सुश्रुत संहिता चौखम्बा — पृष्ठ 1261–1270
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1261–1270
पृष्ठ 1261
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] Digitized by Arya Sapn Chennai and eGangotri ११०३
जीवन्तीमेषशृङ्गत्यादिष्वेवं द्रव्येषु साधयेत् ।
तित्तिरिं लुञ्चितं सम्यक् निःकृष्टान्त्रन्तु पूरयेत् ॥ ८४ ॥
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत् ।
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ॥ ८५ ॥
शर्करोहितं शीतं पायये तोदरामये ।
लोध्रचन्दनयष्टयाहृदावपाठासितोत्पलान् ॥ ८६ ॥
तण्डुलोदकसम्पिष्टान् दीर्घवृन्तत्वगन्वितान् ।
पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम् ॥ ८७ ॥
मध्वाक्तम्पाययेच्चैतत्कफपित्तोदरामये ।
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ॥ ८८ ॥
पुटपाकान् यथायोगं जाङ्गलो हितान् शुभान् ।
बहुश्लेष्म सरक्तञ्च मन्दवातं चिरोत्थितम् ॥ ८ ९ ॥
कौटजं फाणितं वाऽपि हन्त्यतीसारमोजैसा ।
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ॥ ९ ० ॥
पृश्निपर्णीबलाबिल्व ' ' बालकोत्पलधान्यकैः । कूलयेत् == पाचयेदित्यर्थः । १ जीवन्ती = उत्तरापथे महाकन्दा कर्कोटिका सदृशपत्रेति ढल्हणः । मेषशृङ्गी = ' मेटासिंगी ' इति ख्याता । श्रादिशब्दात् पाठाशय्यादयो ग्राह्याः । २ तित्तिरिं कृष्णतित्तिरि सम्यक् लुञ्चितं चञ्चुपक्षादिकमपसारितं निःकृष्टान्त्रं न्यग्रोधा-` दित्वचां कल्कैः कोष्ठं पूरयित्वा पूर्ववत् काश्मरीपद्मपत्रावेष्टनादिपूर्वकमवकूलयेत्, खदि-राङ्गारेषु पाचयेदित्यर्थः । ३ शर्करा उपहितं संसृष्टं शर्करोपहितम् । ४ दावों = दारुहरिद्रा, पाठा = ' पाढ ' इति ख्याता, सितोत्पलं = कुमुदपुष्पम् । ५ दीर्घवृन्तः = श्योनाकः । ६ पू र्ववस्कूलितान् = पुटपाक विधिना पक्वानित्यर्थः । ७ वटादीनां = द्रव्यसङ्ग्रहणीया. ध्याये न्यग्रोधवर्गोक्तानाम् । ८ जाङ्गलोपहितान् = लावकपिञ्जलादिजाङ्गलमांस संशृष्टा • नित्यर्थः । ९ श्रोज़सा = स्वशक्त्या । फाणितकल्पना – श्वेतपुष्प चिक्कणपत्रस्य कुटजस्य वल्कलमादाय षोडशगुणे अष्ट-गुणे चतुर्गुणे वा जले क्वाथयेत्, ततोऽर्घावशिष्टं क्वाथमादाय वस्त्रेण गालयित्वा पुनः पक्वफाणिताकृतिसमं पचेत्, ततस्तत्र चतुर्थांशमम्बष्ठ | दिमधुपिप्पल्या दिचूर्णं प्रक्षिप्य श्रवतारयेदिति । १० बिश्वम् = श्रमबिल्व फलम्, बालकं = ' नेत्रवाला ' इति ख्यातम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1262
पाठ पढ़ें पाठ छिपाएँ
११०४ Digitized by Arya Sar सुश्रुतसहिताया arand eGangotri [ अ ० ४० सनागरैः पिबेत् पेयां साधितामुदरामयी ॥ ९ १ ॥
अलुत्वप्रियच मधुकं दाडिमाङकुरान् ।
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद् द्रवाम् ॥ ९ २ ॥
एष सर्वानतीसारान् हन्ति पक्वानसंशयम् ।
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ॥ ९ ३ ॥
