सुश्रुत संहिता चौखम्बा — पृष्ठ 1241–1250

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1241–1250

पृष्ठ 1241

सुश्रुत संहिता चौखम्बा, पृष्ठ 1241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ३ ९ ] १०८३ उत्तरतन्त्रम् त्रासयेदागमे चैनं तदह र्भोजयेन्न च ॥ २५ ९ ॥

अत्यभिष्येन्दिगुरुभिर्वा मयेद्वा पुनः पुनः ।

मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् ॥ २६० ॥

पुराणं वा घृतं काममुदौरं वा विरेचनम् ।

निरूहयेद्वा मतिमान् सुस्त्रिनं तदहर्नरम् ॥ २६१ ॥

अजान्योश्चर्म रोमाणि वचा कुष्टं पलङ्कषा ।

निम्बपत्रं मधुयुतं धूपनन्तस्य दापयेत् ॥ २६२ ॥

बैडालं वा शक्रयोज्यं वेपमानस्य धूपनम् ।

पिप्पली सैन्धवं तैलं नैपाली चेक्षणाञ्जनम् ॥ २६३ ॥

उदरोक्तानि सर्पषि यान्युक्तानि पुरा मया ।

कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् ॥ २६४ ॥

भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः ।

जयेद् भूताभिषङ्गोत्थं, विज्ञानाद्यैश्च मानसम् ॥ २६५ ॥

कृत्रिम चौरैरित्यर्थः । १ आग मे = ज्वरागमनसमये, त्रासयेत् = भयमुत्पादयत् । २ श्रत्यभिष्यन्दिगुरुभिः मदनफल साधिताभिः क्षीरादिभिः ॥ ३ उदारं = येन विरे-चनेन पीडा न स्यात्तादृशम् । ४ विषमज्वरे धूपनं निर्दिशति - अजेति । अजा छगलो, अविर्मेषी, तयोश्च मै. ५ बैडालं = बिडालसम्बन्धि -रोमाणीत्यर्थः । पलङ्कषागुग्गुलुः । । शकृत् = विष्ठा, ६ विषमज्वरेऽञ्जनं ब्रवीति - पिप्पलीति । नैपाली = मनःशिला । ७ अजितं सर्पिः = अजेयाख्यं घृतमित्यर्थः । ८ भूताभिषङ्गोत्थज्वरचिकित्सितमाचष्टे - भूतेति । बन्धः = समन्त्रै रज्ज्वा-दिभिर्बन्धनम्, आवेशनं समन्त्रैः सर्षपादिभिस्ताडनम्, पूजनं = बल्युपहार स्तुत्या • दिभिरर्चनम् । तन्त्रान्तरेऽस्य चिकित्सामाह – “ सहदेवाया मूलं विधिना कण्ठे निबद्ध-मपहरति । एकद्वित्रिचतुर्भिर्दिवसै भूतज्वरं पुंसाम् ॥ ” इति । ९ मानसज्वरचिकित्सामाह - विज्ञानाद्यैरिति I । श्रादिशब्दाद् धैर्यस्मृतिज्ञानस-माघयो ग्राह्याः । मानसं = कामशोकक्रोधभयजम् । “ कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयो मलाः । भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥ ” इति कामादीनां निजो दोष: । " क्रोधजे पित्तजित्कार्यं धार्यं सद्वाक्यमेव च । श्राश्वासेनेष्टलाभेन वायोः प्रशमनॆन च ॥ इर्षणैश्च समं यान्ति क्रामक्रोधभयज्जराः । कामैरथ मनोध्नैश्च पित्त-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1242

सुश्रुत संहिता चौखम्बा, पृष्ठ 1242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितार्थी Digitized by Arya Samaj Foundation Chennai and eGangotri १०८४ [ अ ० ३ ९

श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् ।

अभिशापाभिचारोत्थौ ज्वरौ होमादिनो जयेत् ॥ २६६ ॥

दानस्वस्त्ययनातिथ्यैरुत्पतिग्रहपीडितम् । 7. अभिघातज्वरे कुर्य्यात् क्रियामुष्णविवर्जिताम् ॥ २६७ ॥

