सुश्रुत संहिता चौखम्बा — पृष्ठ 1291–1300
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1291–1300
पृष्ठ 1291
पाठ पढ़ें पाठ छिपाएँ
अ ० ४२ ] Digitized by Arya S युत्तर सम्म Fhennai and eGangotri ११३३
चैतस्तु सुविन्नान स्रंसनेनोपपादयेत् ।
विम्लापेनाभ्यञ्जनानि तथैव दहनानि च ॥ ५७ ॥
उपनाहाश्च कर्त्तव्याः सुखोष्णाः शाल्वणादयः ।
उदरोक्तानि सँपषि मूत्रवर्त्तिक्रियास्तथा ॥ ५८ ॥
लवणौनि च योज्यानि यान्युक्तान्यनिलामये ।
वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ॥ ५ ९ ॥
कृत्वा पायौ विधातव्या वर्त्तयो मरिचोत्तराः ।
दन्तीचित्रकमूलेषु तथा वातरेषु च ॥ ६० ॥
कुर्यादरिष्टान् सर्वांश्च सूत्रस्थाने यथेरितान् ।
खादेद्वाऽप्यकुरान् भृष्टान् पूतीकनृप योः ॥ ६१ ॥
ऊर्ध्वतं मनुष्यञ्च गुल्मिनं न निरूहयेत् ।
पिबेत त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ॥ ६२ ॥
गुग्गुलुं त्रिवृतां दन्तीं II " द्रवन्तीं सैन्धवं वचाम् ।
मूत्र मद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम् ॥ ६३ ॥
एवं पीलूनि पिष्टानि पिबेत् सलवणानि तु ।
पिप्पलीपिप्पलीमूलचव्यचित्रक सैन्धवैः ॥ ६४ ॥
युक्ता हन्ति सुरा गुल्मं शीघ्रं काले १३ प्रयोजिता ।
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ॥ ६५ ॥
कुल्माषान् ' ' वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् । १ उपपादयेत् = योजयेदित्यर्थः । २ अङ्गुल्यादिना गुल्मस्य मर्दनं विम्लापनम्, दद्दनानि = जाम्बवौष्ठादिना दादाः । ३ शाल्वणादयः शाल्वणप्रकारा उपन'द्दाः । ४ तत्र हरीतकीचूर्णप्रस्थमित्यादिना सपष्युक्तानि । वमनशिरोविरेचनद्रव्याणा-मित्यादिना तत्र मूत्रवर्तिक्रिया प्रत्युक्ताः । ५ पत्रलवण - स्नेहलवण - कल्याणलवणा. नोत्यर्थः । ६ सामुद्रं = समुद्रलवणम् । ७ मरिचोत्तराः = मरिचप्रधानाः । ८ सूत्रस्थाने विरेचनकल्पे इत्यर्थः । ९ पूतीकः = करञ्जकः, नृग्वृक्षः = शम्पाकः । १० ऊर्ध्ववातमूर्ध्ववातयुतं गुल्मिनं मनुष्यं न निरूहयेदिति सम्बन्धः । ११ द्रवन्ती = दन्तीभेदः । १२ एवं = मूत्रमद्यादिभिरित्यर्थः । भृष्टानीत्यत्र पिष्टानीति पाठान्तरम् । १३ काले = श्राध्मानाद्यवस्थायाम् । १४ कुल्माषान् सम्यक् स्विन्नान् यवगोधूमम-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1292
पाठ पढ़ें पाठ छिपाएँ
११३४ by Arya Samaj Fouring Chelk सुश्रुतसंहिताय Gangotri अथास्योपद्रवः शूलः कथञ्चिदुपजायते ॥ ६६ ॥
शूलं ' निखानितमिवासुखं येन तु वेत्यसौ । [ अ ०४२ तत्रे विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ॥ ६७ ॥
तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता ।
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ॥ ६८ ॥
वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा वीक्ष्य योजयेत् ।
पथ्यात्रिलेवरणं क्षारं हिङ्गुतुम्बुरु पौष्करम् ॥ ६ ९ ॥
यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम् ।
विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ॥ ७० ॥
काश्मरीफलयष्ट्याह्नपरूषकहिमानि च ।
षड्ग्रन्थाऽतिविषादारुपथ्यामरिचवृक्षकान् ॥ ७१ ॥