धातकीनागरचैव पाययेत्तण्डुलाम्बुना ।
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ॥ ९ ४ ॥
मधुकं बिल्वपेशीच शर्करामधुसंयुता ।
अतीसारं निहन्युश्च शालिषष्टिकयोः कणः ॥ ९ ५ ॥
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु ।
बदर्य्यर्जुनं जम्ब्वाम्रशल्लकीवेतसत्वचः ॥ ९ ६ ॥
शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम् ।
‘ एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ॥ ९ ७ ॥
पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् ।
कृतं शाल्मलिवृन्तेषु कषायं हि संज्ञितम् ॥ ९ ८ ॥
निशापर्यपितं पेयं सक्षौद्रं मधुकान्वितम् ।
विबद्धवातविट " शूलपरीतः सप्रवाहिक: ॥ ९९ ॥
सरक्तपित्तश्च ' ' पयः पिवेत् तृष्णासमन्वितः ।
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ॥ १०० ॥
: = बद ० १ दाडिमाङ्कुरान् = दाडिमकोमलपत्राणीत्यर्थः । २ " थवागूः षड्गुणे तोये संसिद्धा घनसिक्थका ” इत्यादिविधिना साधयेदित्यर्थः । ३ एषा • यवागूः 1 ४ स्वक = ' दा · ' लचीनी ' इति, कौटजं बीजम् = इन्द्रयवाः । ५ बिल्व पेशी = बिल्वशलाङ । ६ कणाः = शालिषष्टिकतण्डुलयोः सूक्ष्मांशाः, शर्करामधुसंयुता इत्यस्य अत्रापि सम्बन्धः । ७ अ. र्जुनः - ककुभः, ' काहू ' इति ख्यातः । शल्लकी = शल्लकीद्रुमः । = एतैः = र्यादिभिरेव, षडान् = पेयाविशेषान्, दाडिमगोरसादिना घनपल्लव फलादिभिः कृतान् । ९ हिमसंज्ञितं = शीतं कषायमित्यर्थः । अस्य विधिर्यथा - यावद् द्रव्यचूर्णं ताव -ज्जलेऽहोरात्रं संस्थाप्य मृदितं वस्त्रगालितं पलचतुष्टयं मधु कर्षप्रमाणं यष्टीमधु च श्रवाप्य पेयमिति । १० विबद्धवातविट् = अवरुद्धवातपुरीषः । ११ रक्तेन पित्तन च CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1263
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११०१
चिरोत्थितेषु तत् पेयमपाम्भागैस्त्रिभिः शृतम् ।
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् ॥ १०१ ॥
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये ।
पिच्छिलेवरसे सिद्धं हितञ्च घृतमुच्यते ॥ १०२ ॥
शकृता यस्तु संसृष्टमतिसार्येतै शोणितम् ।
प्राक् पञ्चाद्वा पुरीषस्य सरुक् सपरिकर्त्तिकः ॥। १०३ ॥
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम् ।
दावे पिप्पलीशुण्ठीलाक्षाशक्रयवैर्धृतम् ॥ १०४ ॥
संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम् ।
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् ॥ १०५ ॥
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः ।
ज्वरे दाहे सविड्बन्धे मारुताद्रक्तपित्तवत् ॥ १०६ ॥
सम्पक्वे बहुदोषे च विबन्धे मूत्रशोधनैः ।
कार्यमास्थापनं " क्षिप्रं तथा चैवानुवासनम् ॥ १०७ ॥
