सुश्रुत संहिता चौखम्बा — पृष्ठ 1271–1280

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1271–1280

पृष्ठ 1271

सुश्रुत संहिता चौखम्बा, पृष्ठ 1271 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri

उत्तरतन्त्रम् ।

कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः ॥ १६३ ॥

नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसङ्क्षये ।

शौम्यन्ति दोषसम्भूता दोषसङ्क्षयहेतुभिः ॥ १६४ ॥

तेषामपनिदाना ये प्रतिकष्टा भवन्ति च ॥

मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते ॥ १६५ ॥

कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते ।

दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ॥ १६६ ॥।

अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः ।

भूयः सन्दूषितो वह्निर्महणीमभिदूषयेत् ॥ १६७ ॥

तस्मात्काय्र्यः परीहारस्त्वतीसारे विरिक्तवत् ।

यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ॥ १६८ ॥

षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता । 0 १११३ पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता ॥ १६ ९ ॥ व्याधिरूपेण तस्य कृच्छ्रादिभिः शमः ॥ कुष्ठं च राजयक्ष्मा च प्रमेो ग्रहणी तथा । मूत्रकृच्छ्राश्मरीकासा प्रतीसार भगन्दरौ ॥ ' इति । दोषजाः = कुपितवातादिदोषजाः । १ कर्मदोषोद्भवाः = पापदोषमूलाः, श्रहेतुकाः = दोषागन्तुहेतुरहिताः । २ ते = कर्म-जाः, श्रक्रियाभिः = अचिकित्साभिः, क्रियाभिः = कृच्छ्रादिप्रायश्चित्तैः, जपहोमादि-भिश्च। ३ ये दोषसङ्क्षय हेतुभिः शाम्यन्ति ते दोषजा इति योज्यम् । श्रनेन दोष. जानां लक्षणमुक्तम् । ४ कर्मदोषजानां लक्षणमभिदधाति - तेषामिति । तेषां = कर्मादिजानाम्, प्रति · कष्टाः = इत्थम्भूतकष्टाः, श्रत्र प्रतिशब्दस्य इत्थम्भूतार्थकत्वम् । ५ कर्मदोषश्चयकृता = यागदानादिदैवव्यपाश्रयेण कर्मक्षयकृता, स्नेहस्वेदनवमनादियुक्तिव्यपाश्रयेण दोषक्षय-कृता, सिद्धिः = साधनमित्यर्थः । ६ ग्रहणीरोगमधिकरोति - दुष्यतीति । जन्तोः प्राणिनः श्रग्निसादन हेतुभिरग्नि-निर्वापणकारणैः ग्रहणी पित्तधरा कला दुष्यति, विकृतिं यातीत्यर्थः । ७ अपिशब्दा-दनिवृत्तेऽप्यतीसारे । अतीसारे द्रवधातुप्रवृत्तिः, ग्रहण्यां तु बद्धस्यापि मलस्य प्रवृत्ति-रिति तयोर्भेदो ज्ञातव्यः । ८ विरिक्तवत् = आतुरोपद्रव चिकित्सितोक्तविधिवत् । ९ परिकीर्तिता = अभिहिता, ' गर्भव्याकरणे शारीरे ' इति शेषः । १० पक्कामाशयमध्यस्था = पच्यमानाश्शयरूपेत्यर्थः । ग्रहणी - अग्न्यधिष्ठानभूता CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1272

सुश्रुत संहिता चौखम्बा, पृष्ठ 1272 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११४ Digitized by Arya Sam श्रुतसंहितायां hai and eGangotri [ अ ० ४०

