सुश्रुत संहिता चौखम्बा — पृष्ठ 1311–1320
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1311–1320
पृष्ठ 1311
पाठ पढ़ें पाठ छिपाएँ
33 अ ० ४५ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११५३ गौडानरिष्टान्मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ॥ ३ ९ ॥
स्निग्धान् रसानामलकै रुपेतान्कोलान्वितान्वाऽपि हि जाङ्गलानाम् ।
सेवेत शोफाभिहितांश्च योगान्पाण्ड्वामयी शालियवांश्च नित्यम् ॥३७ ॥
श्वासौतिसारारुचिकास मूर्च्छातृट्छदिशू लज्वरशोफदाहान् ।
तथाऽविपाकस्वरभेदसादान् जयेद् यथास्वं प्रसमीक्ष्य शास्त्रम् ॥ ३८ ॥
अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् ।
गुदे च शेफस्यथ मुष्कशूनं प्रतायमानं च विसंज्ञकल्पम् ॥३ ९ ॥
विवर्जयेत् पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितञ्च ॥ ४० ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम ( षष्ठोऽध्यायः, आदितः ) चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४ ॥
पञ्चचत्वारिंशत्तमोऽध्यायः ।
अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
१ पाण्डुरोगिणां सेव्यानि निर्दिशति - गौडानिति । गौडानरिष्टान् = अभया-रिष्टप्रभृतीन् मधुशर्कराः - मधुशब्देन मध्वासवः, शर्कराशब्देन शर्कराऽऽसवः, मध्वा • सवो लोहारिष्टप्रभृतिकः, मूत्रासवान् = कुष्ठ चिकित्सितोक्तान्, क्षारकृतान् = श्लीपद • पठितानासवान् । २ शोफाभिहितान् = देवदारुशुण्ठीर सादिकान् योगान् । ३ पाण्डुरोगोपद्रव चिकित्सामभिदधाति - वासेति । ४ यथास्वं = यस्य यथा-Ss स्मीयम् । ५ पाण्डुरोगिणोऽसाध्यलक्षणं प्रतिपादयति --- अन्तेष्विति । श्रन्तेषु -इस्तपादमुखेषु, परिहीनमध्यं = कृशमध्यशरीरम्, म्लानं = दोणम् । ६ प्रताम्यमा-नंमूर्च्छन्तम्, विसंज्ञकल्पं = मृतसदृशम् । तन्त्रान्तरेऽसाध्यलक्षणानि - " ज्वरारो-चकहृल्लासच्छर्दितृष्णाक्ल मान्वितः । पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः ॥ पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिद्ध्यति । कालप्रकर्षाच्छूनाङ्गो यो वा पीतानि पश्यति ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां चतुश्चत्वारिंशोऽध्यायः । पञ्चचत्वारिंशत्तमोऽध्यायः । " पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात् पाण्डुरोगप्रतिषेधानन्तरं रक्तपित्तप्रति -षेधमधिकरोति प्रथेति । रक्तं च पित्तं चेति द्वन्द्वसमासः, तत्प्रतिषेधो रक्तपित्तप्रति-७३ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1312
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४५
क्रोधशोकभयायासविरुद्धान्नातपानलान् ।
कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ॥ ३ ॥
नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत् ।
विदेग्धं स्वगुणैः पित्तं विहत्याशु शोणितम् ॥ ४ ॥
ततः प्रवर्त्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ।
आमाशयाद् व्रजेदूर्ध्वमधः पक्वाशयाद् व्रजेत् ॥ ५ ॥
विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्त्तते । ९ ३ केचित् सयकृत: प्लीह्नः प्रवदन्त्यसृजो गतिम् ॥ ६ ॥
ऊध्व साध्यमधोयाप्यमसाध्यं युगपद्गतम् ।
संदनं शीतकामित्वं कण्ठधूमायनं वमिः ॥ ७ ॥
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ।
बाह्य । सृग्लक्षणैस्तस्य सङ्ख्यादोपोच्छितीर्विदुः ॥ ८ ॥
षेधस्तम् । चरके रागपरिप्राप्तं पित्तं रक्तपित्तमित्युक्तं, तेन रक्तं च तत् पित्तं चेति कर्मधारयः, उभयथाऽपि निरुक्तौ श्रदोषः । “ संयोगाद् दूषयात्तत्तु सामान्याद् गन्धव • येयोः । रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः ॥ ” इति चरकवचनम् । श्रर्थाद् रक्तस्य संयोगात् तथा रक्तस्य दूषणात् तथा रक्तस्य गन्धवर्णयोः पित्ते सामान्यात् पित्तं रक्तपित्तमित्युच्यत इति तदीयवाक्यार्थः । १ रक्तपित्तस्य निदानं सम्प्राप्तिं च दर्शयति - क्रोधेति । क्रोधशोकेत्यादिर्हेतुः । नित्यमभ्यसत इत्यादिः सम्प्राप्तिः । २ विदग्धं = दूषितम्, स्वगुणैः = स्वकारणैर्गुणै. स्तीक्ष्णादिभिः । गुणैरिति बहुत्वेन तीक्ष्णाम्ललवणकटूष्णधर्मादयो बोध्या: । विद-इति = दूषयति । ३ ऊर्ध्वं = नासाऽक्षिकर्णास्यतः, अधः = = मेढयोनिगुदतः । तदु-क्तम्— “ ऊर्ध्वं नासाऽक्षिकर्णास्यैमेंढ्यो निगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्तते ॥ ” इति । ४ रक्तस्य ऊर्ध्वसधो वेति द्विधा प्रवर्तनं स्फोरयति - आमाशयादिति । ५ विदग्धयोः = दूषितयोरित्यर्थः । ६ रक्तपित्तस्य पूर्वरूपमाख्याति — सदनमिति । सदनम् = अङ्गग्लानिः, शीतकामित्वं = शीतेऽभिलाषः, कण्ठधूमायनं = कण्ठादुधूमनि-र्गम इव वेदना । ७ लोहगन्धिः = ध्यायमानलोहस्येव श्वासे गन्धः । ८ रक्तपित्तस्य संख्यां दोषोच्छ्रयं चातिदेशेन दर्शयति – बाह्येति । बाह्यासृग्न-क्षणैः = शोणितवर्णनीयोपदिष्टैः फेनिलमरुणमित्यादिभिर्दोषदुष्टलक्षणैरित्यर्थः । तस्य = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1313
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri दौर्बल्यैश्वासकासज्वरवमथुम दास्तन्द्रितादाह मूर्च्छा ११५५ चान् विदाहस्त्वैवृतिरपि सदा हृद्यतुल्या च पीडा । तृष्णा कण्ठस्य भेदः शिरसि च दय · पूतिनिष्ठीवनञ्च द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ॥ ९ ॥
मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा मेदःपूयासंकल्पं यकृदिव यदि वा पक्कजम्बूफलाभम् । यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा. स्तद्वर्ण्य रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ॥ १० ॥
नादौ सामुद्रिक्तं यदसृग् बलिनोऽश्नतः ।
तत् पाण्डुग्रहणीकुष्ठप्लीह गुल्मज्वरावहम् ॥। ११ ॥
अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः ।
जयेदन्यतरद्वाऽपि क्षीणस्य " शमनैरसृक् ॥ १२ ॥