प्रवाहणे " गुदभ्रंशे मूत्राघाते कटिहे । सहितः सरक्तपित्तः, रक्तपित्तातिसारीत्यर्थः । १ पिच्छिला बस्तयो निरूहक्रमचिकि-त्सितेऽभिहिताः । २ पिच्छिलानां श्योनाकशात्मल्यादीनां स्वरसे इत्यर्थः । ३ यस्तु शकृता पुरी • घेण संसृष्टं मिलितं शोणितमतिसार्येतेति सम्बन्धः । ४ परिकर्तिका नस्तिगुद मेढेषु परि-कर्तनवद्वेदनाविशेषः, तत्सहितः सपरिकर्तिक इत्यर्थः । ५ क्षीरिणः न्यग्रोधोदुम्बरा-श्वत्थपारिषप्लक्षपादपाः, तेषां शुङ्गाः नवपत्राङ्कुराः । ६ दावत्वक् = दारुहरिद्रात्वक्, शक्रयवाःइन्द्रयवाः । ७ भद्र रोहिणी = कटुरोहिणो, ' कुटकी ' इति ख्याता । पेया-ऽऽदिमिश्रितं पेयायवागूप्रभृतिभिः ससृष्टम् । अत्र घृते दावखगादिभद्ररोहिणीपर्य-न्तानां द्रव्याणां कल्कः, जलं चतुर्गुणम् । ८ अतिसारे पक्वावस्थायामपि वमनमुपदिशति - गौरव हति । गौरवे उदरगु-रुतायां रक्तपित्तवद् यथा रक्तपित्तेऽधोगते वमनं तथा गौरवादियुक्ते अतिसारेऽपि यस्य पुरुषस्य प्रबलः कफः स्यात्, मारुतात्सविड्बन्धे ज्वरे दाहे च वमनमिति योजनीयम् । ९ अतीसारे बस्तियोगान्निर्दिशति - सम्पक्व इति । मूत्रशोधनैः = : = तृणपञ्च-मूल्यादिभिरित्यर्थः । १० आस्थापनं = निरूहः । ११ गुदभ्रंशे = गुदनिःसरणे । ७० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1264
पाठ पढ़ें पाठ छिपाएँ
११०६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४० मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् ॥ १०८ ॥
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः ।
तस्य पित्तहराः सेकोस्तत्सिद्धाश्चानुवासनाः ॥ १० ९ ॥
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते ।
भोजने च हितं क्षीरं कच्छु मूलसाधितम् ॥ ११० ॥
अल्पाल्पं बहुशो रक्तं संरुग्य उपवेश्यते ।
यदा वायुर्विद्धश्च पिच्छाबस्तिस्तदा हितः ॥ १११ ॥
प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम् ।
भवेत् तस्माद्धितं तेषां गुदे तैलावचारणम् ॥ ११२ ॥
कपित्थशाल्मलीफञ्जीवट कार्पास दाडिमाः ।
यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः ॥ ११३ ॥
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका । 10 बला " वदंष्ट्रा बिल्वानि पाठानागारधान्यकम् ॥। ११४ ॥ एष " आहारसंयोगे हितः सर्वातिसारिणाम् । १२ तिलकल्को हितश्चात्र मौद्रो मुहरसस्तथा ॥ ११५ ॥
१ मधुराः काकोल्यादयः, अम्लाः बीजपूरककपित्थचुक्रकाञ्जिकादयः तैः । २ क्षीरे. क्षुरसशर्करोदकमधुरौषचकषायकृताः सेका इत्यर्थः । तत्सिद्धाः पित्त इरद्रव्यसाधिताः । ३ कच्छुरा ' जवासा ' इति ख्याता, तन्मूलसाधितं क्षीरमित्यर्थः । ४ सरुग्वेदनास • हितम्, यः पुरुष उपवेश्यते श्रुतिसार्यते । ५ गुददौर्बल्य चिकित्सामाह - प्रायेणेति । ६ पिचुसेकानुवासनैस्तैलावचारण मित्यर्थः । ७ अतीसारे शूलोपद्रवचिकित्सामा ख्याति - कपित्थेति । फजी - भा. - चुच्चूः = सुनिषण्णकशाकः, दाधिकाः = दध्ना संस्कृताः, कपित्थादिचुच्चू. पर्यन्ता दधना संस्कृता हिवा इत्यर्थः । गौं । ८ ९ श्राहारोपयोगिद्रव्याणि दर्शयति- शालेति । शालपर्णी = ' सरवन ' इति ख्या-ता, पृश्निपर्णी = ‘ पिठवन ' इति ख्याता, बृहती = स्वल्पफला कण्टकारी, कण्टकारिका -बृद्दत्फला कण्टकारी । १० श्वदंष्ट्रा = गोक्षुरकः । ११ एषः = दशाङ्गत्वेन प्रसिद्धः शालपर्ण्यादिः । भक्तादिसाधने द्रवप्रमाणमुक्तं तन्त्रान्तरे - " भक्तं पञ्चगुणे तोये यवागू षड्गुणे पचेत् । चतुर्दशगुणे पेयां विलेपीं च चतुर्गुणे ॥ ” इति । १२ मौद्गः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1265
