सुश्रुत संहिता चौखम्बा — पृष्ठ 1301–1310
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1301–1310
पृष्ठ 1301
पाठ पढ़ें पाठ छिपाएँ
अ ० ४३ ] उत्तरतन्त्रम । Digitized by Arya Samaj Foundation Chennai and eGangotri
विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति ।
अविपाकाद्भवेच्छुलस्त्वन्नदोषसमुद्भवः ॥ १४४ ॥
वर्मनं लङ्घनं स्वेदः पाचनं फलवर्तयः । ११४३ क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः ॥ १४५ ॥
गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् । इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषेधो नाम ( ' चतुर्थोऽध्यायः, आदितः ) द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
त्रिचत्वारिंशत्तमोऽध्यायः ।
अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
गौघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः ।
विरुद्धाध्यशनाजीर्णैर सात्म्यैश्चापि भोजनैः ॥ ३ ॥
दूषयित्वा रसं दोषा विगुणा हृदयं गताः । बदयते । तव्यथा- " दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य । विलम्बिकां ai भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ॥ ” इति । १ श्रविपाकजशूलस्य चिकित्सामाख्याति - वमनमिति । २ यथावत् = यथावस्थमित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां द्विचत्वारिंशोऽध्यायः । त्रिचत्वारिंशत्तमोऽध्यायः । ३ “ तत्रापि कर्माभिहतं यदुक्तं हृद्विकारिणाम् ” इति पूर्वाध्याये नाममात्रेणोपदिष्टं विस्तरेण बोधयितुं हृद्रोगप्रतिषेधमधिकरोति - अथात इति । हृदयस्य रोगो हृद्रोगः, ' वा शोकष्यञ्ोगेषु ' इति रोगशब्दे परे हृदयस्य हृद्भावः । अथवा हृदो रोगो हृद्रोग-स्तस्य प्रतिषेधं चिकित्सितं व्याख्यास्यामः । ४ हृद्रोगस्य निदानं सम्प्राप्ति चाभिधत्ते - वेगेति । वेगाघातः = मलमूत्रवेगाव-रोधः, आघातशब्दस्य श्रावर्तनं कार्यम्, तथा च आघातो हृदि लगुडादिप्रहार इत्य-र्थः । ५ श्रसात्म्यैः = प्रकृतिप्रतिकूलैः । ६ पूर्वोक्तैर्वेगाघातादिभिर्हेतुभिः विगुणा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1302
पाठ पढ़ें पाठ छिपाएँ
११४४ Digitized by Arya Samaj F- सुश्रुतसंहितायां rangotri [ अ ० ४३ कुवन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते ॥ ४
चतुर्विधः स दोषैः स्यात् क्रिमिभिश्च पृथक् पृथक् ।
लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ॥ ५ ॥
आर्यम्यते मारुतजे हृदयं तुद्यते तथा ।
निर्मथ्यते दीर्य्यते च स्फोटयते पाटयतेऽपि च ॥ ६ ॥
तृष्णोषादाह चोषाः स्युः पैत्तिके हृदयक्लमः ।
धूमायनञ्च मूर्च्छा च खेदैः शोषो मुखस्य च ॥ ७ ॥
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् ।
माधुर्य्यमपि चास्यस्य बैलासावतते हृदि ॥ ८ ॥
