सुश्रुत संहिता चौखम्बा — पृष्ठ 1301–1310

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1301–1310

पृष्ठ 1301

सुश्रुत संहिता चौखम्बा, पृष्ठ 1301 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४३ ] उत्तरतन्त्रम । Digitized by Arya Samaj Foundation Chennai and eGangotri

विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति ।

अविपाकाद्भवेच्छुलस्त्वन्नदोषसमुद्भवः ॥ १४४ ॥

वर्मनं लङ्घनं स्वेदः पाचनं फलवर्तयः । ११४३ क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः ॥ १४५ ॥

गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् । इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषेधो नाम ( ' चतुर्थोऽध्यायः, आदितः ) द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥

त्रिचत्वारिंशत्तमोऽध्यायः ।

अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

गौघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः ।

विरुद्धाध्यशनाजीर्णैर सात्म्यैश्चापि भोजनैः ॥ ३ ॥

दूषयित्वा रसं दोषा विगुणा हृदयं गताः । बदयते । तव्यथा- " दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य । विलम्बिकां ai भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ॥ ” इति । १ श्रविपाकजशूलस्य चिकित्सामाख्याति - वमनमिति । २ यथावत् = यथावस्थमित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां द्विचत्वारिंशोऽध्यायः । त्रिचत्वारिंशत्तमोऽध्यायः । ३ “ तत्रापि कर्माभिहतं यदुक्तं हृद्विकारिणाम् ” इति पूर्वाध्याये नाममात्रेणोपदिष्टं विस्तरेण बोधयितुं हृद्रोगप्रतिषेधमधिकरोति - अथात इति । हृदयस्य रोगो हृद्रोगः, ' वा शोकष्यञ्ोगेषु ' इति रोगशब्दे परे हृदयस्य हृद्भावः । अथवा हृदो रोगो हृद्रोग-स्तस्य प्रतिषेधं चिकित्सितं व्याख्यास्यामः । ४ हृद्रोगस्य निदानं सम्प्राप्ति चाभिधत्ते - वेगेति । वेगाघातः = मलमूत्रवेगाव-रोधः, आघातशब्दस्य श्रावर्तनं कार्यम्, तथा च आघातो हृदि लगुडादिप्रहार इत्य-र्थः । ५ श्रसात्म्यैः = प्रकृतिप्रतिकूलैः । ६ पूर्वोक्तैर्वेगाघातादिभिर्हेतुभिः विगुणा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1302

सुश्रुत संहिता चौखम्बा, पृष्ठ 1302 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४४ Digitized by Arya Samaj F- सुश्रुतसंहितायां rangotri [ अ ० ४३ कुवन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते ॥ ४