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः । II अक्षीणबलमांसाग्नेः कर्त्तव्यमपतर्पणम् " । १३ ॥ लङ्घितस्य १२ ततः पेयां विदध्यात् स्वल्पतण्डुलाम् । रसयूष प्रदातव्यौ सुरभिस्नेहसंस्कृतौ । रक्तपित्तस्य, संख्या = सप्तविधा, दोषोच्छ्रितिः = दोषोल्बण्यम् । १ रक्तपित्तस्योप • -द्रवान् निर्दिशति – दौर्बल्येति । वमथुः = छर्दिः । २ श्रधृतिः = असन्तोष:, अतु-ल्या = असाधारण ॥ ३ दवनं - सन्तापः । ४ रतेरपि विरतिः = सुखस्यापि विनाश इत्यर्थः । ५ असाध्यरक्तपित्तस्य लक्षणमभिदधाति - मांसेति । मांसप्रक्षालनाभं = मांस • घावनजलाभम्, कर्दमाम्भोनिभं = पङ्कमिश्रित जल सदृशम् । ६ मेदःपूयास्रकल्पं = मेदःपूयरक्तसदृशम् । ७ अतिकुपं D शक्तिशवगन्धि, उक्ता विकाराः = दौर्बल्य-श्वासादय उपद्रवाः । ८ सुरपतिधनुषा = इन्द्रधनुषा । ९ प्राग् बलवति रक्त-पित्ते सङ्ग्रहणनिषेधं दर्शयति- नादाविति । उद्रिक्तम् = अत्यन्त वृद्धिं गतम् । १० शमनैर्न तु वमनविरेकैः । तन्त्रान्तरेऽपि – “ ऊर्ध्वगं वाऽप्यधोगं वा क्षीणस्य शम-नैर्जयेत् ” इति । ११ अपतर्पणं = लङ्घनमित्यर्थः । १२ लङ्घनानन्तरं यत् कर्तव्यं तदुपदिशति - लाङ्घतस्येति । तन्त्रान्तरे विशेषः-“ अधोवहे यवाग्वादि न चेत् स्यान्मारुतो बली । ऊर्ध्वगे तर्पणं शस्तं यथादोषमथापि CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1314
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-११५६ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ०४५ लेहान् = मधूकशो • २ रक्त. Digitized by Arya Samaj Foundation Chennai and eGangotri तर्पणं पाचनं लेहान् सर्पषि विविधानि च ॥ १४ ॥
द्राक्षामधुक काश्मर्य्यसितायुक्तं विरेचनम् ।
यष्टीमधुकयुक्तं च सक्षोद्रं वमनं हितम् ॥ १५ ॥
पैंयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः ।
पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुर सिन्दुवारजम् ॥ १३ ॥
हितञ्च शाकं घृतसंस्कृतं सदा तथैव धात्र फलदाडिमान्वितम् ।
रसाश्च पारावतशङ्खकूमजास्तथा यवाग्वोऽभिहिता घृतोत्तरौः ॥ १७ ॥
सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः । हिंमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम् १८
मधूकँशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः ।
भिषग्विदध्याच्चतुरः समाक्षिकान्हिताय लेहानस्सृजः प्रशान्तये ॥ १ ९ ॥
लिह्याच्च दूर्वावटजांश्च पल्लवान मधुद्वितीयान् सितकर्णिकस्य च । हितश्च खर्जरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ २०
रक्तातिसारप्रोक्तांश्च " योगानत्रापि योजयेत् ।
शुद्धेक्षुकाण्डमापोध्य " नवे कुम्भे हिमाम्भसा ॥ २१ ॥
वा ॥ " इति । १ पाचनं = होवेरचन्दनोशी रादिसाधितजलम् भाञ्जनकोविदारजैरित्यादिना वच्यमाणान् 1 सर्पषि = वासाघृतादीनि । पित्ते वमनविरेचनयोर्द्रव्याणि निर्दिशति - द्राक्षेति । काश्मर्य = गम्भारीशब्दवाच्यम् । ३ रक्तपित्ते भोजनद्रव्याणि निर्दिशति - पयसीति । उत्पलादिद्रव्य सिद्धशीतानि पयांसि पित्तोल्बणे बोध्यानि, जाङ्गला रसा वातोल्बणे, सतीनयूषा वर्तुलकलाययूषाः सशालिषष्टिकाः पित्तोल्बणे । ४ अङ्कुराः = पटोलादीनां कोमलपल्लवाः, पटोलादि-शाकमपि कफानुबन्धे शस्तम् । ५ घृतोत्तराः = घृतप्रधानाः । ६ हिमाः - न्यग्रो. दिशीतलगणसाधितेन शीताः, प्रदेहाः = लेपाः, मधुरा गणाः = काकोल्यादयः, घृता-नि - मधुरगण संस्कृतानि । ७ रक्तपित्ते लेहमभिदधाति - मधूकेति । अत्र मधूक - शोभाञ्जन - कोविदार - त्रि-यङ्गुकानां कुसुमैरेकैकैश्चत्वारो लेहा ज्ञातव्याः । ८ सितकर्णिकस्य = श्वेतकर्णिकार-स्य | सितकणिको वासक इति सुश्रुतार्थसन्दीपनम् । ९ अन्यानि फलानि = खर्जरफल तुल्यगुणानि । १० प्रियाल मल्लिकेत्यादीन् योगानित्यर्थः । ११ शुद्धेक्षु. काण्डं = वल्कल रहितेक्षुकाण्डम्, शुक्लेक्षुकाण्डमिति पाठान्तरम् | आपोथ्य = सङ्कटय,
पृष्ठ 1315
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्र ajon
योजयित्वा क्षिपेद्रात्रावाकाशे सोत्पलन्तु तत् ।
प्रातः स्रुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान् ॥ २२ ॥
" पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसम्भवम् ।
उडुम्बरफलं पिष्ट्वा पिवेत्तद्रसँमेव वा ॥ २३ ॥
पुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना ।
पिवेदक्षसमं कल्कं यष्टीमधुकमेव वा ॥ २४ ॥
चन्दनं मधुकं रोघ्रमेवमेव समं पिबेत् ।
^ करञ्जबीजमेवं वा सिताक्षौद्रयुतं पिवेत् ॥ २५ ॥
मज्जानमिङ्गुदस्यैवं पिवेन्मधुकसंयुतम् । I. ११५७. सुखोष्णं लवणं वीजं कारचं दधिमस्तुना ॥ २६ ॥
पिबेद्वाऽपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः ।
रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः ॥ २७ ॥
पयश्चैवावपीडेषु प्राप्तः प्रस्रुतेऽसृजि ।
प्रतिनिस्रुतरतो वा चौद्रयुक्त पिवेदसृक् ।
यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् ॥ २८ ॥
पलाशवृक्षस्वर से चिपक्कं सर्पिः पिबेत् क्षौद्रयुतं सुशीतम् ।
वनस्पतीनां ' ' स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिवेद्वा ॥ २ ९ ॥
द्राक्षामुशीराण्यथ पद्मकं सिता " पृथक्पलांशान्युदके समावपेत् स्थितं निशां तद्रुधिरामयं जयेत्पीतं " पयो वाऽम्बुसमं हिताशिनः ॥ ३० ॥
हिमाम्भसा = शीतलजलेन । १ आकाशे = निरावृते देशे, उत्पलं = नीलोत्पलम् । २ स्रुतं = गालितमित्यर्थः । ३ पिबेद मधुना सहेत्यर्थः । शीतकषायलक्षणं ज्वरप्रति-षेधे प्रोक्तम् । ४ तद्रसमुदुम्बर फलरसम्, पिवेद् मधुयुतमित्यत्रापि सम्बन्धनीयम् । ५ रक्तपित्ते सिद्धतमान् षड् योगान दर्शयति - त्रपुषीति । त्रपुषी = ' खीरा ' इति ख्याता । सक्षौद्रं = समधु, तच्च कर्षप्रमाणं ग्राह्यम् । तण्डुलाम्बुना कल्कचतु · र्गणेन। ६ अक्षसमं = कर्षप्रमितम् । ७ एवमेव = मधुना तण्डुलाम्बुना च सहे-त्यर्थः । ८ मधुकसंयुतं = यष्टीमधुयुक्तम् । ९ पथ्याः = अनन्तरोक्ताः त्रपुसीमूल-कल्कं वेत्यादिका षड् योगा हिता इत्यर्थः । १० वनस्पतीनां = वटादीनाम्, क्षीरम. थनोरथं घृतं क्षीरघृतम् । ११ सिता = शर्करा । १२ पयो वाऽम्बुसमं = क्षीरं जलं च सममित्यर्थः 1 CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1316
