सुश्रुत संहिता चौखम्बा — पृष्ठ 1321–1330

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1321–1330

पृष्ठ 1321

सुश्रुत संहिता चौखम्बा, पृष्ठ 1321 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

To 8 ] Digitized by Arya Samaj Epundation Chennai and eGangotri श्रम् ११६३

संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः ।

यथा ss मलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव ॥ २१ ॥

तद्वचिकित्सेत्त्वरया भिषक्त मस्वेदनं मृत्युवशं प्रयातम् ।

तीक्ष्णौञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः ॥ २२ ॥

वादित्रगीतानुनयैर पूर्वैर्विघट्टनैर्गुप्त फलावघर्षैः ।

आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्व सैनश्च वर्ज्यः ॥ २३ ॥

प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यमुक्तम्!

फलत्रिकैश्चित्र कनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगः ।

सशर्करैर्मासमुपक्रमेत विशेषतो ' जीर्णघृतं स पाय्यः ॥ २४ ॥

यथास्वञ्च ज्वरघ्नानि कषायाभ्युपयोजयेत् ।

सर्वमूर्च्छापरीतानां विषजायां विषापहम् १० ॥ २५ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम ( अष्टमोऽध्यायः, आदितः ) षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥

वेगेषु देहिनाम् । स्वयमेवोपशाम्यन्ति संन्यासो नौषधै विना ॥ ” इति । १ संन्यास-संन्यस्तस्य शीघ्रं चिकित्साकरणाय निदर्शयति - यथेति । श्रमलोष्टम् = अपक्कमृत्पि • ण्डम् । २ तं = संन्यासम्, प्रस्वेदनं = स्वेदरहितमित्यर्थः । ३ तीक्ष्णशब्दस्य अञ्जनादिभिः प्रत्येकं सम्बन्धः । नखाम्यन्तरतोत्रपातैः - नखा • भ्यन्तरे सूचनेप्रकारस्य तोत्रस्य व्यघनैरित्यर्थः । ४ गुप्तफलाबघर्षैः = कपिकच्छूफलाव • घर्षणैः । गुप्तफलं वृषणं तस्यावघर्षणैः पीडनैरित्यन्ये । ५ श्वसनःश्वासः । ६ तीक्ष्णा-अनादिभिः प्रबुद्धसंज्ञमित्यर्थः । तीक्ष्णैर्वमनानुलोम्यैः = तीक्ष्णवमनविरेचनैः । ७ ज. तुनः = शिलाजतुनः । ८ जीर्णघृतं = दशाब्दिकघृतम् । ९ यथास्वं = यथादोषम् । ५० विषापहं = विषमोद्दशमनं कल्पस्थानोक्तनस्याञ्जनादिकमित्यर्थः । हति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽख्यटिप्पन्यां षट्चत्वारिंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1322

सुश्रुत संहिता चौखम्बा, पृष्ठ 1322 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११६४ सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri

सप्तचत्वारिंशत्तमोऽध्यायः ।

अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव! च ।

रूक्षमाशुकरञ्चैव व्यवायि च विकाशि च ॥ ३ ॥

औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम् ।

विशत्यवयवान् सौक्ष्म्या द्वैशद्यात्कफशुक्रनुत् ॥ ४ ॥

मारुतं कोपयेद्रौक्ष्यादाशुत्वाच्चाशुकर्मकृत् ।

हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्विसर्पति ॥ ५ ॥

तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् ।

केचिल्लवणवयस्तु रसानत्रादिशन्ति हि ॥ ६ ॥

स्निग्धैस्तदन्नैर्मासैश्च भक्ष्यैश्च सह सेवितम् । सप्तचत्वारिंशत्तमोऽध्यायः । [ अ ० ५७ १ " मूर्च्छा, मद्येन च विषेण च " इति स्मृत्या मूर्च्छाप्रतिषेधानन्तर पानात्यय-प्रतिषेधमधिकरोति — अथात इति । अत्येति विनश्यत्यनेनेति श्रत्ययो व्याधिः । पान-शब्दो मद्ये रूढः, पानमूलोऽत्ययः पानात्ययः । अत्र आदिशब्दो लुप्तो निर्दिष्टः, तेन परमदादयोऽपि गृह्यन्ते । २ मद्यस्य गुणकर्मणी निर्दिशति - मद्यमिति । सूत्रस्थाने मद्यगुणा उक्ता श्रपि, अत्र पुनस्ते अधिकप्रदर्शनार्थमुच्यन्ते । ३ व्यवायि = सर्वदेह-व्यापकत्वम्, विकाशि = विकसनशीलम् | ४ बाह्याध्यात्मिकां मनोगतिमित्यर्थः । ५ श्रवयवान् = हृदयौजःप्रभृतीन्, “ सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान् ” इति चरकः । ६ मद्यरसमभिदधाति — तदम्लमिति । तत् = मद्यम्, अम्लम् = अम्लरसव्य · क्तम् । तदुक्तम्– “ मद्यस्य षड्रसत्वेऽपि व्यक्तोऽग्लो रस उच्यते " इति । तेन मद्ये अपरेऽपि रसा अनुरसत्वेन ज्ञातव्याः । तथा च तन्त्रान्तरम् - " मद्यस्याम्लस्वभावस्य चत्वारोऽ. नुरसाः स्मृताः । मधुरश्च कषायश्च कटुकस्तिक्त एव च ॥ ” इति । भोजः - " मदि-राया रसा व्यक्ता मधुरोषणतिक्तकाः । लवणाम्लकषायाश्च त्रयः सूक्ष्मतराः स्मृताः ॥ विपर्ययेणैतदेवं मैरेये कथिता रसाः । माध्वीके सीधुसब्ज्ञे च व्यक्तौ चाम्लकटू रसौ । व्यक्ता हि शेषाश्चत्वारो रसा भोजेन कीर्तिताः ॥ ” इति । ७ विधिसेवितमद्यगुणान् वक्ति — स्निग्धैरिति । श्रन्नैः = गोधूमादिभिः । “ वि ॰ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1323

सुश्रुत संहिता चौखम्बा, पृष्ठ 1323 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४७ ] Digitized by Arya Sandali chennai and eGangotri ११६५ भवेदायुःप्रकर्षाय बलायोपचयाय च ॥ ७ ॥