उत्क्लेशः ष्ठीवनं तोदः शूलो हल्लास कस्तमः । दुष्टा दोषा हृदयं गताः रसं दूषयित्वा हृदये बाधां दोषभेदेन नानाविधां व्यथां कुर्वन्ति, तं हृद्रोगं प्रचक्षते श्राचार्या इति सम्बन्धनीयम् । १ हृद्रोगस्य संख्यामाख्याति - चतुर्विध इति । दोषैर्वातादिभिस्त्रयः सन्नि-पातैश्च, कृमिभिः सह । तन्त्रान्तरे पञ्चविधो हृद्रोग उक्तः - --- “ प्रत्युष्णगुर्वन्न-कषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः । सञ्चिन्तनै वेंगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ॥ ” इति । वस्तुतस्तु सान्निपातिकहृद्रोग एवापचारेणोत्तरावस्थायां कृमिनिपात. नात् कमिज इति कथ्यते । तेन न पञ्च हृद्रोगाः । तदुक्तं चरके - " त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते । तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते ॥ ममैकदेशे सङ्क्लेदं रसश्चाप्युपगच्छति । सङ्क्लेदात् कृमयश्चास्य भवन्त्युपद्दतात्मनः ॥ ” इति । २ वातिकहृद्रोगस्य लक्षणमुपदिशति - आयम्यत इति । मारुतजे ' हृद्रोगे ' इति शेषः । श्रायम्यते = व्यथया विस्तार्यत इव, तुद्यते = सूचीभिरिव विध्यते । ३ नि. | र्मथ्यते = मन्थनेनेव विलोडयते, दीर्यते = करपत्रेण द्विधा क्रियत इव, स्फोटयते = अस्त्रेणेव. पाठ्यते = कुठारेण बहुधा क्रियत इव । = ४ पैत्तिकहृद्रोगस्य लक्षणमाख्याति - तृष्णेति 1 । ऊषा = प्रादेशिकः किञ्चिद्दाहः, हृदि किञ्चिद्दाइ इत्यर्थः । दाइ: = सार्वाङ्गिकः, चोषः - हृदये चूषणेनेव पीडा, कुमः = हृदयाकुलत्वम्, ग्लानिवदित्यर्थः । ५ ' क्लेद: ' इति पाठान्तरम् । ६ इलैष्मिकह · द्रोगस्य लक्षणमभिदधाति - गौरवमिति 1 । गौरवं - हृदयस्य गुरुता, स्तम्भः = हृद • यस्य मन्दशब्दत्वेन जडता, मार्दवं = जलप्लुतमिव । ७ बलासावतते = कुपितकफ • व्याप्ते, “ दोषा दुष्टा दूषयितारो भवन्ति " इत्यागमात् । ८ सान्निपातिकहृद्रोगस्य लक्षणमभिधत्ते - उत्क्लेश इति । उत्क्लेशः = वमन • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1303
पाठ पढ़ें पाठ छिपाएँ
अ ० ४३ ] उत्तरतन्त्रम् । ११४५ Digitized by Arya Samaj Foundation Chennai and eGangotri अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ॥ ९ ॥
भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्रवाः ।
कृमिजे कृमिजातीनां श्लैष्मिकारणाञ्च ये मताः ॥ १० ॥
वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् ।
द्विपञ्चमूलकाथेन सस्नेहलवणेन तु ॥ ११ ॥
पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम् ।
सौवर्चलमथो शुण्ठोमजमोदाच चूर्णितम् ॥ १२ ॥
फलधान्याम्लकौलत्थ दधिमद्यासवादिभिः ।
पाययेत विशुद्धञ्च स्नेहेनान्यतमेन वा ॥ १३ ॥
भोजयेज्जीणशास्यन्नं जाङ्गलैः सघृतै रसैः ।
वार्तघ्नसिद्धं तैलञ्च दद्याद्वस्तिं प्रमाणतः ॥ १४ ॥
• श्रीप मधुक क्षौद्रसितोत्पलजलैर्वमेत् ।
पित्तोपसृष्टे हृदये सेवेत ' मधुरैः शृतम् ॥ १५ ॥
घृतं कषायांश्चोद्दिष्टान् १२ पित्तज्वरविनाशनान् ।
तृप्तस्य च " रसैर्मुख्यैर्मधुरैः सघृतैभिषक् ॥ १६ ॥
