सुश्रुत संहिता चौखम्बा — पृष्ठ 1261–1270

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1261–1270

पृष्ठ 1261

सुश्रुत संहिता चौखम्बा, पृष्ठ 1261 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] Digitized by Arya Sapn Chennai and eGangotri ११०३

जीवन्तीमेषशृङ्गत्यादिष्वेवं द्रव्येषु साधयेत् ।

तित्तिरिं लुञ्चितं सम्यक् निःकृष्टान्त्रन्तु पूरयेत् ॥ ८४ ॥

न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत् ।

रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ॥ ८५ ॥

शर्करोहितं शीतं पायये तोदरामये ।

लोध्रचन्दनयष्टयाहृदावपाठासितोत्पलान् ॥ ८६ ॥

तण्डुलोदकसम्पिष्टान् दीर्घवृन्तत्वगन्वितान् ।

पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम् ॥ ८७ ॥

मध्वाक्तम्पाययेच्चैतत्कफपित्तोदरामये ।

एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ॥ ८८ ॥

पुटपाकान् यथायोगं जाङ्गलो हितान् शुभान् ।

बहुश्लेष्म सरक्तञ्च मन्दवातं चिरोत्थितम् ॥ ८ ९ ॥

कौटजं फाणितं वाऽपि हन्त्यतीसारमोजैसा ।

अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ॥ ९ ० ॥

पृश्निपर्णीबलाबिल्व ' ' बालकोत्पलधान्यकैः । कूलयेत् == पाचयेदित्यर्थः । १ जीवन्ती = उत्तरापथे महाकन्दा कर्कोटिका सदृशपत्रेति ढल्हणः । मेषशृङ्गी = ' मेटासिंगी ' इति ख्याता । श्रादिशब्दात् पाठाशय्यादयो ग्राह्याः । २ तित्तिरिं कृष्णतित्तिरि सम्यक् लुञ्चितं चञ्चुपक्षादिकमपसारितं निःकृष्टान्त्रं न्यग्रोधा-` दित्वचां कल्कैः कोष्ठं पूरयित्वा पूर्ववत् काश्मरीपद्मपत्रावेष्टनादिपूर्वकमवकूलयेत्, खदि-राङ्गारेषु पाचयेदित्यर्थः । ३ शर्करा उपहितं संसृष्टं शर्करोपहितम् । ४ दावों = दारुहरिद्रा, पाठा = ' पाढ ' इति ख्याता, सितोत्पलं = कुमुदपुष्पम् । ५ दीर्घवृन्तः = श्योनाकः । ६ पू र्ववस्कूलितान् = पुटपाक विधिना पक्वानित्यर्थः । ७ वटादीनां = द्रव्यसङ्ग्रहणीया. ध्याये न्यग्रोधवर्गोक्तानाम् । ८ जाङ्गलोपहितान् = लावकपिञ्जलादिजाङ्गलमांस संशृष्टा • नित्यर्थः । ९ श्रोज़सा = स्वशक्त्या । फाणितकल्पना – श्वेतपुष्प चिक्कणपत्रस्य कुटजस्य वल्कलमादाय षोडशगुणे अष्ट-गुणे चतुर्गुणे वा जले क्वाथयेत्, ततोऽर्घावशिष्टं क्वाथमादाय वस्त्रेण गालयित्वा पुनः पक्वफाणिताकृतिसमं पचेत्, ततस्तत्र चतुर्थांशमम्बष्ठ | दिमधुपिप्पल्या दिचूर्णं प्रक्षिप्य श्रवतारयेदिति । १० बिश्वम् = श्रमबिल्व फलम्, बालकं = ' नेत्रवाला ' इति ख्यातम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1262

सुश्रुत संहिता चौखम्बा, पृष्ठ 1262 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११०४ Digitized by Arya Sar सुश्रुतसहिताया arand eGangotri [ अ ० ४० सनागरैः पिबेत् पेयां साधितामुदरामयी ॥ ९ १ ॥

