सुश्रुत संहिता चौखम्बा — पृष्ठ 1291–1300

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1291–1300

पृष्ठ 1291

सुश्रुत संहिता चौखम्बा, पृष्ठ 1291 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४२ ] Digitized by Arya S युत्तर सम्म Fhennai and eGangotri ११३३

चैतस्तु सुविन्नान स्रंसनेनोपपादयेत् ।

विम्लापेनाभ्यञ्जनानि तथैव दहनानि च ॥ ५७ ॥

उपनाहाश्च कर्त्तव्याः सुखोष्णाः शाल्वणादयः ।

उदरोक्तानि सँपषि मूत्रवर्त्तिक्रियास्तथा ॥ ५८ ॥

लवणौनि च योज्यानि यान्युक्तान्यनिलामये ।

वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ॥ ५ ९ ॥

कृत्वा पायौ विधातव्या वर्त्तयो मरिचोत्तराः ।

दन्तीचित्रकमूलेषु तथा वातरेषु च ॥ ६० ॥

कुर्यादरिष्टान् सर्वांश्च सूत्रस्थाने यथेरितान् ।

खादेद्वाऽप्यकुरान् भृष्टान् पूतीकनृप योः ॥ ६१ ॥

ऊर्ध्वतं मनुष्यञ्च गुल्मिनं न निरूहयेत् ।

पिबेत त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ॥ ६२ ॥

गुग्गुलुं त्रिवृतां दन्तीं II " द्रवन्तीं सैन्धवं वचाम् ।

मूत्र मद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम् ॥ ६३ ॥

एवं पीलूनि पिष्टानि पिबेत् सलवणानि तु ।

पिप्पलीपिप्पलीमूलचव्यचित्रक सैन्धवैः ॥ ६४ ॥

युक्ता हन्ति सुरा गुल्मं शीघ्रं काले १३ प्रयोजिता ।

बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ॥ ६५ ॥

कुल्माषान् ' ' वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् । १ उपपादयेत् = योजयेदित्यर्थः । २ अङ्गुल्यादिना गुल्मस्य मर्दनं विम्लापनम्, दद्दनानि = जाम्बवौष्ठादिना दादाः । ३ शाल्वणादयः शाल्वणप्रकारा उपन'द्दाः । ४ तत्र हरीतकीचूर्णप्रस्थमित्यादिना सपष्युक्तानि । वमनशिरोविरेचनद्रव्याणा-मित्यादिना तत्र मूत्रवर्तिक्रिया प्रत्युक्ताः । ५ पत्रलवण - स्नेहलवण - कल्याणलवणा. नोत्यर्थः । ६ सामुद्रं = समुद्रलवणम् । ७ मरिचोत्तराः = मरिचप्रधानाः । ८ सूत्रस्थाने विरेचनकल्पे इत्यर्थः । ९ पूतीकः = करञ्जकः, नृग्वृक्षः = शम्पाकः । १० ऊर्ध्ववातमूर्ध्ववातयुतं गुल्मिनं मनुष्यं न निरूहयेदिति सम्बन्धः । ११ द्रवन्ती = दन्तीभेदः । १२ एवं = मूत्रमद्यादिभिरित्यर्थः । भृष्टानीत्यत्र पिष्टानीति पाठान्तरम् । १३ काले = श्राध्मानाद्यवस्थायाम् । १४ कुल्माषान् सम्यक् स्विन्नान् यवगोधूमम-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1292

सुश्रुत संहिता चौखम्बा, पृष्ठ 1292 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११३४ by Arya Samaj Fouring Chelk सुश्रुतसंहिताय Gangotri अथास्योपद्रवः शूलः कथञ्चिदुपजायते ॥ ६६ ॥

शूलं ' निखानितमिवासुखं येन तु वेत्यसौ । [ अ ०४२ तत्रे विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ॥ ६७ ॥

तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता ।

रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ॥ ६८ ॥

वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा वीक्ष्य योजयेत् ।

पथ्यात्रिलेवरणं क्षारं हिङ्गुतुम्बुरु पौष्करम् ॥ ६ ९ ॥

यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम् ।

विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ॥ ७० ॥

काश्मरीफलयष्ट्याह्नपरूषकहिमानि च ।

षड्ग्रन्थाऽतिविषादारुपथ्यामरिचवृक्षकान् ॥ ७१ ॥

कृष्ण ५० मूलकचव्यञ्च नागरक्षारचित्रकान् ।

उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ॥ ७२ ॥

यथाक्रमं११ ' विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे ।

तथैव सेकावगाह प्रदेहाभ्यङ्गभोजनम् ॥ ७३ ॥

e यान् भक्ष्यान् । १ शुलं = कीलकमित्यर्थः । २ शूलं दोषलिङ्गतः सप्तधा विशिनष्टि-तत्रेति । तत्र = शुले । ३ अन्नस्य विदाहेन परिवृद्धिर्यस्य शूलस्य तस्य भावो विदग्धपरिवृद्धिता । ४ भुक्तमात्रे वृद्धिर्भुक्तवृद्धिः । ५ मित्रैः द्वन्द्वैः " सान्निपात-कैश्चेत्यर्थः । वीक्ष्य = वातादिदोषभेदेन शूलं विचार्य । ६ त्रिलवणं = सैन्धवसौवर्चल विडाख्यम्, क्षारः = यवक्षारः, तुम्बुरु = धान्याकन् । ७ श्रभीरुः = शतावरी, शृङ्गाटी - ' सिंघाड़ा ' इति ख्याता | गुडशर्करा = गाङ्गटीफलम् । ८ परूषकः = ‘ फालसा ' इति ख्यातः । हिमं = चन्दनम् । ९ षड्ग्रन्था = वचा, अति. विषा = ' प्रतीस ' इति प्रथते । वृक्षकः = इन्द्रयवाः । १० मूलकं = पिप्पलीमूलम् । ११ वातिके पथ्याऽऽद्यम्लवेत सान्तयोग मग्लकाञ्जिकेन, पैत्तिके विदार्यादिद्दिमान्त-योगमुष्णक्षीरेण, इलैष्मिके षड्यन्थादिचित्र कान्तयोगमुष्णतोयेन । विमिश्रांश्च द्वन्द्वे अर्थाद् वातपैत्तिके पथ्यादि विदार्यादि च, वातश्लैष्मिके पथ्यादि षड्ग्रन्थादि च, पित्तश्लैष्मिके विदार्यादि षड्ग्रन्थादि च । सर्वजे सन्निपाते सर्वान् पथ्यादीन् त्रीनित्यर्थः । १२ तथैव = यथासंख्यमित्यर्थः । श्रर्थाद् वातिके सेकादिकं, पैत्तिके CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1293

सुश्रुत संहिता चौखम्बा, पृष्ठ 1293 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४२ ] Digitized by Arya Samaja Chennai and eGangotri ११३५

