सुश्रुत संहिता चौखम्बा — पृष्ठ 1331–1340
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1331–1340
पृष्ठ 1331
पाठ पढ़ें पाठ छिपाएँ
अ ० ४७ ] Digitized by Aryasa dation Chennai and eGangotri ११७३ भिन्नोत्पलोज्ज्वलहि मे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ॥ ५६ ॥
औसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसञ्चयेषु । कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ५७ दाहाभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ॥ ७८ ॥
वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः । तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ॥ ५ ९ ॥ तोयावगाहकुशला मधुरस्वभावाः संहर्षेयेयुरबलाः सुकलैः प्रलापैः । धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ॥ ६० ॥
गन्धोदकैः ' सुकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुडये । प्रौढ स्त्रियः । { भिन्नं प्रफुल्ल मुत्पलमत्रेति भिन्नोत्पलम्, अत एवोज्ज्वलद्दिमम्, श्रास्ती प्रफुल्लनीलोत्पलोज्ज्वलशीतले इत्यर्थः । २ किं कुर्वन् शयीतेति निरूपयति- आसादयन्निति । श्रसादयन् = प्राप्नुवन्, श्राहृतम् = श्रानीतं व्यञ्जनादिभिरित्यर्थः । ३ परिमृश्यमानः स्पृश्यमानः । ४ तोयं = तत्र = वाप्याम्, बालकम् । ५ तस्यां एनं = दाहपीडितम् । ६ सुकलैः = शोभनकलायुक्तैः, प्रलापैः = प्रकृष्टवचनैरित्यर्थः । ७ प्रग-लितं गलितुं प्रवृत्तं यदुदकं तेन दुर्दिनस्य इव आभा यस्य तत्तस्मिन् प्रगलितोदक-दुर्दिनाभे, क्लान्तः = ग्लानियुक्तः, दाहात इति शेषः । सलिलानिलशीतकुक्षौ - सलि-लेन मिश्रितोऽनिलः सलिलानिलस्तेन शीतः कुक्षिरभ्यन्तरं यस्य तत्तस्मिन् । ८| सुकुसुमैः = जात्यादिसुगन्धिपुष्पवासितैः, पत्रं = पत्रकम्, श्रम्बु बालकम्.. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1332
पाठ पढ़ें पाठ छिपाएँ
११७४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri जात्युत्पलप्रियककेशरपुण्डरीक-पुन्नागनागकरवीरकृतोपचारे ॥ ६१ ॥
तस्मिन गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदानि । हेमन्तविन्ध्यहिमवन्मलयाचलानाम् [ अ ० ४० शीताम्भसां सकदलोहरितद्रुमाणाम् ॥ ६२ ॥
उद्भिन्ननीलनलिनाम्बुरुहाकराणाम् । चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञः । म्लानं प्रतान्तं मनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्गन्यः ॥ ६३ ॥
ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वाऽबलाः शिथिलमेखलहारयष्टयः ॥ ६४ ॥
हर्षयेयुनैरं नायः स्वगुणै रहसि स्थिताः ।
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ॥ ६५ ॥
तृड्दाह रक्तपित्तेषु कार्योऽयं भेषजक्रमः ।
सामान्यतो विशेषन्तु शृणु दाहेष्वशेषतः ॥ ६६ ॥
कृत्स्नं देहानुगं रक्तमुद्रिक्तं दहति ह्यति ।
सञ्चूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ॥ ६१ ॥
लोहगन्धाङ्गवदनो वह्निमेवावकीर्य्यते ।
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ॥ ६८ ॥
अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः ।
शाखाऽऽश्रया यथान्यायं रोहिणीव्यंधयेत् सिराः ॥ ६ ९ ॥
चन्दनं = श्वेतचन्दनम् । १ केशरः = वकुलः । २ नागः = नागकेसरम् । ३ कम • लरेण्वरुणे === कमलपांसुवद्रक्ताङ्गे इत्यर्थः । ४ प्रतान्तमनसं = दीनमनस्कम् । ५ संविशेयुः = दाहार्तेन सह विश्रामं कुर्युरित्यर्थः । ६ पित्तपानात्ययान्तरं = पित्तपानात्यय भेदम् । ७ रक्तजदाद्दलक्षणमभिदधाति - कृत्स्नेति । कृत्स्नदेहानुगं = सकलदेहव्याप्तम् । ८ ताम्रलोचनः = लोहिताक्षः । ९ तं = रक्तदाहार्तम् । १० शाखाऽऽश्रयाः बाहु. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1333
पाठ पढ़ें पाठ छिपाएँ
अ ० ४७ ] Digitized by Arya Son Chennai and eGangotri ११७५
पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः ।
तृष्णोनिरोधादव्धातौ क्षीणे तेजः समुद्धतम् ॥ ७० ॥
सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः ।
संशुष्कगलताल्वोष्टो जिह्वां निष्कृष्य चेष्टते ॥ ७१ ॥