कषायमधुरां स्निग्धां यथादोषमथापि वा ।

औषधीगन्धविषजौ विषपित्तप्रसाधनैः ॥ २६८ ॥

जयेत्, कषायं च हितं सर्वगन्धकृतं तथा ।

निम्बदारुकषायं वा हितं सौमनसं यथा ॥ २६ ९ ॥

यवान्नविकृतिः सर्पिर्मद्यञ्च विषमे हितम् ।

सम्पूजयेद् द्विजान् गाश्च देवमीशानमम्बिकाम् ॥ २७० ॥

कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् ।

दिह्यादुष्णेन वर्गेण परश्वोष्णो विधिहितः ॥ २७१ ॥

सिनेत कोष्णैराना लशुक्तगोमूत्रमस्तुभिः ।

दिह्यात् ' पलाशैः पिष्टैर्वा सुरसाऽर्जकशिग्रुजैः ॥ २७२ ॥

ध्नैश्चाप्युपक्रमैः । सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ॥ ” इति तन्त्रा-न्तरीया चिकित्सा | १ विविधागन्तुज्वरचिकित्सितभाख्याति - श्रमेति । २ आदिशब्दाच्छान्तिज-पादयो बोध्याः । ३ उत्पातः = श्रनिष्टसूचकं निर्घातादि । ४ सर्वगन्धं नाम— “ चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति । ५ सुमना जाती तत्कृतं सौमनसम् । ६ ज्वरे शीतप्रतीकारं प्रतिपादयति - कफेति । ७ दिइयात् = लिम्पेत्, उष्णे. न वर्गेण = भद्रदार्वादिना, सुरसादिना एलादिना वा । ८ श्ररनालं = काञ्जिकम्, शुक्तं = चुक्रम् । श्रस्य कल्पना तन्त्रान्तरेऽभिहिता । तद्यथा - " प्रस्थमेकं तु भक्तस्य त्रयं सौवीरकस्य च । अर्धी प्रस्थं तु दध्नश्च भिषगम्लस्य दापयेत् ॥ पलषोडशकं चैव शोषितस्यार्द्रकस्य च । सैन्धवं पिप्पलीं चैव चूर्णीकृत्य विनिक्षिपेत् ॥ स्थापयेत्सुदृढे भाण्डे सर्पिषा परिभाविते । हेमन्ते वासराण्यष्टौ वसन्ते षट् दिनानि च ॥ प्रावृट्काले चतुरहं वर्षास्वपि च वासयेत् । श्रत ऊर्ध्वं क्षिपेच्चूर्णं चातुर्जातात् पलद्वयम् ॥ ” इति । ९ पलाशैः - पत्रैः, ' पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ' इत्यमरः । सुर े सा = तुलसी, श्रर्जकः = कुठेरकः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1243

सुश्रुत संहिता चौखम्बा, पृष्ठ 1243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] १०८५ Digitized by Arya Samaj Foundation Chennai and eGangotri तर