शिशिरोदकपूर्णानां भाजनानाञ्च धारणम् ।

वमनोन्मर्दनश्वेदलङ्घनक्षपण क्रियाः ॥ ७४ ॥

स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते ।

वेल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ॥ ७५ ॥

नखादेदालु गुल्मी मधुराणि फलानि च ।

विनो गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ॥ ७६ ॥

निदानं तस्य वक्ष्यामि रूपञ्च सचिकित्सितम् ।

वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ॥ ७७ ॥

अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात् ।

पानीयपानात क्षुल्काले विरूढानाञ्च सेवनात् ॥ ७८ ॥

पिष्टान्नशुष्क मांसानामुपयोगात्तथैव च ।

एवंविधानां द्रव्याणामन्येषां चोपसेवनात् ॥ ७ ९ ॥।

वायुः प्रकुपितः कोष्ठे शूलं सञ्जनयेद् भृशम् ।

निरुच्छ्वासो भवेत्तेन वेदनापीडितो नरः ॥ ८० ॥

शङ्कुस्फोटनवत्तस्य यस्मात्तीब्राश्च वेदनाः । शिशिरोदकादिकं, इलैष्मिके वमनादिकम् । १ गुल्मे वर्ज्यमभिदधाति - वल्लूरमिति । वल्लूरं - शुष्कमांसम् । २ गुल्मो-पद्रवं शूलमुक्खा केवलं शूलं वक्ति - विनेति । गुल्मस्थानेष्विति स्थानपदेन तत्समी-पवर्तित्रिकपृष्ठादिदेशेष्वपि बोध्यम्, तत्रापि शूलोत्पत्तेः । तदुक्तम्- " वायुः प्रवृद्धो जन-येद्धि शूलं हरपार्वपृष्ठत्रिकवस्तिदेशे " इति । ३ शूलस्य निदानं सम्प्राप्ति चाभिदधाति - वातेति । निग्रहात् = वेगकाले निरोधात् । शुक्रस्य निग्रहादपि बोध्यम् । तदुक्तम् - " विट्शुक्र मूत्रानिलवेगरोधाच्छो-कोपवासादतिहास्य भाष्यात् ” इति । ४ " अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ” इत्यध्यशनम् । विरुद्धान्नं हिताहितीये द्रष्टव्यम् । ५ विरूढानाम् = अङ्कुरिता. नाम् । ६ “ कलायमुद्गाढ किकोर दूषादत्यर्थं रूक्षाध्यशनाभिघातात् " इत्यादिकानाम् । ७ शूलनिरुक्ति वक्ति – शक्विति । शङ्कुस्फोटनवत् = कीलका इननवत् । शूल = स्योत्पत्तिमाह हारीत: - " अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च । तमा-पतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः ॥ स विष्णुहुङ्कारविमोहि • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1294

सुश्रुत संहिता चौखम्बा, पृष्ठ 1294 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-११३६ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४२ शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ॥ ८१ ।

निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते ।

प्रस्तैब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ॥ ८२ ॥

वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ।

एतैर्लिङ्गर्विजानीयाच्छूलं वातसमुद्भवम् ॥ ८३ ॥

तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च ।

शीताभिकामो भवति शीतेनैव प्रशाम्यति ॥ ८४ ॥

एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् ।

शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ॥ ८५ ॥

श्रतीव पूर्णकोष्ठत्वं तथव गुरुगात्रता ।

एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निर्देशनम् ॥ ८६ ॥

सर्वाणि दृष्टा रूपाणि निदिशेत्सान्निपातिकम् ।

सन्निपातसमुत्थानमसाध्यं तं विनिदशेत् ॥ ८७ ॥

शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे 1 तात्मा पपात भूमौ प्रथितः स शूलः । स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः ॥ ” इति । १ वातिकशूलस्य लक्षणमुपदिशति - निराहारस्येति । २ प्रस्तब्धगात्रः = जडीभूतशरीरः, कृच्छ्रेण = कष्टेनेत्यर्थः । ३ पैत्तिकशूलस्य लक्षणमाख्याति - तृष्णेति । दाहो नाभ्याम्, पित्तशूलस्य स्थानत्वात् । तदुक्तम् - " तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमचोषयुक्तम् " इति । लक्षणमभिधत्ते - शूले. ४ कफजशूलस्थ नेति । हल्लासः == उपस्थितवमनत्वमिव । ५ निश्चित्य दृश्यत उपलभ्यतेऽनेनेति निदर्शनं लिङ्गमित्यर्थः । ६ सान्निपातिकशूलस्य लक्षणमभिदधाति - सर्वाणीति । कैश्चिद् दोषभेदेन शूलस्य नियतं स्थानमुक्तम् — “ वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि वद-न्ति नाभ्याम् । हृत्पार्श्वकुक्षौ कफसन्निविष्टं, सर्वेषु देशेषु च सन्निपातात् ॥ ” इति । “ बस्तौ हृत्पाश्र्वपृष्ठेषु स शूल: कफवातिकः । कुक्षौ हृन्नाभिमध्येषु स शूल: कफपै -त्तिकः ॥ दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः । " इति वातकफजादेः स्थानसंश्रय • खेन बोध्यम् । ७ विनिर्दिशेत् = जानीयादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1295

सुश्रुत संहिता चौखम्बा, पृष्ठ 1295 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४२ ] Digitized by Arya Sar Chennai and eGangotri ११३७ आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ॥ ८८ ॥