काम्यता मनसस्तुष्टिधैर्यं तेजोऽतिविक्रमः ।

विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ॥ ८ ॥

तदेवानन्नमज्ञेन सेव्यमानममात्रया ।

कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ॥ ९ ॥

मदेन करणानान्तु भावान्यत्वे कृते सति ।

निगूढमपि भावं स्वम्प्रकाशी कुरुतेऽवंश: ॥ १० ॥

त्र्यंवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः ।

पूर्वे वीयरतिप्रीतिहर्ष भाष्यादिवर्द्धनम् ॥ ११ ॥

प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा ।

विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः ॥ १२ ॥

9

श्लैष्मिकानल्पपित्तांश्च स्निग्धान् मात्रोपसेविनः ।

पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते ॥ १३ ॥

निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् ।

उत्पादयेत् कष्टतमान्विकारा नापादयेच्चापि शरीरभेदम् ॥ १४ ॥

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन ।

व्यायामभाराध्यपरिक्षतेन " वेगावरोधाभिहतेन चापि ॥ १५ ॥

घिना मात्रया काले हितैरन्नैर्यथाबलम् । प्रहृष्टो यः पिवेन्मद्यं तस्य स्यादमृतोपमम् ॥ ” इति तन्त्रान्तरम् । १ बलाय = ओजसे, उपचयाय = स्थौश्यायेत्यर्थः । २ काम्य-ता = कमनीयमूर्तिता, मनसस्तुष्टिः = सन्तोषः, तेजः = प्रभा । ३ प्रविधिसेवितमद्य... दोषमाह - तदेवेति । तदेव = मद्यमेवेत्यर्थः । ४ प्रवृद्धेन मदेन श्रवशः पुरुषो यत् कुरुते तद् दर्शयति - मदेनेति । करणानां == मनोबुद्धीन्द्रियाणाम्, भावान्यत्वे = स्वरूपान्यथात्वे । ५ श्रवशः = मद परवश इत्यर्थः । ६ तं पुनर्मदं त्रेधा विभजते- त्रयवस्थश्चेति । व्यवस्थः = त्रिप्रकार इत्यर्थः । ७ पुरुषविशेषे मद्यस्य नातिबाधकत्वं दर्शयति - श्लैष्मिकानिति । विपरी तान् = पित्ताधिकरूक्षातिमात्र सेविन इत्यर्थः । ९ मदात्ययनिदानमाह— निर्भक्तमिति । निर्भक्तम् - आहाररहितम् । १० वि-कारान् = वक्ष्यमाणपानात्ययादीन्, शरीरभेदं = देहविनाशम् । | ११ परिक्षतेन == CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1324

सुश्रुत संहिता चौखम्बा, पृष्ठ 1324 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-११६६ Digitized by Arya Samaj Foundation Chennai and eGangotri अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाबलेन । [ अ ० ४७ उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् ॥१६ ॥

पानौत्ययं परमदम्पानाजीर्णमथापि वा ।

पानविभ्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् ॥ १७ ॥

स्तम्भाङ्गमर्द हृदयग्रह्तोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च । स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च ॥ १८ ॥

श्लेष्मात्मके व मथुशीत कफप्रसेकाः सर्वात्मके भवति सर्वविकारसम्पत् । ऊष्मौणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिमलमूत्रसङ्गम् ॥ १ ९ ॥

लिङ्गं परस्यै तु मदस्य वदन्ति तज्ज्ञा-स्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम् ।

आध्मानमुद्विरणमम्लरसो विदाहो-जीर्णस्य पानजनितस्य वदन्ति लिङ्गम् ॥ २० ॥

ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि । हृद्गात्रतोद व मथुज्वरकण्ठधूम-क्षीणेनेत्यर्थः । स तथा तेन ।

त्ययमिति ।

मूर्च्छा कफस्रवणमूर्द्धरुजो विदाहः ॥ २१ ॥

१ श्रवततोदरेण = व्याप्तोदरेण, साजीर्णभुक्तेन साजीर्णे भुक्तं यस्य २ विकारान् = पानात्ययादीन् । ३ मदात्ययभेदानाह - पाना-४ वातादिभेदेन पानात्ययस्य लक्षणमाख्याति - स्तम्भेति । स्तम्भः = स्तब्धता । ५ परमदलक्षणं ब्रवीति — ऊष्माणमिति । तु मदस्य = परमदस्येत्यर्थः । ६ परस्य ७ पानाजीर्णलक्षणमभिधत्ते - आध्मानमिति । उगिरणं = वान्तिः, पानजनितस्य श्रजीर्णस्य = पानाजीर्णस्येत्यर्थः । ८ पानविभ्रमलक्षणमभिदधाति - हृद्द्वात्रेति । वमथुः = छर्दिः, कण्ठधूमः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1325

सुश्रुत संहिता चौखम्बा, पृष्ठ 1325 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ११६७ द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः । होनोत्तरौष्ठम तिशीतममन्ददाहं तैलप्रभाऽऽस्यमतिपानहतं विजह्यात् ॥ २२ ॥

जिह्रौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च । हिक्क ज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ॥ २३ ॥

तेषां निवारणमिदं हि मयोच्यमानं

व्यक्ताभिधानमखिलेन विधिं निबोध ।

मद्यन्तु चुक्रमरिचार्द्रकदीप्यकुष्ठ-सौवर्चलायुतमलं पवनस्य शान्त्यै ॥ २४ ॥

पृथ्वी के दीप्यकमहौषधङ्गिभिर्वा सौवर्चलेन च युतं वितरेत सुखाय । आम्रातका फलदाडिममातुलुङ्गैः कुर्य्याच्छुभान्यपि च पार्डवपानकानि ॥ २५ ॥