चतुर्विधः स दोषैः स्यात् क्रिमिभिश्च पृथक् पृथक् ।

लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ॥ ५ ॥

आर्यम्यते मारुतजे हृदयं तुद्यते तथा ।

निर्मथ्यते दीर्य्यते च स्फोटयते पाटयतेऽपि च ॥ ६ ॥

तृष्णोषादाह चोषाः स्युः पैत्तिके हृदयक्लमः ।

धूमायनञ्च मूर्च्छा च खेदैः शोषो मुखस्य च ॥ ७ ॥

गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् ।

माधुर्य्यमपि चास्यस्य बैलासावतते हृदि ॥ ८ ॥

उत्क्लेशः ष्ठीवनं तोदः शूलो हल्लास कस्तमः । दुष्टा दोषा हृदयं गताः रसं दूषयित्वा हृदये बाधां दोषभेदेन नानाविधां व्यथां कुर्वन्ति, तं हृद्रोगं प्रचक्षते श्राचार्या इति सम्बन्धनीयम् । १ हृद्रोगस्य संख्यामाख्याति - चतुर्विध इति । दोषैर्वातादिभिस्त्रयः सन्नि-पातैश्च, कृमिभिः सह । तन्त्रान्तरे पञ्चविधो हृद्रोग उक्तः - --- “ प्रत्युष्णगुर्वन्न-कषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः । सञ्चिन्तनै वेंगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ॥ ” इति । वस्तुतस्तु सान्निपातिकहृद्रोग एवापचारेणोत्तरावस्थायां कृमिनिपात. नात् कमिज इति कथ्यते । तेन न पञ्च हृद्रोगाः । तदुक्तं चरके - " त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते । तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते ॥ ममैकदेशे सङ्क्लेदं रसश्चाप्युपगच्छति । सङ्क्लेदात् कृमयश्चास्य भवन्त्युपद्दतात्मनः ॥ ” इति । २ वातिकहृद्रोगस्य लक्षणमुपदिशति - आयम्यत इति । मारुतजे ' हृद्रोगे ' इति शेषः । श्रायम्यते = व्यथया विस्तार्यत इव, तुद्यते = सूचीभिरिव विध्यते । ३ नि. | र्मथ्यते = मन्थनेनेव विलोडयते, दीर्यते = करपत्रेण द्विधा क्रियत इव, स्फोटयते = अस्त्रेणेव. पाठ्यते = कुठारेण बहुधा क्रियत इव । = ४ पैत्तिकहृद्रोगस्य लक्षणमाख्याति - तृष्णेति 1 । ऊषा = प्रादेशिकः किञ्चिद्दाहः, हृदि किञ्चिद्दाइ इत्यर्थः । दाइ: = सार्वाङ्गिकः, चोषः - हृदये चूषणेनेव पीडा, कुमः = हृदयाकुलत्वम्, ग्लानिवदित्यर्थः । ५ ' क्लेद: ' इति पाठान्तरम् । ६ इलैष्मिकह · द्रोगस्य लक्षणमभिदधाति - गौरवमिति 1 । गौरवं - हृदयस्य गुरुता, स्तम्भः = हृद • यस्य मन्दशब्दत्वेन जडता, मार्दवं = जलप्लुतमिव । ७ बलासावतते = कुपितकफ • व्याप्ते, “ दोषा दुष्टा दूषयितारो भवन्ति " इत्यागमात् । ८ सान्निपातिकहृद्रोगस्य लक्षणमभिधत्ते - उत्क्लेश इति । उत्क्लेशः = वमन • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1303

सुश्रुत संहिता चौखम्बा, पृष्ठ 1303 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४३ ] उत्तरतन्त्रम् । ११४५ Digitized by Arya Samaj Foundation Chennai and eGangotri अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ॥ ९ ॥

भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्रवाः ।

कृमिजे कृमिजातीनां श्लैष्मिकारणाञ्च ये मताः ॥ १० ॥

वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् ।

द्विपञ्चमूलकाथेन सस्नेहलवणेन तु ॥ ११ ॥

पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम् ।

सौवर्चलमथो शुण्ठोमजमोदाच चूर्णितम् ॥ १२ ॥

फलधान्याम्लकौलत्थ दधिमद्यासवादिभिः ।

पाययेत विशुद्धञ्च स्नेहेनान्यतमेन वा ॥ १३ ॥

भोजयेज्जीणशास्यन्नं जाङ्गलैः सघृतै रसैः ।

वार्तघ्नसिद्धं तैलञ्च दद्याद्वस्तिं प्रमाणतः ॥ १४ ॥

• श्रीप मधुक क्षौद्रसितोत्पलजलैर्वमेत् ।

पित्तोपसृष्टे हृदये सेवेत ' मधुरैः शृतम् ॥ १५ ॥

घृतं कषायांश्चोद्दिष्टान् १२ पित्तज्वरविनाशनान् ।

तृप्तस्य च " रसैर्मुख्यैर्मधुरैः सघृतैभिषक् ॥ १६ ॥

मिवोपस्थितत्वम्, ष्ठीवनं थूत्करणम् हल्लासः = लालास्रावः । १ तेषां = वाता • दिजानां कृमिहीनानां हृद्रोगिणाम् । २ वातादिजानां कृमिहीनानां हृद्रोगिणामुपद्र • वानभिधाय कृमिजस्योपद्रवान् दर्शयति- कृमिज इति । इलैष्मिकाणां कृमिजातीनां उपद्रवास्त एव कृमिजे हृद्रोगे मता इत्यर्थः । ते च हृल्लासास्यस्रवणाविपाकादयः । ३ वातजहृद्रोगचिकित्सां वक्ति - वातेति । वातोपसृष्टे हृदये = वातजहृद्रोगे । यद्यपिवाते वमनं निषिद्धं, तथाऽपि वातस्य कफस्थानगतत्वेन अत्र वमनमुपदिष्टम् । एवं पित्तजेऽपि बोध्यम् । ४ द्विपञ्चमूलक्काथेन - दशमूलीक्काथेनेत्यर्थः । ५ यवभस्म = यवक्षारः । ६ फलं = मातुलुङ्गादिफलम्, धान्याम्लं काशिकम्, मद्यासवौ = मद्य. वर्गाभिहितौ । ७ स्नेहेनान्यतमेन = चतुःस्नेहमध्ये एकेन स्नेहेन । ८ वातजहृद्रो पथ्यमुपदिशति - भोजयेदिति । ९ वातघ्नसिद्धं = वातहर भद्रदार्वादिसाधितम् । १० पित्तज हृद्रोगचिकित्सामाचष्टे - श्रीपर्णीति 1 । श्रीपणीं = गम्भारीशब्दवाच्या, मधुकं = यष्टीमधु, क्षौद्रं = माक्षिकम्, सिता = शर्करा, उत्पलं = कुष्ठम् । ११ मधुरैः = काकोल्यादिभिः । १२ उद्दिष्टान् = ‘ चन्दनोशीरश्रीपण ' इत्यादिनाऽभिहितान् । १३ रसैः = एणादिमांसरसैः, मधुरैः अम्लादिसिद्धैः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1304

सुश्रुत संहिता चौखम्बा, पृष्ठ 1304 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४६ सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४३

सक्षौद्रं वितरेद्वस्तौ तैलं मधुसाधितम् ।

वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके ॥ १७ ॥

चूर्णन्तु पाययेतोक्तं ' वातजे भोजयेच्च तम् ।

फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः ॥। १८ ॥

श्यामत्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम् ।

बलातैलैर्विदध्याच्च बस्ति बस्तिविशारदः ॥ १ ९ ॥

क्रिमिहद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् ।

दध्ना च पललोपेतं त्र्यहं 9 पञ्चाद्विरेचयेत् ॥ २० ॥

सुगन्धिभिः सवलणैर्योगे: साजाजिशर्करैः ।

विडङ्गगाढं धान्याम्लं पायये ताप्यनन्तरम् ॥ २१ ॥

हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो गाम् ।

यवान्नं ' ' वितरेच्चात्य सविडङ्गमतः परम् ॥ २२ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम ( पञ्चमोऽध्यायः, आदितः ) त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

१ मधुकसाधितम् = यष्टीमधुसिद्धम् । २ इलैष्मिक हृद्रोगे चिकित्सामभिदधाति-वचेति। ३ उक्तं चूर्णे = पिप्पल्येलेत्यादिकम् । ४ फलादिः = संशोधनसंशमनीयाध्यायोक्तो मदनफलादिः, मुस्तादिः = द्रव्य-सङ्ग्रहणीयाध्यायोक्तः । ५ श्यामा प्रत्र वृद्धदारकः ' विधारा ' इति ख्याता | ६ बलातैलं मूढगर्भचिकित्सितोक्तम् । ७ कृमिजहृद्रोगे चिकित्सां वक्ति - क्रिमीति 1 । पिशितौदनं = मांसौइनम् । ८ पल-लोपेतं = भृष्टतिलचूर्णान्वितम् । ९ सुगन्धिभिः = शर्कराक्षौद्र संयुक्तमित्यादिभिर्विरे -चनकल्पोक्तैः । १० वितरेत् = दद्यादित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां त्रिचत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1305

सुश्रुत संहिता चौखम्बा, पृष्ठ 1305 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ११४७

चतुश्चत्वारिंशत्तमोऽध्यायः ।

अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

व्यवाय मम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् ॥

निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ॥ ३ ॥

पाण्ड्वामयोऽष्टाविधः प्रदिष्टः पृथक् समस्तैर्यगपञ्च दोषैः! सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ॥ ४ ॥

फोटोनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः । चतुश्चत्वारिंशत्तमोऽध्यायः । १ हृदोगे जाते पाण्डुत्वं जायत इति पाण्डुत्वजनकत्वेन हृद्रोगसाधर्म्यात् पाण्डुरोग. प्रतिषेधमधिकरोति -- अथात इति । पाण्डुत्वेनोपलक्षितो रोगः पाण्डुरोगस्तत्प्रतिषेध • स्तम् । पाण्डुरोगेण कामलादयोऽपि गृह्यन्ते । तथा च हारीत: - " वातेन पित्तेन कफेन चैव त्रिदोषमृद्भक्षणसम्भवे च । द्वे कामले चैव हलीमकश्च स्मृतोऽष्टधैवं खलु पाण्डु-रोगः ॥ ' इति । पाण्डुवर्णाधिक्यात् पाण्डुरोग इति संज्ञा, अतः कृष्णादिवर्णः पाण्डुत्वं नातिक्रामति । तथा च वक्ष्यति - " सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः " इति । २ पाण्डुरोगस्य निदानं सम्प्राप्ति चाभिधत्ते - व्यवायमिति । व्यवावः = - मैथु-जम्, मृत् = मृत्तिका, इयं नानाविधत्वात्सर्वदोषप्रकोपणी । तद्दर्शितं तन्त्रान्तरे— “ कषाया मारुतं, पित्तमूषरा, मधुरा कफम् । कोपयेन्मृद्रसादींश्च रौक्ष्याद् भुक्तं विरू-क्षयेत् ॥ ” इति । तीक्ष्णं - राजिकादिपित्तप्रकोपि । ३ रक्तमित्युपलक्षणं, तेन त्व-ङ्मांसमपि बोध्यम् । तदुक्तं चरके - " वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश । प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम् | प्रदूष्य कफवातासृक्मांसानि प्रकरोति तत् । पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि ॥ ” इति । ४ पाण्डुरोगस्य संख्याम । ख्याति - पाण्ड्वामय इति । अष्टाविधः = चतु • विंधः । तन्त्रान्तरे पाण्डुरोगः पञ्चविध उक्तः - ' पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैं-स्त्रयः । चतुर्थः सन्निपातेन पचमो भक्षणान्मृदः ॥ ” इति । अत्र मृद्भक्षणजन्यस्य पञ्च-मस्य पाण्डुरोगस्य त्रिदोषजे एवान्तर्भावाच्चतुर्विध उक्तः । कामलादयः पञ्च वक्ष्यमाणाः पाण्डुरोगस्य पर्यायाः, तेनात्र चतुर्विध एव बोध्यः । ५ पाण्डुरोगस्य पूर्वरूपाणि दर्शयति - त्वगिति । त्वक्स्फोटनं = खचः स्फुटनम्, ष्ठीवनं = थूत्करणम् ' थुकधुकी ' इति लोके । मृद्भक्षणं = मृद्भक्षणेच्छा, प्रेक्षणकूट. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1306

सुश्रुत संहिता चौखम्बा, पृष्ठ 1306 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४४ विण्मूत्र पीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ॥ ५ ॥

