सुश्रुत संहिता चौखम्बा — पृष्ठ 1271–1280
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1271–1280
पृष्ठ 1271
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri
उत्तरतन्त्रम् ।
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः ॥ १६३ ॥
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसङ्क्षये ।
शौम्यन्ति दोषसम्भूता दोषसङ्क्षयहेतुभिः ॥ १६४ ॥
तेषामपनिदाना ये प्रतिकष्टा भवन्ति च ॥
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते ॥ १६५ ॥
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते ।
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ॥ १६६ ॥।
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः ।
भूयः सन्दूषितो वह्निर्महणीमभिदूषयेत् ॥ १६७ ॥
तस्मात्काय्र्यः परीहारस्त्वतीसारे विरिक्तवत् ।
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ॥ १६८ ॥
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता । 0 १११३ पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता ॥ १६ ९ ॥ व्याधिरूपेण तस्य कृच्छ्रादिभिः शमः ॥ कुष्ठं च राजयक्ष्मा च प्रमेो ग्रहणी तथा । मूत्रकृच्छ्राश्मरीकासा प्रतीसार भगन्दरौ ॥ ' इति । दोषजाः = कुपितवातादिदोषजाः । १ कर्मदोषोद्भवाः = पापदोषमूलाः, श्रहेतुकाः = दोषागन्तुहेतुरहिताः । २ ते = कर्म-जाः, श्रक्रियाभिः = अचिकित्साभिः, क्रियाभिः = कृच्छ्रादिप्रायश्चित्तैः, जपहोमादि-भिश्च। ३ ये दोषसङ्क्षय हेतुभिः शाम्यन्ति ते दोषजा इति योज्यम् । श्रनेन दोष. जानां लक्षणमुक्तम् । ४ कर्मदोषजानां लक्षणमभिदधाति - तेषामिति । तेषां = कर्मादिजानाम्, प्रति · कष्टाः = इत्थम्भूतकष्टाः, श्रत्र प्रतिशब्दस्य इत्थम्भूतार्थकत्वम् । ५ कर्मदोषश्चयकृता = यागदानादिदैवव्यपाश्रयेण कर्मक्षयकृता, स्नेहस्वेदनवमनादियुक्तिव्यपाश्रयेण दोषक्षय-कृता, सिद्धिः = साधनमित्यर्थः । ६ ग्रहणीरोगमधिकरोति - दुष्यतीति । जन्तोः प्राणिनः श्रग्निसादन हेतुभिरग्नि-निर्वापणकारणैः ग्रहणी पित्तधरा कला दुष्यति, विकृतिं यातीत्यर्थः । ७ अपिशब्दा-दनिवृत्तेऽप्यतीसारे । अतीसारे द्रवधातुप्रवृत्तिः, ग्रहण्यां तु बद्धस्यापि मलस्य प्रवृत्ति-रिति तयोर्भेदो ज्ञातव्यः । ८ विरिक्तवत् = आतुरोपद्रव चिकित्सितोक्तविधिवत् । ९ परिकीर्तिता = अभिहिता, ' गर्भव्याकरणे शारीरे ' इति शेषः । १० पक्कामाशयमध्यस्था = पच्यमानाश्शयरूपेत्यर्थः । ग्रहणी - अग्न्यधिष्ठानभूता CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1272
पाठ पढ़ें पाठ छिपाएँ
१११४ Digitized by Arya Sam श्रुतसंहितायां hai and eGangotri [ अ ० ४०
ग्रहेण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः ।
तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ॥ १७० ॥
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः ।
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥ १०१ ॥
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् ।
ग्रहणी रोग माहुस्तमायुर्वेदविदो जनाः ॥ १७२ ॥