तस्य शूलाभिपन्नस्ये स्वेद एव सुखावहः ।

पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ॥। ८ ९ ॥

त्रिवृच्छ । केन वा स्निग्धमुष्णं भुञ्जीत भोजनम् ।

चिरबिल्वाङ्कुररान् वाऽपि तैलभृष्टांस्तु भक्षयेत् ॥ ९ ० ॥

वैहङ्गांश्च रसान् स्निग्धान् जौङ्गलान् शूलपीडितः ।

यथालाभं निषेवेत मांसानि बिलशायिनीम् ॥ ९ १ ॥

सुरासौवीरकं चुकं मस्तूदश्वित्तथा दधि ।

सकाललवणं पेयं शूले वातसमुद्भवे ॥ ९ २ ॥

कुलत्थयूपो युक्ताम्लोलावकीय संस्कृतः ।

ससैन्धवः समरिचो वातशूलविनाशनः ॥ ९ ३ ॥

विडङ्गशिग्रुकम्पिलैपध्याश्यामाऽम्लवेतसान् ।

" सुरसामश्वमूत्र च सौवर्चलयुतान् पिवेत् ॥ ९ ४ ॥

मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति ।

' ' पृथ्वीकाऽजाजिचविकायवानीव्योषचित्रकाः ॥ ९ ५ ॥

पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत् । १२ तानि चूर्णानि पयसा पिबेत् " काम्बलिकेन वा ॥ ९ ६ ॥ मध्वासवेन चुक्रेण ३ सुरासौवीरकेण वा । १ वातिकशूल चिकित्सामाह - आशुकारीति । २ शूलाभिपन्नस्य = वातिक-शूलयुक्तस्य । ३ स्वेदद्द्रव्याण्येव निर्दिशति – पायसैरिति ॥ " अतप्ततण्डुला धौताः परिभृष्टा घृतेन च । खण्डयुक्तेन दुग्धेन पाचिताः पायसो भवेत् ॥ ” इति । ४ आहारमुपदिशति — त्रिवृदिति । ५ जाङ्गलान् वैद्दङ्गानिति सम्बन्धः । ६ बिलशायिनां श्वाविच्छल्लकादीनामित्यर्थः । ७ मस्तु = दधिमस्तु, उदश्वित् = अर्धोदकेन मथितं तक्रम् । ८ लावकीयूष संस्कृतः = क्षुदलावकृतयूष सम्मिश्रः । ९ क ' म्पिल्लः = ' कवीला ' इति ख्यातः । पथ्या हरीतको, श्यामा = रक्तमूला त्रिवृत् । १० सुरसा = तुलसी, अश्वमूत्री = शल्लकी । ११ पृथ्वीका = दिङ्गुपत्री । १२ काम्बलिकेन = दधिमस्त्वम्लादिसिद्धयूष विशेषेण । तदुक्तम् - " अथ काम्बलि कोऽपरः । दध्यम्ललवणस्नेह तिलमाषसमन्वितः ” इति । १३ चुकेण == शुक्तेनैत्यर्थः । ७२ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1296

सुश्रुत संहिता चौखम्बा, पृष्ठ 1296 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११३८ by Arya Samaj F सुश्रुतसंहितायां Gangotri Fd [ अ ० ४२ अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ॥ ९ ७ ॥