से कामलापान किपाण्डुरोगः कुम्भाहयो लाघरकोऽलसाख्यः ।

विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ॥ ६ ॥

कृष्णेर्क्षणं कृष्णसिराऽवनद्धं तद्वर्णविण्मूत्रनखाननञ्च ।

वातेन पाण्डु मनुजं व्यवस्येद् युक्तं तथोऽन्यैस्तदुपद्रवैश्च ॥ ७ ॥

पीतेर्क्षणं पीतसिरावनद्धं तद्वर्णाविण्मूत्रनखाननञ्च ।

पित्तेन पाण्डुं मनुजं व्यवरयेद् युक्तं तथाऽन्यैस्तदुपद्रवैश्च ॥ ८ ॥

शुक्लेर्क्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननञ्च ।

कफेन पाण्डु मनुजं व्यवस्येद् युक्तं तथाऽन्यैस्तदुपद्रवैश्च ॥ ९ ॥

सर्वात्मके १ ° सर्वमिदं व्यवस्येद्, वक्ष्यामि लिङ्गान्यथ कामलायाः । शोथः = अक्षिगोलकशोथः । १ आहारस्य अविपाक इत्यर्थः । पुरःसराणि = पूर्वं सराणि । २ पाण्डुरोगस्य पर्यायान् दर्शयति - स इति । स पाण्डुरोगः कामलेत्यादिनाम्ना विभाष्यते इत्यन्वयः । अत्र सुश्रुतार्थसन्दीपनम् - अत्र कामलेति कामशब्दोऽयं साधा · रणशब्दविशेषात् स्वल्पे भक्ताद्यभिलाषे प्रवर्तते, तं लातीति कामला । दुष्टत्वेन कुत्सि • वोऽपानोऽपानकः, सोऽस्यास्तीति अपानकी, कामलाऽख्योऽपान किपाण्डुरोगः कामलाऽ-पानकिपाण्डुरोगः । कुम्भकामलाऽऽख्योऽपान किपाण्डुरोगस्त्वत्र कुम्भाह्वय उच्यते, भीमो भीमसेन इतिवत् । रोगस्यास्य कुम्भकामलेति संज्ञा तन्त्रान्तरे उपदिश्यते । “ कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला " इति स एव पुनर्ज्वरादिभिर्ला • घवं करोति, सत्यपि सामथ्र्यै कर्मस्वनुत्साहं च जनयतीत्यल साख्योऽपानकिपाण्डुरो. गस्तु लाघवक उच्यते इति । ' लाघरक ' इत्यत्र ' लाघवक ' इति पाठान्तरम् । ३ नि. बोध = जानीहि । ४ वातिकपाण्डुरोगस्य लक्षणमभिदधाति - कृष्णेक्षणमिति । कृष्णेक्षणं - कृष्ण-नयनम्, तद्वर्णंविण्मूत्रनखाननं - कृष्णवर्ण विण्मूत्रनखमुखम् । तन्त्रान्तरे – “ त्वङ्मूत्र • नयनादीनां रूक्षकृष्णारुणाभताः । वातपाण्ड्वामये तोदकम्पानाह भ्रमादयः ॥ ” इति । ५ तदुपद्रवैः = वातोपद्रवैरित्यर्थः । ६ पैत्तिकपाण्डुरोगस्य लक्षणं वक्ति - पीतेक्ष-णमिति । पीतेक्षणं = पीतवर्णनेत्रम् । ७ तदुपद्रवैः = पित्तोपद्रवैर्दा हतृष्णादिभिरि त्यर्थः । ८ इलैष्मिक पाण्डुरोगस्य लक्षणं निर्दिशति - शुक्लेक्षणमिति । शुक्ले. क्षणं = श्वेतनयनम् । ९ तदुपद्रवैः = कफोपद्रवैस्तन्द्राऽऽलस्यादिभिः । १० सान्निपातिकपाण्डुरोगस्य लक्षणमभिधत्ते - सर्वात्मक इति । इदं = प्रकृति-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1307

सुश्रुत संहिता चौखम्बा, पृष्ठ 1307 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ११४ ९ यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् ॥१० ॥