अलुत्वप्रियच मधुकं दाडिमाङकुरान् ।

आवाप्य पिष्ट्वा दधनि यवागूं साधयेद् द्रवाम् ॥ ९ २ ॥

एष सर्वानतीसारान् हन्ति पक्वानसंशयम् ।

रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ॥ ९ ३ ॥

धातकीनागरचैव पाययेत्तण्डुलाम्बुना ।

सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ॥ ९ ४ ॥

मधुकं बिल्वपेशीच शर्करामधुसंयुता ।

अतीसारं निहन्युश्च शालिषष्टिकयोः कणः ॥ ९ ५ ॥

तद्वल्लीढं मधुयुतं बदरीमूलमेव तु ।

बदर्य्यर्जुनं जम्ब्वाम्रशल्लकीवेतसत्वचः ॥ ९ ६ ॥

शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम् ।

‘ एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ॥ ९ ७ ॥

पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् ।

कृतं शाल्मलिवृन्तेषु कषायं हि संज्ञितम् ॥ ९ ८ ॥

निशापर्यपितं पेयं सक्षौद्रं मधुकान्वितम् ।

विबद्धवातविट " शूलपरीतः सप्रवाहिक: ॥ ९९ ॥

सरक्तपित्तश्च ' ' पयः पिवेत् तृष्णासमन्वितः ।

यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ॥ १०० ॥

: = बद ० १ दाडिमाङ्कुरान् = दाडिमकोमलपत्राणीत्यर्थः । २ " थवागूः षड्गुणे तोये संसिद्धा घनसिक्थका ” इत्यादिविधिना साधयेदित्यर्थः । ३ एषा • यवागूः 1 ४ स्वक = ' दा · ' लचीनी ' इति, कौटजं बीजम् = इन्द्रयवाः । ५ बिल्व पेशी = बिल्वशलाङ । ६ कणाः = शालिषष्टिकतण्डुलयोः सूक्ष्मांशाः, शर्करामधुसंयुता इत्यस्य अत्रापि सम्बन्धः । ७ अ. र्जुनः - ककुभः, ' काहू ' इति ख्यातः । शल्लकी = शल्लकीद्रुमः । = एतैः = र्यादिभिरेव, षडान् = पेयाविशेषान्, दाडिमगोरसादिना घनपल्लव फलादिभिः कृतान् । ९ हिमसंज्ञितं = शीतं कषायमित्यर्थः । अस्य विधिर्यथा - यावद् द्रव्यचूर्णं ताव -ज्जलेऽहोरात्रं संस्थाप्य मृदितं वस्त्रगालितं पलचतुष्टयं मधु कर्षप्रमाणं यष्टीमधु च श्रवाप्य पेयमिति । १० विबद्धवातविट् = अवरुद्धवातपुरीषः । ११ रक्तेन पित्तन च CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1263

सुश्रुत संहिता चौखम्बा, पृष्ठ 1263 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११०१