क्षौरतैलेन वाऽभ्यङ्गः सशुक्तेन विधोयते ।

पानमारग्ववादेश्च क्वथितस्य विशेषतः ॥ २७३ ॥

अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः ।

जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् ॥ २७४ ॥

प्रवेश्यौगिक कार्पासकौशेयाम्वरसंवृतम् ।

शाययेद् ग्लानैदेहञ्च कालागुरुविभूषितम् ॥ २७५ ॥

स्तनाढ्या रूपसम्पन्नाः कुशला नवयौवनाः ।

भजेयुः प्रमदा मात्रैः शीतदैन्यापहाः शुभाः ॥। २७६ ॥

शरच्छशाङ्कवदना नीलोत्पलविलोचनाः ।

स्फुरित भ्रूलतामङ्गललाटतटकम्पनाः ॥ २७७ ॥

प्रलम्ब बिम्बप्रचलद्विम्बीफलनिभाधराः ।

कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः ॥ २७८ ॥

कुङ्कुमागुरुदिग्धाङ्गयो घनतुङ्गपयोधराः ।

सुगन्धिधूपित श्लक्ष्णस्तांशुकविभूषणाः ॥ २७ ९ ॥

गाढमालिङ्गन्येयुस्तं तरुं बनलता इव ।

प्रह्लादं चास्य विज्ञाय ताः खोरपनयेत् पुनः ॥ २८० ॥

तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम् ।

भोजयेद्धितमन्नञ्च यथा सुखमवाप्नुयात् ॥ २८१ ॥

दाहाभिभूते तु विधिं कुर्य्याद्दाहविनाशनम् ।

मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा ॥ २८२ ॥

१ पलाशक्षारसिद्धं तैलं क्षारतैलम् । २ श्रवगाहः = = वातघ्नक्काथपूर्णभाजने निम • ज्जनम्, सुखोष्णः = ईषदुष्णः । ३ एभिः = भद्रदार्वाद्युष्णवर्गप्रलेपादिभिः । ४ वातरहिते गृहे प्रवेश्येत्यर्थः । ५ ग्लानदेहं कालागुरुविभूषितं पुरुषं स्तनाढ्यादि-गुणयुक्ताः प्रमदा मृदुमर्दनार्थं गात्रैः कृत्वा भजेयुरिति सम्बन्धः । ६ श्रालिङ्गनयोग्या ललना वर्णयति - शरदिति । एवम्भूताः स्त्रियः तरुं वनलता इव तं पुरुषमालिङ्गयेयुरिति सम्बन्धः । ७ अन्यथा तत्संसर्गान्महाननर्थः स्यात् । = दितमन्नं = वातश्लेष्मद्दरमाहारम् । ९ ज्वरे दाहप्रतीकारमुपदिशति - दाहेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1244

सुश्रुत संहिता चौखम्बा, पृष्ठ 1244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां Digitized by Arya Samaj Fouxulation Chennai and eGangotri [ अ ०३ ९

दाहज्वरात मतिमान् वामयेत् क्षिप्रमेव च ।

शतधौत घृताभ्यक्तं दिह्याद्वा यवशक्तुभिः ॥ २८३ ॥

कोलामलक संयुक्तैः शुक्तधान्याम्लसंयुतैः ।

अम्लपिष्टैः सुशीतैश्च फेनिलौपल्लवैस्तथा ॥ २८४ ॥

अम्लपिः सुशीतैर्वा पलाशत रुजैर्दिहेत् ।

बदरीपल्लवोत्थेनं फेनेनारिष्टकस्य च ॥ २८५ ॥

लिप्तेऽङ्गे दाहतृण्मूच्छः प्रशाम्यन्ति च सर्वशः ।

यैवार्द्धकुडवं पिष्ट्रा मञ्जिष्ठाऽर्द्धपलं तथा ॥ २८६ ॥

अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत् ।

एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् ॥ २८७ ॥

न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः ।

उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् ॥ २८८ ॥

तत्कषायाम्लसंसिद्धाः स्नेहाचाभ्यञ्जने हिताः ।

तेषां शीतकषाये वा दाहार्त्तमवगाहयेत् ॥ २८ ९ ॥

दाहवेगे त्वतिक्रान्ते " तस्मादुद्धृत्य मानवम् ।

परिषिच्याम्बुभिः शीतैः प्रलिम्पेञ्चन्दनादिभिः ॥ २ ९ ० ॥

ग्लानं वा " दोनमनसमाश्लिषेयुर्वराङ्गनाः । १० १ तन्त्रान्तरेऽपि— “ स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक् । पित्तं ज्ञाखा वि. रेकेण वमनेनाथवा हरेत् ॥ ” इति । २ शतवारान् शीतलजलेन धौतं फेनिलं घृतं शतधौतघृतं तेनाभ्यक्तम् । दिह्यात् - लिम्पेत् । ३ फेनिला = उपोदिका, ' पोई ' इति ख्याता । ४ पलाशतरुजैः = पलाश पल्लवैरित्यर्थः । ५ बदरीपल्लवोत्थेन फेनेन श्ररिष्टकस्य निम्बस्य च फेनेन श्रङ्गे लिप्ते दादतृ मू. र्च्छाः सर्वशः प्रशाम्यन्तीति सम्बन्धः । फेनकल्पना तु - काञ्जिकपूर्णपात्रे काञ्जिकपि-ष्टान् बदरीपल्लवान् स्थापयित्वा करेण विलोडिते फेन उत्तिष्ठेदिति । ६ प्रह्लादन. तैलमभिधत्ते - यवार्धेति । ७ अम्लप्रस्थशतोन्मिश्रं = कालिकप्रस्थशत मिलितम् । ८ तेषां न्यग्रोधादिकाकोल्याद्युत्पलादीनां कषायैः क्वाथै: अम्लैः काञ्जिकैश्च संसिद्धा इति तत्कषायाम्लसंसिद्धाः । ९ अवगाहयेत् = द्रवपूर्णभाजने निमज्जनं कारयेत् । १० तस्मात् = न्यग्रोधादि. शीतकषायावगाहात् । ११ दीनमनसं = क्लिष्टचित्तम्, श्राश्लिषेयुः = श्रालिङ्गेयुरि • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1245