मिवोपस्थितत्वम्, ष्ठीवनं थूत्करणम् हल्लासः = लालास्रावः । १ तेषां = वाता • दिजानां कृमिहीनानां हृद्रोगिणाम् । २ वातादिजानां कृमिहीनानां हृद्रोगिणामुपद्र • वानभिधाय कृमिजस्योपद्रवान् दर्शयति- कृमिज इति । इलैष्मिकाणां कृमिजातीनां उपद्रवास्त एव कृमिजे हृद्रोगे मता इत्यर्थः । ते च हृल्लासास्यस्रवणाविपाकादयः । ३ वातजहृद्रोगचिकित्सां वक्ति - वातेति । वातोपसृष्टे हृदये = वातजहृद्रोगे । यद्यपिवाते वमनं निषिद्धं, तथाऽपि वातस्य कफस्थानगतत्वेन अत्र वमनमुपदिष्टम् । एवं पित्तजेऽपि बोध्यम् । ४ द्विपञ्चमूलक्काथेन - दशमूलीक्काथेनेत्यर्थः । ५ यवभस्म = यवक्षारः । ६ फलं = मातुलुङ्गादिफलम्, धान्याम्लं काशिकम्, मद्यासवौ = मद्य. वर्गाभिहितौ । ७ स्नेहेनान्यतमेन = चतुःस्नेहमध्ये एकेन स्नेहेन । ८ वातजहृद्रो पथ्यमुपदिशति - भोजयेदिति । ९ वातघ्नसिद्धं = वातहर भद्रदार्वादिसाधितम् । १० पित्तज हृद्रोगचिकित्सामाचष्टे - श्रीपर्णीति 1 । श्रीपणीं = गम्भारीशब्दवाच्या, मधुकं = यष्टीमधु, क्षौद्रं = माक्षिकम्, सिता = शर्करा, उत्पलं = कुष्ठम् । ११ मधुरैः = काकोल्यादिभिः । १२ उद्दिष्टान् = ‘ चन्दनोशीरश्रीपण ' इत्यादिनाऽभिहितान् । १३ रसैः = एणादिमांसरसैः, मधुरैः अम्लादिसिद्धैः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1304
पाठ पढ़ें पाठ छिपाएँ
११४६ सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४३
सक्षौद्रं वितरेद्वस्तौ तैलं मधुसाधितम् ।
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके ॥ १७ ॥
चूर्णन्तु पाययेतोक्तं ' वातजे भोजयेच्च तम् ।
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः ॥। १८ ॥
श्यामत्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम् ।
बलातैलैर्विदध्याच्च बस्ति बस्तिविशारदः ॥ १ ९ ॥
क्रिमिहद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् ।
दध्ना च पललोपेतं त्र्यहं 9 पञ्चाद्विरेचयेत् ॥ २० ॥
सुगन्धिभिः सवलणैर्योगे: साजाजिशर्करैः ।
विडङ्गगाढं धान्याम्लं पायये ताप्यनन्तरम् ॥ २१ ॥
हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो गाम् ।
यवान्नं ' ' वितरेच्चात्य सविडङ्गमतः परम् ॥ २२ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम ( पञ्चमोऽध्यायः, आदितः ) त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
१ मधुकसाधितम् = यष्टीमधुसिद्धम् । २ इलैष्मिक हृद्रोगे चिकित्सामभिदधाति-वचेति। ३ उक्तं चूर्णे = पिप्पल्येलेत्यादिकम् । ४ फलादिः = संशोधनसंशमनीयाध्यायोक्तो मदनफलादिः, मुस्तादिः = द्रव्य-सङ्ग्रहणीयाध्यायोक्तः । ५ श्यामा प्रत्र वृद्धदारकः ' विधारा ' इति ख्याता | ६ बलातैलं मूढगर्भचिकित्सितोक्तम् । ७ कृमिजहृद्रोगे चिकित्सां वक्ति - क्रिमीति 1 । पिशितौदनं = मांसौइनम् । ८ पल-लोपेतं = भृष्टतिलचूर्णान्वितम् । ९ सुगन्धिभिः = शर्कराक्षौद्र संयुक्तमित्यादिभिर्विरे -चनकल्पोक्तैः । १० वितरेत् = दद्यादित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां त्रिचत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1305
पाठ पढ़ें पाठ छिपाएँ
अ ० ४४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ११४७
चतुश्चत्वारिंशत्तमोऽध्यायः ।
अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
व्यवाय मम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् ॥