कृष्ण ५० मूलकचव्यञ्च नागरक्षारचित्रकान् ।
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ॥ ७२ ॥
यथाक्रमं११ ' विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे ।
तथैव सेकावगाह प्रदेहाभ्यङ्गभोजनम् ॥ ७३ ॥
e यान् भक्ष्यान् । १ शुलं = कीलकमित्यर्थः । २ शूलं दोषलिङ्गतः सप्तधा विशिनष्टि-तत्रेति । तत्र = शुले । ३ अन्नस्य विदाहेन परिवृद्धिर्यस्य शूलस्य तस्य भावो विदग्धपरिवृद्धिता । ४ भुक्तमात्रे वृद्धिर्भुक्तवृद्धिः । ५ मित्रैः द्वन्द्वैः " सान्निपात-कैश्चेत्यर्थः । वीक्ष्य = वातादिदोषभेदेन शूलं विचार्य । ६ त्रिलवणं = सैन्धवसौवर्चल विडाख्यम्, क्षारः = यवक्षारः, तुम्बुरु = धान्याकन् । ७ श्रभीरुः = शतावरी, शृङ्गाटी - ' सिंघाड़ा ' इति ख्याता | गुडशर्करा = गाङ्गटीफलम् । ८ परूषकः = ‘ फालसा ' इति ख्यातः । हिमं = चन्दनम् । ९ षड्ग्रन्था = वचा, अति. विषा = ' प्रतीस ' इति प्रथते । वृक्षकः = इन्द्रयवाः । १० मूलकं = पिप्पलीमूलम् । ११ वातिके पथ्याऽऽद्यम्लवेत सान्तयोग मग्लकाञ्जिकेन, पैत्तिके विदार्यादिद्दिमान्त-योगमुष्णक्षीरेण, इलैष्मिके षड्यन्थादिचित्र कान्तयोगमुष्णतोयेन । विमिश्रांश्च द्वन्द्वे अर्थाद् वातपैत्तिके पथ्यादि विदार्यादि च, वातश्लैष्मिके पथ्यादि षड्ग्रन्थादि च, पित्तश्लैष्मिके विदार्यादि षड्ग्रन्थादि च । सर्वजे सन्निपाते सर्वान् पथ्यादीन् त्रीनित्यर्थः । १२ तथैव = यथासंख्यमित्यर्थः । श्रर्थाद् वातिके सेकादिकं, पैत्तिके CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1293
पाठ पढ़ें पाठ छिपाएँ
अ ० ४२ ] Digitized by Arya Samaja Chennai and eGangotri ११३५
शिशिरोदकपूर्णानां भाजनानाञ्च धारणम् ।
वमनोन्मर्दनश्वेदलङ्घनक्षपण क्रियाः ॥ ७४ ॥
स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते ।
वेल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ॥ ७५ ॥
नखादेदालु गुल्मी मधुराणि फलानि च ।
विनो गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ॥ ७६ ॥
निदानं तस्य वक्ष्यामि रूपञ्च सचिकित्सितम् ।
वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ॥ ७७ ॥
अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात् ।
पानीयपानात क्षुल्काले विरूढानाञ्च सेवनात् ॥ ७८ ॥
पिष्टान्नशुष्क मांसानामुपयोगात्तथैव च ।
एवंविधानां द्रव्याणामन्येषां चोपसेवनात् ॥ ७ ९ ॥।
वायुः प्रकुपितः कोष्ठे शूलं सञ्जनयेद् भृशम् ।
निरुच्छ्वासो भवेत्तेन वेदनापीडितो नरः ॥ ८० ॥
शङ्कुस्फोटनवत्तस्य यस्मात्तीब्राश्च वेदनाः । शिशिरोदकादिकं, इलैष्मिके वमनादिकम् । १ गुल्मे वर्ज्यमभिदधाति - वल्लूरमिति । वल्लूरं - शुष्कमांसम् । २ गुल्मो-पद्रवं शूलमुक्खा केवलं शूलं वक्ति - विनेति । गुल्मस्थानेष्विति स्थानपदेन तत्समी-पवर्तित्रिकपृष्ठादिदेशेष्वपि बोध्यम्, तत्रापि शूलोत्पत्तेः । तदुक्तम्- " वायुः प्रवृद्धो जन-येद्धि शूलं हरपार्वपृष्ठत्रिकवस्तिदेशे " इति । ३ शूलस्य निदानं सम्प्राप्ति चाभिदधाति - वातेति । निग्रहात् = वेगकाले निरोधात् । शुक्रस्य निग्रहादपि बोध्यम् । तदुक्तम् - " विट्शुक्र मूत्रानिलवेगरोधाच्छो-कोपवासादतिहास्य