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११०७ पित्तातिसारी यो मत्यः पित्तलान्यतिषेवते ॥ पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ॥ ११६ ॥
ज्वरं शूलं तृषां दाहं गुदपाकञ्च दारुणम् ।
योर रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ॥ ११७ ॥
स पल्लवैर्वटौदीनां ससर्पिः साधितं पयः ।
पिवेत् सशर्कराक्षौद्रमथवाऽप्यभिमथ्य तत् ॥ ११८ ॥
नवनीतमथो लिह्यात्तक्रं चानुपिवेत्ततः ।
प्रियालशाल्मलीप्लक्षशल्लकी तिनित्वचः ॥ ११ ९ ॥
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः ।
मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम् ॥ १२० ॥
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् ।
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् ॥ १२१ ॥
पिबेत् " पद्माञ्च दुग्धेन छागेनासृक्प्रशान्तये ।
' शैर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः ॥ १२२ ॥
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च ।
तिला मोचरसो १२ लोध्रं तथैव मधुकोत्पलम् ॥। १२३ ॥
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च ।
आजैन पयसा पेयाः सरक्ते मधुसंयुताः ॥ १२४ ॥
द्रवे सरक्त स्रवति बालबिल्वं सफाणितम् ।
सक्षौद्रतैलं " प्रागेव लिह्यादाशु हितं हि तत् ॥ १२५ ॥
मुद्गस्य कल्कः । १ पित्तलाद्यन्नपानादीनीत्यर्थः । २ रक्तातीसारचिकित्सामाचष्टे - य इति । ३ वटादीनां = न्यग्रोधादिपादपानाम् । ४ तत् = क्षीरम्, अभिमध्य = विलोडयेत्यर्थः । ५ क्षीर विलोडनादुत्पन्नं नवनीत-मित्यर्थः । ६ ' तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ' इत्यमरः । ' त्वच ' इति प्रियालादिभिः सर्वैः सह सम्बध्यते । ७ श्रजाक्षीरे इत्यर्थः । विमृदिताः = विलो-डिताः । ८ पयस्या = अर्कपुष्पी । ९ पद्मकं = पद्मकाष्ठम्, कुमुदं = श्वेतकम-लम्, ' कोई ' इति ख्यातम्, उत्पलं = नीलोत्पलम् । १० पद्मा = भाग, लवङ्गमित्यन्ये । ११ श्लोकाघेंन चतुरो योगान् दर्शयति - शर्करेति । समङ्गा अत्र वराइक्रान्ता । १२ मोचरसः = शाल्मलीनिर्यासः । १३ कच्छुरा = ' जवासा ' इति ख्याता । १४ प्राकू = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1266
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-११०८ Digitized by Arya Samaj Foundation Chennai and eGangotri | अ ० ४०
कोशकारं घृते भृष्टं लाजचूरण सिता मधु ।
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् ॥ १२६ ॥