ग्रहेण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः ।

तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ॥ १७० ॥

एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः ।

सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥ १०१ ॥

पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् ।

ग्रहणी रोग माहुस्तमायुर्वेदविदो जनाः ॥ १७२ ॥

तस्योत्पत्तौ विदाहोऽन्ने सद्नालस्य तृट्क्लमाः ।

बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् ॥ १७३ ॥

अथ जाते भवेज्जन्तुः शूनपादकरः कृशः ।

पर्व रुग्लौल्य तृट्छर्दिज्वरारोचकदाहवान् ॥ १७४ ॥

उद् गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् ।

प्रसेकमुखवैरस्यतर्मकारुचिपीडितः ॥ १७२ ॥

वाताच्छ्रलाधिकैः पायुहृत्पार्श्वोदर मस्तकैः ।

पित्तात् सदा हैर्गरुभिः कफात् त्रिभ्यखिलक्षणैः ॥ १७६ ॥

नाडी, चरकेऽपि – " अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ग्रहणी मता । नाभेरुपरि सा ह्यग्नि-बलोपस्तम्भबृंहिता । अपक्वं धारयत्यन्नं पक्वं सृजति चाप्यधः ॥ ” इति । १ श्रग्नौ दूषिते यथा ग्रहणी दुष्यति तथा दर्शयति-- ग्रहण्या इति ॥ हि यस्माद् ग्रहण्या बलमग्निः, स चाप्यग्निः ग्रहणीं श्रित आश्रितः, तस्माद् वह्नौ सन्दू-षिते ग्रहणी सम्प्रदुष्यतीत्यर्थः । २ अत्यर्थमुच्छितैः = श्रतिवृद्धेरित्यर्थः । ३ बहुशः-बहून् वारान्, श्रमम् = अपक्कम् । 1 = ४ ग्रहणीपूर्वरूपाणि निरूपयति - तस्येति । तस्य = ग्रहणीरोगस्य, उत्पत्तौ = प्रादुर्भावे, अन्ने विदाह: - अग्निमान्यत्वेन आहारस्य विदग्धत्वम् । ५ कर्णक्ष्वेड: = बेणुघोषसमशब्दः, तदुक्तम् - " वायुः पित्तादिभिर्युक्तो वेणुघोषसमं स्वनम् । करोति कर्णयोः दवेडं कर्णक्ष्वेडः स उच्यते ॥ ” इति । ६ ग्रहण्याः पूर्वरूपानन्तरं विशिष्टलक्षणानि निर्दिशति - अथेति । शूनपादकरः शूनौ शोधयुक्तौ पादौ करौ यस्य सः । ७ पर्वरुक् == ग्रन्थिस्फुटनम्, लौल्यं = सर्व-रसाभ्यवहारे लोलुपत्वम् । ८ तमकः = श्वासरोगप्रभेदः । ९ वातादिभेदेन ग्रह-णीलक्षणानि दर्शयति – वातादिति । वातादिप्रभेदेन विशिष्टलक्षणानि ग्रन्थान्त • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1273

सुश्रुत संहिता चौखम्बा, पृष्ठ 1273 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम्

दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः ।

हृत्पाण्डूदर गुल्मार्शःप्लोहाशङ्की च मानवः ॥ १७७ ॥

यथादोषोच्छ्रयन्तस्य विशुद्धस्य यथाक्रमम् ।

पेयादिं वितरेत् सम्यग्दीपनीयोपसम्भृतम् ॥। १७८ ॥

ततः पाचँनसङ्ग्राहिदीपनीयगणत्रयम् ।

पिबेत् प्रातः सुरारिष्टस्नेह मूत्रसुखाम्बुभि: ॥ १७ ९ ॥

तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते ।

कृमिगुल्मोदरार्शोनी: क्रियाचात्रावचारयेत् ॥ १८० ॥

चूर्णं हिस्वादिकं चात्र घृतं वा प्लीह नाशनम् ।

कॅल्केन मगवादेश्च चाङ्गेरीश्वरसेन च ॥ १८१ ॥

चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् । सर्वथा दीपनं सर्वं ग्रहणोरोगिणां हितम् । १११५ रतो ज्ञातव्यानि । १ वर्णैः = कृष्णारुणनीलपीतरक्तासित पाण्डुभिर्वर्णैरित्यर्थः । २ ग्रहणी रोगचिकित्सितमाख्याति - यथेति । विशुद्धस्य = वातोद्र के निरूहेण, पित्तोद्रेके विरेकेण, कफोद्रेके वमनेन शुद्धिमापन्नस्येत्यर्थः । ३ श्रादिशब्दाद् विले-पियूषमृद्दोदनादिकं गृह्यते । ४ पाचनद्रव्यगणो हरिद्रादिना, सङ्ग्राहिद्रव्यगणोऽम्ब. ठादिना, दीपनीयद्रव्यगणश्च पिप्पल्यादिना द्रव्यसङ्ग्रहणीयाध्याये प्रदर्शितः । ५ तक्रस्य गुणोत्कर्षमाह - " न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धः प्रभवन्ति सेगाः । यथा सुराणामनृतं सुखाय तथा नराणां भुवि तक्रमाहुः ॥ ” इति । रोगविशेषे तक्रविशेषानाह— “ वातेऽम्लं सैन्धवोपेतं पित्ते स्वादु सशर्करम् । पिबेत्तकं कफे चापि क्षारत्रिकटुसंयुतम् ॥ हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम् । ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातइरं परम् ॥ ” इति । ६ हिङ्वादिचूर्णं महावातव्याधौ द्रष्टव्यम् । घृतं = षट्पलादिघृतमित्यर्थः । ७ चाङ्गेरीघृतमभिदधाति — कल्केनेति । कल्केन = स्नॆइचतुर्थीशैन, मगधादेः = द्रव्यसङ्ग्रहणीयाध्यायोक्तस्य पिप्पल्यादेः, चाङ्गेरी । ' अमलोनिया ' इति ख्याता, तस्याः स्नैइचतुर्गुणेन स्वरसेनेत्यर्थः । दोपनमग्निदीपनं यत्, तत्सर्व | ग्रहणोरो-गिनां सर्वथा तिमिति योज्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1274

सुश्रुत संहिता चौखम्बा, पृष्ठ 1274 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१११ Pigitized by Arya Samaj Found und सुश्रुत संहितायां angotri [ अ ० ४१ ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः ॥ १८२ ॥

इति सुश्रुतसंहिताय।मुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम ( द्वितीयोऽध्यायः, आदितः ) चत्वारिंशोऽध्यायः ॥ ४० ॥

एकचत्वारिंशोऽध्यायः ।

अथातः शोषप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अनेक रोगानुगतो बहुरोगपुरोगमः ।

दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ॥ ३ ॥

संशोषणाप्रसादीनां शोष इत्यभिधीयते ।

क्रियाक्षयकरैत्वाच्च क्षय इत्युच्यते पुनः ॥ ४ ॥

राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः । १ ग्रहणोरोगोपद्रवाणां ज्वरारोचकादीनां चिकित्सामाह - ज्वरादीनिति । श्रा-दिशब्दादरोचकशूलकरपादशोथाः ग्राह्याः । श्रविरोधात् = मूलव्याधेविंरोधं विनेत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत काय चिकित्सा तन्त्रे सुधाऽऽख्यटिप्पन्यां चत्वारिंशोऽध्यायः । एकचत्वारिंशत्तमोऽध्यायः । २ ज्वरातीसाराभ्यामपि शोषस्य सम्भवादतीसारप्रतिषेधानन्तरं शोषप्रतिषेधमधि. करोति - अथात इति । शोषप्रतिषेधं = यक्ष्मचिकित्सितमित्यर्थः । शोषस्य पर्यायाः राजयक्ष्म - क्षय - यक्ष्मप्रभृतयः । ' क्षयः शोषश्च यदमा च ' इत्यमरः । ३ शोषस्य रोगराजत्वं प्रतिपादयति — अनेकेति । अनेक रोगाः शोथाद्युपद्रवा अनुगता श्राश्रिता यस्य सोऽनेकरोगानुगतः, बहवो रोगाः प्रतिश्यायश्वासादयः पुरो. गमाः पूर्वरूपत्वेन अग्रेसरा यस्य स बहुरोगपुरोगमः, तद् वक्ष्यति – “ श्वासाङ्गमर्दकफ-संस्रवतालुशेाषवम्यग्निसादमदपीनसकासनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥ ” इति । ४ सपर्यायं शोषशब्दं निर्वक्ति - संशोषणादिति । ५ क्रियायाश्चिकित्साया अथवा कायवाङ्मानसकर्मणः क्षयकरत्वादित्यर्थः । ६ किलेति वार्तायाम् । राज्ञश्च-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1275