भाष्यात् ” इति । ४ " अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ” इत्यध्यशनम् । विरुद्धान्नं हिताहितीये द्रष्टव्यम् । ५ विरूढानाम् = अङ्कुरिता. नाम् । ६ “ कलायमुद्गाढ किकोर दूषादत्यर्थं रूक्षाध्यशनाभिघातात् " इत्यादिकानाम् । ७ शूलनिरुक्ति वक्ति – शक्विति । शङ्कुस्फोटनवत् = कीलका इननवत् । शूल = स्योत्पत्तिमाह हारीत: - " अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च । तमा-पतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः ॥ स विष्णुहुङ्कारविमोहि • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1294
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-११३६ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४२ शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ॥ ८१ ।
निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते ।
प्रस्तैब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ॥ ८२ ॥
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ।
एतैर्लिङ्गर्विजानीयाच्छूलं वातसमुद्भवम् ॥ ८३ ॥
तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च ।
शीताभिकामो भवति शीतेनैव प्रशाम्यति ॥ ८४ ॥
एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् ।
शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ॥ ८५ ॥
श्रतीव पूर्णकोष्ठत्वं तथव गुरुगात्रता ।
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निर्देशनम् ॥ ८६ ॥
सर्वाणि दृष्टा रूपाणि निदिशेत्सान्निपातिकम् ।
सन्निपातसमुत्थानमसाध्यं तं विनिदशेत् ॥ ८७ ॥
शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे 1 तात्मा पपात भूमौ प्रथितः स शूलः । स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वसृष्टिः ॥ ” इति । १ वातिकशूलस्य लक्षणमुपदिशति - निराहारस्येति । २ प्रस्तब्धगात्रः = जडीभूतशरीरः, कृच्छ्रेण = कष्टेनेत्यर्थः । ३ पैत्तिकशूलस्य लक्षणमाख्याति - तृष्णेति । दाहो नाभ्याम्, पित्तशूलस्य स्थानत्वात् । तदुक्तम् - " तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमचोषयुक्तम् " इति । लक्षणमभिधत्ते - शूले. ४ कफजशूलस्थ नेति । हल्लासः == उपस्थितवमनत्वमिव । ५ निश्चित्य दृश्यत उपलभ्यतेऽनेनेति निदर्शनं लिङ्गमित्यर्थः । ६ सान्निपातिकशूलस्य लक्षणमभिदधाति - सर्वाणीति । कैश्चिद् दोषभेदेन शूलस्य नियतं स्थानमुक्तम् — “ वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि वद-न्ति नाभ्याम् । हृत्पार्श्वकुक्षौ कफसन्निविष्टं, सर्वेषु देशेषु च सन्निपातात् ॥ ” इति । “ बस्तौ हृत्पाश्र्वपृष्ठेषु स शूल: कफवातिकः । कुक्षौ हृन्नाभिमध्येषु स शूल: कफपै -त्तिकः ॥ दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः । " इति वातकफजादेः स्थानसंश्रय • खेन बोध्यम् । ७ विनिर्दिशेत् = जानीयादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1295
पाठ पढ़ें पाठ छिपाएँ
अ ० ४२ ] Digitized by Arya Sar Chennai and eGangotri ११३७ आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ॥ ८८ ॥
तस्य शूलाभिपन्नस्ये स्वेद एव सुखावहः ।
पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ॥। ८ ९ ॥
त्रिवृच्छ । केन वा स्निग्धमुष्णं भुञ्जीत भोजनम् ।
चिरबिल्वाङ्कुररान् वाऽपि तैलभृष्टांस्तु भक्षयेत् ॥ ९ ० ॥
वैहङ्गांश्च रसान् स्निग्धान् जौङ्गलान् शूलपीडितः ।
यथालाभं निषेवेत मांसानि बिलशायिनीम् ॥ ९ १ ॥
सुरासौवीरकं चुकं मस्तूदश्वित्तथा दधि ।
सकाललवणं पेयं शूले वातसमुद्भवे ॥ ९ २ ॥
कुलत्थयूपो युक्ताम्लोलावकीय संस्कृतः ।
ससैन्धवः समरिचो वातशूलविनाशनः ॥ ९ ३ ॥
विडङ्गशिग्रुकम्पिलैपध्याश्यामाऽम्लवेतसान् ।
" सुरसामश्वमूत्र च सौवर्चलयुतान् पिवेत् ॥ ९ ४ ॥
मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति ।
' ' पृथ्वीकाऽजाजिचविकायवानीव्योषचित्रकाः ॥ ९ ५ ॥
पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत् । १२ तानि चूर्णानि पयसा पिबेत् " काम्बलिकेन वा ॥ ९ ६ ॥ मध्वासवेन चुक्रेण ३ सुरासौवीरकेण वा । १ वातिकशूल चिकित्सामाह - आशुकारीति । २ शूलाभिपन्नस्य = वातिक-शूलयुक्तस्य । ३ स्वेदद्द्रव्याण्येव निर्दिशति – पायसैरिति ॥ " अतप्ततण्डुला धौताः परिभृष्टा घृतेन च । खण्डयुक्तेन दुग्धेन पाचिताः पायसो भवेत् ॥ ” इति । ४ आहारमुपदिशति — त्रिवृदिति । ५ जाङ्गलान् वैद्दङ्गानिति सम्बन्धः । ६ बिलशायिनां श्वाविच्छल्लकादीनामित्यर्थः । ७ मस्तु = दधिमस्तु, उदश्वित् = अर्धोदकेन मथितं तक्रम् । ८ लावकीयूष संस्कृतः = क्षुदलावकृतयूष सम्मिश्रः । ९ क ' म्पिल्लः = ' कवीला ' इति ख्यातः । पथ्या हरीतको, श्यामा = रक्तमूला त्रिवृत् । १० सुरसा = तुलसी, अश्वमूत्री = शल्लकी । ११ पृथ्वीका = दिङ्गुपत्री । १२ काम्बलिकेन = दधिमस्त्वम्लादिसिद्धयूष विशेषेण । तदुक्तम् - " अथ काम्बलि कोऽपरः । दध्यम्ललवणस्नेह तिलमाषसमन्वितः ” इति । १३ चुकेण == शुक्तेनैत्यर्थः । ७२ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1296
पाठ पढ़ें पाठ छिपाएँ
११३८ by Arya Samaj F सुश्रुतसंहितायां Gangotri Fd [ अ ० ४२ अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ॥ ९ ७ ॥
तथा बदरयूषेण भावितानि पुनः पुनः ।
तानि हिङ्गुप्रगाढानि सह शकेरया पिबेत् ॥ ९ ८ ॥
सह दाडिमसारेण वर्त्तिः कार्या भिषग्जिता ।
सा वर्त्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ॥ ९९ ॥
P गुडतैलेन वालीढा पीता मद्येन वा पुनः ।
बुभुक्षाप्रभवे शूले लघु सेन्तपणं हितम् ॥ १०० ॥
उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मासरसैस्तथा ।
वातशुले समुत्पन्ने रूक्षं स्निग्वेन भोजयेत् ॥ १०१ ॥
सुसंस्कृताः प्रदेयाः स्युर्वृतपूरा विशेषतः ।
वारुणीच पिबेज्जन्तुस्तथा सम्पद्यते सुखी ॥ १०२ ॥
एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम् ।
अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् ॥ १०३ ॥
सुखं छत्वा तु पीत्वा शीतोदकं नरः ।
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् ॥ १०४ ॥।
मणिराजतताम्राणि भाजनानि च सर्वशः ।
वारिपूर्णानि तान्यस्य शूलस्योपरि निःक्षिपेत् ॥ १०५ ॥
गुड: शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम् ।
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥। १०६ ॥
रसान् सेवेत पिंत्तघ्नान् पित्तलानि विवर्जयेत् ।
पालाशं धान्वनं वाऽपि पिबेद् यूषं सशर्करम् ॥ १०७ ॥
परूषकारिण मृद्वीकाखर्जूरोदकजान्यपि । १ भिषग्जिता = वैद्येन । २ सन्तर्पणं = भोजनम् । ३ घृतपूराः = ‘ घेवर ' इति ख्याताः । सुसंस्कृताः = शुण्ठीमरिचादिभिः साधिताः । ४ पैत्तिकशूलस्य चिकित्सामाचष्टे - अथेति । ५ छर्दयित्वा - वामयित्वा । ६ सर्वशः = भाजनस्य मुखपर्यन्तम् । ७ पित्तघ्नान् == जाङ्गलवर्गोक्तान् पित्तहरान् । ८ पालाशं यूषं धान्वनं यूषं वेति सम्बन्धः । पालाशं यूषं = मांसादमांसरसम्, धा न्वनं यूषं = जाङ्गलमांसरसम् । ९ उदकजानि = पद्मानीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1297
पाठ पढ़ें पाठ छिपाएँ
अ ०४२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ११३ ९ तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् ॥ १०८ ॥
अने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च ।
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् ॥ १० ९ ॥
रूक्षः स्वेदः प्रयोज्यः स्यादन्याञ्चष्णाः क्रिया हिताः ।
पिप्पलीशृङ्गवेरञ्च श्लेष्म शूले भिषग्जितम् ॥ ११० ॥
पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम् चित्रकस्य च निर्यूहे पिबेद् यूषं सहार्जकम् ॥ १११ ॥
एरण्ड फलमूलानि मूलं गोक्षुरकस्य च ।
शालपर्णी पृश्निपर्णी बृहतीं कण्टकारिकाम् ॥ ११२ ॥
दद्याच्छ्गौलविन्नाञ्च सहदेवां तथैव च ।
महासहां क्षुद्रसहां मूलमिक्षुरकस्य च ॥ ११३ ॥
एतत् सम्भृत्य सम्भारं जलद्रोणे विपाचयेत् ।
चतुर्भागावशेषन्तु I " यवक्षारयुतं पिबेत् ॥ ११४ ॥।
वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम् ।
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ॥ ११५ ॥
पिप्पली स्वर्जिकाक्षारो " यवाश्चित्रक एव च । II १२ सेव्यचैतत्समानीय भस्म कुर्य्याद्विचक्षणः ॥ ११६ ॥
दुष्णवारिणा पीतं श्लेष्म शूले भिषग्जितम् । ५३ रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ॥ ११७ ॥
१ श्लैष्मिकशूल चिकित्सामाख्याति - अशन इति । श्रशने = भोजने । २० | प्पलीवारिणा = पिप्पलीयुतजलेन । ३ रूक्षः = करीषादिभिः कृतः । ४ कटुकरो -हिणी = ' कुटकी ' इति ख्याता । ५ निर्य है == काथे, यूषं = शूलघ्नं शिम्बिधान्ययुषम्, अजंकः == ' बबई ' इति ख्यातः । ६ एरण्डादिप्रयोगं प्रतिपादयति - एरण्डेति । ७ शृगालविन्ना = बृहत्पत्रा पृ • निपणीं । ८ महासद्दा = माषपर्णी, क्षुद्रसहा = मुद्गपणी, इक्षुरकस्य = ' तालम-' खाना ' इति ख्यातस्य । ९ एरण्डादिद्रव्यसम्भारमित्यर्थः । १० यवक्षारमत्र प्रस्थप्र-मितं प्रदाय लेहीभूतं पचेत् । ११ यवः = यवक्षारः । १२ सेव्यं भस्मेति सम्बन्धः । सेव्यम् = उशीरम् । १३ पाश्र्वशूल निदानमाह -- रुणद्धीति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1298
पाठ पढ़ें पाठ छिपाएँ
११४० Digitized by Arya Samajकुतस्तंहितायां Gangotri [ अ ० ४२
से संरुद्धः करोत्याशु साध्मानं गुडगुडायनम् ।
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ॥ ११८ ॥
नानं वाञ्छति नो निद्रामुपैत्येर्त्तिनिपीडितः ।
