सुश्रुत संहिता चौखम्बा — पृष्ठ 1311–1320

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1311–1320

पृष्ठ 1311

सुश्रुत संहिता चौखम्बा, पृष्ठ 1311 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

33 अ ० ४५ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११५३ गौडानरिष्टान्मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ॥ ३ ९ ॥

स्निग्धान् रसानामलकै रुपेतान्कोलान्वितान्वाऽपि हि जाङ्गलानाम् ।

सेवेत शोफाभिहितांश्च योगान्पाण्ड्वामयी शालियवांश्च नित्यम् ॥३७ ॥

श्वासौतिसारारुचिकास मूर्च्छातृट्छदिशू लज्वरशोफदाहान् ।

तथाऽविपाकस्वरभेदसादान् जयेद् यथास्वं प्रसमीक्ष्य शास्त्रम् ॥ ३८ ॥

अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् ।

गुदे च शेफस्यथ मुष्कशूनं प्रतायमानं च विसंज्ञकल्पम् ॥३ ९ ॥

विवर्जयेत् पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितञ्च ॥ ४० ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम ( षष्ठोऽध्यायः, आदितः ) चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४ ॥

पञ्चचत्वारिंशत्तमोऽध्यायः ।

अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

१ पाण्डुरोगिणां सेव्यानि निर्दिशति - गौडानिति । गौडानरिष्टान् = अभया-रिष्टप्रभृतीन् मधुशर्कराः - मधुशब्देन मध्वासवः, शर्कराशब्देन शर्कराऽऽसवः, मध्वा • सवो लोहारिष्टप्रभृतिकः, मूत्रासवान् = कुष्ठ चिकित्सितोक्तान्, क्षारकृतान् = श्लीपद • पठितानासवान् । २ शोफाभिहितान् = देवदारुशुण्ठीर सादिकान् योगान् । ३ पाण्डुरोगोपद्रव चिकित्सामभिदधाति - वासेति । ४ यथास्वं = यस्य यथा-Ss स्मीयम् । ५ पाण्डुरोगिणोऽसाध्यलक्षणं प्रतिपादयति --- अन्तेष्विति । श्रन्तेषु -इस्तपादमुखेषु, परिहीनमध्यं = कृशमध्यशरीरम्, म्लानं = दोणम् । ६ प्रताम्यमा-नंमूर्च्छन्तम्, विसंज्ञकल्पं = मृतसदृशम् । तन्त्रान्तरेऽसाध्यलक्षणानि - " ज्वरारो-चकहृल्लासच्छर्दितृष्णाक्ल मान्वितः । पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः ॥ पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिद्ध्यति । कालप्रकर्षाच्छूनाङ्गो यो वा पीतानि पश्यति ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां चतुश्चत्वारिंशोऽध्यायः । पञ्चचत्वारिंशत्तमोऽध्यायः । " पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात् पाण्डुरोगप्रतिषेधानन्तरं रक्तपित्तप्रति -षेधमधिकरोति प्रथेति । रक्तं च पित्तं चेति द्वन्द्वसमासः, तत्प्रतिषेधो रक्तपित्तप्रति-७३ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1312

सुश्रुत संहिता चौखम्बा, पृष्ठ 1312 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४५

क्रोधशोकभयायासविरुद्धान्नातपानलान् ।

कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ॥ ३ ॥

नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत् ।

विदेग्धं स्वगुणैः पित्तं विहत्याशु शोणितम् ॥ ४ ॥

ततः प्रवर्त्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ।

आमाशयाद् व्रजेदूर्ध्वमधः पक्वाशयाद् व्रजेत् ॥ ५ ॥

विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्त्तते । ९ ३ केचित् सयकृत: प्लीह्नः प्रवदन्त्यसृजो गतिम् ॥ ६ ॥