पाठ पढ़ें पाठ छिपाएँ
११५८ by Arya Samaj Fou सुश्रुतसंहितायां Gangotri [ अ ० ४५
तुरङ्गंवर्चःस्वरसं समाक्षिकं पिबेत्सिताक्षौद्रयुतं वृषस्य वा ।
लिहेत्तथा वास्तुकत्रोजचूर्णं क्षौद्रान्वितं तण्डुलसाह्वयं वा ॥ ३१ ॥
लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम् ।
द्राक्षां सितां तिक्तकरोहिणीच हिमाम्बुना वा मधुकेन युक्ताम् ॥ ३२ ॥
पथ्यामहिंस्रां रजनीं घृतञ्च लिह्यात्तथा शोणितपित्तरोगो ।
वासीकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुह केशराणि ॥ ३३ ॥
पीत्वा सिताक्षौद्रयुतानि जह्यात्पित्तासृजो वेगमुदीर्णमाशु ।
गायँत्रिजम्ब्त्रर्जुनकोविदारशिरीषरोघ्राशनशाल्मलीनाम् ॥ ३४ ॥
पुष्पाणि शियोश्च विचूर्ण्य लेहो मध्यन्वितः शोणितपित्तरोगे ।
सक्षौद्रमिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ॥ ३५ ॥
जम्ब्बर्जुनाम्रक्वथितञ्च तोयं घ्नन्ति त्र्यः पित्तमसृक् च योगाः ।
मूलानि पुष्पाणि च मातुलुङ्गयाः पिष्ट्वा पिवेत्तण्डुलधावनेन ॥ ३६ ॥
प्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा ।
द्राक्षारसं " क्षीरघृतं पिबेद्वा सशर्करवेक्षुरसं हिमं वा ॥ ३७ ॥
शीतोपचारं मधुरञ्च कुर्य्याद्विशेषतः शोणितपित्तरोगे ।
' द्राक्षाघृत क्षौद्र सितायुतेन विदारिगन्धादिविपाचितेन ॥ ३८ ॥
१ तुरङ्गवर्चःस्वरसं - घोटकपुरीषस्वरसम् । २ तण्डुल साह्वयं - तण्डुलीयम् । _३ लाजाः = भृष्टधान्यानि श्रअनं = रसाञ्जनम्, एकं = प्रधानम्, तुगाख्या = वंशरो-चना । ४ तिक्तकरोहिणी = कुटकीशब्दवाच्या । ५ अहिंस्रा - ' बालछड़ ' इति ख्याता । रजनी = हरिद्रा । घृतं घृतेन सहेत्यर्थः । ६ वेगयुक्ते रक्तपित्ते सिद्धतमयोगं दर्शयति - वासात | वासाकषायः = वासा. काथः, उत्पलं = नीलोत्पलम्, मृत् = ' मुलतानी मिट्टी ' इति प्रथते । अम्भोरुद्दके · शरं = पद्मकेशरम् । ७ गायत्री = खदिरः । ८ भस्मवारि = क्षारोदकम् । ९ मा • तुलुङ्ग्याः = बीजपूरकस्य । १० द्राक्षारसमित्यादिना योगत्रयमुच्यते । यथा द्राक्षा · रसं सशर्करं, क्षीरघृतं क्षीरमथनोत्थं घृतं सशर्करम्, इक्षुरसं हिमं सशर्करं च पिबेद् नासिकयेति सम्बन्धः । तन्त्रान्तरेऽपि - " द्राक्षारसस्य नस्यं नस्यं वा क्षीरसर्पिषः सपदि । इक्षो रसस्य नस्यं सशर्करं रक्तनुद् भवति ॥ ” इति । ११ रक्तपित्ते आस्थापनार्थं क्षीरमनुवासनार्थं घृतं चाभिदधाति - द्राक्षेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1317
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] Digitized by Arya Samai Foundation Chennai and eGangotri उत्तरतन्त्रम् ११५ ९
चीरेण चास्थापनमग्रयमुक्तं हितं घृतञ्चाप्यनुवासनाथम् ।
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ॥ ३ ९ ॥
सिताऽश्वगन्धाऽम्बुदयष्टिकाङ्क्षयैर्मृगालसौगन्धिकतुल्यपेषितैः ।
निरूह्य चैनं पयसा समाक्षिकैर्घ तप्लुतैः शीतजलाव से चितम् ॥ ४० ॥
क्षीरौदनं भुक्तमथानुवासयेद् घृतेन यष्टीमधुसाधितेन च ।