तथा बदरयूषेण भावितानि पुनः पुनः ।

तानि हिङ्गुप्रगाढानि सह शकेरया पिबेत् ॥ ९ ८ ॥

सह दाडिमसारेण वर्त्तिः कार्या भिषग्जिता ।

सा वर्त्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ॥ ९९ ॥

P गुडतैलेन वालीढा पीता मद्येन वा पुनः ।

बुभुक्षाप्रभवे शूले लघु सेन्तपणं हितम् ॥ १०० ॥

उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मासरसैस्तथा ।

वातशुले समुत्पन्ने रूक्षं स्निग्वेन भोजयेत् ॥ १०१ ॥

सुसंस्कृताः प्रदेयाः स्युर्वृतपूरा विशेषतः ।

वारुणीच पिबेज्जन्तुस्तथा सम्पद्यते सुखी ॥ १०२ ॥

एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम् ।

अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् ॥ १०३ ॥

सुखं छत्वा तु पीत्वा शीतोदकं नरः ।

शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् ॥ १०४ ॥।

मणिराजतताम्राणि भाजनानि च सर्वशः ।

वारिपूर्णानि तान्यस्य शूलस्योपरि निःक्षिपेत् ॥ १०५ ॥

गुड: शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम् ।

जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥। १०६ ॥

रसान् सेवेत पिंत्तघ्नान् पित्तलानि विवर्जयेत् ।

पालाशं धान्वनं वाऽपि पिबेद् यूषं सशर्करम् ॥ १०७ ॥

परूषकारिण मृद्वीकाखर्जूरोदकजान्यपि । १ भिषग्जिता = वैद्येन । २ सन्तर्पणं = भोजनम् । ३ घृतपूराः = ‘ घेवर ' इति ख्याताः । सुसंस्कृताः = शुण्ठीमरिचादिभिः साधिताः । ४ पैत्तिकशूलस्य चिकित्सामाचष्टे - अथेति । ५ छर्दयित्वा - वामयित्वा । ६ सर्वशः = भाजनस्य मुखपर्यन्तम् । ७ पित्तघ्नान् == जाङ्गलवर्गोक्तान् पित्तहरान् । ८ पालाशं यूषं धान्वनं यूषं वेति सम्बन्धः । पालाशं यूषं = मांसादमांसरसम्, धा न्वनं यूषं = जाङ्गलमांसरसम् । ९ उदकजानि = पद्मानीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1297

सुश्रुत संहिता चौखम्बा, पृष्ठ 1297 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०४२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ११३ ९ तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् ॥ १०८ ॥

अने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च ।

वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् ॥ १० ९ ॥

रूक्षः स्वेदः प्रयोज्यः स्यादन्याञ्चष्णाः क्रिया हिताः ।

पिप्पलीशृङ्गवेरञ्च श्लेष्म शूले भिषग्जितम् ॥ ११० ॥

पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम् चित्रकस्य च निर्यूहे पिबेद् यूषं सहार्जकम् ॥ १११ ॥

एरण्ड फलमूलानि मूलं गोक्षुरकस्य च ।

शालपर्णी पृश्निपर्णी बृहतीं कण्टकारिकाम् ॥ ११२ ॥

दद्याच्छ्गौलविन्नाञ्च सहदेवां तथैव च ।

महासहां क्षुद्रसहां मूलमिक्षुरकस्य च ॥ ११३ ॥

एतत् सम्भृत्य सम्भारं जलद्रोणे विपाचयेत् ।

चतुर्भागावशेषन्तु I " यवक्षारयुतं पिबेत् ॥ ११४ ॥।

वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम् ।

प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ॥ ११५ ॥

पिप्पली स्वर्जिकाक्षारो " यवाश्चित्रक एव च । II १२ सेव्यचैतत्समानीय भस्म कुर्य्याद्विचक्षणः ॥ ११६ ॥

दुष्णवारिणा पीतं श्लेष्म शूले भिषग्जितम् । ५३ रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ॥ ११७ ॥

१ श्लैष्मिकशूल चिकित्सामाख्याति - अशन इति । श्रशने = भोजने । २० | प्पलीवारिणा = पिप्पलीयुतजलेन । ३ रूक्षः = करीषादिभिः कृतः । ४ कटुकरो -हिणी = ' कुटकी ' इति ख्याता । ५ निर्य है == काथे, यूषं = शूलघ्नं शिम्बिधान्ययुषम्, अजंकः == ' बबई ' इति ख्यातः । ६ एरण्डादिप्रयोगं प्रतिपादयति - एरण्डेति । ७ शृगालविन्ना = बृहत्पत्रा पृ • निपणीं । ८ महासद्दा = माषपर्णी, क्षुद्रसहा = मुद्गपणी, इक्षुरकस्य = ' तालम-' खाना ' इति ख्यातस्य । ९ एरण्डादिद्रव्यसम्भारमित्यर्थः । १० यवक्षारमत्र प्रस्थप्र-मितं प्रदाय लेहीभूतं पचेत् । ११ यवः = यवक्षारः । १२ सेव्यं भस्मेति सम्बन्धः । सेव्यम् = उशीरम् । १३ पाश्र्वशूल निदानमाह -- रुणद्धीति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1298

सुश्रुत संहिता चौखम्बा, पृष्ठ 1298 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४० Digitized by Arya Samajकुतस्तंहितायां Gangotri [ अ ० ४२