ऊध्व साध्यमधोयाप्यमसाध्यं युगपद्गतम् ।

संदनं शीतकामित्वं कण्ठधूमायनं वमिः ॥ ७ ॥

लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ।

बाह्य । सृग्लक्षणैस्तस्य सङ्ख्यादोपोच्छितीर्विदुः ॥ ८ ॥

षेधस्तम् । चरके रागपरिप्राप्तं पित्तं रक्तपित्तमित्युक्तं, तेन रक्तं च तत् पित्तं चेति कर्मधारयः, उभयथाऽपि निरुक्तौ श्रदोषः । “ संयोगाद् दूषयात्तत्तु सामान्याद् गन्धव • येयोः । रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः ॥ ” इति चरकवचनम् । श्रर्थाद् रक्तस्य संयोगात् तथा रक्तस्य दूषणात् तथा रक्तस्य गन्धवर्णयोः पित्ते सामान्यात् पित्तं रक्तपित्तमित्युच्यत इति तदीयवाक्यार्थः । १ रक्तपित्तस्य निदानं सम्प्राप्तिं च दर्शयति - क्रोधेति । क्रोधशोकेत्यादिर्हेतुः । नित्यमभ्यसत इत्यादिः सम्प्राप्तिः । २ विदग्धं = दूषितम्, स्वगुणैः = स्वकारणैर्गुणै. स्तीक्ष्णादिभिः । गुणैरिति बहुत्वेन तीक्ष्णाम्ललवणकटूष्णधर्मादयो बोध्या: । विद-इति = दूषयति । ३ ऊर्ध्वं = नासाऽक्षिकर्णास्यतः, अधः = = मेढयोनिगुदतः । तदु-क्तम्— “ ऊर्ध्वं नासाऽक्षिकर्णास्यैमेंढ्यो निगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्तते ॥ ” इति । ४ रक्तस्य ऊर्ध्वसधो वेति द्विधा प्रवर्तनं स्फोरयति - आमाशयादिति । ५ विदग्धयोः = दूषितयोरित्यर्थः । ६ रक्तपित्तस्य पूर्वरूपमाख्याति — सदनमिति । सदनम् = अङ्गग्लानिः, शीतकामित्वं = शीतेऽभिलाषः, कण्ठधूमायनं = कण्ठादुधूमनि-र्गम इव वेदना । ७ लोहगन्धिः = ध्यायमानलोहस्येव श्वासे गन्धः । ८ रक्तपित्तस्य संख्यां दोषोच्छ्रयं चातिदेशेन दर्शयति – बाह्येति । बाह्यासृग्न-क्षणैः = शोणितवर्णनीयोपदिष्टैः फेनिलमरुणमित्यादिभिर्दोषदुष्टलक्षणैरित्यर्थः । तस्य = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1313

सुश्रुत संहिता चौखम्बा, पृष्ठ 1313 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri दौर्बल्यैश्वासकासज्वरवमथुम दास्तन्द्रितादाह मूर्च्छा ११५५ चान् विदाहस्त्वैवृतिरपि सदा हृद्यतुल्या च पीडा । तृष्णा कण्ठस्य भेदः शिरसि च दय · पूतिनिष्ठीवनञ्च द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ॥ ९ ॥

मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा मेदःपूयासंकल्पं यकृदिव यदि वा पक्कजम्बूफलाभम् । यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा. स्तद्वर्ण्य रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ॥ १० ॥