बिल्वमेध्यं समधुकं शर्कराक्षौद्रसंयुतम् ।
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् ॥ १२७ ॥
योगान् साङ्ग्राहिकांश्चान्यान् पिबेत् सक्षौद्रशर्करान् ।
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् ॥। १२८ ॥।
ग्रुदपाके च य उक्तास्तेऽत्रापि विधयः स्मृताः ।
रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् ॥। १२ ९ ॥
संक्तविङ् दोषबहुलं दीप्ताग्निर्थोऽतिसार्य्यते ।
विडङ्गत्रिफला कृष्णाकपायैस्तं विरेचयेत् ॥ १३० ॥
अथवैरण्डसिद्धेन पयसा केवलेन वा ।
यव गर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः ॥ १३१ ॥ ॥
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् ।
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् ॥ १३२ ॥
स्विन्नानि गुडतैलाभ्यां भक्षयेद्वदराणि च ।
स्विन्नानि पिष्टद्वाऽपि समं बिल्वशलाटुभिः ॥ १३३ ॥
दध्नोपयुज्य कुल्माषन् श्वेतामनुपिवेत् सुराम् । भोजनात्पूर्वमेव । १ कोशकारः = इक्षुभेदः । कोशकारो नाम कौशेयवत्रोपादानभूत-तन्तूत्पादकः कीटविशेष इति सुश्रुतार्थसन्दीपनम् । २ बिल्वमध्यं बिल्वफल मध्य • मज्जा । ३ ये = सेकप्रभृतयः । ४ श्रतीसारे अवस्थावशेन विरेचनकर्म निरूपयति - सक्तेति । सक्तविट् = अवरुद्धपुरीषः । ५ कृष्णा = पिप्पली । ६ विरेचनानन्तरं कर्तव्यतामुपदिशति-यवागूरिति । वातघ्नैदीपनैः = शालपर्णीप्रभृतिभिः । ७ निःसारक सन्ज्ञकस्य चिकि-सामाह- - दीप्ताग्निरिति । निष्पुरोषः = क्षीणपुरोषः । ८ पिष्टवत् = पिष्टस्वेदनविधिनेत्यर्थः । तद्विधिरभिहितस्तन्त्रान्तरे – “ अनैकच्छि • द्रसंयुक्तशारावेण पिधाय च । जलार्धपूरितां स्थाल चुल्ल्यामुपरि विन्यसेत् ॥ स्वे द्यानि द्रव्यजातानि शरावेऽस्मिन्निधाय च । श्राच्छाद्यान्यशरावेण ज्वालां तावत्प्रदाप-येत् ॥ स्विन्नानि तानि यावत् स्युः पिष्टस्वेदे त्वयं विधिः । " इति । ९ कुश्माषः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1267
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४० ]
उत्तरतन्त्रम् ।
शशमांसं सरुधिरं समङ्गां सघृतं दधि॒ ॥ १३४ ॥
खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षेये ।
संस्कृतो यमके माषयवकोलरसः शुभः ॥ १३५ ॥
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः ।
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् ॥ १३६ ॥
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः । सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते । ११० ९ सं पिबेद्दीपनैर्युक्तं सर्पिः सङ्ग्राहकैः सह ॥ १३७ ॥
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य ।
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ॥ १३८ ॥
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च ।
सशोणिता शोणितसम्भवा तु ताः स्नेहरूक्षप्रभवा मतास्तु ॥ १३ ९ ॥