तंत्रोपशमयेत्तेजस्स्वच्धातुञ्च विवर्द्धयेत् ।
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ॥ ७२ ॥
शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम् ।
सृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ॥ ७३ ॥
विधिः सद्योव्रणीयोक्तंस्तस्य लक्षणमेव च ।
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ॥ ७४ ॥।
क्षारः क्रियाहीनो भृशं सीदति पीडितः ।
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ॥ ७५ ॥
" क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा ।
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ॥ ७६ ॥
तमिष्टविषयोपेतं " सुहृद्भिरभिसंवृतम् ।
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ॥ ७७ ॥
• जङ्घाऽऽश्रयाः, रोहिणीसिराः = लोहिताः सिरा इत्यर्थः । १ पित्तज्वरसम: - पित्तज्वर • लिङ्गयुक्तः, स चाप्यस्य विधिः = पित्तज्वरचिकित्सेत्यर्थः । २ तृष्णानिरोधजे दाहे चिकित्सां वक्ति- तृष्णेति । प्रब्धातौ = रसे, तेजः --पित्तोष्मा, समुद्धतं = श्रत्यन्तवृद्धः । ३ निष्कृष्य = निःसार्य, चेष्टते = हस्तपादादिवि-क्षेपणं करोति । ४ तत्र = तृष्णानिरोधजे दाहे, तेजः = पित्तोष्माणम् । ५ ईरितं = कथितम्, विधि - पित्तज्वरहर विधानम् । ६ श्रवगाढशस्त्र प्रहारजनितपूर्णकोष्ठजदाइलक्षणं तच्चिकित्सां च ब्रवीति - असृजे-ति I ७ “ तस्मिन् भिन्नै रक्तपूर्णे ” इत्यादिना तत्रोक्तः । ८ धातुक्षयजदाह-लक्षणं तश्च्चिकित्सां च दर्शयति- धात्विति । ९ क्षामस्वरः = दुर्बलस्वरः, क्रिया-होनः = निश्चेष्ट इत्यर्थः । १० रक्तजदादलक्षणं तच्चिकित्सां च निर्दिशति - क्षतजेनेति । श्रश्नतः = भोजनं कुर्वतः । ११ इष्टविषयोपेतं = अभिलषितशब्दस्पर्शादिसंयुक्तम्, अभिसंवृतं = समन्ततः परिवृतमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1334
पाठ पढ़ें पाठ छिपाएँ
११७६ सुश्रुतसंहितायां-[ अ ० ४८ Digitized by Arya Samaj Foundation Chennai and eGangotri
मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः ।
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ॥ ७८ ॥
एवंविधो भवेद्यस्तु मदिरामयपीडितः ।
प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् ॥ ७ ९ ॥
संजीर काण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्द्धजलप्लुतानि ।
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ॥ ८० ॥
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् ।
पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ॥ ८१ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम ( नवमोऽध्यायः, आदितः ) सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
अष्टचत्वारिंशोऽध्यायः ।
अर्थातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सततं यः पिबेद्वारि न तृप्तिमधिगच्छति ।
पुनः काङ्ङ्क्षति तोयञ्च तं तृष्णाऽर्दितमादिशेत् ॥ ३ ॥
१ मर्माभिघातजदाहमभिदधाति — मर्मेति । मर्माणि शिरोहृदयबस्त्यादीनि । २ प्रशान्तोपद्रवे = निवृत्त तृष्णाऽऽदिके, ' आतुरे ' इति शेषः । १३ मद्यसेवन विधिमभि. धत्ते - सजीरकाणीति । तन्त्रान्तरे मात्रा कथिता - " शुद्धकायः पिबेन्मद्यं सोपदंशं पलद्वयम् । मध्याह्ने द्विगुणं तच्च सुस्निग्धं भक्षयेदनु ॥ प्रदोषेऽष्टपलं तद्वन्मात्रा मद्य-रसायने । अनॆन विधिना सेव्यं मद्यं नित्यमतन्द्रितैः ॥ ” इति । ४ उपदंशः मद्य-पानरोचकद्रव्यम् । ५ पानजान् रोगानित्यर्थः । मनोनुविघ्नं = मनोविघातकम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकाय चिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तचत्वारिंशोऽध्यायः । अष्टचत्वारिंशत्तमोऽध्यायः । ६ पानात्ययप्रतिषेधानन्तरं तुल्यचिकित्सितत्वात् तृष्णाप्रतिषेधमधिकरोति — अथे-ति । तृष्णा = पिपासा । ७ तृष्णायाः सामान्यलक्षणं निरूपयति — सततमिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1335
पाठ पढ़ें पाठ छिपाएँ
अ ० ४८ ] Digitized by Arya Samaja chennai and eGangotri ११७७
सङ्क्षोभशोकश्रममद्यपानाद्रक्षाम्लशुष्कोष्णकटूपयोगात् ।