अधोवहं शोणितमे नाशयेत् तथाऽतिसारं रुधिरस्य दुस्तरम् ॥४१ ॥
विरेकयोगे त्वति चैव शस्यते वाम्यश्च रक्ते विजिते वलान्वितः ॥४२ ॥
एवंविधा उत्तरवस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः ।
प्रवृतरक्तेषु च पायुजेषु कुर्य्याद्विधानं खलु रक्तपैत्तम् ॥ ४३ ॥
विधिश्वासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता ।
शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्त्तते ॥। ४४ ॥
त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः ।
लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ॥ ४५ ॥
इति सुश्रुत संहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपितप्रतिषेधो नाम ( सप्तमोऽध्यायः, आदितः ) पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥
१ अग्रथं = श्रेष्ठभित्यर्थः । २ श्रास्थापनानुवासनयोरपरं योगमभिधत्ते - प्रियङ्-ग्विति । प्रियङ्गुः = फलिनो, अजनं = सौवीराञ्जनम्, उत्पलं = नीलोत्पलम्, सुव-= सुवर्णगैरिकम्, कालीयकं = पीतचन्दनमित्यर्थः । ३ अम्बुदः = मुस्ता, यष्टि-काह्वयः = मधुकम्, सौगन्धिकं कहारम् । ४ एष: = आस्थापनानुवासनप्रयोगः, रुधिरस्यातिसारं = रक्तातिसारम् । ५ विरे-कयोगे त्वति = विरेकातियोगे इत्यर्थः । वाम्यश्च रक्ते विजिते वलान्वितः — अर्थाद् आस्थापनानुवासनाभ्यां विजिते रक्ते रक्तपित्ते सति बलान्वितः पुरुषो वाम्यो वाम-नीय इत्यर्थः । ६ एवंविधाः = श्रनन्तरोक्तास्थापनानुवासनसदृशाः, मूत्राशयस्थे = बस्तिस्थे । ७ पायुजेषु === श्रर्शस्तु । ८ एषः रक्तपित्तघ्नो विधिरित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चचत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1318
पाठ पढ़ें पाठ छिपाएँ
११६० Digitized by Arya Samaj F सुश्रुतसंहितायां eGangotri षट्चत्वारिंशत्तमोऽध्यायः । [ अ ० ४६ अर्थातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः ।
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ॥ ३ ॥
करणायतनेषूमा बाह्येष्वाभ्यन्तरेषु च ।
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥ ४ ॥
हृत्पीडा ' जृम्भणं ग्लानिः संज्ञानाशो बलस्य च ।
सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ॥ ५ ॥
संज्ञावहासु नाडीषु पिहितास्व निलादिभिः ।
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥ ६ ॥
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् ।
मोहो मूर्च्छति तां प्राहुः षड्विधा सा प्रकीर्त्तिता ॥ ७ ॥