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ॥ ३ ॥
पाण्ड्वामयोऽष्टाविधः प्रदिष्टः पृथक् समस्तैर्यगपञ्च दोषैः! सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ॥ ४ ॥
फोटोनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः । चतुश्चत्वारिंशत्तमोऽध्यायः । १ हृदोगे जाते पाण्डुत्वं जायत इति पाण्डुत्वजनकत्वेन हृद्रोगसाधर्म्यात् पाण्डुरोग. प्रतिषेधमधिकरोति -- अथात इति । पाण्डुत्वेनोपलक्षितो रोगः पाण्डुरोगस्तत्प्रतिषेध • स्तम् । पाण्डुरोगेण कामलादयोऽपि गृह्यन्ते । तथा च हारीत: - " वातेन पित्तेन कफेन चैव त्रिदोषमृद्भक्षणसम्भवे च । द्वे कामले चैव हलीमकश्च स्मृतोऽष्टधैवं खलु पाण्डु-रोगः ॥ ' इति । पाण्डुवर्णाधिक्यात् पाण्डुरोग इति संज्ञा, अतः कृष्णादिवर्णः पाण्डुत्वं नातिक्रामति । तथा च वक्ष्यति - " सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः " इति । २ पाण्डुरोगस्य निदानं सम्प्राप्ति चाभिधत्ते - व्यवायमिति । व्यवावः = - मैथु-जम्, मृत् = मृत्तिका, इयं नानाविधत्वात्सर्वदोषप्रकोपणी । तद्दर्शितं तन्त्रान्तरे— “ कषाया मारुतं, पित्तमूषरा, मधुरा कफम् । कोपयेन्मृद्रसादींश्च रौक्ष्याद् भुक्तं विरू-क्षयेत् ॥ ” इति । तीक्ष्णं - राजिकादिपित्तप्रकोपि । ३ रक्तमित्युपलक्षणं, तेन त्व-ङ्मांसमपि बोध्यम् । तदुक्तं चरके - " वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश । प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम् | प्रदूष्य कफवातासृक्मांसानि प्रकरोति तत् । पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि ॥ ” इति । ४ पाण्डुरोगस्य संख्याम । ख्याति - पाण्ड्वामय इति । अष्टाविधः = चतु • विंधः । तन्त्रान्तरे पाण्डुरोगः पञ्चविध उक्तः - ' पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैं-स्त्रयः । चतुर्थः सन्निपातेन पचमो भक्षणान्मृदः ॥ ” इति । अत्र मृद्भक्षणजन्यस्य पञ्च-मस्य पाण्डुरोगस्य त्रिदोषजे एवान्तर्भावाच्चतुर्विध उक्तः । कामलादयः पञ्च वक्ष्यमाणाः पाण्डुरोगस्य पर्यायाः, तेनात्र चतुर्विध एव बोध्यः । ५ पाण्डुरोगस्य पूर्वरूपाणि दर्शयति - त्वगिति । त्वक्स्फोटनं = खचः स्फुटनम्, ष्ठीवनं = थूत्करणम् ' थुकधुकी ' इति लोके । मृद्भक्षणं = मृद्भक्षणेच्छा, प्रेक्षणकूट. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1306
पाठ पढ़ें पाठ छिपाएँ
११४८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४४ विण्मूत्र पीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ॥ ५ ॥
से कामलापान किपाण्डुरोगः कुम्भाहयो लाघरकोऽलसाख्यः ।
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ॥ ६ ॥
कृष्णेर्क्षणं कृष्णसिराऽवनद्धं तद्वर्णविण्मूत्रनखाननञ्च ।
वातेन पाण्डु मनुजं व्यवस्येद् युक्तं तथोऽन्यैस्तदुपद्रवैश्च ॥ ७ ॥
पीतेर्क्षणं पीतसिरावनद्धं तद्वर्णाविण्मूत्रनखाननञ्च ।
पित्तेन पाण्डुं मनुजं व्यवरयेद् युक्तं तथाऽन्यैस्तदुपद्रवैश्च ॥ ८ ॥
शुक्लेर्क्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननञ्च ।