चिरोत्थितेषु तत् पेयमपाम्भागैस्त्रिभिः शृतम् ।

दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् ॥ १०१ ॥

हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये ।

पिच्छिलेवरसे सिद्धं हितञ्च घृतमुच्यते ॥ १०२ ॥

शकृता यस्तु संसृष्टमतिसार्येतै शोणितम् ।

प्राक् पञ्चाद्वा पुरीषस्य सरुक् सपरिकर्त्तिकः ॥। १०३ ॥

क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम् ।

दावे पिप्पलीशुण्ठीलाक्षाशक्रयवैर्धृतम् ॥ १०४ ॥

संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम् ।

त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् ॥ १०५ ॥

गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः ।

ज्वरे दाहे सविड्बन्धे मारुताद्रक्तपित्तवत् ॥ १०६ ॥

सम्पक्वे बहुदोषे च विबन्धे मूत्रशोधनैः ।

कार्यमास्थापनं " क्षिप्रं तथा चैवानुवासनम् ॥ १०७ ॥

प्रवाहणे " गुदभ्रंशे मूत्राघाते कटिहे । सहितः सरक्तपित्तः, रक्तपित्तातिसारीत्यर्थः । १ पिच्छिला बस्तयो निरूहक्रमचिकि-त्सितेऽभिहिताः । २ पिच्छिलानां श्योनाकशात्मल्यादीनां स्वरसे इत्यर्थः । ३ यस्तु शकृता पुरी • घेण संसृष्टं मिलितं शोणितमतिसार्येतेति सम्बन्धः । ४ परिकर्तिका नस्तिगुद मेढेषु परि-कर्तनवद्वेदनाविशेषः, तत्सहितः सपरिकर्तिक इत्यर्थः । ५ क्षीरिणः न्यग्रोधोदुम्बरा-श्वत्थपारिषप्लक्षपादपाः, तेषां शुङ्गाः नवपत्राङ्कुराः । ६ दावत्वक् = दारुहरिद्रात्वक्, शक्रयवाःइन्द्रयवाः । ७ भद्र रोहिणी = कटुरोहिणो, ' कुटकी ' इति ख्याता । पेया-ऽऽदिमिश्रितं पेयायवागूप्रभृतिभिः ससृष्टम् । अत्र घृते दावखगादिभद्ररोहिणीपर्य-न्तानां द्रव्याणां कल्कः, जलं चतुर्गुणम् । ८ अतिसारे पक्वावस्थायामपि वमनमुपदिशति - गौरव हति । गौरवे उदरगु-रुतायां रक्तपित्तवद् यथा रक्तपित्तेऽधोगते वमनं तथा गौरवादियुक्ते अतिसारेऽपि यस्य पुरुषस्य प्रबलः कफः स्यात्, मारुतात्सविड्बन्धे ज्वरे दाहे च वमनमिति योजनीयम् । ९ अतीसारे बस्तियोगान्निर्दिशति - सम्पक्व इति । मूत्रशोधनैः = : = तृणपञ्च-मूल्यादिभिरित्यर्थः । १० आस्थापनं = निरूहः । ११ गुदभ्रंशे = गुदनिःसरणे । ७० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1264

सुश्रुत संहिता चौखम्बा, पृष्ठ 1264 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११०६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४० मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् ॥ १०८ ॥

गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः ।

तस्य पित्तहराः सेकोस्तत्सिद्धाश्चानुवासनाः ॥ १० ९ ॥

दधिमण्डसुराबिल्वसिद्धं तैलं समारुते ।

भोजने च हितं क्षीरं कच्छु मूलसाधितम् ॥ ११० ॥

अल्पाल्पं बहुशो रक्तं संरुग्य उपवेश्यते ।

यदा वायुर्विद्धश्च पिच्छाबस्तिस्तदा हितः ॥ १११ ॥

प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम् ।

भवेत् तस्माद्धितं तेषां गुदे तैलावचारणम् ॥ ११२ ॥

कपित्थशाल्मलीफञ्जीवट कार्पास दाडिमाः ।

यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः ॥ ११३ ॥

शालपर्णी पृश्निपर्णी बृहती कण्टकारिका । 10 बला " वदंष्ट्रा बिल्वानि पाठानागारधान्यकम् ॥। ११४ ॥ एष " आहारसंयोगे हितः सर्वातिसारिणाम् । १२ तिलकल्को हितश्चात्र मौद्रो मुहरसस्तथा ॥ ११५ ॥