षट्चत्वारिंशत्तमोऽध्यायः । १ रक्तपित्तप्रतिषेधानन्तरं पित्तकृतत्वसाधर्म्याद् मुर्च्छाप्रतिषेधमधिकरोति - अथे-ति । तदुक्तम् — ' ' मूर्च्छा पित्ततमः प्राया " इति । २ मूर्च्छाया निदानं सम्प्राप्ति चाह- - क्षीणस्येति । बहुदोषस्य = अधिक दोषस्य न त्वनेकदोषस्य, विरुद्धाहारः क्षीरमत्स्यादिस्तस्य सेविन इत्यर्थः । वेगाघातात् = मलादिवेगधारणात्, अभीघातात् = लगुडादिना घातात्, द्दीनसत्त्वस्य = अल्पसत्त्वगुणस्येत्यर्थः । ३ करणायतनैषु = बुद्धीन्द्रियकर्मेन्द्रियमनोबुद्धयहङ्कारस्थानेषु, बाह्येष्वाभ्यन्तरेषु = बाइयकरणायतनानि कर्मेन्द्रियाणि, श्राभ्यन्तरकरणायतनानि मनोबुद्धथहङ्कारस्थानानि, तेषु यदा उग्रा अतिप्रवृद्धाः प्रसृताश्च दोषा निविशन्ते तदा मानवा मूर्च्छन्तीति सम्बन्धनीयम् । ४ मूर्च्छायाः पूर्वरूपमुपदिशति - हृत्पीडेति । बलस्य च नाश इत्यर्थः । ५ यथा प्रक्रियया मानवो मूर्च्छति तां दर्शयति- सन्ज्ञेति । नाडीषु = सिराधमनीस्रोतस्सु, पिहितासु = श्रावृतासु, तमः = मनोगुणोऽज्ञानहेतुः, सुखदुःखव्यपोइकृत् = सुखदुःख-ज्ञाननाशकृदित्यर्थः । ६ मोहो मूर्च्छति तस्याः पर्यायौ, मूर्च्छायोऽपि पर्यायः । तदुक्तम् – “ सन्ज्ञोपघाते मूर्च्छायो मूर्च्छा स्यान्मूर्च्छनं तथा । कश्मलं प्रलयो मोहः संन्यासस्तु मृतोपमः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1319
पाठ पढ़ें पाठ छिपाएँ
अ ० ४६ ] Digitized by Arya saha to tich Chennai and eGangotri ११६१
वातादिभिः शोणितेन मद्येन च विषेण च ।
षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ॥ ८ ॥
अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः ।
पृथिव्यैम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ॥ ९ ॥
तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः ।
द्रव्यस्वभाव इत्येके दृष्ट्वा यद्भिमुहयति ॥ १० ॥
गुणस्ततरत्वेन स्थितास्तु विषमद्ययोः ।
त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ॥ ११ ॥
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूच्छितः ।
मद्येन विलपन् शेते नष्टविभ्रान्तमानसः ।
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ॥ १२ ॥
वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूच्छिते । इति । षड्विधेत्यादिना मूर्च्छायाः षाविध्यं दर्शयति । तन्त्रान्तरे चतस्रो मूर्च्छा: -“ चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः ” इति चरकः । १ प्रभुत्वेन = व्यापकत्वे-नेत्यर्थः । २ वातजादीनां तिसृणां मूर्च्छानामतिदेशेन लक्षणान्यभिधाय रक्तजायाः सम्प्राप्तिं लक्षणं चाभिदधाति - पृथिवीति । पृथिव्यम्भः - पृथिवीजलम्, तमोरूपं = तमोबहुलम्, तदुक्तं भगवता सुश्रुतेन स्वयमेव शारीरे - " तमोबहुला पृथिवी, सत्व-तमोबहुला आपः ” इति । रक्तगन्धश्च तन्मयः पृथिवीजलमयः, द्रवत्वाद् रक्तमम्भोम-यम्, पार्थिवत्वाद् गन्धः पृथिवीमय इत्यर्थ: । ' रक्तगन्धस्तदन्वयः ' इति पाठान्तरम् । ३ यस्मात् पृथिव्यम्भस्त मोबहुलं, रक्तगन्धश्च पृथिवीजलमयः, मूर्च्छाच तमःप्राया, तस्मादित्यर्थः । मानवाः = ये तामसाः, न तु सात्त्विका राजसाश्च । ४ भोजे यथा-" स्तब्धाङ्गदृष्टिर्भवति गूढोच्छ्वासस्तथैव च । दर्शनादसृजस्तज्जाद् गन्धाच्चैव त्रिभु. इयति ॥ ” इति । ५ विषमयोत्थेऽभिधत्ते - गुणा इति । गुणाः = रूक्षादयः, विषे तीव्रतरत्वेन, मधे तोव्रत्वेनेत्यर्थः । तदुक्तं तन्त्रान्तरे – “ ये विषस्य गुणाः प्रोक्ताः सन्निपातप्रकोपणाः । त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ॥ ” इति । ६ ताभ्यां = विषमद्याभ्याम् । ७ रक्तजादिमूर्च्छात्रितयलक्षणं दर्शयति - स्तब्धाङ्गेति । गूढोच्छ्वासः = अस्पष्टो ॰ च्छ्वासः । ८ नष्टं स्मृतिरहितं विभ्रान्तं विक्षिप्तं मानसं चित्तं यस्य स नष्टत्रि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1320