तस्योत्पत्तौ विदाहोऽन्ने सद्नालस्य तृट्क्लमाः ।
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् ॥ १७३ ॥
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः ।
पर्व रुग्लौल्य तृट्छर्दिज्वरारोचकदाहवान् ॥ १७४ ॥
उद् गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् ।
प्रसेकमुखवैरस्यतर्मकारुचिपीडितः ॥ १७२ ॥
वाताच्छ्रलाधिकैः पायुहृत्पार्श्वोदर मस्तकैः ।
पित्तात् सदा हैर्गरुभिः कफात् त्रिभ्यखिलक्षणैः ॥ १७६ ॥
नाडी, चरकेऽपि – " अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ग्रहणी मता । नाभेरुपरि सा ह्यग्नि-बलोपस्तम्भबृंहिता । अपक्वं धारयत्यन्नं पक्वं सृजति चाप्यधः ॥ ” इति । १ श्रग्नौ दूषिते यथा ग्रहणी दुष्यति तथा दर्शयति-- ग्रहण्या इति ॥ हि यस्माद् ग्रहण्या बलमग्निः, स चाप्यग्निः ग्रहणीं श्रित आश्रितः, तस्माद् वह्नौ सन्दू-षिते ग्रहणी सम्प्रदुष्यतीत्यर्थः । २ अत्यर्थमुच्छितैः = श्रतिवृद्धेरित्यर्थः । ३ बहुशः-बहून् वारान्, श्रमम् = अपक्कम् । 1 = ४ ग्रहणीपूर्वरूपाणि निरूपयति - तस्येति । तस्य = ग्रहणीरोगस्य, उत्पत्तौ = प्रादुर्भावे, अन्ने विदाह: - अग्निमान्यत्वेन आहारस्य विदग्धत्वम् । ५ कर्णक्ष्वेड: = बेणुघोषसमशब्दः, तदुक्तम् - " वायुः पित्तादिभिर्युक्तो वेणुघोषसमं स्वनम् । करोति कर्णयोः दवेडं कर्णक्ष्वेडः स उच्यते ॥ ” इति । ६ ग्रहण्याः पूर्वरूपानन्तरं विशिष्टलक्षणानि निर्दिशति - अथेति । शूनपादकरः शूनौ शोधयुक्तौ पादौ करौ यस्य सः । ७ पर्वरुक् == ग्रन्थिस्फुटनम्, लौल्यं = सर्व-रसाभ्यवहारे लोलुपत्वम् । ८ तमकः = श्वासरोगप्रभेदः । ९ वातादिभेदेन ग्रह-णीलक्षणानि दर्शयति – वातादिति । वातादिप्रभेदेन विशिष्टलक्षणानि ग्रन्थान्त • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1273
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम्
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः ।
हृत्पाण्डूदर गुल्मार्शःप्लोहाशङ्की च मानवः ॥ १७७ ॥
यथादोषोच्छ्रयन्तस्य विशुद्धस्य यथाक्रमम् ।
पेयादिं वितरेत् सम्यग्दीपनीयोपसम्भृतम् ॥। १७८ ॥
ततः पाचँनसङ्ग्राहिदीपनीयगणत्रयम् ।
पिबेत् प्रातः सुरारिष्टस्नेह मूत्रसुखाम्बुभि: ॥ १७ ९ ॥
तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते ।
कृमिगुल्मोदरार्शोनी: क्रियाचात्रावचारयेत् ॥ १८० ॥
चूर्णं हिस्वादिकं चात्र घृतं वा प्लीह नाशनम् ।
कॅल्केन मगवादेश्च चाङ्गेरीश्वरसेन च ॥ १८१ ॥
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् । सर्वथा दीपनं सर्वं ग्रहणोरोगिणां हितम् । १११५ रतो ज्ञातव्यानि । १ वर्णैः = कृष्णारुणनीलपीतरक्तासित पाण्डुभिर्वर्णैरित्यर्थः । २ ग्रहणी रोगचिकित्सितमाख्याति - यथेति । विशुद्धस्य = वातोद्र के निरूहेण, पित्तोद्रेके विरेकेण, कफोद्रेके वमनेन शुद्धिमापन्नस्येत्यर्थः । ३ श्रादिशब्दाद् विले-पियूषमृद्दोदनादिकं गृह्यते । ४ पाचनद्रव्यगणो हरिद्रादिना, सङ्ग्राहिद्रव्यगणोऽम्ब. ठादिना, दीपनीयद्रव्यगणश्च पिप्पल्यादिना द्रव्यसङ्ग्रहणीयाध्याये प्रदर्शितः । ५ तक्रस्य गुणोत्कर्षमाह - " न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धः प्रभवन्ति सेगाः । यथा सुराणामनृतं सुखाय तथा नराणां भुवि तक्रमाहुः ॥ ” इति । रोगविशेषे तक्रविशेषानाह— “ वातेऽम्लं सैन्धवोपेतं पित्ते स्वादु सशर्करम् । पिबेत्तकं कफे चापि क्षारत्रिकटुसंयुतम् ॥ हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम् । ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातइरं परम् ॥ ” इति । ६ हिङ्वादिचूर्णं महावातव्याधौ द्रष्टव्यम् । घृतं = षट्पलादिघृतमित्यर्थः । ७ चाङ्गेरीघृतमभिदधाति — कल्केनेति । कल्केन = स्नॆइचतुर्थीशैन, मगधादेः = द्रव्यसङ्ग्रहणीयाध्यायोक्तस्य पिप्पल्यादेः, चाङ्गेरी । ' अमलोनिया ' इति ख्याता, तस्याः स्नैइचतुर्गुणेन स्वरसेनेत्यर्थः । दोपनमग्निदीपनं यत्, तत्सर्व | ग्रहणोरो-गिनां सर्वथा तिमिति योज्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1274
पाठ पढ़ें पाठ छिपाएँ
१११ Pigitized by Arya Samaj Found und सुश्रुत संहितायां angotri [ अ ० ४१ ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः ॥ १८२ ॥
इति सुश्रुतसंहिताय।मुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम ( द्वितीयोऽध्यायः, आदितः ) चत्वारिंशोऽध्यायः ॥ ४० ॥
एकचत्वारिंशोऽध्यायः ।
अथातः शोषप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अनेक रोगानुगतो बहुरोगपुरोगमः ।
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ॥ ३ ॥
संशोषणाप्रसादीनां शोष इत्यभिधीयते ।
क्रियाक्षयकरैत्वाच्च क्षय इत्युच्यते पुनः ॥ ४ ॥
राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः । १ ग्रहणोरोगोपद्रवाणां ज्वरारोचकादीनां चिकित्सामाह - ज्वरादीनिति । श्रा-दिशब्दादरोचकशूलकरपादशोथाः ग्राह्याः । श्रविरोधात् = मूलव्याधेविंरोधं विनेत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत काय चिकित्सा तन्त्रे सुधाऽऽख्यटिप्पन्यां चत्वारिंशोऽध्यायः । एकचत्वारिंशत्तमोऽध्यायः । २ ज्वरातीसाराभ्यामपि शोषस्य सम्भवादतीसारप्रतिषेधानन्तरं शोषप्रतिषेधमधि. करोति - अथात इति । शोषप्रतिषेधं = यक्ष्मचिकित्सितमित्यर्थः । शोषस्य पर्यायाः राजयक्ष्म - क्षय - यक्ष्मप्रभृतयः । ' क्षयः शोषश्च यदमा च ' इत्यमरः । ३ शोषस्य रोगराजत्वं प्रतिपादयति — अनेकेति । अनेक रोगाः शोथाद्युपद्रवा अनुगता श्राश्रिता यस्य सोऽनेकरोगानुगतः, बहवो रोगाः प्रतिश्यायश्वासादयः पुरो. गमाः पूर्वरूपत्वेन अग्रेसरा यस्य स बहुरोगपुरोगमः, तद् वक्ष्यति – “ श्वासाङ्गमर्दकफ-संस्रवतालुशेाषवम्यग्निसादमदपीनसकासनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥ ” इति । ४ सपर्यायं शोषशब्दं निर्वक्ति - संशोषणादिति । ५ क्रियायाश्चिकित्साया अथवा कायवाङ्मानसकर्मणः क्षयकरत्वादित्यर्थः । ६ किलेति वार्तायाम् । राज्ञश्च-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1275
पाठ पढ़ें पाठ छिपाएँ
अ ० ४१ ] ANation Digitized by Arya Samaj Foundation Chennai and eGangotri १११७ तस्मावं राजयक्ष्मेति केचिदाहुर्मनीषिणः ॥ ५ ॥