सेवेत वा फलरसोपहितान् रसादी. नानूपवर्गपिशितान्यपि गन्धवन्ति । पित्तात्मके मधुरवर्गकपायमिश्र कण्ठाद्धूमनिर्गमवत्पीडा, मूर्धरुजा - शिरोव्यथा । १ उशन्ति = इच्छन्ति । २ असा-ध्यलक्षणमाख्याति — हीनेति । हीनोत्तरौष्ठं = सङ्क्षिप्तोपरितनौष्ठम्, श्रुतिशीतं बहिः, अमन्ददाहं = तीव्रदाहमभ्यन्तरे, अथवा कदाचिदतिशीतं, कदाचित्तीत्रदाद्दम् । तैलप्रभाऽऽस्यं = तैलाक्तमुखमित्र, पानहतं = मद्यपीडितमित्यर्थः । ३ उपद्रवान् दर्शयति - हिक्केति । एते हिक्काऽऽदय उपद्रवाः पानइतं पुरुषं भजन्ते इति सम्बन्धः । ४ तेषां = पानात्ययादीनाम् । ५ पृथ्वीका = महत्येला, दीप्यकः = अजमोदा, महौषधं = शुण्ठी | ६ षाडवपानकानि अन्नपानविधौ दर्शि-तानि । तन्त्रान्तरे— “ युतमिच्क्षुविकारेण कथितं चूतजं फलम् । घृतशुण्ठीतिलयुतं विज्ञेयो घनषाडवः ॥ ” इति षाडवकल्पना । ७ फलरसोपहितान् = दाडिममातुलु • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1326

सुश्रुत संहिता चौखम्बा, पृष्ठ 1326 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११६५ | सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri मद्यं हितं समधुशर्करमिष्टगन्धम् ॥ २६ ॥

पीत्वा च मद्यमपि चेक्षुरसप्रगाढं. निःशेषतः क्षणमवस्थितमुल्लिखेच्च । लावैणतित्तिरिरसांश्च पिवेदनम्लान् [ अ ० ४७ मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् ॥ २७ ॥

पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बविटुलोदकसंयुतेन । सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान हिताय ॥ २८ ॥

पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्न्नमन्यदपि यच्च निरत्ययं स्यात् । कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् ॥ २ ९ ॥। सामान्यमन्यदपि यच्च समग्रमप्रचं वक्ष्यामि यच्च मनसो मदकृत् सुखञ्च । त्वङ्नागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ॥ ३० ॥

ङ्गादिफलयुक्तान्, रसादीन् = तत्तन्मांसरसयूषादीन् । गन्धमित्यर्थः । १ एलात्वक्पत्रकाद्यैरिष्ट-२ पित्तात्मके मदात्यये वमनं निर्दिशति - पीत्वेति । उल्लिखेत् = वमेत् । ३ विदुलं = वेतसफलम् । ४ तिक्तकटुकान् == तिक्तकटुकद्रव्य संस्कृतान, रसान् = मांसरसान्, उदारान् = जाङ्गलजान्, यूषान् = मुद्गादियूवान्, तिक्तकटुकोपहितान्-तिक्तानि दुरालभाऽऽदीनि, कटुकानि पिप्पल्यादीनि तैरुपहितान् संस्कृतानित्यर्थः । ५ निरत्ययं = निर्दोषम् । ६ प्रधानं सन्निपातजे द्वन्द्वजे च बलवन्तं दोषमनतिक्रम्येति यथाप्रधानम् । ७ अन्यदपि यत् सामान्यं यच्च मनसो यदकृद् हर्षेकृद् वक्ष्यामि, तत् समग्रम् अग्रथं श्रेष्ठं सुखं चेति सम्बन्धनीयम् । ८ पानात्ययचिकित्सां वक्ति - त्वगिति । त्वक् = ' दालचीनी ' इति, नागपुष्पं = नागकेसरम्,! धान्यं = ‘ धनिया ' इति, श्रजाजी = जीरकः, समांशैः = तुल्यभागैः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1327