सुश्रुत संहिता चौखम्बा, पृष्ठ 1275 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४१ ] ANation Digitized by Arya Samaj Foundation Chennai and eGangotri १११७ तस्मावं राजयक्ष्मेति केचिदाहुर्मनीषिणः ॥ ५ ॥

स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि ।

एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ॥ ६ ॥

क्रियाणामविभागेन प्रागेकोत्पादनेन च ।

एक एव मतः शोषः सन्निपातात्मको ह्यतः ॥ ७ ॥

उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि ।

क्षयद्वेगप्रतीघातादाघाताद्विषमाशनात् ॥ ८ ॥।

न्द्रमसोऽयं यक्ष्मा यथा प्रागभूत्, यथा चास्य ' राजयक्ष्मा ' इति संज्ञा समभूदिति वार्तामाह चरकः —— श्रता कथा । कामव्यसन संयुक्ता - “ दिवौकसां कथयामृषिभिर्वै पौराणी शशिनं प्रति ॥ रोहिण्यामतिसक्तस्य शरीरं चातुरचतः । श्राजगामाल्पतामि-न्दोर्देहः स्नैहपरिक्षयात् ॥ दुहितृणामसम्भोगाच्छेषाणां च प्रजापतेः । क्रोधो निश्वा-सरूपेण मूर्तिमान् निःसृतो मुखात् ॥ प्रजापतेहिं दुहितृरष्टाविंशतिरंशुमान् । भार्यार्थं प्रतिजग्राह न च सर्वास्त्रवर्तत || गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम् । रजःपरी-तमवलं यक्ष्मा शशिनमाविशत् ॥ सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः । देवदेव-षिसहितो जगाम शरणं गुरुम् ॥ श्रथ चन्द्रमसः शुद्धां मति बुद्ध्वा प्रजापतिः । प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः ॥ स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः । ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥ क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःख-संज्ञकः । यस्मात् स राज्ञ: प्रागासीद्राजयक्ष्मा ततो मतः ॥ स यक्ष्मा हुङ्कृतोऽश्विभ्यां - मानुषं लोकमागतः । लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान् ॥ ” इति । " नक्ष-त्राणां द्विजानां च राचोऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥ ” इति वाग्भटः । एषा कथा कालिकापुराणादावप्यनुसन्धेया । कर्मदोषजोऽयं व्याधिरिति बोध्यम् । १ व्यस्तैः = पृथग्भूतैः केचित् = पाराशरीयान्तेवासिनः, तद्व. चनमाह शार्ङ्गधरः- “ क्षयाः पन्चैव विज्ञेयास्त्रिभिर्दोषैस्त्रयश्च ते । चतुर्थः सन्निपातेन पञ्चमः स्यादुरःक्षतात् ॥ ” इति । २ परमतनिराकरणाय स्वमते शोषस्यैकत्वे हेतु त्रितयमभिधत्ते - एकेति । एकाद-शानां वातपित्तकफजत्वेन वच्यमाणानां स्वरभेदशूलादीनाम्, एकस्मिन् राजयक्ष्म-रोगे सान्निध्यात् स्वलक्षणत्वेन विद्यमानत्वात् तन्त्रयुक्तितः श्रर्थयुक्तितः, क्रियाणां चिकित्सितानाम् श्रविभागेन वातजादिशोषं प्रति श्रविभज्योपदेशेन, प्राक् पूर्वं दक्ष • द्वारा एकस्यैव उत्पादनेन हि यस्माद्धेतुत्रयमुपन्यस्तमतः सन्निपातात्मकः एक एत्र शोषो मत इत्यर्थः । ३ उद्रेकात् = श्राधिक्यात्, तत्र = राजयक्ष्मणि । ४ शोषोत्पत्तौ चतुर्विधहेतुमभिदधाति - क्षयादिति । क्षयात् = रसादिशुक्रान्तानां CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1276

सुश्रुत संहिता चौखम्बा, पृष्ठ 1276 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -१११८ Digitized by Arya Samaj Foundation Chennai and eGangotri जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः । [ अ ० ४१ कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ॥ ९ ॥

अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तेरम् ।

क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ॥ १० ॥

भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् ।

स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥ ११ ॥

स्वरभेदोऽनिलाच्छलं संलोचश्चांसपार्श्वयोः ।

ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥ १२ ॥

शिरसः परिपूर्णत्वमभक्तच्छन्द एव च ।

कासः कण्ठस्य चोध्वंसो विज्ञेयः कफकोपतः ॥ १३ ॥

घातूनां क्षयात्, वेगप्रतीघातात् = वातमूत्रपुरीषादीनां वेगावरोधात् यदुक्तं चरके— “ ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम् । वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥ ” इति । श्राघातात् = श्रयथाबलमारम्भात्, तदुक्तं तन्त्रान्तरे - " प्रयथाबलमा -रम्भो वेगसन्धारणं क्षयः । यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम् ॥ ” इति । विष माशनात् = अप्राप्तातीतकाल बह्वल्प भोजनात्, " बहु स्तोकमकाले वा विज्ञेयं विषमाश-नम् ” इति । विषमाशनॆन स्रोतोरोधकत्वाद् यदमरोग सम्भवमाह । चरकः - “ विविधा-न्यन्नपानानि वैषम्येण समश्नतः । जनयन्त्यामयान् घोरान् विषमान् मारुतादयः । स्रो तांसि रुधिरादीनां वैषम्याद् विषमं गताः । रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च नाधा. तवः ॥ ” इति । 1 = १ कफः प्रधानमुत्कटं येषां वातादिदोषाणां तैः कफप्रधानैः, रसवर्त्मसु = रसवइध. मनीष्वित्यर्थः । रसवमस्वित्यत्र श्रादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन रक्तादिवइस्रो. तोनिरोधोऽपि बोध्यः । २ अनन्तरं सर्वे धातवः क्षीयन्ते इति सम्बन्धः । यथा रेतसि क्षीणे मज्जा क्षीयते, मज्जनि क्षीणे अस्थि, एवं पूर्वं पूर्वं बोध्यम् । ३ यक्ष्मणः! षड् रूपाणि दर्शयति - भक्तेति । भक्तद्वेषः - भोजनेऽरुचिः । ४ अथ दोषभेदेनैकादशरूपाणि दर्शयन्नाह - स्वरेति । स्वरभेदः = घर्घरादिस्वरः, शू. लमंसपार्श्वयोरेव, संलोचः = लुचितमिव, क्व? अंसपाश्र्वयोः = अंसयोः पार्श्वयोरि · त्यर्थः । ' सङ्कोच ' इति पाठान्तरम् । ५ शिरसः परिपूर्णत्वं कफेनेति शेषः । अभक्तः च्छन्दः = भक्तारुचिः । ६ कण्ठस्य उद्ब्वंसः = कण्ठभेदः, उत्कासिकेति कार्तिकः । एतानि चैकादशरूपाणि प्रायोभाविश्वादुक्तानि श्रन्यतमरूपपरिहाराद्रूपान्तरयोगेऽप्येका-दशत्वं षट्वं च स्यादेवः; तथा हि चरको निदाने एकादशरूपाणि पठित्वा चिकित्सिते-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1277

सुश्रुत संहिता चौखम्बा, पृष्ठ 1277 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४१ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri

एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् ।

( कासातीसारपाश्वार्त्तिस्वरभेदारुचिज्वरैः ॥ १४ ॥

त्रिभिर्वा पीडितं लिङ्गैर्व्वरकासासृगामयैः । ) जह्याच्छोषादितं जन्तुमिच्छन् सुविपुलं यशः ॥ १५ ॥