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि ।
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ॥ ६ ॥
क्रियाणामविभागेन प्रागेकोत्पादनेन च ।
एक एव मतः शोषः सन्निपातात्मको ह्यतः ॥ ७ ॥
उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि ।
क्षयद्वेगप्रतीघातादाघाताद्विषमाशनात् ॥ ८ ॥।
न्द्रमसोऽयं यक्ष्मा यथा प्रागभूत्, यथा चास्य ' राजयक्ष्मा ' इति संज्ञा समभूदिति वार्तामाह चरकः —— श्रता कथा । कामव्यसन संयुक्ता - “ दिवौकसां कथयामृषिभिर्वै पौराणी शशिनं प्रति ॥ रोहिण्यामतिसक्तस्य शरीरं चातुरचतः । श्राजगामाल्पतामि-न्दोर्देहः स्नैहपरिक्षयात् ॥ दुहितृणामसम्भोगाच्छेषाणां च प्रजापतेः । क्रोधो निश्वा-सरूपेण मूर्तिमान् निःसृतो मुखात् ॥ प्रजापतेहिं दुहितृरष्टाविंशतिरंशुमान् । भार्यार्थं प्रतिजग्राह न च सर्वास्त्रवर्तत || गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम् । रजःपरी-तमवलं यक्ष्मा शशिनमाविशत् ॥ सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः । देवदेव-षिसहितो जगाम शरणं गुरुम् ॥ श्रथ चन्द्रमसः शुद्धां मति बुद्ध्वा प्रजापतिः । प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः ॥ स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः । ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥ क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःख-संज्ञकः । यस्मात् स राज्ञ: प्रागासीद्राजयक्ष्मा ततो मतः ॥ स यक्ष्मा हुङ्कृतोऽश्विभ्यां - मानुषं लोकमागतः । लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान् ॥ ” इति । " नक्ष-त्राणां द्विजानां च राचोऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥ ” इति वाग्भटः । एषा कथा कालिकापुराणादावप्यनुसन्धेया । कर्मदोषजोऽयं व्याधिरिति बोध्यम् । १ व्यस्तैः = पृथग्भूतैः केचित् = पाराशरीयान्तेवासिनः, तद्व. चनमाह शार्ङ्गधरः- “ क्षयाः पन्चैव विज्ञेयास्त्रिभिर्दोषैस्त्रयश्च ते । चतुर्थः सन्निपातेन पञ्चमः स्यादुरःक्षतात् ॥ ” इति । २ परमतनिराकरणाय स्वमते शोषस्यैकत्वे हेतु त्रितयमभिधत्ते - एकेति । एकाद-शानां वातपित्तकफजत्वेन वच्यमाणानां स्वरभेदशूलादीनाम्, एकस्मिन् राजयक्ष्म-रोगे सान्निध्यात् स्वलक्षणत्वेन विद्यमानत्वात् तन्त्रयुक्तितः श्रर्थयुक्तितः, क्रियाणां चिकित्सितानाम् श्रविभागेन वातजादिशोषं प्रति श्रविभज्योपदेशेन, प्राक् पूर्वं दक्ष • द्वारा एकस्यैव उत्पादनेन हि यस्माद्धेतुत्रयमुपन्यस्तमतः सन्निपातात्मकः एक एत्र शोषो मत इत्यर्थः । ३ उद्रेकात् = श्राधिक्यात्, तत्र = राजयक्ष्मणि । ४ शोषोत्पत्तौ चतुर्विधहेतुमभिदधाति - क्षयादिति । क्षयात् = रसादिशुक्रान्तानां CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1276
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां -१११८ Digitized by Arya Samaj Foundation Chennai and eGangotri जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः । [ अ ० ४१ कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ॥ ९ ॥