सुश्रुत संहिता चौखम्बा, पृष्ठ 1245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Samah Chennai and eGangotri १०८७ पेलवेक्षौमसंवीताश्चन्दनार्द्रपयोधराः ॥ २ ९ १ ॥

बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः ।

भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः खैः ॥ २ ९ २ ॥

प्रह्लादं चास्य विज्ञाय ताः खीरपनयेत् पुनः ।

हितञ्च भोजयेदन्नं तथाऽऽप्नोति सुखं महत् ॥ २ ९ ३ ॥

पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितञ्च यत् ।

निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु ॥ २ ९ ४ ॥

दुर्निवारतरं तद्धि ज्वरार्त्तानां विशेषतः ।

छर्दिमूच्छपिपासादीनविरोधाज्ज्वरस्य च ॥ २ ९ ५ ॥

उपद्रवान् जयेच्चापि प्रत्यनीकेन हेतुना ।

विशेषमपरं चात्र शृणुपद्रवनाशनम् ॥ २ ९ ६ ॥

मधुकं रजनीमुस्तं दाडिमं साम्लवेतसम् ।

अञ्जनं तिन्तिडीकञ्च नलदं पत्रमुत्पलम् ॥ २ ९ ७ ॥

त्यथः । १ पेलवक्षौमेन कोमलपट्टवस्त्रेण संवीताः सम्यगाच्छादिताः । २ ताः स्त्रियोऽम्बुरुहैरुत्पलादिभिः सुखैः स्पृशन्त्यः शीतैः स्तनैः कृत्वा भजेयुरिति योजनी • यम् । ३ अस्य प्रह्लादं हर्षे विज्ञाय पुनस्ताः स्त्रोरपनयेत्, अन्यथा तत्संसर्गान्महा-ननर्थः स्यादिति भावः । ४ पित्तहरमन्नमित्यर्थः । ५ समवायिषु = संसर्गिषु, प्राचुर्येण पित्तसम्बन्धयुक्ते • ष्वित्यर्थः । तन्त्रान्तरेऽप्युक्तम् - " समवाये हि दोषाणां पूर्वं पित्तमुपाचरेत् । ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् ॥ ” इति । अन्यत्र मारुतमित्यस्य अन्यस्मिन्ना-मये वायोरेवादौ प्रतिक्रियां कुर्यादित्यर्थः । यथा- '- " वातस्यानुजयेत् पित्तं पित्तस्यानु-जयेत् क्रफम् । त्रयाणां वा जयेत् पूर्वं यो भवेद् बलवत्तमः ॥ ” इति । “ सन्निपातज्वरे पूर्वं कुर्यादामकफापहम् । पश्चाच्छ्लेष्मणि संक्षीणे शमयेत् पित्तमारुतौ ॥ ” इति वच • नेन आदौ श्रमश्लेष्मणः शमनमर्थात् प्रकृतिस्थापनमुच्यते, न तु निर्हरणम् । ६ हि यस्मात् ज्वरार्तानां दाहज्वरपीडितानां तत् पित्तं विशेषतो दुर्निवारतरमित्यर्थः । ७ अथ ज्वरोपद्रवचिकित्सितमभिधत्ते - छर्दीति । उपद्रवपदेन " व्य! घेरुपरि यो व्याधिर्भवत्युत्तरकालजः । उपक्रमाविरोधी च स उपद्रव उच्यते ॥ ” इति तन्त्रान्त-रोक्तं बोध्यम् । ८ प्रत्यनीकेन = स्ब चिकित्सितेनेत्यर्थः । ९ अञ्जनं = रसाञ्जनम्, तिन्तिडीकं = चुक्रम्, नलदं = मांसी, पत्रं = ' तेजपात ' इति ख्यातम्, उत्पलं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1246