१ मधुराः काकोल्यादयः, अम्लाः बीजपूरककपित्थचुक्रकाञ्जिकादयः तैः । २ क्षीरे. क्षुरसशर्करोदकमधुरौषचकषायकृताः सेका इत्यर्थः । तत्सिद्धाः पित्त इरद्रव्यसाधिताः । ३ कच्छुरा ' जवासा ' इति ख्याता, तन्मूलसाधितं क्षीरमित्यर्थः । ४ सरुग्वेदनास • हितम्, यः पुरुष उपवेश्यते श्रुतिसार्यते । ५ गुददौर्बल्य चिकित्सामाह - प्रायेणेति । ६ पिचुसेकानुवासनैस्तैलावचारण मित्यर्थः । ७ अतीसारे शूलोपद्रवचिकित्सामा ख्याति - कपित्थेति । फजी - भा. - चुच्चूः = सुनिषण्णकशाकः, दाधिकाः = दध्ना संस्कृताः, कपित्थादिचुच्चू. पर्यन्ता दधना संस्कृता हिवा इत्यर्थः । गौं । ८ ९ श्राहारोपयोगिद्रव्याणि दर्शयति- शालेति । शालपर्णी = ' सरवन ' इति ख्या-ता, पृश्निपर्णी = ‘ पिठवन ' इति ख्याता, बृहती = स्वल्पफला कण्टकारी, कण्टकारिका -बृद्दत्फला कण्टकारी । १० श्वदंष्ट्रा = गोक्षुरकः । ११ एषः = दशाङ्गत्वेन प्रसिद्धः शालपर्ण्यादिः । भक्तादिसाधने द्रवप्रमाणमुक्तं तन्त्रान्तरे - " भक्तं पञ्चगुणे तोये यवागू षड्गुणे पचेत् । चतुर्दशगुणे पेयां विलेपीं च चतुर्गुणे ॥ ” इति । १२ मौद्गः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1265

सुश्रुत संहिता चौखम्बा, पृष्ठ 1265 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११०७ पित्तातिसारी यो मत्यः पित्तलान्यतिषेवते ॥ पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ॥ ११६ ॥

ज्वरं शूलं तृषां दाहं गुदपाकञ्च दारुणम् ।

योर रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ॥ ११७ ॥

स पल्लवैर्वटौदीनां ससर्पिः साधितं पयः ।

पिवेत् सशर्कराक्षौद्रमथवाऽप्यभिमथ्य तत् ॥ ११८ ॥

नवनीतमथो लिह्यात्तक्रं चानुपिवेत्ततः ।

प्रियालशाल्मलीप्लक्षशल्लकी तिनित्वचः ॥ ११ ९ ॥

क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः ।

मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम् ॥ १२० ॥

पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् ।

मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् ॥ १२१ ॥

पिबेत् " पद्माञ्च दुग्धेन छागेनासृक्प्रशान्तये ।

' शैर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः ॥ १२२ ॥

तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च ।

तिला मोचरसो १२ लोध्रं तथैव मधुकोत्पलम् ॥। १२३ ॥

कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च ।

आजैन पयसा पेयाः सरक्ते मधुसंयुताः ॥ १२४ ॥

द्रवे सरक्त स्रवति बालबिल्वं सफाणितम् ।

सक्षौद्रतैलं " प्रागेव लिह्यादाशु हितं हि तत् ॥ १२५ ॥

मुद्गस्य कल्कः । १ पित्तलाद्यन्नपानादीनीत्यर्थः । २ रक्तातीसारचिकित्सामाचष्टे - य इति । ३ वटादीनां = न्यग्रोधादिपादपानाम् । ४ तत् = क्षीरम्, अभिमध्य = विलोडयेत्यर्थः । ५ क्षीर विलोडनादुत्पन्नं नवनीत-मित्यर्थः । ६ ' तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ' इत्यमरः । ' त्वच ' इति प्रियालादिभिः सर्वैः सह सम्बध्यते । ७ श्रजाक्षीरे इत्यर्थः । विमृदिताः = विलो-डिताः । ८ पयस्या = अर्कपुष्पी । ९ पद्मकं = पद्मकाष्ठम्, कुमुदं = श्वेतकम-लम्, ' कोई ' इति ख्यातम्, उत्पलं = नीलोत्पलम् । १० पद्मा = भाग, लवङ्गमित्यन्ये । ११ श्लोकाघेंन चतुरो योगान् दर्शयति - शर्करेति । समङ्गा अत्र वराइक्रान्ता । १२ मोचरसः = शाल्मलीनिर्यासः । १३ कच्छुरा = ' जवासा ' इति ख्याता । १४ प्राकू = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1266