सुश्रुत संहिता चौखम्बा, पृष्ठ 1327 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४७ ] Digitized by Aryamaration Chennai and eGangotri ११६ ९ पौनं कपित्थर सवारिपरूषकाढ्यं पानात्ययेषु विधिवत्तमम्बेरान्ते । होवेरपद्मपरिपेलैव सम्प्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ॥ ३१ ॥

पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः । स्वकपत्र चोचमरिचैलभुजङ्गपुष्पश्लेष्मातक प्रसव कल्कगुडैरुपेतम् ३२ द्राक्षायुतं हृतमलं मदिरामयात्तै-स्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम् । पिष्ट्वा पिबेच मधुकं कटुरोहिणीञ्च द्राक्षाञ्च मूलमसकृत् पुषीभवं यत् ॥ ३३ ॥

कार्पासिनीमथ च नागबलाश्च. तुल्यां पीत्वा सुखी भवति साधु सुवर्चलाञ्च । कौश्मदारुविडदाडिमपिप्पलीषु द्राक्षाऽन्वितासु कृतमम्बुनि पानकं यत् ॥ ३४ ॥

तद्वीजपूरकरसायुतमाशु पीतं

शान्ति परां परमदे त्वचिरात्करोति ।

द्राक्षासिता मधुकजीरकधान्यकृष्णा-स्वेवं कृतं त्रिवृतया च पिबेत्तथैव ॥ ३५ ॥

सौवर्चला तमुदाररसं फलाम्लं भार्गीशृतेन च जलेन हितोऽवसेकः ॥ ३६ ॥

" इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे ।

विपाच्य तस्याञ्जलिनावमेद्धि मद्यं पिबेच्चाह्नि गते वजीर्णे ॥ ३७ ॥

१ पानं = पानकम् । २ अम्बरान्ते – वस्त्रान्ते । ३ परिपेलवं कैवर्तंमुस्तकम् । ४ भुजङ्गपुष्पं नाग के करम् । ५ हृतमलं = वस्त्रगालितम्, मदिरामयातैः = पाना त्ययपीडितैरित्यर्थः । ६ कटुरोहिणी = ' कुटकी ' इति ख्याता । ७ परमदचिकित्सामाइ - काश्मर्येति । काश्मर्य = गम्भारीफलम्, अम्बुनि = जले । ८ परमदे पानकान्तरं निर्दिशति-द्राक्षेति । ९ उदाररसं = जाङ्गलमांसरसम् । १० पानाजीर्णचिकित्सामाख्याति ---७४ CC - 0. Gurukul Kangri Collection, Haridwar -V

पृष्ठ 1328

सुश्रुत संहिता चौखम्बा, पृष्ठ 1328 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११७० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri त्वपिप्पलीभुजगपुष्पविडैरुपेतं सेवेत हिङ्गुमरिचैलयुतं फैलाम्लम् । उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक् चन्यै लहिङ्गमर्गे धाफलमूलशुण्ठीः ॥ ३८ ॥

हृद्यैः खैडैरपि च भोजनमत्र शस्तं

द्राक्षाकपित्थफलदाडिमपानकं यत् ।

तत्पानविभ्रमहरं मधुशर्कराढ्य-माम्रातकोलरसपानकमेव चापि ॥ ३ ९ ॥

खर्जूर वेत्रककरीरपरूषकेषु द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा । श्रीपर्णियुक्तमथवा तु पिवेदिमानि [ अ ० १७ यष्ट्यायोत्पल हिमाम्बुविमिश्रितानि ॥ ४० ॥।

