्वरप्रतिषेधानन्तरमतीसार प्रतिषेधमधिकरोति - अ-थात इति 1 । श्रतिसरणमतिसारः, ' सृ गतौ ' इत्यस्मात् ' व्याधिमत्स्यबलेषु च ' इति वार्तिकेन घञ् ‘ उपसर्गस्य घन्यमनुष्ये बहुलम् ' इति दीर्घः । “ प्रतिरत्यर्थवचने सरतिर्गतिकर्मणि । तस्मादत्यन्तसरणादतीसार इति स्मृतः ॥ ” इति तन्त्रान्तरम् । अतीसारस्योत्पत्ति-माह— “ दीर्घंसत्रेण पण यजतः पृषधस्य महात्मनः । श्रालम्म्याः पशवः क्षीणास्ततो गावः प्रकल्पिताः ॥ तासामुपाकृतानां च गवामत्यर्थ सेवनात् । श्रसात्म्यस्वादघोष्यत्वाद गौर-वाच्च विशेषतः ॥ श्रुतिस्नेहाच्च सङ्ङ्क्षीणो जाठरोऽग्निस्तदा किल । श्रतीसारः पुरो. पन्नो दोषधातुमलाश्रयः ॥ ” इति । २ अतीसारनिदानमभिदधाति - गुर्विति । गुरुमात्रया गुणतः विपाकतश्च । अतिशब्दस्य स्निग्धादिस्थूलान्तैः सह सम्बन्धः । स्थूलं = संहतावयवं लड्डुकपिष्ट-कादि । ३ विरुद्धं = संयुक्तं क्षीरमत्स्यादि । " श्रजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ” इति । अजीर्णम् = श्रमं विदग्धं च विषमम् = श्रकाल भोजनादि, तदुक्तं प्राक् – " बहु स्तोकमकाले च भुक्तं यद्विषमं हि तत् " इति । ४ श्रतियुक्तः = प्रतियोगयुक्तैः मिथ्यायुक्तैः = हीनयोगयुक्तः, विषात् = स्थावर • विषाद् दूषीविषाद्वा । ५ दुष्टयोर्व्यापन्नयोरम्बुमद्ययोरतिपानादित्यर्थः । सात्म्यतु-पर्ययात् = सात्म्यविपर्ययादृतुविपर्ययाच्च, सात्म्यविपर्ययोऽसात्म्यम्, तस्य द्वैविध्यमाह-“ द्विविधं हि सात्म्यं प्रकृतिसात्म्यमभ्याससात्म्यं च " इति । ऋतुविपर्ययः– यस्मि • नृतौ यदुचितं तस्य विपरीतः । ६ जलातिरमणैः = जलक्रीडाऽऽदिभिः, वेगविघातैः = मूत्रपुरीषादीनां वेगनिरोधनैः, क्रिमिदोषतः = क्रिमिभिः पक्कामाशयदूषणात्, क्रिमि ’ जनितवातादिप्रकोपाद्वा । CC - 0. Gurukul Kangri Collection, Haridwar