व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः ।

व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि ॥ १६ ॥

व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः ।

पाण्डुदेहो यथापूर्व क्षीयन्ते चास्य धातवः ॥ १७ ॥

प्रध्यानशीलः ठः स्रस्ताङ्गः शोकशोष्यपि तादृशः ।

विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः ॥ १८ ॥

१११ ९ ऽपि वेगरोधादिकारणचतुष्टयजे प्रतिकारणं चतुर्धा एकादशरूपाणि पठितवान् । यथा-“ कार्सोऽसतापो वैस्वर्ये ज्वरः पार्श्वशिरोरुजा । छदैनं रक्तकफयोः श्वासो वर्चोग्रहोऽरु • चिः । रूपाण्येकादशैतानि यक्ष्मणि षटिमानि च । कासो ज्वरः पार्श्वशुलं स्वरवचों-ग्रहो रुचि: । " इति श्रीकण्ठविजयरक्षितौ । १ बहुरूपो राजयक्ष्मा असाध्यः तं प्रतिपादयति - एकेति । एकादशभिरेभिः = " स्वरभेदोऽनिलान्छूलम् " इत्यादिभिः कण्ठो दूध्वंसान्तैः, षड्भिः = " भक्तद्वेषो ज्वरः ” इत्यादिभिः, अपिशब्दात् तन्त्रान्तरोक्तैस्त्रिभिर्वा, " कासो ज्वरो रक्तपित्तं त्रिरूपे राज • यक्ष्मणि ” इति भोजः । " अंसपार्श्वाभितापश्च सन्तापः करपादयोः । ज्वरः सर्वाङ्गगश्चे-ति लक्षणं राजयक्ष्मणः ॥ ” इति चरकोक्तविशिष्टलक्षणोक्तैस्त्रिभिर्वा समन्वितं ' मांसबल ' क्षये सति ' इति शेषः । जह्यात् त्यजेदिति उत्तरश्लोकस्थेन सम्बन्धः । तथा च चरकः-" वातव्याधिरपस्मारी कुष्ठी ब्रध्नी चिरज्वरी । गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः ॥ श्रचिकित्स्या भवन्त्येते बलमांसपरिक्षयात् । " इति । २ कासातीसारादिभिर्ज्वरान्तैः षलिङ्गेरित्यर्थः । ३ शोषादितं = राजयक्ष्मपी-डितम् । ४ व्यवायादिजनित धातुशोषणमात्रेण राजयक्ष्मत्वमित्येकीयमतं निरस्यन्नाह-व्यवायेति । व्यवायः = मैथुनम् । ५ व्यवायशोषिणो लक्षणं निरूपयति - व्यवा-यशोषीति । व्यवायेन शुष्यत इति व्यवायशोषी, शुक्रस्य क्षयलिङ्गैः । ६ यथोक्तं भगवता स्वयमेव सूत्रस्थाने - " शुक्रक्षये मेदूवृषणवेदना, अशक्तिमैथुने, चिराद्वा प्रसे. कः, प्रसेके चाल्पदर्शनं रक्तस्य शुक्रस्य वा " इति । यथा शुकस्य पूर्वो मज्जा, मज्ज्ञः अस्थि, अस्थ्नो मेदः, मेदसो मांस, मांसस्य रक्तम्, इत्येवं यथापूर्वमित्यर्थः । ७ शोकशोषिणो लक्षणमभिधत्ते - प्रध्यानेति । प्रध्यानशीलः = चिन्तापरः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1278

सुश्रुत संहिता चौखम्बा, पृष्ठ 1278 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-११२० Digitized by Arya Samaj Foundation Chennai and eGangotri जराशोषी कृशो मन्दवीर्य बुद्धिबलेन्द्रियः । [ अ ० ४१ कम्पनोऽरुचिमान् भिन्ने कांस्यपात्रहतस्वरः ॥ १ ९ ॥