करोति पाण्डुं वदनं विशेषात् पूर्वरितौ तन्द्रिबलक्षयौ च ।

भेदस्तु तस्याः खलुः कुम्भसाहः शोफो महांस्तत्र च पर्वभेदः ॥११ ॥

ज्वराङ्गमर्दभ्रम सादतन्द्राक्षयान्वितो लाघरकोऽलसाख्यः ।

तं पातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः ॥ १२ ॥

उपद्रवास्तेष्वरुचिः पिपासा बर्दिबेरो मूर्द्धरुजाऽग्निसादः ।

शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनञ्च ॥ १३ ॥

साध्यन्तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्व मधश्च शुद्धम् ।

सम्पादयेत् क्षौद्रघृतप्रगाढै हरीतकीचूर्णयुतैः प्रयोगेः ॥ १४ ॥

समसमवेतत्वेन वातादिजपाण्डुरोगलक्षणम्, “ सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोष. जम् । त्रिलिङ्गं सम्प्रकुर्वन्ति पाण्डुरोगं सुदुःसहम् ॥ ” इति चरकः । व्यवस्येत्-जानीयादित्यर्थः । १ कामलालक्षणं प्रतिपादयति - य इति । श्रामयान्ते = पाण्डुरोगान्ते, अन्यरो-गान्ते चेत्यर्थः । अम्लमन्नम् = अम्ल भोजनम् । २ पूर्वेरितौ = गर्भव्याकरणाध्याये → दोषादिक्षय वृद्धयध्याये चाभिहितौ, क्रमशस्तन्द्रा बलक्षयश्चेत्यर्थः । ३ कामलाभेदकु -म्भसाह लक्षणमभिदधाति भेदस्त्विति । तन्त्रान्तरे कुम्भसाह्वस्य कुम्भकामलेति नामान्तरम् । तद्यथा— “ कामला बहुपितैषा कोष्ठशाखाऽऽश्रया मता । कालान्तरात्ख • भूता कृच्छा स्यात् कुम्भकामला ॥ ” इति । ४ कुम्भसाह्रस्य अवस्थाभेदेन संज्ञान्तरमाख्याति - ज्वरेति । लाघरकोऽलसा -ख्यः === लाघरकाख्यः, अलसाख्यश्चेत्यर्थः । अस्यैव अवस्थाभेदं पानकीति तन्त्रान्तरे-“ सन्तापो भिन्नवर्चस्त्वं बहिरन्दश्च पीतता । पाण्डुता नेत्ररोगश्च पानकीलक्षणं वदेत् ॥ ” इति। ५ हलीमकलक्षणमभिधत्ते -- तमिति । यदा कुम्भसाहो हरितपीतनील: स्यात्तदा तज्ज्ञाः तं पाण्डुरोगं हलीमकं नाम वदन्तीत्यर्थः । ६ पाण्डुरोगोपद्रवान् दर्शयति - उपद्रवा इति I । मूर्धरुजा = शिरोव्यथा । ७ अबलत्वं = निर्बलत्त्रम् । ८ पाण्डुरोगचिकित्सितमुपदिशति - साध्यमिति । अध्यायान्तेऽसाध्य लक्षणं वक्ष्यति, तद्विपरीतं साध्यलक्षणं बोध्यम् । घृतेन = कट्वर - कल्याणक - दाधिक - महा-तिक्त - पञ्चगव्यादिना घृतेनेत्यर्थः । पाण्डुरोगे ऊर्ध्वशोधनं निषिद्धमपि ऋतुदेशकाल -प्रकृत्यादिकं विचार्य मृदुवमनं देयम् । तथा च तन्त्रान्तरम् - " कालं च देशप्रकृती शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः । वान्तस्य तीक्ष्णान्यनुलोमनानि कल्पोपदिष्टानि भिषग् विदध्यात् ॥ ” इति । ९ प्रयोगः == वक्ष्यमाणयोगैरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1308

सुश्रुत संहिता चौखम्बा, पृष्ठ 1308 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११५Digitized by Arya Samaj Foundation संहितार्थी Gangotri [ अ ० ४४

पिबेद् घृतं वा रजनीविपैक्वं यत् त्रैफलं तैल्वकमेव वाऽपि ।

विरेचनद्रव्यैकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन ॥ १५ ॥

मंत्रे निकुम्भार्द्धपलं विपाच्य विवेदभीक्ष्णं कुडवार्द्धमात्रम् ।

खादेद् गुडं वाऽप्यभैयाविपक्कमारग्वधादिकथितं पिबेद्वा ॥ १६ ॥

अयोरजोव्योषविडङ्गचूण लिह्याद्धरिद्रां त्रिफलाऽन्वितां वा ।

सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रं प्रदेशाभिहितांश्च योगान् ॥ १७ ॥

हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु ।

धात्री फलानां रसमिक्षुजश्च मन्थं पिवेत् क्षौद्रयुतं हिताशी ॥ १८ ॥

उभे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम् ।

आधीरिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत्कषाये ॥ १ ९ ॥

तत्पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाऽग्नि । १ रजनीविपक्कं = हरिद्राकल्कसिद्धम्, त्रैफलं = त्रिफलासिद्धम्, तैल्वकं = पट्टि · कालोध्रसिद्धम् । २ त्रिवृदादि विरेचनद्रव्य संस्कृतं घृतमित्यर्थः । वैरेचनिकान् = विरेचन द्रव्यविकल्पोक्तान् । ३ पाण्डुरोगे अन्यानि विरेचनानि निर्दिशति - मूत्र इति । मूत्रे = महिषीमूत्रे, षोडशगुणे इत्यर्थः । निकुम्भा - दन्ती, कुडवार्धमात्रं = पलद्वयमात्रम् । मात्रेयमवि-शेषेण श्रभिहिता, तस्माद्यथायोगं मात्रा निरूपणीया । तदुक्तम् - " मात्राया नास्त्य • वस्थानम् " इति । ४ श्रभयाविपक्कं = हरीतकीक्काथ सिद्धम् । ५ अयोरजः = लोह-चूर्णम्, व्योषं = त्रिकटुकम्, लिह्याद् मधुसर्पिर्भ्यामिति सम्बन्धः । प्रथमयोगोऽयम् । द्वितीययोगस्तु त्रिफलाऽन्वितां हरिद्रामिति । ६ शास्त्रेऽन्य प्रदेशाभिहितानित्यर्थः । योगान् = नवायसप्रभृतीन् । ७ श्वयेत् = शोथमाप्नुयात् । अन्नपान रक्षाविध्यध्याये मन्थलक्षणमुक्तम् - " सक्तवः सर्पिषाऽभ्यताः शीत. वारिपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ॥ ” इति । मन्थं क्षौद्रयु. तमिति तृतीयो योगः । तन्त्रान्तरेऽपि — " पिबेत् सुशीतलान् मन्थान् घृताक्तान् मधु-संयुतान् । सक्षौद्रं वा रसं धात्र्या इक्षोर्वाऽपि हिताशनः ॥ ” इति । अन्यत्र – “ धात्री · फलरसे सक्तूनिक्षूणां च रसे तथा । पाण्डुर्मधुसमायुक्तं पिवेन्मन्थं सुशीतलम् ॥ ” इति पाण्डुरोगे विशिष्टमन्थमाह । ९ श्रादारी वेल्लन्तरसदृशपुष्पा आलिरिति लोके, बिम्बी रास्नाऽनुकारिविटपा लोहितफला चेति ब्रहणः । एतदभावे विक्तपटोलं ग्राइयन्ति । कदम्बपुष्पी = मुण्डीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1309

सुश्रुत संहिता चौखम्बा, पृष्ठ 1309 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४४ ] Digitized by Arya Sama Roundation Chennai and eGangotri ११५१ हितञ्च यष्टीमधुजं कषायं चूर्ण समं वा मधुनाऽवलिह्यात् ॥ २० ॥

गोमूत्रयुक्तं त्रिफलाई लानां दत्त्वाऽऽयसं चूर्णमनल्पकालम् ।

प्रवालमुक्काऽखने शङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् ॥ २१ ॥

आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रालवणोत्तमच ।

पृथक्लांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् ॥ २२ ।

मण्डूर लोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः ।

मूत्रीसुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् ॥ २३ ॥

बिभीतकायोमलनागराणां चूर्णं तिलानाञ्च गुडश्च मुख्यः ।

- तक्रानुपानो वटक: प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् ॥ २४ ॥

सौवर्चलं हिङ्गु किराततिक्तं कलाय मात्राणि सुखाम्बुना वा ।

मूर्वाहरिद्राऽऽमलकञ्च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे ॥ २५ ॥

मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्ष समं हिताशी ।

सुखाम्बुना वा लवणेन तुल्यं शियोः फलं चोरभुजोपयोज्यम् ॥ २६ ॥

न्यग्रोधवर्गस्य " पिबेत् कषायं शीतं सितात्तौद्रयुतं हिताशी ।

शालादिकं चाप्यथ ' ' सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् ॥२७ ॥