सुश्रुत संहिता चौखम्बा, पृष्ठ 1266 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-११०८ Digitized by Arya Samaj Foundation Chennai and eGangotri | अ ० ४०

कोशकारं घृते भृष्टं लाजचूरण सिता मधु ।

सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् ॥ १२६ ॥

बिल्वमेध्यं समधुकं शर्कराक्षौद्रसंयुतम् ।

तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् ॥ १२७ ॥

योगान् साङ्ग्राहिकांश्चान्यान् पिबेत् सक्षौद्रशर्करान् ।

न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् ॥। १२८ ॥।

ग्रुदपाके च य उक्तास्तेऽत्रापि विधयः स्मृताः ।

रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् ॥। १२ ९ ॥

संक्तविङ् दोषबहुलं दीप्ताग्निर्थोऽतिसार्य्यते ।

विडङ्गत्रिफला कृष्णाकपायैस्तं विरेचयेत् ॥ १३० ॥

अथवैरण्डसिद्धेन पयसा केवलेन वा ।

यव गर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः ॥ १३१ ॥ ॥

दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् ।

स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् ॥ १३२ ॥

स्विन्नानि गुडतैलाभ्यां भक्षयेद्वदराणि च ।

स्विन्नानि पिष्टद्वाऽपि समं बिल्वशलाटुभिः ॥ १३३ ॥

दध्नोपयुज्य कुल्माषन् श्वेतामनुपिवेत् सुराम् । भोजनात्पूर्वमेव । १ कोशकारः = इक्षुभेदः । कोशकारो नाम कौशेयवत्रोपादानभूत-तन्तूत्पादकः कीटविशेष इति सुश्रुतार्थसन्दीपनम् । २ बिल्वमध्यं बिल्वफल मध्य • मज्जा । ३ ये = सेकप्रभृतयः । ४ श्रतीसारे अवस्थावशेन विरेचनकर्म निरूपयति - सक्तेति । सक्तविट् = अवरुद्धपुरीषः । ५ कृष्णा = पिप्पली । ६ विरेचनानन्तरं कर्तव्यतामुपदिशति-यवागूरिति । वातघ्नैदीपनैः = शालपर्णीप्रभृतिभिः । ७ निःसारक सन्ज्ञकस्य चिकि-सामाह- - दीप्ताग्निरिति । निष्पुरोषः = क्षीणपुरोषः । ८ पिष्टवत् = पिष्टस्वेदनविधिनेत्यर्थः । तद्विधिरभिहितस्तन्त्रान्तरे – “ अनैकच्छि • द्रसंयुक्तशारावेण पिधाय च । जलार्धपूरितां स्थाल चुल्ल्यामुपरि विन्यसेत् ॥ स्वे द्यानि द्रव्यजातानि शरावेऽस्मिन्निधाय च । श्राच्छाद्यान्यशरावेण ज्वालां तावत्प्रदाप-येत् ॥ स्विन्नानि तानि यावत् स्युः पिष्टस्वेदे त्वयं विधिः । " इति । ९ कुश्माषः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1267

सुश्रुत संहिता चौखम्बा, पृष्ठ 1267 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४० ]

उत्तरतन्त्रम् ।

शशमांसं सरुधिरं समङ्गां सघृतं दधि॒ ॥ १३४ ॥

खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षेये ।

संस्कृतो यमके माषयवकोलरसः शुभः ॥ १३५ ॥

भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः ।

विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् ॥ १३६ ॥

दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः । सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते । ११० ९ सं पिबेद्दीपनैर्युक्तं सर्पिः सङ्ग्राहकैः सह ॥ १३७ ॥

वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य ।

प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ॥ १३८ ॥

प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च ।

सशोणिता शोणितसम्भवा तु ताः स्नेहरूक्षप्रभवा मतास्तु ॥ १३ ९ ॥

तासामतीसारवदादिशेच्च ' " लिङ्गं क्रमं चामविपक्वताञ्च । ¿ यावकः, " अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः । कुल्माषा इति कथ्यन्ते शब्द-शास्त्रेषु पण्डितैः ॥ ” इति तल्लक्षणम् । श्वेतां सुरां पैष्टीमित्यर्थः । १ समङ्गां = लज्जालुम् । २ शकृतः क्षये = त्रिष्ठाक्षये इत्यर्थः । ३ यमके = घृततैले, माषयवकोलरसः = माषादियुषः । ४ सरः = दध्न उपरितनो भागः । ५ यः = क्षीणपुरीषः पुरुषः । ६ स दीपनैश्चित्रकादिभिर्युक्तं सग्राहकैर्धातकी बिल्वशलाङ • प्रभृतिभि: सह सर्पिः पिबेत् । ७ अतिसारप्रभेदप्रवाहिकायाः सम्प्राप्तिपूर्वकं लक्षणमाइ - वायुरिति । श्रहिता-शनस्य अतिशयेन वातलभक्ष्यभोजिनो वायुः प्रवृद्ध:, प्रवाहमाणस्य प्रवाहणं कुर्वतः निचितं सञ्चितं बलासं कफं, बलासस्योपलक्षणत्वात् पित्तं रक्तं वा मलाक्तं पुरोषयुक्तं मुहुर्वारं वारम् अधस्ताद् नुदति गुदमार्गेण पातयति, तज्ज्ञा वैद्यास्तां प्रवादिकां प्रवद-न्तीत्यर्थः । अतीसारे अनेकविधद्रवधातुसरणं, प्रवाहिकायां तु कफमात्र सरणमिति तयो. भेदः । भोजादौ वियं विस्रंसीति नाम्ना पठ्यते । ८ ] वातादिभेदेन प्रवाहिकालक्षणं दर्शयति – प्रवाहिकेति । ९ ताः - प्रवा. द्विकाः, स्नेहरूश्चप्रभवाः स्नेहप्रभवाः कफजाः, रूक्षप्रभवा वातजाः, तुशब्दात् तीक्ष्णो. ष्णप्रभवाः पित्तजा रक्तजा च । १० तासां चतसृणां प्रवाहिकाणाम् अतिसारवत् लिङ्गं प्रागुक्तप्रवाद्दिकालक्षणतः अधिकं लक्षणम् श्रामविपक्कभेदेन क्रमं चिकित्साक्रमं च CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1268

सुश्रुत संहिता चौखम्बा, पृष्ठ 1268 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११० Digitized by Arya कुलरसंहिता यां emmei and eGangotri [ अ ० ४० नै शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा ॥ १४० ॥

तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिल बस्तयश्च । औद्रैः कुशैः सम्परिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् १४१

पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत ।

क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि ॥ १४२ ॥

बस्ति विदध्याद्भिषगप्रमत्तः प्रवाहिका मूत्रपुरीषसङ्गे ।

द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण ॥ १४३ ॥

क्षीरेण चास्थापनमप्रयमुक्तं तैलेन युञ्ज्यादनुवासनञ्च ।

वातघ्नवर्गे लवणेषु चैव तैलञ्च सिद्धं हितमन्नपाने ॥ १४४ ॥

लोध्रं विडं बिल्वशर्लाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम् ।

दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चाकपीडितस्तु ॥ १४५ ॥

सुतप्तकुप्यथितेन १० वाऽपि चीरेण शीतेन मधुप्लुतेन ।

शूलार्दितो " व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः ॥१४६ ॥

वातघ्नसङ्ग्राह्कदीपनीयैः १२ कृतान पडांश्चाप्युपभोजयेच्च ॥

खादेच्च मत्स्यान् १३ रस माप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् ॥१४७ ॥