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तेरम् ।
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ॥ १० ॥
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् ।
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥ ११ ॥
स्वरभेदोऽनिलाच्छलं संलोचश्चांसपार्श्वयोः ।
ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥ १२ ॥
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च ।
कासः कण्ठस्य चोध्वंसो विज्ञेयः कफकोपतः ॥ १३ ॥
घातूनां क्षयात्, वेगप्रतीघातात् = वातमूत्रपुरीषादीनां वेगावरोधात् यदुक्तं चरके— “ ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम् । वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥ ” इति । श्राघातात् = श्रयथाबलमारम्भात्, तदुक्तं तन्त्रान्तरे - " प्रयथाबलमा -रम्भो वेगसन्धारणं क्षयः । यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम् ॥ ” इति । विष माशनात् = अप्राप्तातीतकाल बह्वल्प भोजनात्, " बहु स्तोकमकाले वा विज्ञेयं विषमाश-नम् ” इति । विषमाशनॆन स्रोतोरोधकत्वाद् यदमरोग सम्भवमाह । चरकः - “ विविधा-न्यन्नपानानि वैषम्येण समश्नतः । जनयन्त्यामयान् घोरान् विषमान् मारुतादयः । स्रो तांसि रुधिरादीनां वैषम्याद् विषमं गताः । रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च नाधा. तवः ॥ ” इति । 1 = १ कफः प्रधानमुत्कटं येषां वातादिदोषाणां तैः कफप्रधानैः, रसवर्त्मसु = रसवइध. मनीष्वित्यर्थः । रसवमस्वित्यत्र श्रादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन रक्तादिवइस्रो. तोनिरोधोऽपि बोध्यः । २ अनन्तरं सर्वे धातवः क्षीयन्ते इति सम्बन्धः । यथा रेतसि क्षीणे मज्जा क्षीयते, मज्जनि क्षीणे अस्थि, एवं पूर्वं पूर्वं बोध्यम् । ३ यक्ष्मणः! षड् रूपाणि दर्शयति - भक्तेति । भक्तद्वेषः - भोजनेऽरुचिः । ४ अथ दोषभेदेनैकादशरूपाणि दर्शयन्नाह - स्वरेति । स्वरभेदः = घर्घरादिस्वरः, शू. लमंसपार्श्वयोरेव, संलोचः = लुचितमिव, क्व? अंसपाश्र्वयोः = अंसयोः पार्श्वयोरि · त्यर्थः । ' सङ्कोच ' इति पाठान्तरम् । ५ शिरसः परिपूर्णत्वं कफेनेति शेषः । अभक्तः च्छन्दः = भक्तारुचिः । ६ कण्ठस्य उद्ब्वंसः = कण्ठभेदः, उत्कासिकेति कार्तिकः । एतानि चैकादशरूपाणि प्रायोभाविश्वादुक्तानि श्रन्यतमरूपपरिहाराद्रूपान्तरयोगेऽप्येका-दशत्वं षट्वं च स्यादेवः; तथा हि चरको निदाने एकादशरूपाणि पठित्वा चिकित्सिते-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1277
पाठ पढ़ें पाठ छिपाएँ
अ ० ४१ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् ।
( कासातीसारपाश्वार्त्तिस्वरभेदारुचिज्वरैः ॥ १४ ॥
त्रिभिर्वा पीडितं लिङ्गैर्व्वरकासासृगामयैः । ) जह्याच्छोषादितं जन्तुमिच्छन् सुविपुलं यशः ॥ १५ ॥
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः ।
व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि ॥ १६ ॥
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः ।
पाण्डुदेहो यथापूर्व क्षीयन्ते चास्य धातवः ॥ १७ ॥