विडङ्गमुस्त त्रिफलाऽजमोद परूपकव्योषविनिर्देहन्यः १२ ।

चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च ॥ २८ ॥

१ त्रिफलादलानां त्रिफलाखचां चूर्णमायसं लौहं चूर्णे दत्त्वा गोमूत्रयुक्तमनल्प-कालं चिरकालं लिह्यादिति सम्बन्धः । २ अञ्जनं = रसाञ्जनम्, काञ्चनगैरिकोत्थं = 1 सुवणंगैरिकचूर्णम् । ३ कुढवप्रमाणं = षोडशतोलकप्रमाणम् । ४ पृथक् पलांशा-नि = पृथक्पलप्रमाणानि । ५ पाण्डुरोगे सिद्धतमं योगमभिधत्ते - मण्डूरेति । मण्डूरादीनामंशः समो भागो यस्मिन् स मण्डूरलोहाग्निविढङ्ग पथ्याव्योषांशकः, अग्निः = चित्रकः, सर्वसमानता-प्यः = मण्डूरादिसर्वद्रव्यसमस्वर्णमाक्षिकः । ६ मूत्रासुतः = गोमूत्र सन्धानीकृत इत्य. थः । ७ श्रन्यं सिद्धतमं योगं दर्शयति- बिभीतकेति । अयोमलं = लो हमलम् । ८ अक्षसमं = कर्षंप्रमाणम् । ९ शिग्रोः फलं = शोभाञ्जनफलम् । अत्रापि कला-यमात्रमनुवर्तनीयम् । १० न्यग्रोधवर्गस्य न्यग्रोधादिगणस्य । ११ शालादिकं सार-चूर्णमिति सम्बन्धः । ज्ञालसारादिचूर्णंमित्यर्थः । १२ विनिर्दहनी = चित्रकः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1310

सुश्रुत संहिता चौखम्बा, पृष्ठ 1310 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां— ११५२.Digitized by Arya Samaj Foundation Chennai and eGangotri सम्भारमेतद्विपचेन्निधाय सारोद के सौरवतो गणस्य । [ अ ० ४४ जातश्च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे ॥ २ ९ ॥

इत्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलाञ्च ।

सँशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ॥ ३० ॥

कालेयके चापि घृतं विपक्कं हितं च तत्स्याद्रजनीविमिश्रम् ।

धातुं नदीजं जतु शैलजं वा कुम्भाह्वये सूत्रयुतं पिबेद्वा ॥ ३१ ॥

मूत्रे स्थितं सैन्धवसम्प्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिम् ।

दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्र निर्वापितमष्टवारान् ॥ ३२ ॥

विचूर्ण्य लीढं मधुना चिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात् ।

सिन्धूद्भवं वाऽग्निसमं च कृत्वा सिक्त्वा च मूत्रे सकृदेव तप्तम् ॥ ३३ ॥

लौहश्च कि बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव ।

एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ॥ ३४ ॥

यथा न दिह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदचिता तत् ।

तक्रौदनाशी विजयेत रोगं पाण्डं तथा दीपयतेऽनलञ्च ॥ ३५ ॥

द्राक्षागुडूच्यामलकीर सैञ्च सिद्धं घृतं लाघर के हितञ्च । १ सारवतो गणस्य शालसारादिगणस्य सारोदके चतुर्भागावशिष्टप्रस्थमात्रे सारक्काथे गुढशर्करे सपिंश्च निक्षिप्य पचेत्, आसन्नै पाके विडङ्गादीनां चूर्णानि सारोदकचतु-र्थभागानि प्रक्षिप्य अवतार्य शीतीभूते च तस्मिन् मधुनः सारोदक चतुर्थ भाग मेवावपेत् । २ मोक्षकजे समुद्गे = पाटलवृक्षसम्भूते सम्पुटे इत्यर्थः । ३ कामलाचिकित्सितं वक्ति - सशर्करेति । त्रिभण्डी = त्रिवृत्, गवाक्षी = इन्द्र-वारुणी, सगुडेति गवाक्षी शुण्ठी उभयत्र अन्वेति । ४ कुम्भसाह्वयचिकित्सामाख्याति-धातुमिति । नदीजं धातुं = स्वर्णमाक्षिकम्, शैलजं जतु = 1 ५ लोइ. किट्ट ं = मण्डूरमित्यर्थः । = शिलाजतु । ६ कुम्भसाह्वये सिद्धतमं तन्त्रान्तरे बिभीतकलवणाख्यं योगमभिदधाति - दुग्ध्वेति । अक्षकाष्ठैः = बिभीतककाष्टैः, श्रायसं मल = लोहकिट्टम्, मण्डूरमिति यावत् । ७ सिन्धू-द्भवं = सैन्धवम् । ८ उखायां = स्थास्याम् । ९ लाघरकचिकित्सितं ब्रवीति - द्राक्षे-ति । श्रत्र पानकीहलीमक्क चिकित्सितमनुक्तमपि, तयोः पाण्डुरोगचिकित्सितं कर्तव्यम् । विशेष चिकित्सा तन्त्रान्तरे द्रष्टव्या । CC - 0. Gurukul Kangri Collection, Haridwar