कफेन पाण्डु मनुजं व्यवस्येद् युक्तं तथाऽन्यैस्तदुपद्रवैश्च ॥ ९ ॥
सर्वात्मके १ ° सर्वमिदं व्यवस्येद्, वक्ष्यामि लिङ्गान्यथ कामलायाः । शोथः = अक्षिगोलकशोथः । १ आहारस्य अविपाक इत्यर्थः । पुरःसराणि = पूर्वं सराणि । २ पाण्डुरोगस्य पर्यायान् दर्शयति - स इति । स पाण्डुरोगः कामलेत्यादिनाम्ना विभाष्यते इत्यन्वयः । अत्र सुश्रुतार्थसन्दीपनम् - अत्र कामलेति कामशब्दोऽयं साधा · रणशब्दविशेषात् स्वल्पे भक्ताद्यभिलाषे प्रवर्तते, तं लातीति कामला । दुष्टत्वेन कुत्सि • वोऽपानोऽपानकः, सोऽस्यास्तीति अपानकी, कामलाऽख्योऽपान किपाण्डुरोगः कामलाऽ-पानकिपाण्डुरोगः । कुम्भकामलाऽऽख्योऽपान किपाण्डुरोगस्त्वत्र कुम्भाह्वय उच्यते, भीमो भीमसेन इतिवत् । रोगस्यास्य कुम्भकामलेति संज्ञा तन्त्रान्तरे उपदिश्यते । “ कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला " इति स एव पुनर्ज्वरादिभिर्ला • घवं करोति, सत्यपि सामथ्र्यै कर्मस्वनुत्साहं च जनयतीत्यल साख्योऽपानकिपाण्डुरो. गस्तु लाघवक उच्यते इति । ' लाघरक ' इत्यत्र ' लाघवक ' इति पाठान्तरम् । ३ नि. बोध = जानीहि । ४ वातिकपाण्डुरोगस्य लक्षणमभिदधाति - कृष्णेक्षणमिति । कृष्णेक्षणं - कृष्ण-नयनम्, तद्वर्णंविण्मूत्रनखाननं - कृष्णवर्ण विण्मूत्रनखमुखम् । तन्त्रान्तरे – “ त्वङ्मूत्र • नयनादीनां रूक्षकृष्णारुणाभताः । वातपाण्ड्वामये तोदकम्पानाह भ्रमादयः ॥ ” इति । ५ तदुपद्रवैः = वातोपद्रवैरित्यर्थः । ६ पैत्तिकपाण्डुरोगस्य लक्षणं वक्ति - पीतेक्ष-णमिति । पीतेक्षणं = पीतवर्णनेत्रम् । ७ तदुपद्रवैः = पित्तोपद्रवैर्दा हतृष्णादिभिरि त्यर्थः । ८ इलैष्मिक पाण्डुरोगस्य लक्षणं निर्दिशति - शुक्लेक्षणमिति । शुक्ले. क्षणं = श्वेतनयनम् । ९ तदुपद्रवैः = कफोपद्रवैस्तन्द्राऽऽलस्यादिभिः । १० सान्निपातिकपाण्डुरोगस्य लक्षणमभिधत्ते - सर्वात्मक इति । इदं = प्रकृति-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1307
पाठ पढ़ें पाठ छिपाएँ
अ ० ४४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । ११४ ९ यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् ॥१० ॥
करोति पाण्डुं वदनं विशेषात् पूर्वरितौ तन्द्रिबलक्षयौ च ।
भेदस्तु तस्याः खलुः कुम्भसाहः शोफो महांस्तत्र च पर्वभेदः ॥११ ॥
ज्वराङ्गमर्दभ्रम सादतन्द्राक्षयान्वितो लाघरकोऽलसाख्यः ।
तं पातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः ॥ १२ ॥
उपद्रवास्तेष्वरुचिः पिपासा बर्दिबेरो मूर्द्धरुजाऽग्निसादः ।
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनञ्च ॥ १३ ॥
साध्यन्तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्व मधश्च शुद्धम् ।
सम्पादयेत् क्षौद्रघृतप्रगाढै हरीतकीचूर्णयुतैः प्रयोगेः ॥ १४ ॥