ष्ठीवति श्लेष्मरणा हीनं गौरवारुचिपीडितः ।

सम्प्रस्रुतास्यनासाऽतः शुष्कैरू मलच्छविः ॥ २० ॥

अर्ध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः ।

प्रसुप्तगात्रावयवः शुष्कैक्लोमगलाननः ॥ २१ ॥

व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः ।

उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च दताद्विना ॥ २२ ॥

रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् ।

व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः ॥ २३ ॥

व्यायामभाराध्ययनैरभिघातातिमैथुनैः ।

कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् ।

तस्योरसि ' क्षते रक्तं पूयः श्लेष्मा च गच्छति ॥ २४ ॥

कासमानश्छर्दयेच्च पीतरक्तासितारुणम् ।

सन्तप्तवक्षाः सोऽत्यर्थं ' ' दूयनात्परिताम्यति ॥ २५ ॥

१ जराशोषिणो लक्षणं ब्रवीति - जरेति । २ भिन्नस्य स्फुटितस्य कांस्यपात्रस्य इत-स्य दण्डादिनैव स्वरो यस्य स इत्यर्थः । ३ शुष्करूक्षे यथाक्रमं मलच्छवी यस्य सः, ' सुप्तरूक्षमलच्छविः ' इति पाठान्तरम् । अत्र सुप्तरूक्षत्वं प्रभायाः, मञ्चाः क्रोशन्तीति वदुपचारात् । रूक्षत्वं मलस्य बोध्यम् । ४ श्रध्वशोषिणो लक्षणमभिदधाति - अध्वेति । स्रस्ताङ्गः = शिथिलगात्रः, स-म्भृष्टस्य भर्जितस्य इव परुषा छविर्वर्णो यस्य सः । क्लोम -५ क्लोम तिलकम्, शुष्कं गलाननं यस्य सः । ६ व्यायामशोषिणो लक्षणमाख्याति - व्यायामेति । एभिः = पूर्वोक्तैरध्वशोषिलक्षणैः, अध्वनो व्यायाममात्र सामान्यात् । भूयिष्ठम् = अत्यर्थम्, अध्वशोषे श्रल्पानि लक्षणानि, व्यायामजे तु महान्तीत्यर्थः । ७ व्रणशोषिणो लक्षणमाचष्टे – रक्तेति । रक्तक्षयात् = रक्तातिस्रुतेरित्यर्थः । ८ उरःक्षतशोषिणो लक्षणमुपदिशति - व्यायामेति । व्यायामः = शरीरायासजनक • श्रमः । ९ उरस्येन = धनुराकर्षणादिना कर्मणेत्यर्थः । “ धनुषाऽऽयस्यतोऽत्यर्थं भार • मुद्दतो गुरुम् । युध्यमानस्य बलिभिः पततो विषमोच्चतः ॥ " इत्यादिना माधव करेण उरःक्षतशोषियो लक्षणमुक्तम् । १० क्षते = विदारिते इत्यर्थः । ११ दूयनात् = अति-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1279

सुश्रुत संहिता चौखम्बा, पृष्ठ 1279 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ११२१ वेदनात्,

दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः ।

केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः ॥ २६ ॥

न तंत्र दोषलिङ्गानां समस्तानां निपातनम् । ८ क्षया एव हि ते ' ज्ञेयाः प्रत्येकं धातुसंज्ञिताः ॥ २७ ॥

चिकित्सितं तु तेषां हि प्रागुक्तं धातुसँङ्क्षये ॥ २८ ॥

श्वासौङ्गसादकफसंस्रवतालुशोष-च्छद्यग्निसादमदपीनसपाण्डुनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥ २ ९ ॥

स्वप्नेषु काकशुकशैल्लकिनीलकण्ठ-गृध्रास्तथैव कपयः कृकलासकाश्च ।

तं वाहयन्ति स नदीर्विजलाश्च पश्ये-च्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ॥ ३० ॥

परिताम्यति = मोहमाप्नोति1 १ एकीयमतमभिधत्ते - केषाञ्चिदिति । केषाञ्चिदाचार्याणां मते एवं कारणैर्व्य-जायादिभिरनेकैः कारणैहि यस्माच्छोषो भेदं पृथग्भावमागतः, अतः एक एव शोष इति सात्पर्यम् । २ तत्र = तेषु व्यवायादिषु । ३ ते = व्यवायादिजाः, धातुसन्चिताः = तेषां क्षयनामधेयखेऽपि प्रत्येकं धातुक्षयतज्ञका इत्यर्थः । ४ धातुसङ्क्षये = दोष-धातुमलक्षयवृद्धिविज्ञानीयाध्याये । ५ अधुना राजयक्ष्मणः पूर्वरूपं दर्शयति - श्वासेति । श्वासादयो भविष्यति उत्पद्यमाने शोषे भवन्तीति सम्बन्धः । अङ्गसादः = अङ्गग्लानिः, कफसंस्रवः = कफष्ठी • वनम्, अग्निसादः = अग्निमान्द्यम्, मदः = षत्तूरफलभक्षणादिव मनोमोद्द इति वाचस्पतिः । पोनसः = प्रतिश्यायः । ६ शुक्लेक्षणः - शुक्लनयनः, मांसपरः = मांस · भक्षणेच्छुः, रिरंसुः = स्त्रियं रन्तुमिच्छुः । ७ शल्लकी = ‘ साही ' इति ख्याता । नीलकण्ठः = मयूरः । कृकलासकः - ' गिरगिट ' इति ख्यातः । ८ तं = शोषिणम्, वाहयन्ति = प्रापयन्ति, विजलाः = निर्जलाः, ॥ दवः = वनाग्निः, अदितान् = अभिभूतान् " चकारात्तृण केशनिपातादयो बोध्याः । तदुक्तं चर-के– “ पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम् । श्रदोषेष्वपि भावेषु, काये बीभत्सद-र्शनम् ॥ घृणित्वमश्नतश्चापि बलमांसपरिक्षयः । स्त्रीमद्यमांसप्रियता प्रियता चावगु • ७१ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1280