नादौ सामुद्रिक्तं यदसृग् बलिनोऽश्नतः ।

तत् पाण्डुग्रहणीकुष्ठप्लीह गुल्मज्वरावहम् ॥। ११ ॥

अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः ।

जयेदन्यतरद्वाऽपि क्षीणस्य " शमनैरसृक् ॥ १२ ॥

अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः । II अक्षीणबलमांसाग्नेः कर्त्तव्यमपतर्पणम् " । १३ ॥ लङ्घितस्य १२ ततः पेयां विदध्यात् स्वल्पतण्डुलाम् । रसयूष प्रदातव्यौ सुरभिस्नेहसंस्कृतौ । रक्तपित्तस्य, संख्या = सप्तविधा, दोषोच्छ्रितिः = दोषोल्बण्यम् । १ रक्तपित्तस्योप • -द्रवान् निर्दिशति – दौर्बल्येति । वमथुः = छर्दिः । २ श्रधृतिः = असन्तोष:, अतु-ल्या = असाधारण ॥ ३ दवनं - सन्तापः । ४ रतेरपि विरतिः = सुखस्यापि विनाश इत्यर्थः । ५ असाध्यरक्तपित्तस्य लक्षणमभिदधाति - मांसेति । मांसप्रक्षालनाभं = मांस • घावनजलाभम्, कर्दमाम्भोनिभं = पङ्कमिश्रित जल सदृशम् । ६ मेदःपूयास्रकल्पं = मेदःपूयरक्तसदृशम् । ७ अतिकुपं D शक्तिशवगन्धि, उक्ता विकाराः = दौर्बल्य-श्वासादय उपद्रवाः । ८ सुरपतिधनुषा = इन्द्रधनुषा । ९ प्राग् बलवति रक्त-पित्ते सङ्ग्रहणनिषेधं दर्शयति- नादाविति । उद्रिक्तम् = अत्यन्त वृद्धिं गतम् । १० शमनैर्न तु वमनविरेकैः । तन्त्रान्तरेऽपि – “ ऊर्ध्वगं वाऽप्यधोगं वा क्षीणस्य शम-नैर्जयेत् ” इति । ११ अपतर्पणं = लङ्घनमित्यर्थः । १२ लङ्घनानन्तरं यत् कर्तव्यं तदुपदिशति - लाङ्घतस्येति । तन्त्रान्तरे विशेषः-“ अधोवहे यवाग्वादि न चेत् स्यान्मारुतो बली । ऊर्ध्वगे तर्पणं शस्तं यथादोषमथापि CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1314

सुश्रुत संहिता चौखम्बा, पृष्ठ 1314 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-११५६ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ०४५ लेहान् = मधूकशो • २ रक्त. Digitized by Arya Samaj Foundation Chennai and eGangotri तर्पणं पाचनं लेहान् सर्पषि विविधानि च ॥ १४ ॥

द्राक्षामधुक काश्मर्य्यसितायुक्तं विरेचनम् ।

यष्टीमधुकयुक्तं च सक्षोद्रं वमनं हितम् ॥ १५ ॥

पैंयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः ।

पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुर सिन्दुवारजम् ॥ १३ ॥

हितञ्च शाकं घृतसंस्कृतं सदा तथैव धात्र फलदाडिमान्वितम् ।

रसाश्च पारावतशङ्खकूमजास्तथा यवाग्वोऽभिहिता घृतोत्तरौः ॥ १७ ॥

सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः । हिंमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम् १८

मधूकँशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः ।

भिषग्विदध्याच्चतुरः समाक्षिकान्हिताय लेहानस्सृजः प्रशान्तये ॥ १ ९ ॥

लिह्याच्च दूर्वावटजांश्च पल्लवान मधुद्वितीयान् सितकर्णिकस्य च । हितश्च खर्जरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ २०

रक्तातिसारप्रोक्तांश्च " योगानत्रापि योजयेत् ।

शुद्धेक्षुकाण्डमापोध्य " नवे कुम्भे हिमाम्भसा ॥ २१ ॥

वा ॥ " इति । १ पाचनं = होवेरचन्दनोशी रादिसाधितजलम् भाञ्जनकोविदारजैरित्यादिना वच्यमाणान् 1 सर्पषि = वासाघृतादीनि । पित्ते वमनविरेचनयोर्द्रव्याणि निर्दिशति - द्राक्षेति । काश्मर्य = गम्भारीशब्दवाच्यम् । ३ रक्तपित्ते भोजनद्रव्याणि निर्दिशति - पयसीति । उत्पलादिद्रव्य सिद्धशीतानि पयांसि पित्तोल्बणे बोध्यानि, जाङ्गला रसा वातोल्बणे, सतीनयूषा वर्तुलकलाययूषाः सशालिषष्टिकाः पित्तोल्बणे । ४ अङ्कुराः = पटोलादीनां कोमलपल्लवाः, पटोलादि-शाकमपि कफानुबन्धे शस्तम् । ५ घृतोत्तराः = घृतप्रधानाः । ६ हिमाः - न्यग्रो. दिशीतलगणसाधितेन शीताः, प्रदेहाः = लेपाः, मधुरा गणाः = काकोल्यादयः, घृता-नि - मधुरगण संस्कृतानि । ७ रक्तपित्ते लेहमभिदधाति - मधूकेति । अत्र मधूक - शोभाञ्जन - कोविदार - त्रि-यङ्गुकानां कुसुमैरेकैकैश्चत्वारो लेहा ज्ञातव्याः । ८ सितकर्णिकस्य = श्वेतकर्णिकार-स्य | सितकणिको वासक इति सुश्रुतार्थसन्दीपनम् । ९ अन्यानि फलानि = खर्जरफल तुल्यगुणानि । १० प्रियाल मल्लिकेत्यादीन् योगानित्यर्थः । ११ शुद्धेक्षु. काण्डं = वल्कल रहितेक्षुकाण्डम्, शुक्लेक्षुकाण्डमिति पाठान्तरम् | आपोथ्य = सङ्कटय,