से संरुद्धः करोत्याशु साध्मानं गुडगुडायनम् ।

सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ॥ ११८ ॥

नानं वाञ्छति नो निद्रामुपैत्येर्त्तिनिपीडितः ।

पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ॥ ११ ९ ॥

तंत्र पुष्करमूलानि हिङ्गुसौवर्चलं विडम् ।

सैन्धवं ' तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् ॥ १२० ॥

पार्श्वद्वस्तिशूलेषु यवक्वाथेन संयुतम् ।

सर्पिः लीहोदंरोक्तं वा घृतं वा हिङ्गुसंयुतम् ॥ १३१ ॥

बीजपूरकसारं वा पयसा सह साधितम् ।

एरण्डतैलमथवा मद्यमस्तुपयोरसैः ॥ १२२ ॥

भोजयेच्चापि पयसा जाङ्गलेन रसेन वा ।

प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः ॥ १२३ ॥

तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते ।

उच्छ्वसित्यामशकृता ' ' शूलेनाहन्यते मुहुः ॥ १२४ ॥

नैवासने न शयने तिष्ठन् वा लभते सुखम् ।

कुक्षिशूल इति ख्यातो वातादामसमुद्भवः ॥ १२५ ॥

वमनं ' ' कारयेत्तत्र लङ्घयेद्वा यथाबलम् ।

संसर्गपाचनं कुर्यादम्लैर्दीपन संयुतैः १२ २ ॥ १२६ ॥

१ सः = वायुः, साध्मानम् = उदरापूर सहितम् । २ अर्तिनिपीडितः = शुलपीडितः । ३ पार्श्वशूलस्य चिकित्सां दर्शयति - तत्रेति । ४ तुम्बुरुः = धान्याकम् । ५ प्ली. होदरोक्तं सर्पिः षट्पलं घृतम्, घृतं वा श्रसिद्धं घृतं वा । ६ बीजपूरकसारः = जम्बीरफलमज्जा, ' सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले घने ' इति मेदिनी । पय-सा = क्षीरेण । ७ मस्तु = दधिमस्तु, पयः = क्षीरम्, रसः = मांसरसः । ८ कुक्षिशूलनिदानमुपदिशति - प्रकुप्यतीति । श्राक्रम्य = मन्दीकृत्य । ९ सो-पस्तम्भं == जढीभावान्वितम् । १० श्रमशकृता = अपक्कपुरीषेण । ११ कुक्षिशूनस्य चिकित्सामभिधत्ते - वमनमिति । १२ दीपनसंयुतै हिँडु सैन्धवसमन्वितैः अम्लैदडि-मतक्रादिभिः संसर्गपाचनं पेयादिक्रमपाचनं कुर्यादिति सम्बन्धः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1299

सुश्रुत संहिता चौखम्बा, पृष्ठ 1299 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४२ ] Digitized by Arya Samarin Chennai and eGangotri ११४१