क्षीरि प्रवालबिसजीर कनागपुष्पपत्रैलवालुसितसारिवपद्मकानि । आम्रातभव्यंकरमर्दकपित्थ कोलवृक्ष । म्लवेत्रफलजीर कदाडिमानि ४१ सेवेत वा मरिचजीरकनागपुष्प-त्वक्पत्रविश्वचवि कैलयुतान् रसांश्च । सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ॥ ४२ इक्ष्वाक्विति । इक्ष्वाकुः = तितालाबूः, धामार्गवः = ' तरोई ' इति ख्यातः । वृक्षकः = इन्द्रयवाः । १ फलाम्लं = दाडिमबीजपूरकाद्यम्लीकृतं मद्यमित्यर्थः । २ मगधाफ. लमूलं = पिप्पलीफलमूलम् । ३ खडा यूषविशेषाः । ४ पानविभ्रमचिकित्सामाचष्ट - द्राक्षेति । ५ श्रीपणियुक्तं = गम्भारीफलयुक्तम्, ' ङयापोः संज्ञाच्छन्दसोर्बहुलम् ' इति ह्रस्वः । अथवा इमानि क्षीरिप्रवालादीनि दाडि -मान्तानि कथम्भूतानि? यष्टयाह्वयोत्पल हिमाम्बुविमिश्रितानि पानविभ्रमे पिबेत्! यष्टयाह्वयं यष्टीमधु उत्पलं नीलोत्पलं यद् हिमाम्बु तेन विमिश्रितानित्यर्थः । ६ क्षीरिप्रबालाः = वटादिक्षीरवृक्षपल्लवाः । ७ भव्यं = फलविशेषः । ८ रसान् = मांसरसान् । ९ चत्वारो मदात्ययाः, त्रयश्च परमदपानाजीर्णपानविभ्रमाः, इत्येवं सप्त । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1329

सुश्रुत संहिता चौखम्बा, पृष्ठ 1329 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४७ ] Digitized by Aryasantato tich Chennai and eGangotri ११७१ पैचेन्द्रियार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः । पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ॥ ४३ ॥

प्रौढाः स्त्रियोऽभिनवयौवन पीनगात्रयः सेव्याश्च पञ्चविषयातिशयस्वभावाः ॥ ४४ ॥

पिबेद्रसं पुष्पफलोद्भवं वा सितामधूक त्रिसुगन्धियुक्तम् ।

सवर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल: ॥ ४५ ॥

वर्षा भूयष्ट्या मधूकलाक्षात्यक्कर्बुदाराङ्करजीरकाणि ।

द्राक्षाञ्च कृष्णामथ केशरञ्च क्षीरे समालोड्य पिबेत् सुखेप्सुः ॥ ४६ ॥

भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना ।

तदेव तस्मै विधिवत्प्रदापयेद् विपर्य्यये भ्रंशमवश्यमृच्छति ॥ ४७ ॥

यथा नरेन्द्रोपहतस्य कस्यचिद् भवेत् प्रसादस्तत एव नान्यतः ।

ध्रुवं तथा मद्यतस्य देहिनो भवेत्प्रसादत एव नान्यतः ॥ ४८ ॥

विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । ८ तस्य " पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि ॥ ४ ९ ॥ १ पन्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः, तेषां विषयाः करणानि, मृदुपानयोगाः = पैष्टिकगौडिकमाध्वीकादिमृदुमद्ययोगाः । २ विकटौ विशालौ ऊरू यासां ता विकटो-रवः, नितम्बवत्यश्च श्रेष्ठनितम्बाः पीनोन्नतस्तनभराहतमध्यदेशाः - पीनोन्नतस्तनभरेण आनत ईषन्नम्रो मध्यदेशो यासां ताः । ३ पञ्चानां शब्दस्पर्शरूपरसगन्धानां विषयाः करणानि, तेष्वतिशय: स्वीयो भावो यासां ताः पञ्चविषयातिशयस्वभावाः । ४ पुष्पफलोद्भवं = कूष्माण्ड फल समुद्भूतम्, त्रिसुगन्धि = त्रिजातकम्, “ त्वगेला. पत्र कैस्तुल्ये स्त्रिसुगन्धि विजातकम् " इति बोध्यम् । ५ वर्षांभूः 2 श्वेतपुनर्नवा, स्वक् = गुब्त्वक्, कर्बुदाराङ्कुरः = कोविदाराङ्कुरः । ६ विधिवत् = सौवर्चलादियु. तम्, भ्रंशं = क्लेशम् । ७ मदात्यये मद्यस्योपयोगित्वं दृष्टान्तेन दर्शयति - यथेति । नरेन्द्रोपहतस्य = राजपीडितस्य । 5 ततः मद्यात् । ९ विच्छिन्नमद्यस्य पुनर्मद्यसेवने दोषं दर्श-यति - विच्छिन्नेति । विच्छिन्नमद्यः = त्यक्तमद्यः । १० पानात्ययोद्दिष्टाः = ध्वंसकवि-पकादय इत्यर्थः । ध्वंसक विक्षेपकाख्यौ मद्यविकारौ चरके पृथक् पठितौ । तद्यथा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1330