समसमवेतत्वेन वातादिजपाण्डुरोगलक्षणम्, “ सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोष. जम् । त्रिलिङ्गं सम्प्रकुर्वन्ति पाण्डुरोगं सुदुःसहम् ॥ ” इति चरकः । व्यवस्येत्-जानीयादित्यर्थः । १ कामलालक्षणं प्रतिपादयति - य इति । श्रामयान्ते = पाण्डुरोगान्ते, अन्यरो-गान्ते चेत्यर्थः । अम्लमन्नम् = अम्ल भोजनम् । २ पूर्वेरितौ = गर्भव्याकरणाध्याये → दोषादिक्षय वृद्धयध्याये चाभिहितौ, क्रमशस्तन्द्रा बलक्षयश्चेत्यर्थः । ३ कामलाभेदकु -म्भसाह लक्षणमभिदधाति भेदस्त्विति । तन्त्रान्तरे कुम्भसाह्वस्य कुम्भकामलेति नामान्तरम् । तद्यथा— “ कामला बहुपितैषा कोष्ठशाखाऽऽश्रया मता । कालान्तरात्ख • भूता कृच्छा स्यात् कुम्भकामला ॥ ” इति । ४ कुम्भसाह्रस्य अवस्थाभेदेन संज्ञान्तरमाख्याति - ज्वरेति । लाघरकोऽलसा -ख्यः === लाघरकाख्यः, अलसाख्यश्चेत्यर्थः । अस्यैव अवस्थाभेदं पानकीति तन्त्रान्तरे-“ सन्तापो भिन्नवर्चस्त्वं बहिरन्दश्च पीतता । पाण्डुता नेत्ररोगश्च पानकीलक्षणं वदेत् ॥ ” इति। ५ हलीमकलक्षणमभिधत्ते -- तमिति । यदा कुम्भसाहो हरितपीतनील: स्यात्तदा तज्ज्ञाः तं पाण्डुरोगं हलीमकं नाम वदन्तीत्यर्थः । ६ पाण्डुरोगोपद्रवान् दर्शयति - उपद्रवा इति I । मूर्धरुजा = शिरोव्यथा । ७ अबलत्वं = निर्बलत्त्रम् । ८ पाण्डुरोगचिकित्सितमुपदिशति - साध्यमिति । अध्यायान्तेऽसाध्य लक्षणं वक्ष्यति, तद्विपरीतं साध्यलक्षणं बोध्यम् । घृतेन = कट्वर - कल्याणक - दाधिक - महा-तिक्त - पञ्चगव्यादिना घृतेनेत्यर्थः । पाण्डुरोगे ऊर्ध्वशोधनं निषिद्धमपि ऋतुदेशकाल -प्रकृत्यादिकं विचार्य मृदुवमनं देयम् । तथा च तन्त्रान्तरम् - " कालं च देशप्रकृती शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः । वान्तस्य तीक्ष्णान्यनुलोमनानि कल्पोपदिष्टानि भिषग् विदध्यात् ॥ ” इति । ९ प्रयोगः == वक्ष्यमाणयोगैरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1308
पाठ पढ़ें पाठ छिपाएँ
११५ Digitized by Arya Samaj Foundation संहितार्थी Gangotri [ अ ० ४४
पिबेद् घृतं वा रजनीविपैक्वं यत् त्रैफलं तैल्वकमेव वाऽपि ।
विरेचनद्रव्यैकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन ॥ १५ ॥
मंत्रे निकुम्भार्द्धपलं विपाच्य विवेदभीक्ष्णं कुडवार्द्धमात्रम् ।
खादेद् गुडं वाऽप्यभैयाविपक्कमारग्वधादिकथितं पिबेद्वा ॥ १६ ॥
अयोरजोव्योषविडङ्गचूण लिह्याद्धरिद्रां त्रिफलाऽन्वितां वा ।
सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रं प्रदेशाभिहितांश्च योगान् ॥ १७ ॥
हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु ।
धात्री फलानां रसमिक्षुजश्च मन्थं पिवेत् क्षौद्रयुतं हिताशी ॥ १८ ॥
उभे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम् ।
आधीरिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत्कषाये ॥ १ ९ ॥
तत्पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाऽग्नि । १ रजनीविपक्कं = हरिद्राकल्कसिद्धम्, त्रैफलं = त्रिफलासिद्धम्, तैल्वकं = पट्टि · कालोध्रसिद्धम् । २ त्रिवृदादि विरेचनद्रव्य संस्कृतं घृतमित्यर्थः । वैरेचनिकान् = विरेचन द्रव्यविकल्पोक्तान् । ३ पाण्डुरोगे अन्यानि विरेचनानि निर्दिशति - मूत्र इति । मूत्रे = महिषीमूत्रे, षोडशगुणे इत्यर्थः । निकुम्भा - दन्ती, कुडवार्धमात्रं = पलद्वयमात्रम् । मात्रेयमवि-शेषेण श्रभिहिता, तस्माद्यथायोगं मात्रा निरूपणीया । तदुक्तम् - " मात्राया