नागरं दीप्यकं चव्यं हिङ्ग सौवर्चलं विडम् ।

मातुलुङ्गस्य बीजानि तथा श्यामोरुबुकयोः ॥ १२७ ॥

बृहत्याः कण्टकार्य्याश्च क्वाथं शूलहरं पिबेत् ।

वचौसौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया ॥ १२८ ॥

कुटजस्य च बीजनि सद्यः शूलहराणि तु ।

विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ॥ १२ ९ ॥

स्नेहस्तोन्निरूहांच कुर्य्याद् दोषनिवर्हणान् ।

उपनाहा: स्नेहसेका धान्याम्लपरिषेचनम् ॥ १३० ॥

अवगाहाञ्च शस्यन्ते यच्चान्यदपि तद्धितम् ।

कफपित्तावरुद्धस्तु मारुतो रसमूच्छितः ॥ १३१ ॥

हृदिस्थः कुरुते शूलमुच्छ्वासाधिकं परम् ।

स हृच्छूल इति ख्यातो रसमारुतसम्भवः ॥ १३२ ॥

तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् ।

संरोधात कुपितो वायुर्वस्तिमावृत्य तिष्ठति ॥ १३३ ॥

" बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते ।

विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् ॥ १३४ ॥

नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेदान्तमर्दकः ।

मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् ॥ १३५ ॥

१ कुक्षिशूले क्वाथं ब्रवीति - नागरमिति । दीप्यकः = श्रजमोदा | २ बीजा-नीति पदं मातुलुङ्गस्येत्यादिभिः प्रत्येकं षष्ठयन्तेन पदेन सम्बध्यते । श्यामा = वृद्धदा-रकः, उरुबूकः = रक्तैरण्ड: । ३ कुक्षिशूले विरेचनमाचष्टे - वचेति । श्रतिविषा = ' अतीस ' इति ख्याता । श्रभया = हरीतकी । ४ कुटजस्य बीजानि = इन्द्रयवाः । ५ धान्याम्लं = काञ्जिकम् । ६ अवगाहः = वातघ्नद्रव्यद्रव पूर्णं द्रोण्यादिनिमज्जनम् । ७ हृच्छूलस्य निदानं चिकित्सां च वक्ति - कफेति । रसमूच्छितः रसान्वितः । द • हृद्विकारिणां = हृद्ोगिणाम् । ९ बस्तिशूलस्य निदानमाह - संरोधादिति । १० बस्तिः = मूत्राशयः, वङ्क्षणः - बस्त्यधः उरुमेद्राणामन्तरालसन्धिः । ११ मूत्रशूल-निदानमाख्याति - नाभ्यामिति । यदा मेदान्त्रमर्दको वायुः श्रावृत्य अवरुध्य गृह्णाति, मुत्रमिति शेषः, तदा नाभ्यां वङ्क्षणपाश्र्वेषु शूलो जायते; स मारुतान्मूत्रशूलो बोध्य इति योजना । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1300

सुश्रुत संहिता चौखम्बा, पृष्ठ 1300 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः । [ अ ०४२ मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् ॥ १३६ ॥

शूलं सञ्जनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि ।

दक्षिणं यदि वा वामं कुक्षिमादाय जायते ॥ १३७ ॥

सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषैवान् ।

पिपासा वर्द्धते तीव्रा भ्रमो मूर्च्छा च जायते ॥। १३८ ॥

उच्चौरितो मूत्रितश्च न शान्तिमधिगच्छति ।

विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् ॥ १३ ९ ॥

क्षिप्रं दोषहरं कार्य्यं भिषजा साधु जानता ।

स्वेदनं वमनचैव निरूहाः स्नेहबस्तयः ॥ १४० ॥

पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान् ।

उदावर्त्तहराश्चास्य क्रियाः सर्वाः सुखावहाः ॥ १४१ ॥

अतिर्मात्रं यदा भुक्तं पावके मृदुतां गते ।

स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति ॥ १४२ ॥

अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति ।

मूर्च्छा ssa मानं विदाहश्च हृदुत्क्लेशो विलम्बिका ॥। १४३ ॥

१ पुरीषशूलस्य निदानं ब्रवीति - वायुरिति । २ सघोषवान् = शब्दयुक्तः । ३ उच्चारितः = विसृष्टपुरीषः । ४ परमदारुणम् = अत्यन्त कष्टकारि । ५ बस्तिशू · लादीनां सामान्यं चिकित्सितमभिधत्ते - क्षिप्रमिति । दोषहरं = शोधनम् । ६ पूर्वो द्विष्टान्सूत्रस्थाने त्रिचत्वारिंशच्चतुश्चत्वारिंशदध्यायोपदिष्टान् । ७ उदावर्तद्दराः क्रिया उदावर्तप्रतिषेधाध्याये वच्यमाणाः । ८ श्रविपाकजशूलस्य लक्षणमाह - -अतिमात्रमिति । ९ श्रविपाकगतम् = श्रविपाकं प्राप्तम् । परिणामशूलमाह तन्त्रान्तरे- " बलासः प्रच्युतः स्थानात् पित्तेन सह मूच्छितः । वायुमादाय कुरुते शूलं जीर्यंति भोजने ॥ कुक्षौ जठरपाइर्वेषु नाभौ बस्तौ स्तनान्तरे । पृष्ठमूलप्रदेशेषु सर्वेष्वेतेषु वा पुनः ॥ भुक्तमात्रेऽथवा वान्ते जीर्णेऽन्ने च प्रशाम्यति । षष्टिकव्रीहिशालीनामोदनेन विवर्धते ॥ तत्परिणामजं शूलं दुर्विज्ञेयं मद्दागदम् । तमाहू रसवादानां स्रोतसां दुष्टिहेतुकम् ॥ केचिदन्नद्रवं प्राहुरन्ये तत्पत्ति-दोषतः । पक्तिशूलं वदन्त्येके केचिदन्नविदाह जम् ॥ ” इति । १० हृत्पीडक उत्क्लेशो हृदुखलेशः । विलम्बिकाया लक्षणं विसूचिकाप्रतिषेधे CC - 0. Gurukul Kangri Collection, Haridwar