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ॥ ११ ९ ॥
तंत्र पुष्करमूलानि हिङ्गुसौवर्चलं विडम् ।
सैन्धवं ' तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् ॥ १२० ॥
पार्श्वद्वस्तिशूलेषु यवक्वाथेन संयुतम् ।
सर्पिः लीहोदंरोक्तं वा घृतं वा हिङ्गुसंयुतम् ॥ १३१ ॥
बीजपूरकसारं वा पयसा सह साधितम् ।
एरण्डतैलमथवा मद्यमस्तुपयोरसैः ॥ १२२ ॥
भोजयेच्चापि पयसा जाङ्गलेन रसेन वा ।
प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः ॥ १२३ ॥
तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते ।
उच्छ्वसित्यामशकृता ' ' शूलेनाहन्यते मुहुः ॥ १२४ ॥
नैवासने न शयने तिष्ठन् वा लभते सुखम् ।
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः ॥ १२५ ॥
वमनं ' ' कारयेत्तत्र लङ्घयेद्वा यथाबलम् ।
संसर्गपाचनं कुर्यादम्लैर्दीपन संयुतैः १२ २ ॥ १२६ ॥
१ सः = वायुः, साध्मानम् = उदरापूर सहितम् । २ अर्तिनिपीडितः = शुलपीडितः । ३ पार्श्वशूलस्य चिकित्सां दर्शयति - तत्रेति । ४ तुम्बुरुः = धान्याकम् । ५ प्ली. होदरोक्तं सर्पिः षट्पलं घृतम्, घृतं वा श्रसिद्धं घृतं वा । ६ बीजपूरकसारः = जम्बीरफलमज्जा, ' सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले घने ' इति मेदिनी । पय-सा = क्षीरेण । ७ मस्तु = दधिमस्तु, पयः = क्षीरम्, रसः = मांसरसः । ८ कुक्षिशूलनिदानमुपदिशति - प्रकुप्यतीति । श्राक्रम्य = मन्दीकृत्य । ९ सो-पस्तम्भं == जढीभावान्वितम् । १० श्रमशकृता = अपक्कपुरीषेण । ११ कुक्षिशूनस्य चिकित्सामभिधत्ते - वमनमिति । १२ दीपनसंयुतै हिँडु सैन्धवसमन्वितैः अम्लैदडि-मतक्रादिभिः संसर्गपाचनं पेयादिक्रमपाचनं कुर्यादिति सम्बन्धः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1299
पाठ पढ़ें पाठ छिपाएँ
अ ० ४२ ] Digitized by Arya Samarin Chennai and eGangotri ११४१
नागरं दीप्यकं चव्यं हिङ्ग सौवर्चलं विडम् ।
मातुलुङ्गस्य बीजानि तथा श्यामोरुबुकयोः ॥ १२७ ॥
बृहत्याः कण्टकार्य्याश्च क्वाथं शूलहरं पिबेत् ।
वचौसौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया ॥ १२८ ॥
कुटजस्य च बीजनि सद्यः शूलहराणि तु ।
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ॥ १२ ९ ॥
स्नेहस्तोन्निरूहांच कुर्य्याद् दोषनिवर्हणान् ।
उपनाहा: स्नेहसेका धान्याम्लपरिषेचनम् ॥ १३० ॥
अवगाहाञ्च शस्यन्ते यच्चान्यदपि तद्धितम् ।
कफपित्तावरुद्धस्तु मारुतो रसमूच्छितः ॥ १३१ ॥
हृदिस्थः कुरुते शूलमुच्छ्वासाधिकं परम् ।
स हृच्छूल इति ख्यातो रसमारुतसम्भवः ॥ १३२ ॥
तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् ।
संरोधात कुपितो वायुर्वस्तिमावृत्य तिष्ठति ॥ १३३ ॥
" बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते ।
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् ॥ १३४ ॥
नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेदान्तमर्दकः ।
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् ॥ १३५ ॥