सुश्रुत संहिता चौखम्बा, पृष्ठ 1280 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२२ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४१

महाशनं क्षीयमाणमतीसारनिपीडितम् ।

शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ॥ ३१ ॥

उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् ।

स्थिरौदिवर्गसिद्धेन घृतेनाजाविकेन च ॥ ३२ ॥

स्निग्धस्य मृदु कर्त्तव्यमूर्ध्वञ्चाधश्च शोधनम् ।

आस्थापनं तथा कार्य्यं शिरसश्च विरेचनम् ॥ ३३ ॥

यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः ।

दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम् ॥ ३४ ॥

व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः ।

बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ॥ ३५ ॥

काकानुल्कान्नकुलान बिडालान गण्डूपदान व्यालबिलेशयाखून् ।

गृधांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्पपतैलभृष्टान् ॥ ३६ ॥

ण्ठने ॥ मक्षिकाघुणकेशानां तृणानां पतनानि च । प्रायोऽन्नपाने, केशानां नखानां चातिवर्धनम् ॥ पतत्त्रिभिः पतङ्गैश्च श्वापदैश्चाभिघर्षणम् । स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम् ॥ जलाशयानां शैलानां वनानां ज्योतिषामपि । शुष्यतां क्षीय माणानां पततां यच्च दर्शनम् ॥ ” इति । १ शोषस्य श्रसाध्यलक्षणान्याह - महाशनमिति । महदशनं भोजनं यस्य तम् । २ श्रकृशमित्यनेन वयःस्थोऽपि प्रत्याख्याय उपक्रम्यत इति सूच्यते । तदुक्तं तन्त्रान्तरे— “ परं दिनसहस्रं तु यदि जीवति मानवः । सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥ ” इति । " ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् । उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ॥ ” इति माधवकरः । ३ शोषे सामान्यं चिकित्सितं वक्ति - स्थिरादीति । स्थिरादिवर्गसिद्धेन = विदा. रिगणसाधितेन, श्रजाविकेन = श्रजेन श्राविकेन वा । ४ निरूहास्थापनमित्यर्थः । ५ जाङ्गलमांसरसैरित्यर्थः । ६ शोषिणां देयानि मांसानि निर्दिशति - काकानिति । ग्राम्यादिभेदेन षड्विधा बिलाडा निर्दिष्टा निबन्धसङ्ग्रह व्याख्यायाम् – “ ग्राम्यो वन्यस्तोयजातः पक्षिमार्जार-विज्जकौ । सुगन्धवृषणश्चेति मार्जाराः षट् प्रकीर्तिताः ॥ ” इति । गण्डूपदः = किन्चु • लकः, ‘ केचुना ' इति ख्यातः, व्यालाः = = व्याघ्रादिहिंस्राः, बिलेशयाः = शल्लक्यादयः । ७ विविधैः प्रवादैः = अनेकविधैर्वचनैः, यथा - " काकांस्तित्तिरिशब्देन मत्स्य • शब्देन चोरगान् । भृष्टर त्रयान्त्रशब्देन दद्याद् गण्डूपदानपि ॥ ” इति । एवंबिधेन CC - 0. Gurukul Kangri Collection, Haridwar