पृष्ठ 1315

सुश्रुत संहिता चौखम्बा, पृष्ठ 1315 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्र ajon

योजयित्वा क्षिपेद्रात्रावाकाशे सोत्पलन्तु तत् ।

प्रातः स्रुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान् ॥ २२ ॥

" पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसम्भवम् ।

उडुम्बरफलं पिष्ट्वा पिवेत्तद्रसँमेव वा ॥ २३ ॥

पुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना ।

पिवेदक्षसमं कल्कं यष्टीमधुकमेव वा ॥ २४ ॥

चन्दनं मधुकं रोघ्रमेवमेव समं पिबेत् ।

^ करञ्जबीजमेवं वा सिताक्षौद्रयुतं पिवेत् ॥ २५ ॥

मज्जानमिङ्गुदस्यैवं पिवेन्मधुकसंयुतम् । I. ११५७. सुखोष्णं लवणं वीजं कारचं दधिमस्तुना ॥ २६ ॥

पिबेद्वाऽपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः ।

रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः ॥ २७ ॥

पयश्चैवावपीडेषु प्राप्तः प्रस्रुतेऽसृजि ।

प्रतिनिस्रुतरतो वा चौद्रयुक्त पिवेदसृक् ।

यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् ॥ २८ ॥

पलाशवृक्षस्वर से चिपक्कं सर्पिः पिबेत् क्षौद्रयुतं सुशीतम् ।

वनस्पतीनां ' ' स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिवेद्वा ॥ २ ९ ॥

द्राक्षामुशीराण्यथ पद्मकं सिता " पृथक्पलांशान्युदके समावपेत् स्थितं निशां तद्रुधिरामयं जयेत्पीतं " पयो वाऽम्बुसमं हिताशिनः ॥ ३० ॥

हिमाम्भसा = शीतलजलेन । १ आकाशे = निरावृते देशे, उत्पलं = नीलोत्पलम् । २ स्रुतं = गालितमित्यर्थः । ३ पिबेद मधुना सहेत्यर्थः । शीतकषायलक्षणं ज्वरप्रति-षेधे प्रोक्तम् । ४ तद्रसमुदुम्बर फलरसम्, पिवेद् मधुयुतमित्यत्रापि सम्बन्धनीयम् । ५ रक्तपित्ते सिद्धतमान् षड् योगान दर्शयति - त्रपुषीति । त्रपुषी = ' खीरा ' इति ख्याता । सक्षौद्रं = समधु, तच्च कर्षप्रमाणं ग्राह्यम् । तण्डुलाम्बुना कल्कचतु · र्गणेन। ६ अक्षसमं = कर्षप्रमितम् । ७ एवमेव = मधुना तण्डुलाम्बुना च सहे-त्यर्थः । ८ मधुकसंयुतं = यष्टीमधुयुक्तम् । ९ पथ्याः = अनन्तरोक्ताः त्रपुसीमूल-कल्कं वेत्यादिका षड् योगा हिता इत्यर्थः । १० वनस्पतीनां = वटादीनाम्, क्षीरम. थनोरथं घृतं क्षीरघृतम् । ११ सिता = शर्करा । १२ पयो वाऽम्बुसमं = क्षीरं जलं च सममित्यर्थः 1 CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1316