नास्त्य • वस्थानम् " इति । ४ श्रभयाविपक्कं = हरीतकीक्काथ सिद्धम् । ५ अयोरजः = लोह-चूर्णम्, व्योषं = त्रिकटुकम्, लिह्याद् मधुसर्पिर्भ्यामिति सम्बन्धः । प्रथमयोगोऽयम् । द्वितीययोगस्तु त्रिफलाऽन्वितां हरिद्रामिति । ६ शास्त्रेऽन्य प्रदेशाभिहितानित्यर्थः । योगान् = नवायसप्रभृतीन् । ७ श्वयेत् = शोथमाप्नुयात् । अन्नपान रक्षाविध्यध्याये मन्थलक्षणमुक्तम् - " सक्तवः सर्पिषाऽभ्यताः शीत. वारिपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ॥ ” इति । मन्थं क्षौद्रयु. तमिति तृतीयो योगः । तन्त्रान्तरेऽपि — " पिबेत् सुशीतलान् मन्थान् घृताक्तान् मधु-संयुतान् । सक्षौद्रं वा रसं धात्र्या इक्षोर्वाऽपि हिताशनः ॥ ” इति । अन्यत्र – “ धात्री · फलरसे सक्तूनिक्षूणां च रसे तथा । पाण्डुर्मधुसमायुक्तं पिवेन्मन्थं सुशीतलम् ॥ ” इति पाण्डुरोगे विशिष्टमन्थमाह । ९ श्रादारी वेल्लन्तरसदृशपुष्पा आलिरिति लोके, बिम्बी रास्नाऽनुकारिविटपा लोहितफला चेति ब्रहणः । एतदभावे विक्तपटोलं ग्राइयन्ति । कदम्बपुष्पी = मुण्डीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1309
पाठ पढ़ें पाठ छिपाएँ
अ ० ४४ ] Digitized by Arya Sama Roundation Chennai and eGangotri ११५१ हितञ्च यष्टीमधुजं कषायं चूर्ण समं वा मधुनाऽवलिह्यात् ॥ २० ॥
गोमूत्रयुक्तं त्रिफलाई लानां दत्त्वाऽऽयसं चूर्णमनल्पकालम् ।
प्रवालमुक्काऽखने शङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् ॥ २१ ॥
आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रालवणोत्तमच ।
पृथक्लांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् ॥ २२ ।
मण्डूर लोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः ।
मूत्रीसुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् ॥ २३ ॥
बिभीतकायोमलनागराणां चूर्णं तिलानाञ्च गुडश्च मुख्यः ।
- तक्रानुपानो वटक: प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् ॥ २४ ॥
सौवर्चलं हिङ्गु किराततिक्तं कलाय मात्राणि सुखाम्बुना वा ।
मूर्वाहरिद्राऽऽमलकञ्च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे ॥ २५ ॥
मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्ष समं हिताशी ।
सुखाम्बुना वा लवणेन तुल्यं शियोः फलं चोरभुजोपयोज्यम् ॥ २६ ॥
न्यग्रोधवर्गस्य " पिबेत् कषायं शीतं सितात्तौद्रयुतं हिताशी ।
शालादिकं चाप्यथ ' ' सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् ॥२७ ॥
विडङ्गमुस्त त्रिफलाऽजमोद परूपकव्योषविनिर्देहन्यः १२ ।
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च ॥ २८ ॥