प्रध्यानशीलः ठः स्रस्ताङ्गः शोकशोष्यपि तादृशः ।
विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः ॥ १८ ॥
१११ ९ ऽपि वेगरोधादिकारणचतुष्टयजे प्रतिकारणं चतुर्धा एकादशरूपाणि पठितवान् । यथा-“ कार्सोऽसतापो वैस्वर्ये ज्वरः पार्श्वशिरोरुजा । छदैनं रक्तकफयोः श्वासो वर्चोग्रहोऽरु • चिः । रूपाण्येकादशैतानि यक्ष्मणि षटिमानि च । कासो ज्वरः पार्श्वशुलं स्वरवचों-ग्रहो रुचि: । " इति श्रीकण्ठविजयरक्षितौ । १ बहुरूपो राजयक्ष्मा असाध्यः तं प्रतिपादयति - एकेति । एकादशभिरेभिः = " स्वरभेदोऽनिलान्छूलम् " इत्यादिभिः कण्ठो दूध्वंसान्तैः, षड्भिः = " भक्तद्वेषो ज्वरः ” इत्यादिभिः, अपिशब्दात् तन्त्रान्तरोक्तैस्त्रिभिर्वा, " कासो ज्वरो रक्तपित्तं त्रिरूपे राज • यक्ष्मणि ” इति भोजः । " अंसपार्श्वाभितापश्च सन्तापः करपादयोः । ज्वरः सर्वाङ्गगश्चे-ति लक्षणं राजयक्ष्मणः ॥ ” इति चरकोक्तविशिष्टलक्षणोक्तैस्त्रिभिर्वा समन्वितं ' मांसबल ' क्षये सति ' इति शेषः । जह्यात् त्यजेदिति उत्तरश्लोकस्थेन सम्बन्धः । तथा च चरकः-" वातव्याधिरपस्मारी कुष्ठी ब्रध्नी चिरज्वरी । गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः ॥ श्रचिकित्स्या भवन्त्येते बलमांसपरिक्षयात् । " इति । २ कासातीसारादिभिर्ज्वरान्तैः षलिङ्गेरित्यर्थः । ३ शोषादितं = राजयक्ष्मपी-डितम् । ४ व्यवायादिजनित धातुशोषणमात्रेण राजयक्ष्मत्वमित्येकीयमतं निरस्यन्नाह-व्यवायेति । व्यवायः = मैथुनम् । ५ व्यवायशोषिणो लक्षणं निरूपयति - व्यवा-यशोषीति । व्यवायेन शुष्यत इति व्यवायशोषी, शुक्रस्य क्षयलिङ्गैः । ६ यथोक्तं भगवता स्वयमेव सूत्रस्थाने - " शुक्रक्षये मेदूवृषणवेदना, अशक्तिमैथुने, चिराद्वा प्रसे. कः, प्रसेके चाल्पदर्शनं रक्तस्य शुक्रस्य वा " इति । यथा शुकस्य पूर्वो मज्जा, मज्ज्ञः अस्थि, अस्थ्नो मेदः, मेदसो मांस, मांसस्य रक्तम्, इत्येवं यथापूर्वमित्यर्थः । ७ शोकशोषिणो लक्षणमभिधत्ते - प्रध्यानेति । प्रध्यानशीलः = चिन्तापरः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1278
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-११२० Digitized by Arya Samaj Foundation Chennai and eGangotri जराशोषी कृशो मन्दवीर्य बुद्धिबलेन्द्रियः । [ अ ० ४१ कम्पनोऽरुचिमान् भिन्ने कांस्यपात्रहतस्वरः ॥ १ ९ ॥
ष्ठीवति श्लेष्मरणा हीनं गौरवारुचिपीडितः ।
सम्प्रस्रुतास्यनासाऽतः शुष्कैरू मलच्छविः ॥ २० ॥
अर्ध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः ।
प्रसुप्तगात्रावयवः शुष्कैक्लोमगलाननः ॥ २१ ॥
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः ।
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च दताद्विना ॥ २२ ॥
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् ।
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः ॥ २३ ॥
व्यायामभाराध्ययनैरभिघातातिमैथुनैः ।
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् ।
तस्योरसि ' क्षते रक्तं पूयः श्लेष्मा च गच्छति ॥ २४ ॥