सुश्रुत संहिता चौखम्बा, पृष्ठ 1246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० by Arya Samaj Foun सुश्रुतसंहितायां cangotri [ अ ० ३ ९

त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु ।

दिह्यादेभिर्ज्वरर्त्तस्य मधुशुक्तयुतैः शिरः ॥ २ ९ ८ ॥

शिरोऽभितापसम्मोहवमिहिकाप्रवेपथून् ।

प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान् ॥ २ ९९ ॥

मधूकमथ हीवेरमुत्पलानि मधूलिकाम् ॥ ३०० ॥

लीढ़वा चूर्णानि मधुना सर्पिषा च जयेद् वमिम् ।

कफप्रेसेका पित्तहिक्काश्वासांश्च दारुणाम् ॥ ३०१ ॥

लिहन् ज्वरार्त्तस्त्रिफलां पिप्पलीच समाक्षिकाम् ।

कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ॥। ३०२ ॥

विदारी दाडिमं लोध्रं दैधित्थं वीजपूरकम् ।

एभिः प्रदद्यान्मूर्द्धानं तृड्दाहार्त्तस्य देहिनः ॥ ३०३ ॥

दाडिमस्य सितायाश्च द्राक्षाऽऽमलकयोस्तथा ।

वैरस्ये धारयेत् कल्कं गण्डूषञ्च यथा हितम् ॥ ३०४ ॥

क्षीरेक्षुरस माक्षीकसर्पिस्तैलोष्णवारिभिः ।

शून्ये मृध्नि हितं नस्यं जीवनीयतं घृतम् ॥ ३०५५ ॥

चूर्णितै त्रिफलाश्यामा त्रिवृत्पिप्पलिसंयुतैः ।

सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ॥ ३०६ ॥

नीलोत्पलम् । १ मधुशुक्तलक्षणमुक्तम्– “ जम्बीरस्य फलरसं पिप्पली चूर्ण संयुतम् । मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् । मासेन तज्जातरसं मधुशुक्तं प्रकी-तितम् ॥ ” इति । = २ हीवेरं = ' नेत्रवाला ' इति, मधूलिका - मूर्वा । ३ असृपित्तं रक्तपित्तम् । ४ दधिवर्णो द्रवस्तिष्ठत्यस्मिन्निति दधित्थं, कपित्थमित्यर्थः । ' अथ कपित्थे स्युर्दधित्थ. ग्राहिमन्मथाः ' इत्यमरः । ५ प्रदिह्यात् = प्रलिम्पेदित्यर्थः । ६ वैरस्ये = मुखबैरस्ये । दाडिमादीनां कल्कं क्षीरादिभिर्गण्डूषं च यथाहितं धारयेदिति सम्बन्धः । ७ शून्य. त्वेनानुभृते इत्यर्थः । जीवनीयानि = द्रव्यसङ्ग्रहणीयाध्यायोक्तानि काकोलीप्रभृतीनि दश द्रव्याणि । जीवकर्षभको मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषप-यौं जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्तीति चरकः । ८ श्यामा = वृद्धदारकः, ' विधारा ' इति ख्याता । त्रिवृत्- ' निसोत ' इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1247

सुश्रुत संहिता चौखम्बा, पृष्ठ 1247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ९ ] Digitized by Arya Samaj Poundation Chennai and eGangotri ama Foundation Chennai

पक्वे पित्तज्वरे रक्ते ' चोर्ध्वगे वेपथौ तथा ।

कफवातोत्थयोरे ' स्नेहाभ्यङ्गैर्विशोधयेत् ॥ ३०७ ॥

हृतदोषो भ्रमार्त्तस्तु लिह्यात् चौद्रसिताऽभैयाः ।

वातन्नमधुरैर्योज्या निरूहा वातजे ज्वरे ॥ ३०८ ॥

विभज्य दोषं प्राणञ्च यथास्वं चानुवासनाः! उत्पलादिकषायाद्याश्चन्दनोशीरसंयुताः ॥ ३० ९ ॥