१ त्रिफलादलानां त्रिफलाखचां चूर्णमायसं लौहं चूर्णे दत्त्वा गोमूत्रयुक्तमनल्प-कालं चिरकालं लिह्यादिति सम्बन्धः । २ अञ्जनं = रसाञ्जनम्, काञ्चनगैरिकोत्थं = 1 सुवणंगैरिकचूर्णम् । ३ कुढवप्रमाणं = षोडशतोलकप्रमाणम् । ४ पृथक् पलांशा-नि = पृथक्पलप्रमाणानि । ५ पाण्डुरोगे सिद्धतमं योगमभिधत्ते - मण्डूरेति । मण्डूरादीनामंशः समो भागो यस्मिन् स मण्डूरलोहाग्निविढङ्ग पथ्याव्योषांशकः, अग्निः = चित्रकः, सर्वसमानता-प्यः = मण्डूरादिसर्वद्रव्यसमस्वर्णमाक्षिकः । ६ मूत्रासुतः = गोमूत्र सन्धानीकृत इत्य. थः । ७ श्रन्यं सिद्धतमं योगं दर्शयति- बिभीतकेति । अयोमलं = लो हमलम् । ८ अक्षसमं = कर्षंप्रमाणम् । ९ शिग्रोः फलं = शोभाञ्जनफलम् । अत्रापि कला-यमात्रमनुवर्तनीयम् । १० न्यग्रोधवर्गस्य न्यग्रोधादिगणस्य । ११ शालादिकं सार-चूर्णमिति सम्बन्धः । ज्ञालसारादिचूर्णंमित्यर्थः । १२ विनिर्दहनी = चित्रकः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1310
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां— ११५२.Digitized by Arya Samaj Foundation Chennai and eGangotri सम्भारमेतद्विपचेन्निधाय सारोद के सौरवतो गणस्य । [ अ ० ४४ जातश्च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे ॥ २ ९ ॥
इत्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलाञ्च ।
सँशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ॥ ३० ॥
कालेयके चापि घृतं विपक्कं हितं च तत्स्याद्रजनीविमिश्रम् ।
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये सूत्रयुतं पिबेद्वा ॥ ३१ ॥
मूत्रे स्थितं सैन्धवसम्प्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिम् ।
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्र निर्वापितमष्टवारान् ॥ ३२ ॥
विचूर्ण्य लीढं मधुना चिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात् ।
सिन्धूद्भवं वाऽग्निसमं च कृत्वा सिक्त्वा च मूत्रे सकृदेव तप्तम् ॥ ३३ ॥
लौहश्च कि बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव ।
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ॥ ३४ ॥
यथा न दिह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदचिता तत् ।
तक्रौदनाशी विजयेत रोगं पाण्डं तथा दीपयतेऽनलञ्च ॥ ३५ ॥
द्राक्षागुडूच्यामलकीर सैञ्च सिद्धं घृतं लाघर के हितञ्च । १ सारवतो गणस्य शालसारादिगणस्य सारोदके चतुर्भागावशिष्टप्रस्थमात्रे सारक्काथे गुढशर्करे सपिंश्च निक्षिप्य पचेत्, आसन्नै पाके विडङ्गादीनां चूर्णानि सारोदकचतु-र्थभागानि प्रक्षिप्य अवतार्य शीतीभूते च तस्मिन् मधुनः सारोदक चतुर्थ भाग मेवावपेत् । २ मोक्षकजे समुद्गे = पाटलवृक्षसम्भूते सम्पुटे इत्यर्थः । ३ कामलाचिकित्सितं वक्ति - सशर्करेति । त्रिभण्डी = त्रिवृत्, गवाक्षी = इन्द्र-वारुणी, सगुडेति गवाक्षी शुण्ठी उभयत्र अन्वेति । ४ कुम्भसाह्वयचिकित्सामाख्याति-धातुमिति । नदीजं धातुं = स्वर्णमाक्षिकम्, शैलजं जतु = 1 ५ लोइ. किट्ट ं = मण्डूरमित्यर्थः । = शिलाजतु । ६ कुम्भसाह्वये सिद्धतमं तन्त्रान्तरे बिभीतकलवणाख्यं योगमभिदधाति - दुग्ध्वेति । अक्षकाष्ठैः = बिभीतककाष्टैः, श्रायसं मल = लोहकिट्टम्, मण्डूरमिति यावत् । ७ सिन्धू-द्भवं = सैन्धवम् । ८ उखायां = स्थास्याम् । ९ लाघरकचिकित्सितं ब्रवीति - द्राक्षे-ति । श्रत्र पानकीहलीमक्क चिकित्सितमनुक्तमपि, तयोः पाण्डुरोगचिकित्सितं कर्तव्यम् । विशेष चिकित्सा तन्त्रान्तरे द्रष्टव्या । CC - 0. Gurukul Kangri Collection, Haridwar