सुश्रुत संहिता चौखम्बा, पृष्ठ 1316 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११५८ by Arya Samaj Fou सुश्रुतसंहितायां Gangotri [ अ ० ४५

तुरङ्गंवर्चःस्वरसं समाक्षिकं पिबेत्सिताक्षौद्रयुतं वृषस्य वा ।

लिहेत्तथा वास्तुकत्रोजचूर्णं क्षौद्रान्वितं तण्डुलसाह्वयं वा ॥ ३१ ॥

लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम् ।

द्राक्षां सितां तिक्तकरोहिणीच हिमाम्बुना वा मधुकेन युक्ताम् ॥ ३२ ॥

पथ्यामहिंस्रां रजनीं घृतञ्च लिह्यात्तथा शोणितपित्तरोगो ।

वासीकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुह केशराणि ॥ ३३ ॥

पीत्वा सिताक्षौद्रयुतानि जह्यात्पित्तासृजो वेगमुदीर्णमाशु ।

गायँत्रिजम्ब्त्रर्जुनकोविदारशिरीषरोघ्राशनशाल्मलीनाम् ॥ ३४ ॥

पुष्पाणि शियोश्च विचूर्ण्य लेहो मध्यन्वितः शोणितपित्तरोगे ।

सक्षौद्रमिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ॥ ३५ ॥

जम्ब्बर्जुनाम्रक्वथितञ्च तोयं घ्नन्ति त्र्यः पित्तमसृक् च योगाः ।

मूलानि पुष्पाणि च मातुलुङ्गयाः पिष्ट्वा पिवेत्तण्डुलधावनेन ॥ ३६ ॥

प्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा ।

द्राक्षारसं " क्षीरघृतं पिबेद्वा सशर्करवेक्षुरसं हिमं वा ॥ ३७ ॥

शीतोपचारं मधुरञ्च कुर्य्याद्विशेषतः शोणितपित्तरोगे ।

' द्राक्षाघृत क्षौद्र सितायुतेन विदारिगन्धादिविपाचितेन ॥ ३८ ॥

१ तुरङ्गवर्चःस्वरसं - घोटकपुरीषस्वरसम् । २ तण्डुल साह्वयं - तण्डुलीयम् । _३ लाजाः = भृष्टधान्यानि श्रअनं = रसाञ्जनम्, एकं = प्रधानम्, तुगाख्या = वंशरो-चना । ४ तिक्तकरोहिणी = कुटकीशब्दवाच्या । ५ अहिंस्रा - ' बालछड़ ' इति ख्याता । रजनी = हरिद्रा । घृतं घृतेन सहेत्यर्थः । ६ वेगयुक्ते रक्तपित्ते सिद्धतमयोगं दर्शयति - वासात | वासाकषायः = वासा. काथः, उत्पलं = नीलोत्पलम्, मृत् = ' मुलतानी मिट्टी ' इति प्रथते । अम्भोरुद्दके · शरं = पद्मकेशरम् । ७ गायत्री = खदिरः । ८ भस्मवारि = क्षारोदकम् । ९ मा • तुलुङ्ग्याः = बीजपूरकस्य । १० द्राक्षारसमित्यादिना योगत्रयमुच्यते । यथा द्राक्षा · रसं सशर्करं, क्षीरघृतं क्षीरमथनोत्थं घृतं सशर्करम्, इक्षुरसं हिमं सशर्करं च पिबेद् नासिकयेति सम्बन्धः । तन्त्रान्तरेऽपि - " द्राक्षारसस्य नस्यं नस्यं वा क्षीरसर्पिषः सपदि । इक्षो रसस्य नस्यं सशर्करं रक्तनुद् भवति ॥ ” इति । ११ रक्तपित्ते आस्थापनार्थं क्षीरमनुवासनार्थं घृतं चाभिदधाति - द्राक्षेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1317

सुश्रुत संहिता चौखम्बा, पृष्ठ 1317 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] Digitized by Arya Samai Foundation Chennai and eGangotri उत्तरतन्त्रम् ११५ ९