शर्करामधुराः शीताः पित्तज्वरहर । मताः ।

आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ॥ ३१० ॥

गैरिकाञ्जर्न मञ्जिष्ठामृणालान्यथ पद्मकम् ।

श्लक्ष्णपिष्टन्तु पयसा शर्करामधुसंयुतम् ॥ ३११ ॥

सुपूतं शीतलं बस्ति दह्यमानाय दापयेत् ।

ज्वरदाहापहं तेषु " सिद्धचैवानुवासनम् ॥ ३१२ ॥

१५ ' आरग्वध गणक्काथाः पिप्पल्यादिसमायुताः ।

सक्षौद्रमूत्रा " देयाः स्युः कफज्वरविनाशनाः ॥ ३१३ ॥

कफन्नैरेव संसिद्धा " द्रव्यैश्चाप्यनुवासनाः । १०८ ९ १ ऊर्ध्वगे ऊर्ध्वगामिनि रक्ते इत्यर्थः । २ कफवातोत्थयोर्ज्वरयोः, पक्कयोरिति शेषः । विशोधयेत् = शमं नयेदित्यर्थः । ३ श्रभया = हरीतकी । ४ दातज्वरे निरूहानुवासनद्रव्याणि निर्दिशति - वातघ्नेति । वातघ्नानि भद्रदा-र्वादीनि, मधुराः काकोल्यादयः । ५ विभज्य == हीनमध्योत्तमादिभेदेन विचार्य, दोषं प्राणं बलं चेत्यर्थः । अर्थादल्पप्रकुपिते दोषे बले च अल्पः, मध्यमे मध्यमः, उत्तमे च उत्तमो निरूहः कार्यः । ६ पित्तज्वरे निरूहानुवासनद्रव्याणि दर्शयति - उत्पलादीति । श्रत्र निरूह-पदमाकृष्यते, तेन उत्पलादिकषायाद्या निरूद्दा इत्यर्थः । ७ चन्दनं = रक्तचन्दनम्, मधुकं = यष्टीमधु, उत्पलं = नीलोत्पलम् । ८ श्रञ्जनं = रसाञ्जनं सौवीराञ्जनं वा, मञ्जिष्ठा = ' मजीठ ' इति, मृणालं = विसम्, पद्मकं = पद्मकाष्ठम्, ' पद्माख ' इति ` प्रथते । ९ निरूइवस्तिमित्यर्थः । १० तेषु = आम्रादिस्वक्प्रभृतिषु द्रव्येषु । ११ कफ-ज्वरे निरूहानुवासनद्रव्याण्याद - आरग्वधेति । १२ ' निरूहा ' इति शेषः । १३ आ-रग्वधादिगणद्रव्यैरित्यर्थः । ६ ९ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1248

सुश्रुत संहिता चौखम्बा, पृष्ठ 1248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० ९ ० सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ९ संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ॥ ३१४ ॥