सुश्रुत संहिता चौखम्बा, पृष्ठ 1330 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११७२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४७

मद्यस्याग्नेय वायव्यौ गुणावम्बुवहानि तु ।

स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ॥ ५० ॥

पाटै लोत्पलकन्देषु मुद्गपर्यां च साधितम् ।

पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ॥ ५१ ॥

सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्यतम् ।

क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ॥ ५२ ॥

पक्कमभ्यञ्जने श्रेष्ठं, सेके क्वाथश्च शीतलः ।

रसवन्ति च भोज्यानि ' यथास्वमवचारयेत् ॥ ५३ ॥

पानकानि सुशोतानि हृद्यानि सुरभीणि च ।

त्वच प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूच्छितः ।

दाहं प्रकुरुते घोरं पित्र्त्तवत्तत्र भेषजम् ॥ ५४ ॥

शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये

दाहप्रशान्तिकरमृद्धिमतां नराणाम् ।

तत्रादितो मलयजेन हितः " प्रदेह-चन्द्रांशुहार तुहिनोदकशीतलेन ॥ ५५ ॥

शीताम्बुशीतलतरैश्च 72 यानमेनं १२ हारैर्मृणालवलयैरबला: " स्पृशेयुः । “ विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । ध्वंसो विक्षेपकश्चैव रोगस्तस्योपजायते ॥ श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता । तन्द्रा निद्राऽभियोगश्च ज्ञेयं ध्वंसक • लक्षणम् ॥ हृत्कण्ठरोधः सम्मोहश्छर्दिरङ्गरुजा ज्वरः । तृष्णा कासः शिरः शूल मेतद्विक्षेप-लक्षणम् ॥ ” इति । १ मद्यजतृष्णोत्पत्ति निर्दिशति -- मद्यस्येति । अम्बुवहानि स्रोतांसीति सम्बन्धः । २ मद्यजतृष्णाचिकित्सां वक्ति - पाटलेति । पाटला = ' पाढरि ' इति ख्याता । ३ हि. मवच्छीतलं हिमशीतलम् । ४ श्रत्र सर्पिस्तैलं वसा मज्जेति चतुःस्नेहः प्रस्थप्रमितो दधिभृङ्गराजयोद्वौं प्रस्थौ बित्वयवक्वाथस्य च द्वौ प्रस्थौ सर्वगन्धं च स्नेहचतुर्थांशं बोध्यम् । ५ भोज्यानि = भक्तानीत्यर्थः । ६ पानकानि = द्राक्षादाडिमादिकृतानि । ७ मद्यजदाहं तच्चिकित्सां च ब्रवीति - त्वचमिति । पानोष्मा = मद्यपानोष्मे. त्यर्थः । ८ पित्तवत् = मधुरशीतादिकम् । ९ ऐश्वर्यवतां पुरुषाणां दाहचिकित्सा-माह- - शीतमिति । १० प्रदेहः = प्रलेपः । ११ शयानं = विश्रान्तम् । १२ अबलाः == CC - 0. Gurukul Kangri Collection, Haridwar