चीरेण चास्थापनमग्रयमुक्तं हितं घृतञ्चाप्यनुवासनाथम् ।

प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ॥ ३ ९ ॥

सिताऽश्वगन्धाऽम्बुदयष्टिकाङ्क्षयैर्मृगालसौगन्धिकतुल्यपेषितैः ।

निरूह्य चैनं पयसा समाक्षिकैर्घ तप्लुतैः शीतजलाव से चितम् ॥ ४० ॥

क्षीरौदनं भुक्तमथानुवासयेद् घृतेन यष्टीमधुसाधितेन च ।

अधोवहं शोणितमे नाशयेत् तथाऽतिसारं रुधिरस्य दुस्तरम् ॥४१ ॥

विरेकयोगे त्वति चैव शस्यते वाम्यश्च रक्ते विजिते वलान्वितः ॥४२ ॥

एवंविधा उत्तरवस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः ।

प्रवृतरक्तेषु च पायुजेषु कुर्य्याद्विधानं खलु रक्तपैत्तम् ॥ ४३ ॥

विधिश्वासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता ।

शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्त्तते ॥। ४४ ॥

त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः ।

लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ॥ ४५ ॥

इति सुश्रुत संहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपितप्रतिषेधो नाम ( सप्तमोऽध्यायः, आदितः ) पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥

१ अग्रथं = श्रेष्ठभित्यर्थः । २ श्रास्थापनानुवासनयोरपरं योगमभिधत्ते - प्रियङ्-ग्विति । प्रियङ्गुः = फलिनो, अजनं = सौवीराञ्जनम्, उत्पलं = नीलोत्पलम्, सुव-= सुवर्णगैरिकम्, कालीयकं = पीतचन्दनमित्यर्थः । ३ अम्बुदः = मुस्ता, यष्टि-काह्वयः = मधुकम्, सौगन्धिकं कहारम् । ४ एष: = आस्थापनानुवासनप्रयोगः, रुधिरस्यातिसारं = रक्तातिसारम् । ५ विरे-कयोगे त्वति = विरेकातियोगे इत्यर्थः । वाम्यश्च रक्ते विजिते वलान्वितः — अर्थाद् आस्थापनानुवासनाभ्यां विजिते रक्ते रक्तपित्ते सति बलान्वितः पुरुषो वाम्यो वाम-नीय इत्यर्थः । ६ एवंविधाः = श्रनन्तरोक्तास्थापनानुवासनसदृशाः, मूत्राशयस्थे = बस्तिस्थे । ७ पायुजेषु === श्रर्शस्तु । ८ एषः रक्तपित्तघ्नो विधिरित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चचत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1318

सुश्रुत संहिता चौखम्बा, पृष्ठ 1318 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११६० Digitized by Arya Samaj F सुश्रुतसंहितायां eGangotri षट्चत्वारिंशत्तमोऽध्यायः । [ अ ० ४६ अर्थातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः ।

वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ॥ ३ ॥

करणायतनेषूमा बाह्येष्वाभ्यन्तरेषु च ।

निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥ ४ ॥

हृत्पीडा ' जृम्भणं ग्लानिः संज्ञानाशो बलस्य च ।

सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ॥ ५ ॥

संज्ञावहासु नाडीषु पिहितास्व निलादिभिः ।

तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥ ६ ॥

सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् ।

मोहो मूर्च्छति तां प्राहुः षड्विधा सा प्रकीर्त्तिता ॥ ७ ॥

षट्चत्वारिंशत्तमोऽध्यायः । १ रक्तपित्तप्रतिषेधानन्तरं पित्तकृतत्वसाधर्म्याद् मुर्च्छाप्रतिषेधमधिकरोति - अथे-ति । तदुक्तम् — ' ' मूर्च्छा पित्ततमः प्राया " इति । २ मूर्च्छाया निदानं सम्प्राप्ति चाह- - क्षीणस्येति । बहुदोषस्य = अधिक दोषस्य न त्वनेकदोषस्य, विरुद्धाहारः क्षीरमत्स्यादिस्तस्य सेविन इत्यर्थः । वेगाघातात् = मलादिवेगधारणात्, अभीघातात् = लगुडादिना घातात्, द्दीनसत्त्वस्य = अल्पसत्त्वगुणस्येत्यर्थः । ३ करणायतनैषु = बुद्धीन्द्रियकर्मेन्द्रियमनोबुद्धयहङ्कारस्थानेषु, बाह्येष्वाभ्यन्तरेषु = बाइयकरणायतनानि कर्मेन्द्रियाणि, श्राभ्यन्तरकरणायतनानि मनोबुद्धथहङ्कारस्थानानि, तेषु यदा उग्रा अतिप्रवृद्धाः प्रसृताश्च दोषा निविशन्ते तदा मानवा मूर्च्छन्तीति सम्बन्धनीयम् । ४ मूर्च्छायाः पूर्वरूपमुपदिशति - हृत्पीडेति । बलस्य च नाश इत्यर्थः । ५ यथा प्रक्रियया मानवो मूर्च्छति तां दर्शयति- सन्ज्ञेति । नाडीषु = सिराधमनीस्रोतस्सु, पिहितासु = श्रावृतासु, तमः = मनोगुणोऽज्ञानहेतुः, सुखदुःखव्यपोइकृत् = सुखदुःख-ज्ञाननाशकृदित्यर्थः । ६ मोहो मूर्च्छति तस्याः पर्यायौ, मूर्च्छायोऽपि पर्यायः । तदुक्तम् – “ सन्ज्ञोपघाते मूर्च्छायो मूर्च्छा स्यान्मूर्च्छनं तथा । कश्मलं प्रलयो मोहः संन्यासस्तु मृतोपमः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1319

सुश्रुत संहिता चौखम्बा, पृष्ठ 1319 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] Digitized by Arya saha to tich Chennai and eGangotri ११६१

वातादिभिः शोणितेन मद्येन च विषेण च ।

षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ॥ ८ ॥

अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः ।

पृथिव्यैम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ॥ ९ ॥

तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः ।

द्रव्यस्वभाव इत्येके दृष्ट्वा यद्भिमुहयति ॥ १० ॥

गुणस्ततरत्वेन स्थितास्तु विषमद्ययोः ।

त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ॥ ११ ॥

स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूच्छितः ।

मद्येन विलपन् शेते नष्टविभ्रान्तमानसः ।

गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ॥ १२ ॥

वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूच्छिते । इति । षड्विधेत्यादिना मूर्च्छायाः षाविध्यं दर्शयति । तन्त्रान्तरे चतस्रो मूर्च्छा: -“ चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः ” इति चरकः । १ प्रभुत्वेन = व्यापकत्वे-नेत्यर्थः । २ वातजादीनां तिसृणां मूर्च्छानामतिदेशेन लक्षणान्यभिधाय रक्तजायाः सम्प्राप्तिं लक्षणं चाभिदधाति - पृथिवीति । पृथिव्यम्भः - पृथिवीजलम्, तमोरूपं = तमोबहुलम्, तदुक्तं भगवता सुश्रुतेन स्वयमेव शारीरे - " तमोबहुला पृथिवी, सत्व-तमोबहुला आपः ” इति । रक्तगन्धश्च तन्मयः पृथिवीजलमयः, द्रवत्वाद् रक्तमम्भोम-यम्, पार्थिवत्वाद् गन्धः पृथिवीमय इत्यर्थ: । ' रक्तगन्धस्तदन्वयः ' इति पाठान्तरम् । ३ यस्मात् पृथिव्यम्भस्त मोबहुलं, रक्तगन्धश्च पृथिवीजलमयः, मूर्च्छाच तमःप्राया, तस्मादित्यर्थः । मानवाः = ये तामसाः, न तु सात्त्विका राजसाश्च । ४ भोजे यथा-" स्तब्धाङ्गदृष्टिर्भवति गूढोच्छ्वासस्तथैव च । दर्शनादसृजस्तज्जाद् गन्धाच्चैव त्रिभु. इयति ॥ ” इति । ५ विषमयोत्थेऽभिधत्ते - गुणा इति । गुणाः = रूक्षादयः, विषे तीव्रतरत्वेन, मधे तोव्रत्वेनेत्यर्थः । तदुक्तं तन्त्रान्तरे – “ ये विषस्य गुणाः प्रोक्ताः सन्निपातप्रकोपणाः । त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ॥ ” इति । ६ ताभ्यां = विषमद्याभ्याम् । ७ रक्तजादिमूर्च्छात्रितयलक्षणं दर्शयति - स्तब्धाङ्गेति । गूढोच्छ्वासः = अस्पष्टो ॰ च्छ्वासः । ८ नष्टं स्मृतिरहितं विभ्रान्तं विक्षिप्तं मानसं चित्तं यस्य स नष्टत्रि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1320