१ कुक्षिशूले क्वाथं ब्रवीति - नागरमिति । दीप्यकः = श्रजमोदा | २ बीजा-नीति पदं मातुलुङ्गस्येत्यादिभिः प्रत्येकं षष्ठयन्तेन पदेन सम्बध्यते । श्यामा = वृद्धदा-रकः, उरुबूकः = रक्तैरण्ड: । ३ कुक्षिशूले विरेचनमाचष्टे - वचेति । श्रतिविषा = ' अतीस ' इति ख्याता । श्रभया = हरीतकी । ४ कुटजस्य बीजानि = इन्द्रयवाः । ५ धान्याम्लं = काञ्जिकम् । ६ अवगाहः = वातघ्नद्रव्यद्रव पूर्णं द्रोण्यादिनिमज्जनम् । ७ हृच्छूलस्य निदानं चिकित्सां च वक्ति - कफेति । रसमूच्छितः रसान्वितः । द • हृद्विकारिणां = हृद्ोगिणाम् । ९ बस्तिशूलस्य निदानमाह - संरोधादिति । १० बस्तिः = मूत्राशयः, वङ्क्षणः - बस्त्यधः उरुमेद्राणामन्तरालसन्धिः । ११ मूत्रशूल-निदानमाख्याति - नाभ्यामिति । यदा मेदान्त्रमर्दको वायुः श्रावृत्य अवरुध्य गृह्णाति, मुत्रमिति शेषः, तदा नाभ्यां वङ्क्षणपाश्र्वेषु शूलो जायते; स मारुतान्मूत्रशूलो बोध्य इति योजना । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1300
पाठ पढ़ें पाठ छिपाएँ
११४२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः । [ अ ०४२ मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् ॥ १३६ ॥
शूलं सञ्जनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि ।
दक्षिणं यदि वा वामं कुक्षिमादाय जायते ॥ १३७ ॥
सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषैवान् ।
पिपासा वर्द्धते तीव्रा भ्रमो मूर्च्छा च जायते ॥। १३८ ॥
उच्चौरितो मूत्रितश्च न शान्तिमधिगच्छति ।
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् ॥ १३ ९ ॥
क्षिप्रं दोषहरं कार्य्यं भिषजा साधु जानता ।
स्वेदनं वमनचैव निरूहाः स्नेहबस्तयः ॥ १४० ॥
पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान् ।
उदावर्त्तहराश्चास्य क्रियाः सर्वाः सुखावहाः ॥ १४१ ॥
अतिर्मात्रं यदा भुक्तं पावके मृदुतां गते ।
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति ॥ १४२ ॥
अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति ।
मूर्च्छा ssa मानं विदाहश्च हृदुत्क्लेशो विलम्बिका ॥। १४३ ॥
१ पुरीषशूलस्य निदानं ब्रवीति - वायुरिति । २ सघोषवान् = शब्दयुक्तः । ३ उच्चारितः = विसृष्टपुरीषः । ४ परमदारुणम् = अत्यन्त कष्टकारि । ५ बस्तिशू · लादीनां सामान्यं चिकित्सितमभिधत्ते - क्षिप्रमिति । दोषहरं = शोधनम् । ६ पूर्वो द्विष्टान्सूत्रस्थाने त्रिचत्वारिंशच्चतुश्चत्वारिंशदध्यायोपदिष्टान् । ७ उदावर्तद्दराः क्रिया उदावर्तप्रतिषेधाध्याये वच्यमाणाः । ८ श्रविपाकजशूलस्य लक्षणमाह - -अतिमात्रमिति । ९ श्रविपाकगतम् = श्रविपाकं प्राप्तम् । परिणामशूलमाह तन्त्रान्तरे- " बलासः प्रच्युतः स्थानात् पित्तेन सह मूच्छितः । वायुमादाय कुरुते शूलं जीर्यंति भोजने ॥ कुक्षौ जठरपाइर्वेषु नाभौ बस्तौ स्तनान्तरे । पृष्ठमूलप्रदेशेषु सर्वेष्वेतेषु वा पुनः ॥ भुक्तमात्रेऽथवा वान्ते जीर्णेऽन्ने च प्रशाम्यति । षष्टिकव्रीहिशालीनामोदनेन विवर्धते ॥ तत्परिणामजं शूलं दुर्विज्ञेयं मद्दागदम् । तमाहू रसवादानां स्रोतसां दुष्टिहेतुकम् ॥ केचिदन्नद्रवं प्राहुरन्ये तत्पत्ति-दोषतः । पक्तिशूलं वदन्त्येके केचिदन्नविदाह जम् ॥ ” इति । १० हृत्पीडक उत्क्लेशो हृदुखलेशः । विलम्बिकाया लक्षणं विसूचिकाप्रतिषेधे CC - 0. Gurukul Kangri Collection, Haridwar