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-११६२ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४६ वेदितव्यं तीव्रतरं यथास्वं वि ' लक्षणैः ॥ १३ ॥
सेकावगाहौ मणयः सहाराः शीता प्रदेहा व्यजनानिलाश्च ।
शीतानि पानौनि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि ॥ १४ ॥
सितापियालेक्षुरस प्लुतानि द्राक्षामधूकस्वरसान्वितानि ।
खर्जरकाश्मय्यैरसैः शृतानि पानानि सर्पपि च जीवनानि ॥ १५ ॥
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च ।
तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः ॥ १६ ॥
भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यञ्च पिबेत् समानि ।
शीतेन तोयेन र्बिसं मृणालं क्षौद्रेण कृष्णां सितया च पथ्याम् ॥१७ ॥
कुर्य्याच्च नासावदनावरोधं क्षीरं पिवेद्वाऽप्यथ मानुषीणाम् ।
मूर्च्छा प्रसक्तां तु " शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः ॥१८ ॥
हरीतकी क्वाथतं घृतं वा १ धात्री फलानां स्वरसैः कृतं वा ।
द्राक्षासितादाडिमलाजवन्ति शीतानि १२ नीलोत्पलपद्मवन्ति ॥ १ ९ ॥।
पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति ।
१३ प्रभूतदोषस्तमसोऽतिरेकात्सम्मूच्छितो नैत्र विबुध्यते यः ॥ २० ॥
भ्रान्तमानसः । १ विषस्य मूलकन्दपत्रक्षीरादिप्रभेदेन यल्लक्षणं कल्पस्थानेऽभिहितं तल्लक्षणैरिव तीव्रतरत्वेन युक्ता मूर्च्छा भवतीत्यर्थः । २ मूर्च्छाचिकित्सामाख्याति - सेकेति । सेकावगाहावपि शीतावेव बोध्यौ । मण-यः = चन्द्रकान्तादयः, द्वारा: = मुक्तादिहाराः, प्रदेहाः = चन्दनोत्पलप्रभृतिविहिताः प्रलेपा इत्यर्थः । ३ पानानि = पानकानि, गन्धवन्ति = कर्पूरादि सुगन्धवन्ति, अनि-वारितानि = प्रशस्तानि । ४ शतानि गन्धवन्ति च पानान्येव निर्दिशति - सितेति! सिता = शर्करा, प्रियालः = ' चिरौंजी ' इति ख्यातः । ५ जीवनानि सपौषि = जीवक. र्ष भकादिसाधितानि वृतानीत्यर्थः । ६ मधुरे वर्गे = काकोल्यादिमधुरवर्गे । ७ सती-नः = वर्तुलकलायः । ८ भुजङ्गपुष्पं = नागकेसरम् । ९ बिसं = सूक्ष्ममृणालम्, मृणालं = पद्मनालम्, कृष्णा = पिप्पली, पथ्या = हरीतकी । १० शिरोविरेकैः = नस्यै -रित्यर्थः १२ नीलोत्पलपद्मवन्तीत्या-। ११ धात्रीफलानाम् = श्रामलकफलानाम् । दिकं पित्तज्वरदरकषायविशेषणम् । १३ मूर्च्छाभेदसंन्यासस्य लक्षणमभिदधाति - प्रभूतेति । अतिरेकात् = अतिशय -वर्द्धनात् । संन्यासस्य मूर्च्छादिभ्यो भेदमाह तन्त्रान्तरे - " दोषेषु मदमूर्च्छायाः कृत -CC - 0. Gurukul Kangri Collection, Haridwar