संसृष्टैरेव संसृष्टा द्रेव्यैश्चाप्यनुवासनाः ।

वौतरोगापहाः सर्वे स्नेहा ये सम्यगोरिताः ॥ ३१५ ॥

विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे ।

निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ॥ ३१६ ॥

पैत्तिके मधुरै स्तिक्तः सिद्धं सपिश्च पूज्यते ।

श्लैष्मि के कटुतिक्तैश्च, संसृष्टानीतरेषु च ॥ ३१७ ॥

हृतावशेषं पित्तन्तु त्वक्स्थं जनयति ज्वरम् ।

पिबेदिक्षुरसं तत्रं शीतं वा शर्करोदकम् ॥ ३१८ ॥

शालिषष्टिकयोरन्नमश्नीयात् क्षीरसम्प्लुतम् ।

कफवातोत्थयोरेव " ग्वेदाभ्यङ्गौ प्रयोजयेत् ॥ ३१ ९ ॥

घृतं " द्वादशरात्रात्तु देयं सर्वज्वरेषु च ।

तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ॥ ३२० ॥

धातून् " प्रक्षोभयन् दोषो मोक्षकाले बलीयते । १ संसर्गसन्निपातयोर्निरूहानुवासनद्रव्याणि श्रभिधत्ते- संसर्ग इति । संसृष्टाः = मिलिताः, बस्तयः = निरूद्दबस्तयः । २ संसृष्टैद्रव्यैः = मिलितद्रव्यैः । ३ अनु. वासनविषये तैलं निषेधति - वातेति । सर्वे स्नेहाः = सर्पिस्तलवसामज्जानः । ४ योज्याः, अनुवासनविधिनेत्यर्थः । ५ ते == सर्पिस्तैलवसामज्जानः, श्रभ्यङ्गादौ तैलस्यापि प्रयोगं कर्तुं निखिलेनेति पदमुपात्तन् । ६ अभ्यञ्जनादिष्वित्यर्थः । ७ सं-सृष्टानि = अन्योऽन्य मिश्राणि सर्पिरादीनि, इतरेषु = सन्निपातेषु । ८ हृतावशेषपित्तचिकित्सितमभिदधाति - हृतेति । हृतावशेषं = निर्हरणावशि ष्टम् । ९ तत्र = - हृतावशेषपित्तज्वरे । १० अन्नम् = श्रोदनमित्यर्थः । ११ हृतावशे. षयोः कफवातज्वरयोरित्यर्थः । १२ ज्वरे घृतदानयोग्यकालमभिधत्ते - वृतमिति । सर्वज्वरेषु लङ्घनोष्णोदकपानादिपाचनैः पक्वेषु द्वादशरात्राद् द्वादशरादूध्व ' घृतं देयम्, हि यस्मात् तेनान्तरेण तेन समयेन दोषा वातादयः सन्निपातकारकाः, पाकप्राप्त. त्वात् स्वमाशयं निजं स्थानं गता भवन्तीत्यर्थः । १३ मुच्यमानज्वरलक्षणं ब्रवीति - धातूनिति 1 । दोषो मोक्षकाले धातून् प्रक्षोभ-यन् चालयन् बलीयते बलीवाचरति, यथा दीपो निर्वाणावस्थायां महर्ती ज्वालां ऽ दर्शयन् निर्वाणं याति, तद्वदयमपि ज्वरारम्भको दोषो बलीयते इति तात्पर्यम् । तेन CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1249

सुश्रुत संहिता चौखम्बा, पृष्ठ 1249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

उत्तरतन्त्रम् । अ ० ३ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ॥ ३२१ ॥

लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च ।

वथुश्चान्नकाङक्षा च ज्वरमुक्तस्य लक्षणम् ॥ ३२२ ॥

शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः ।

रोगराडू रोगसङ्घातो ज्वर इत्युपदिश्यते ॥ ३२३ ॥

व्यापित्वात सर्वसंस्पर्शात कृच्छ्रुत्वादन्तसम्भवात् । ४ अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ॥ ३२४ ॥

१० ९ १ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम ( प्रथमोऽध्यायः, आदितः ) एकोनचत्वारिंशोऽध्यायः ॥ ३ ९ ॥ दोषेण व्याकुलं चित्तं यस्य स पुरुषो म्रियमाण इव ईहते अर्थाद् मुमूर्षुवद् गात्रवि-क्षेपणादिव्यापारं करोतीत्यर्थः । १ ज्वरमुक्तलक्षणमाख्याति - लघुत्वमिति । लघुत्वं शिरसः = शिरोलघुत्वम्, आपाण्डु = ईषत्पाण्डु | तन्त्रान्तरे - " देहो लघुर्व्यपगतक्लममोइतापः पाको मुखे करणसौष्ठवमव्यथत्वम् । स्वेदः क्षयः प्रकृतियोगि मनोऽन्नलिप्सा कण्डूश्च मुनि विग तज्वरलक्षणानि ॥ ” इति । २ ज्वरस्य अन्यरोगेभ्यो गरीयस्त्वं प्रतिपादयति - श-विति । ज्वरस्य मूर्तिमत्त्वमुक्तम् - " रुद्रको पाग्निसम्भूतः सर्वभूतप्रतापनः । त्रिपा-दभस्मप्रहरणस्त्रिशिराः सुमहोदरः । वैयाघ्रचर्मवसनः कपिलो माल्यविग्रहः । पिङ्गे-क्षणो ह्रस्वजङ्ङ्घो बीभत्सो बलवान् महान् ॥ पुरुषो लोकनाशार्थमसौ ज्वर इति स्मृतः ॥ ” इति भावप्रकाशे । हरिवंशेऽपि -- “ ज्वर त्रिपाद त्रिशिराः षड्भुजो नवलो -चनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ ” इति । ३ व्यापित्वात् = पुरुषपश्वादिसर्वप्राणिषु व्यापनात्, सर्वसंस्पर्शात् = देहेन्द्रिय-मनस्तापित्वात्, तदुक्तं चरके - " देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली । ज्वरः प्रधान रोगाणामुक्तो भगवता पुरा ॥ ” इति । ४ व्यापित्वादिहेतोरेव ज्वरः श्रन्तक इत्यु -पदिश्यते इति सम्बन्धनीयम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनचत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1250