आदिशॆदित्यर्थः । १ लङ्घनाद्युपक्रमैः प्रवाहिकाया अप्रशमे चिकित्सितमभिधत्ते - नेति । उदोर्णा = उत्कटा, पाचनैर्योगे रिति सम्बन्धः । २ पिच्छाबस्तिविधिं वक्ति आद्वैरिति । ३ हविः = घृतम् । ४ पिच्छा बस्तिमित्यर्थः । ५ अवस्थावशेन आस्थापनानुवासने उपदिशति - द्विपञ्चेति । द्विपञ्चमूली = दशमूली । ६ तैलेन = दशमूलीक्काथे क्षीरे च सिद्धतैलेनेत्यर्थः । ७ अन्नसंस्कारार्थे पानार्थे च तैलमभिदधाति - वातव्नेति । विदारिगन्धादौ वातघ्नवर्गे, लवणेषु सैन्धवादिषु । ८ बिल्वशलाटु = कोमलं बिल्वफलम् । ९ नि-श्चारको निःसारकसंज्ञको वा पुरीषक्षयापरपर्यायः प्रवाहिकाभेदस्तेन पीडितः पुरुषः ससारेण दध्नः उपरितनस्निग्धभाग सराख्य सहितेन, समाक्षिकेण मधुसहितेन दध्ना सह भुञ्जीतेत्यर्थः । १० कुप्यं सुवर्णरूप्येतरलोइं, सुतप्तकुप्यप्रक्षेपेण क्वथितं पाचित-मिति सुतप्तकुप्यक्कथितं तेन क्षीरेणेत्यर्थः । ११ व्योषं - त्रिकटुकम् । १२ वातघ्नानि शालपर्ण्यादीनि, सङ्ग्राहकाणि बिल्वपाठाप्रभृतीनि दीपनीयानि चित्रकशुण्ठयादीनि तैः कृतान साधितान् षढान् दाडिमगोरसादानघनान् । १३ रसं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1269

सुश्रुत संहिता चौखम्बा, पृष्ठ 1269 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ११११

एाव्यजानान्तु वटप्रवालैः सिद्धानि सार्द्धं पिशितानि खादेत् ।

मेध्यस्य सिद्धन्त्वथ वाऽपि रक्तं वस्तस्य दध्ना घृततैलयुक्तम् ॥१४८ ॥

खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः ।

माषान्सुसिद्धान्घृतमण्डयुक्तान्खादेच्च दध्ना मरिचोपदंशान् ॥१४ ९ ॥

महारुजे मूत्रकृच्छ्रे भिषग्वस्ति प्रदापयेत् ।

पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् ॥ १५० ॥

सवस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् ।

मधुरौषधसिद्धञ्च हितं तस्यानुवासनम् ॥ १५१ ॥

रात्रावहनि वा नित्यं हजार्त्तो यो भवेन्नरः ।

यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा ॥ १५२ ॥

प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका ।

तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् ॥ १५३ ॥

पाठाऽजमोदा कुजोत्पलं च शुण्ठीसमा मागधिकाश्च पिष्टाः ।

सुखाम्बुपीताः शमयन्ति रोगं " मेध्याण्ड सिद्धं सघृतं पयो वा ॥ १५४ ॥

शुण्ठीं घृतं १ सक्षवकं सतैलं विपाच्य लीढ्वाऽऽमयमाशु हन्यात् । विष्किरवर्गाभिहितमांसरसम्, आप्नुयात् = पिवेदित्यर्थः । १ एणः कृष्णसारो मृगः, अविर्मेषः, अजा छगल:, तेषां पिशितानि मांसानि वटप्रवालैः सह सिद्धानि खादेदित्यर्थः । २ मेध्यस्य यज्ञार्हस्य बस्तस्य रक्तं घृततैलभृष्टं दध्ना सिद्धं संस्कृतं खादेदिति योज्यम् । सुश्रुतार्थं सन्दीपनकारस्तु - घृततैलयुक्तं घृततैलाभ्यां संस्कृतं मेध्यस्य खड्गिप्रभृतेः सिद्धं प्रागुक्तैणादिपिशित साधन साहचर्याद् वटप्रवालैः सह पक्कं मांसं बस्तस्य रक्तं वा दध्ना खादेदिति व्याख्याति । ३ पाकेन घनीभूता रसाः प्रदेहास्तै-रित्यर्थः। ४ मरिचोपदंशान् === मरिचावचूर्णितान् । ५ निरूइबस्तिमित्यर्थः । ६ म-धुकं = यष्टीमधु, उत्पलं = नीलोत्पलम् । ७ निरूइबस्तिमुक्त्वाऽनुवासनबस्ति ब्रवीति — मधुरेति । मधुरौषधानि काको-त्यादीनि तैः सिद्धम् । अनुवासनेत शीलिततैलः सतैलः । ९ कुटजः -इन्द्रयवाः, उत्पलं = नीलोत्पलम् । १० मेध्याण्डसिद्धं = छागाण्डसिद्धम् । ११ क्षवकः = ‘ नकछिकनी ' इति ख्यातः । शुण्ठीक्षवकयोः कल्कं घृततैले यमके अवलेहविधिना विपाच्य लीवा प्रवाहिकाऽऽख्यमामयमाशु हन्यादित्यर्थः । अत्र शुण्ठोक्षवकयोरर्द्ध CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1270