तासामतीसारवदादिशेच्च ' " लिङ्गं क्रमं चामविपक्वताञ्च । ¿ यावकः, " अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः । कुल्माषा इति कथ्यन्ते शब्द-शास्त्रेषु पण्डितैः ॥ ” इति तल्लक्षणम् । श्वेतां सुरां पैष्टीमित्यर्थः । १ समङ्गां = लज्जालुम् । २ शकृतः क्षये = त्रिष्ठाक्षये इत्यर्थः । ३ यमके = घृततैले, माषयवकोलरसः = माषादियुषः । ४ सरः = दध्न उपरितनो भागः । ५ यः = क्षीणपुरीषः पुरुषः । ६ स दीपनैश्चित्रकादिभिर्युक्तं सग्राहकैर्धातकी बिल्वशलाङ • प्रभृतिभि: सह सर्पिः पिबेत् । ७ अतिसारप्रभेदप्रवाहिकायाः सम्प्राप्तिपूर्वकं लक्षणमाइ - वायुरिति । श्रहिता-शनस्य अतिशयेन वातलभक्ष्यभोजिनो वायुः प्रवृद्ध:, प्रवाहमाणस्य प्रवाहणं कुर्वतः निचितं सञ्चितं बलासं कफं, बलासस्योपलक्षणत्वात् पित्तं रक्तं वा मलाक्तं पुरोषयुक्तं मुहुर्वारं वारम् अधस्ताद् नुदति गुदमार्गेण पातयति, तज्ज्ञा वैद्यास्तां प्रवादिकां प्रवद-न्तीत्यर्थः । अतीसारे अनेकविधद्रवधातुसरणं, प्रवाहिकायां तु कफमात्र सरणमिति तयो. भेदः । भोजादौ वियं विस्रंसीति नाम्ना पठ्यते । ८ ] वातादिभेदेन प्रवाहिकालक्षणं दर्शयति – प्रवाहिकेति । ९ ताः - प्रवा. द्विकाः, स्नेहरूश्चप्रभवाः स्नेहप्रभवाः कफजाः, रूक्षप्रभवा वातजाः, तुशब्दात् तीक्ष्णो. ष्णप्रभवाः पित्तजा रक्तजा च । १० तासां चतसृणां प्रवाहिकाणाम् अतिसारवत् लिङ्गं प्रागुक्तप्रवाद्दिकालक्षणतः अधिकं लक्षणम् श्रामविपक्कभेदेन क्रमं चिकित्साक्रमं च CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1268
पाठ पढ़ें पाठ छिपाएँ
१११० Digitized by Arya कुलरसंहिता यां emmei and eGangotri [ अ ० ४० नै शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा ॥ १४० ॥
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिल बस्तयश्च । औद्रैः कुशैः सम्परिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् १४१
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत ।
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि ॥ १४२ ॥
बस्ति विदध्याद्भिषगप्रमत्तः प्रवाहिका मूत्रपुरीषसङ्गे ।
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण ॥ १४३ ॥
क्षीरेण चास्थापनमप्रयमुक्तं तैलेन युञ्ज्यादनुवासनञ्च ।
वातघ्नवर्गे लवणेषु चैव तैलञ्च सिद्धं हितमन्नपाने ॥ १४४ ॥
लोध्रं विडं बिल्वशर्लाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम् ।
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चाकपीडितस्तु ॥ १४५ ॥
सुतप्तकुप्यथितेन १० वाऽपि चीरेण शीतेन मधुप्लुतेन ।
शूलार्दितो " व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः ॥१४६ ॥
वातघ्नसङ्ग्राह्कदीपनीयैः १२ कृतान पडांश्चाप्युपभोजयेच्च ॥
खादेच्च मत्स्यान् १३ रस माप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् ॥१४७ ॥