कासमानश्छर्दयेच्च पीतरक्तासितारुणम् ।
सन्तप्तवक्षाः सोऽत्यर्थं ' ' दूयनात्परिताम्यति ॥ २५ ॥
१ जराशोषिणो लक्षणं ब्रवीति - जरेति । २ भिन्नस्य स्फुटितस्य कांस्यपात्रस्य इत-स्य दण्डादिनैव स्वरो यस्य स इत्यर्थः । ३ शुष्करूक्षे यथाक्रमं मलच्छवी यस्य सः, ' सुप्तरूक्षमलच्छविः ' इति पाठान्तरम् । अत्र सुप्तरूक्षत्वं प्रभायाः, मञ्चाः क्रोशन्तीति वदुपचारात् । रूक्षत्वं मलस्य बोध्यम् । ४ श्रध्वशोषिणो लक्षणमभिदधाति - अध्वेति । स्रस्ताङ्गः = शिथिलगात्रः, स-म्भृष्टस्य भर्जितस्य इव परुषा छविर्वर्णो यस्य सः । क्लोम -५ क्लोम तिलकम्, शुष्कं गलाननं यस्य सः । ६ व्यायामशोषिणो लक्षणमाख्याति - व्यायामेति । एभिः = पूर्वोक्तैरध्वशोषिलक्षणैः, अध्वनो व्यायाममात्र सामान्यात् । भूयिष्ठम् = अत्यर्थम्, अध्वशोषे श्रल्पानि लक्षणानि, व्यायामजे तु महान्तीत्यर्थः । ७ व्रणशोषिणो लक्षणमाचष्टे – रक्तेति । रक्तक्षयात् = रक्तातिस्रुतेरित्यर्थः । ८ उरःक्षतशोषिणो लक्षणमुपदिशति - व्यायामेति । व्यायामः = शरीरायासजनक • श्रमः । ९ उरस्येन = धनुराकर्षणादिना कर्मणेत्यर्थः । “ धनुषाऽऽयस्यतोऽत्यर्थं भार • मुद्दतो गुरुम् । युध्यमानस्य बलिभिः पततो विषमोच्चतः ॥ " इत्यादिना माधव करेण उरःक्षतशोषियो लक्षणमुक्तम् । १० क्षते = विदारिते इत्यर्थः । ११ दूयनात् = अति-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1279
पाठ पढ़ें पाठ छिपाएँ
अ ० ४१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ११२१ वेदनात्,
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः ।
केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः ॥ २६ ॥
न तंत्र दोषलिङ्गानां समस्तानां निपातनम् । ८ क्षया एव हि ते ' ज्ञेयाः प्रत्येकं धातुसंज्ञिताः ॥ २७ ॥
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसँङ्क्षये ॥ २८ ॥
श्वासौङ्गसादकफसंस्रवतालुशोष-च्छद्यग्निसादमदपीनसपाण्डुनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥ २ ९ ॥
स्वप्नेषु काकशुकशैल्लकिनीलकण्ठ-गृध्रास्तथैव कपयः कृकलासकाश्च ।
तं वाहयन्ति स नदीर्विजलाश्च पश्ये-च्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ॥ ३० ॥
परिताम्यति = मोहमाप्नोति1 १ एकीयमतमभिधत्ते - केषाञ्चिदिति । केषाञ्चिदाचार्याणां मते एवं कारणैर्व्य-जायादिभिरनेकैः कारणैहि यस्माच्छोषो भेदं पृथग्भावमागतः, अतः एक एव शोष इति सात्पर्यम् । २ तत्र = तेषु व्यवायादिषु । ३ ते = व्यवायादिजाः, धातुसन्चिताः = तेषां क्षयनामधेयखेऽपि प्रत्येकं धातुक्षयतज्ञका इत्यर्थः । ४ धातुसङ्क्षये = दोष-धातुमलक्षयवृद्धिविज्ञानीयाध्याये । ५ अधुना राजयक्ष्मणः पूर्वरूपं दर्शयति - श्वासेति । श्वासादयो भविष्यति उत्पद्यमाने शोषे भवन्तीति सम्बन्धः । अङ्गसादः = अङ्गग्लानिः, कफसंस्रवः = कफष्ठी • वनम्, अग्निसादः = अग्निमान्द्यम्, मदः = षत्तूरफलभक्षणादिव मनोमोद्द इति वाचस्पतिः । पोनसः = प्रतिश्यायः । ६ शुक्लेक्षणः - शुक्लनयनः, मांसपरः = मांस · भक्षणेच्छुः, रिरंसुः = स्त्रियं रन्तुमिच्छुः । ७ शल्लकी = ‘ साही ' इति ख्याता । नीलकण्ठः = मयूरः । कृकलासकः - ' गिरगिट ' इति ख्यातः । ८ तं = शोषिणम्, वाहयन्ति = प्रापयन्ति, विजलाः = निर्जलाः, ॥ दवः = वनाग्निः, अदितान् = अभिभूतान् " चकारात्तृण केशनिपातादयो बोध्याः । तदुक्तं चर-के– “ पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम् । श्रदोषेष्वपि भावेषु, काये बीभत्सद-र्शनम् ॥ घृणित्वमश्नतश्चापि बलमांसपरिक्षयः । स्त्रीमद्यमांसप्रियता प्रियता चावगु • ७१ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1280
पाठ पढ़ें पाठ छिपाएँ
११२२ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४१
महाशनं क्षीयमाणमतीसारनिपीडितम् ।
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ॥ ३१ ॥
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् ।
स्थिरौदिवर्गसिद्धेन घृतेनाजाविकेन च ॥ ३२ ॥
स्निग्धस्य मृदु कर्त्तव्यमूर्ध्वञ्चाधश्च शोधनम् ।
आस्थापनं तथा कार्य्यं शिरसश्च विरेचनम् ॥ ३३ ॥
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः ।
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम् ॥ ३४ ॥
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः ।
बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ॥ ३५ ॥
काकानुल्कान्नकुलान बिडालान गण्डूपदान व्यालबिलेशयाखून् ।
गृधांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्पपतैलभृष्टान् ॥ ३६ ॥
ण्ठने ॥ मक्षिकाघुणकेशानां तृणानां पतनानि च । प्रायोऽन्नपाने, केशानां नखानां चातिवर्धनम् ॥ पतत्त्रिभिः पतङ्गैश्च श्वापदैश्चाभिघर्षणम् । स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम् ॥ जलाशयानां शैलानां वनानां ज्योतिषामपि । शुष्यतां क्षीय माणानां पततां यच्च दर्शनम् ॥ ” इति । १ शोषस्य श्रसाध्यलक्षणान्याह - महाशनमिति । महदशनं भोजनं यस्य तम् । २ श्रकृशमित्यनेन वयःस्थोऽपि प्रत्याख्याय उपक्रम्यत इति सूच्यते । तदुक्तं तन्त्रान्तरे— “ परं दिनसहस्रं तु यदि जीवति मानवः । सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥ ” इति । " ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् । उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ॥ ” इति माधवकरः । ३ शोषे सामान्यं चिकित्सितं वक्ति - स्थिरादीति । स्थिरादिवर्गसिद्धेन = विदा. रिगणसाधितेन, श्रजाविकेन = श्रजेन श्राविकेन वा । ४ निरूहास्थापनमित्यर्थः । ५ जाङ्गलमांसरसैरित्यर्थः । ६ शोषिणां देयानि मांसानि निर्दिशति - काकानिति । ग्राम्यादिभेदेन षड्विधा बिलाडा निर्दिष्टा निबन्धसङ्ग्रह व्याख्यायाम् – “ ग्राम्यो वन्यस्तोयजातः पक्षिमार्जार-विज्जकौ । सुगन्धवृषणश्चेति मार्जाराः षट् प्रकीर्तिताः ॥ ” इति । गण्डूपदः = किन्चु • लकः, ‘ केचुना ' इति ख्यातः, व्यालाः = = व्याघ्रादिहिंस्राः, बिलेशयाः = शल्लक्यादयः । ७ विविधैः प्रवादैः = अनेकविधैर्वचनैः, यथा - " काकांस्तित्तिरिशब्देन मत्स्य • शब्देन चोरगान् । भृष्टर त्रयान्त्रशब्देन दद्याद् गण्डूपदानपि ॥ ” इति । एवंबिधेन CC - 0. Gurukul Kangri Collection, Haridwar