सुश्रुत संहिता चौखम्बा, पृष्ठ 1270 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११२ Digitized by Arya Samaj संहितायां nd eGangotri [ अ ० ४० गजानाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदनि ॥ १५५ ॥

बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम् ।

लघूनि पध्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु ॥१५६ ॥

हिताय नित्यं वितरेद्विभज्य योगश्च तांस्तान् भिषगप्रमत्तः ॥ १५७ ॥

तृष्णाऽपनयनी लघ्वी दोपनी बस्तिशोधनी ।

ज्वरे चैवातिसारे च यवागूः सर्वदा हिता ॥ १५८ ॥

रौक्ष्याज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे ।

भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी ॥ १५ ९ ॥

विषाःकृमिसम्भूते हिता चोभय शर्मदा ॥

छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः ॥ १६० ॥

समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत् ।

ज्वरे चैवातिसारे च सर्वत्रान्यंत्र मारुतम् ॥ १६१ ॥

यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति ।

दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ॥ १६२ ॥

कर्मजा " व्याधयः केचिद् दोषजाः सन्ति चापरे । घृतं तैलं च, जलं तु चतुर्गुणं बोध्यम् । १ गजाशना = शल्लकी, कुम्भिका - वारिपण, " वारिपणों बृहत्पत्रा कुम्भिकेति प्रकीर्तिता ” इति, गजाशनादीनां रसैः क्कायैः बिल्वान्त्रिता बिल्वगर्भयुक्ता तैलघृते संस्कृता दध्नि सिद्धा यवागूः पथ्यतमेत्यर्थः । २ उदरामयेषु = अतीसारप्रवाहिका-ख्येषु । ३ लघुदीपनस्निग्धान् योगानित्यर्थः । ४ तृष्णाऽपनयनी = पिपासाशम. नीत्यर्थः । ५ सान्त्वना पूर्वा = भयापहवाक्यादिप्रयोगपूर्वा । ६ उभयशर्मदा = विषादिहरा अतीसारदरा चेत्यर्थः । ७ श्रविरोधतः = अ • ती साराविरोधेन । ८ श्रन्यत्र = ज्वरातीसारातिरिक्तेषु अन्येषु रोगेष्वित्यर्थः । ९ अ तिसारनिवृत्तिलक्षणमुपदिशति - यस्येति । यस्यातिसारिणः उच्चारं पुरीषं विना मूत्रं प्रवर्तते, सम्यक् प्रवृत्तिशङ्कारहितं वायुश्च गच्छति, गुदेनेति शेषः । दीप्ताग्नेः प्रवृद्धजठरानलस्य लघुकोष्ठस्य तस्यातिसारिणः उदरामयोऽतिसारः स्थितो गतः, निवृत्त इत्यर्थः । १० कर्मजादिभेदेन रोगस्य त्रैविध्यं दर्शयति - कर्मजा इति । कर्मजाः = पूर्वं. जन्मकृतपापोत्पन्नाः, तदुक्तं शातातपीये – ' पूर्वजन्मकृतं पापं नरकस्य परिक्षये । बाधते CC - 0. Gurukul Kangri Collection, Haridwar