आदिशॆदित्यर्थः । १ लङ्घनाद्युपक्रमैः प्रवाहिकाया अप्रशमे चिकित्सितमभिधत्ते - नेति । उदोर्णा = उत्कटा, पाचनैर्योगे रिति सम्बन्धः । २ पिच्छाबस्तिविधिं वक्ति आद्वैरिति । ३ हविः = घृतम् । ४ पिच्छा बस्तिमित्यर्थः । ५ अवस्थावशेन आस्थापनानुवासने उपदिशति - द्विपञ्चेति । द्विपञ्चमूली = दशमूली । ६ तैलेन = दशमूलीक्काथे क्षीरे च सिद्धतैलेनेत्यर्थः । ७ अन्नसंस्कारार्थे पानार्थे च तैलमभिदधाति - वातव्नेति । विदारिगन्धादौ वातघ्नवर्गे, लवणेषु सैन्धवादिषु । ८ बिल्वशलाटु = कोमलं बिल्वफलम् । ९ नि-श्चारको निःसारकसंज्ञको वा पुरीषक्षयापरपर्यायः प्रवाहिकाभेदस्तेन पीडितः पुरुषः ससारेण दध्नः उपरितनस्निग्धभाग सराख्य सहितेन, समाक्षिकेण मधुसहितेन दध्ना सह भुञ्जीतेत्यर्थः । १० कुप्यं सुवर्णरूप्येतरलोइं, सुतप्तकुप्यप्रक्षेपेण क्वथितं पाचित-मिति सुतप्तकुप्यक्कथितं तेन क्षीरेणेत्यर्थः । ११ व्योषं - त्रिकटुकम् । १२ वातघ्नानि शालपर्ण्यादीनि, सङ्ग्राहकाणि बिल्वपाठाप्रभृतीनि दीपनीयानि चित्रकशुण्ठयादीनि तैः कृतान साधितान् षढान् दाडिमगोरसादानघनान् । १३ रसं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1269
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ११११
एाव्यजानान्तु वटप्रवालैः सिद्धानि सार्द्धं पिशितानि खादेत् ।
मेध्यस्य सिद्धन्त्वथ वाऽपि रक्तं वस्तस्य दध्ना घृततैलयुक्तम् ॥१४८ ॥
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः ।
माषान्सुसिद्धान्घृतमण्डयुक्तान्खादेच्च दध्ना मरिचोपदंशान् ॥१४ ९ ॥
महारुजे मूत्रकृच्छ्रे भिषग्वस्ति प्रदापयेत् ।
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् ॥ १५० ॥
सवस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् ।
मधुरौषधसिद्धञ्च हितं तस्यानुवासनम् ॥ १५१ ॥
रात्रावहनि वा नित्यं हजार्त्तो यो भवेन्नरः ।
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा ॥ १५२ ॥
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका ।
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् ॥ १५३ ॥
पाठाऽजमोदा कुजोत्पलं च शुण्ठीसमा मागधिकाश्च पिष्टाः ।
सुखाम्बुपीताः शमयन्ति रोगं " मेध्याण्ड सिद्धं सघृतं पयो वा ॥ १५४ ॥
शुण्ठीं घृतं १ सक्षवकं सतैलं विपाच्य लीढ्वाऽऽमयमाशु हन्यात् । विष्किरवर्गाभिहितमांसरसम्, आप्नुयात् = पिवेदित्यर्थः । १ एणः कृष्णसारो मृगः, अविर्मेषः, अजा छगल:, तेषां पिशितानि मांसानि वटप्रवालैः सह सिद्धानि खादेदित्यर्थः । २ मेध्यस्य यज्ञार्हस्य बस्तस्य रक्तं घृततैलभृष्टं दध्ना सिद्धं संस्कृतं खादेदिति योज्यम् । सुश्रुतार्थं सन्दीपनकारस्तु - घृततैलयुक्तं घृततैलाभ्यां संस्कृतं मेध्यस्य खड्गिप्रभृतेः सिद्धं प्रागुक्तैणादिपिशित साधन साहचर्याद् वटप्रवालैः सह पक्कं मांसं बस्तस्य रक्तं वा दध्ना खादेदिति व्याख्याति । ३ पाकेन घनीभूता रसाः प्रदेहास्तै-रित्यर्थः। ४ मरिचोपदंशान् === मरिचावचूर्णितान् । ५ निरूइबस्तिमित्यर्थः । ६ म-धुकं = यष्टीमधु, उत्पलं = नीलोत्पलम् । ७ निरूइबस्तिमुक्त्वाऽनुवासनबस्ति ब्रवीति — मधुरेति । मधुरौषधानि काको-त्यादीनि तैः सिद्धम् । अनुवासनेत शीलिततैलः सतैलः । ९ कुटजः -इन्द्रयवाः, उत्पलं = नीलोत्पलम् । १० मेध्याण्डसिद्धं = छागाण्डसिद्धम् । ११ क्षवकः = ‘ नकछिकनी ' इति ख्यातः । शुण्ठीक्षवकयोः कल्कं घृततैले यमके अवलेहविधिना विपाच्य लीवा प्रवाहिकाऽऽख्यमामयमाशु हन्यादित्यर्थः । अत्र शुण्ठोक्षवकयोरर्द्ध CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1270
पाठ पढ़ें पाठ छिपाएँ
१११२ Digitized by Arya Samaj संहितायां nd eGangotri [ अ ० ४० गजानाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदनि ॥ १५५ ॥
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम् ।
लघूनि पध्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु ॥१५६ ॥
हिताय नित्यं वितरेद्विभज्य योगश्च तांस्तान् भिषगप्रमत्तः ॥ १५७ ॥
तृष्णाऽपनयनी लघ्वी दोपनी बस्तिशोधनी ।
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता ॥ १५८ ॥
रौक्ष्याज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे ।
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी ॥ १५ ९ ॥
विषाःकृमिसम्भूते हिता चोभय शर्मदा ॥
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः ॥ १६० ॥
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत् ।
ज्वरे चैवातिसारे च सर्वत्रान्यंत्र मारुतम् ॥ १६१ ॥
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति ।
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ॥ १६२ ॥
कर्मजा " व्याधयः केचिद् दोषजाः सन्ति चापरे । घृतं तैलं च, जलं तु चतुर्गुणं बोध्यम् । १ गजाशना = शल्लकी, कुम्भिका - वारिपण, " वारिपणों बृहत्पत्रा कुम्भिकेति प्रकीर्तिता ” इति, गजाशनादीनां रसैः क्कायैः बिल्वान्त्रिता बिल्वगर्भयुक्ता तैलघृते संस्कृता दध्नि सिद्धा यवागूः पथ्यतमेत्यर्थः । २ उदरामयेषु = अतीसारप्रवाहिका-ख्येषु । ३ लघुदीपनस्निग्धान् योगानित्यर्थः । ४ तृष्णाऽपनयनी = पिपासाशम. नीत्यर्थः । ५ सान्त्वना पूर्वा = भयापहवाक्यादिप्रयोगपूर्वा । ६ उभयशर्मदा = विषादिहरा अतीसारदरा चेत्यर्थः । ७ श्रविरोधतः = अ • ती साराविरोधेन । ८ श्रन्यत्र = ज्वरातीसारातिरिक्तेषु अन्येषु रोगेष्वित्यर्थः । ९ अ तिसारनिवृत्तिलक्षणमुपदिशति - यस्येति । यस्यातिसारिणः उच्चारं पुरीषं विना मूत्रं प्रवर्तते, सम्यक् प्रवृत्तिशङ्कारहितं वायुश्च गच्छति, गुदेनेति शेषः । दीप्ताग्नेः प्रवृद्धजठरानलस्य लघुकोष्ठस्य तस्यातिसारिणः उदरामयोऽतिसारः स्थितो गतः, निवृत्त इत्यर्थः । १० कर्मजादिभेदेन रोगस्य त्रैविध्यं दर्शयति - कर्मजा इति । कर्मजाः = पूर्वं. जन्मकृतपापोत्पन्नाः, तदुक्तं शातातपीये – ' पूर्वजन्मकृतं पापं नरकस्य परिक्षये । बाधते CC - 0. Gurukul Kangri Collection, Haridwar