सुश्रुत संहिता चौखम्बा, पृष्ठ 1320 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-११६२ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४६ वेदितव्यं तीव्रतरं यथास्वं वि ' लक्षणैः ॥ १३ ॥

सेकावगाहौ मणयः सहाराः शीता प्रदेहा व्यजनानिलाश्च ।

शीतानि पानौनि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि ॥ १४ ॥

सितापियालेक्षुरस प्लुतानि द्राक्षामधूकस्वरसान्वितानि ।

खर्जरकाश्मय्यैरसैः शृतानि पानानि सर्पपि च जीवनानि ॥ १५ ॥

सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च ।

तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः ॥ १६ ॥

भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यञ्च पिबेत् समानि ।

शीतेन तोयेन र्बिसं मृणालं क्षौद्रेण कृष्णां सितया च पथ्याम् ॥१७ ॥

कुर्य्याच्च नासावदनावरोधं क्षीरं पिवेद्वाऽप्यथ मानुषीणाम् ।

मूर्च्छा प्रसक्तां तु " शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः ॥१८ ॥

हरीतकी क्वाथतं घृतं वा १ धात्री फलानां स्वरसैः कृतं वा ।

द्राक्षासितादाडिमलाजवन्ति शीतानि १२ नीलोत्पलपद्मवन्ति ॥ १ ९ ॥।

पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति ।

१३ प्रभूतदोषस्तमसोऽतिरेकात्सम्मूच्छितो नैत्र विबुध्यते यः ॥ २० ॥

भ्रान्तमानसः । १ विषस्य मूलकन्दपत्रक्षीरादिप्रभेदेन यल्लक्षणं कल्पस्थानेऽभिहितं तल्लक्षणैरिव तीव्रतरत्वेन युक्ता मूर्च्छा भवतीत्यर्थः । २ मूर्च्छाचिकित्सामाख्याति - सेकेति । सेकावगाहावपि शीतावेव बोध्यौ । मण-यः = चन्द्रकान्तादयः, द्वारा: = मुक्तादिहाराः, प्रदेहाः = चन्दनोत्पलप्रभृतिविहिताः प्रलेपा इत्यर्थः । ३ पानानि = पानकानि, गन्धवन्ति = कर्पूरादि सुगन्धवन्ति, अनि-वारितानि = प्रशस्तानि । ४ शतानि गन्धवन्ति च पानान्येव निर्दिशति - सितेति! सिता = शर्करा, प्रियालः = ' चिरौंजी ' इति ख्यातः । ५ जीवनानि सपौषि = जीवक. र्ष भकादिसाधितानि वृतानीत्यर्थः । ६ मधुरे वर्गे = काकोल्यादिमधुरवर्गे । ७ सती-नः = वर्तुलकलायः । ८ भुजङ्गपुष्पं = नागकेसरम् । ९ बिसं = सूक्ष्ममृणालम्, मृणालं = पद्मनालम्, कृष्णा = पिप्पली, पथ्या = हरीतकी । १० शिरोविरेकैः = नस्यै -रित्यर्थः १२ नीलोत्पलपद्मवन्तीत्या-। ११ धात्रीफलानाम् = श्रामलकफलानाम् । दिकं पित्तज्वरदरकषायविशेषणम् । १३ मूर्च्छाभेदसंन्यासस्य लक्षणमभिदधाति - प्रभूतेति । अतिरेकात् = अतिशय -वर्द्धनात् । संन्यासस्य मूर्च्छादिभ्यो भेदमाह तन्त्रान्तरे - " दोषेषु मदमूर्च्छायाः कृत -CC - 0. Gurukul Kangri Collection, Haridwar