सुश्रुत संहिता चौखम्बा, पृष्ठ 1250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० ९ २ सुश्रुतसंहितायां--Digitized by Arya Samaj Foundation Chennai and eGangotri

चत्वारिंशत्तमोऽध्यायः ।

अर्थातोऽतीसारप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

गुर्वेतिस्निग्धरूक्षो ष्णद्र व स्थूलातिशीतलैः ।

विरुद्धाध्यशनाजीर्णैर सात्म्यैश्चापि भोजनैः ॥ ३ ॥

स्नेहाद्यैरतियुक्तैश्च मिध्यायुक्तैर्विपाद्भयात् । [ अ ० ४० शोकाद् दुष्टाम्बुमद्यातिपानात् सात्म्यर्त्तपर्य्ययात् ॥ ४ ॥

जलातिरमणैर्वेगविघातैः कृमिदोषतः । चत्वारिंशत्तमोऽध्यायः । १ ज्वरातीसारयोरन्योन्योपद्रवाज्ज्वरप्रतिषेधानन्तरमतीसार प्रतिषेधमधिकरोति - अ-थात इति 1 । श्रतिसरणमतिसारः, ' सृ गतौ ' इत्यस्मात् ' व्याधिमत्स्यबलेषु च ' इति वार्तिकेन घञ् ‘ उपसर्गस्य घन्यमनुष्ये बहुलम् ' इति दीर्घः । “ प्रतिरत्यर्थवचने सरतिर्गतिकर्मणि । तस्मादत्यन्तसरणादतीसार इति स्मृतः ॥ ” इति तन्त्रान्तरम् । अतीसारस्योत्पत्ति-माह— “ दीर्घंसत्रेण पण यजतः पृषधस्य महात्मनः । श्रालम्म्याः पशवः क्षीणास्ततो गावः प्रकल्पिताः ॥ तासामुपाकृतानां च गवामत्यर्थ सेवनात् । श्रसात्म्यस्वादघोष्यत्वाद गौर-वाच्च विशेषतः ॥ श्रुतिस्नेहाच्च सङ्ङ्क्षीणो जाठरोऽग्निस्तदा किल । श्रतीसारः पुरो. पन्नो दोषधातुमलाश्रयः ॥ ” इति । २ अतीसारनिदानमभिदधाति - गुर्विति । गुरुमात्रया गुणतः विपाकतश्च । अतिशब्दस्य स्निग्धादिस्थूलान्तैः सह सम्बन्धः । स्थूलं = संहतावयवं लड्डुकपिष्ट-कादि । ३ विरुद्धं = संयुक्तं क्षीरमत्स्यादि । " श्रजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ” इति । अजीर्णम् = श्रमं विदग्धं च विषमम् = श्रकाल भोजनादि, तदुक्तं प्राक् – " बहु स्तोकमकाले च भुक्तं यद्विषमं हि तत् " इति । ४ श्रतियुक्तः = प्रतियोगयुक्तैः मिथ्यायुक्तैः = हीनयोगयुक्तः, विषात् = स्थावर • विषाद् दूषीविषाद्वा । ५ दुष्टयोर्व्यापन्नयोरम्बुमद्ययोरतिपानादित्यर्थः । सात्म्यतु-पर्ययात् = सात्म्यविपर्ययादृतुविपर्ययाच्च, सात्म्यविपर्ययोऽसात्म्यम्, तस्य द्वैविध्यमाह-“ द्विविधं हि सात्म्यं प्रकृतिसात्म्यमभ्याससात्म्यं च " इति । ऋतुविपर्ययः– यस्मि • नृतौ यदुचितं तस्य विपरीतः । ६ जलातिरमणैः = जलक्रीडाऽऽदिभिः, वेगविघातैः = मूत्रपुरीषादीनां वेगनिरोधनैः, क्रिमिदोषतः = क्रिमिभिः पक्कामाशयदूषणात्, क्रिमि ’ जनितवातादिप्रकोपाद्वा । CC - 0. Gurukul Kangri Collection, Haridwar