धातुक्षयाल्लङ्घनसूर्य्यतापात् पित्तञ्च वातश्च भृशं प्रवृद्धौ ॥ ४ ॥
स्रोतांसि सन्दूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि ।
स्रोतः स्वपांवाहिषु दूषितेषु जायेत तृष्णा प्रबला ततस्तु ॥ ५ ॥
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च ।
• स्यात्सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ॥ ६ ॥
तौल्वोष्ठकण्ठारय विशोषदाहाः सन्तापमोहभ्रमविप्रलापाः ।
' पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ॥ ७ ॥
शुष्कौस्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि ।
स्रोतोनिरोधो विरसञ्च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ॥ ८ ॥
मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः ।
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपर्नञ्च ॥ ९ ॥
सततं = निरन्तरम् । १ तृष्णाया निदानं सम्प्राप्ति च दर्शयति - सङ्घोभेति । सङ्क्षोभः = प्रत्यर्थं चलनम् । २ अम्बुवाहीनि स्रोतांसीति सम्बन्धः । श्रम्बुवाहोनि = जलवाहीनि, स्रोतांसि = जिह्वागल तालुक्लोमजानि रसवाहिन्यश्च घमन्यः । चरकेऽप्यु • क्तम्– “ रसवाहिनीश्च धमनीजिह्वा मूल गलतालुकक्लोग्नः । संशोष्य नृणां देहे कुरुत • स्तृषमतिबलौ दौ तु ॥ ” इति । ३ तृष्णायाः संख्यामाख्याति - तिस्र इति 1 । वातपित्तकफजा स्तिस्र इत्यर्थः । क्षतजा == वर्णानिमित्ता, क्षयात् = रसक्षयात्, श्रमसमुद्भवा = श्रजीर्णजा 1 । दृढबलेन तु पञ्च तृष्णाः पठिताः-- " वातपित्त दयामोपसर्गजाः " इति । तत्र कफजा श्रमजायामेवावरुद्धा, क्षयजा वातजायाम्, भक्तजा च वातजायाम् । ४ भक्तनिमित्तजा = स्निग्धादि भोज-ननिमित्तेत्यर्थः । ५ तृष्णायाः पूर्वरूपमाख्याति तात्विति । विशेषेण शोषो विशोषः । ६ वातजतृष्णालक्षणं वक्ति - शुष्कास्यतेति । शुष्कास्यता = शुष्कमुखत्वम्, शङ्खशिरःसु = शङ्खयोः शिरसि च तोद इत्यर्थः । ७ स्रोतोनिरोधः = कर्णस्रोतोनि-रोधः, रसाम्बुवाहिनीघमनीनिरोध इति विजयरक्षितः । विरसं चेति चकाराच्चरको. क्तनिद्रानाशस्य ग्रहणम् । यदाह चरकः - “ निद्रानाशः शिरसो भ्रमस्तथा शुष्कगल-तालुः ॥ ” इति! ८ पित्तजतृष्णाया लक्षणं ब्रवीति - मूर्च्छति । मूर्च्छा = चेतनाच्युतिः, प्रलापः--विलापः, प्रततः शोषः = श्रविरतः शोषः । ९ परिधूपनं = धूमस्योद्गिरणमिव । चका • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1336
पाठ पढ़ें पाठ छिपाएँ
११७८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४८
कफौवृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम् ।
निद्रागुरुत्वं मधुरास्यता च तथाऽर्दितः शुष्यति चातिमात्रम् ॥ १० ॥
कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरच्छर्दिर रोचकश्च । कैफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव । एतानि रूपाणि भवन्ति तस्यां तयाऽदितः काङ्क्षति नाति चाम्भः ११ क्षैतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु । तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् १२
रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च ।
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः ॥ १३ ॥
रसंक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग् व्यवस्येत् ।
त्रिदोषलिङ्गाऽऽम समुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता ॥ १४ ॥
स्निग्धं तथाऽम्लं लवणञ्च भुक्तं गुवन्नमेवाति तृषां करोति । रात् पीतविण्मूत्रनेत्रत्वादयो ग्राह्याः । १ कफजतृष्णालक्षणमभिधत्ते - कफेति । अनिलानलाभ्यां = वातपित्ताभ्याम् । २ तयाऽर्दितः = कफजतृष्णया पीडितः । ३ चरके कफजा तृष्णा न पठिता । भगवता सुश्रुतेन चिकित्साभेदार्थं पठिता । हारोतेनापि सपित्तेनैव श्लेष्मणा तृष्णा पठिता, न तु केवलेन । यदाह - " स्वाद्वम्लल-वणाजीर्णैः क्रुद्धः श्लेष्मा सहोष्मणा । प्रपद्याम्बुवहं स्रोतस्तृष्णां सञ्जनयेन्नृणाम् ॥ शिरसो गौरवं तन्द्रा माधुर्यं वदनस्य च । भक्तद्वेषः प्रसेकश्च निद्राऽऽधिक्यं तथैव च ॥ एतैर्लिङ्गेर्विजानीयात्तृष्णां कफसमुद्भवाम् । " इति । शाखासु = बाहुपादेषु । ४ क्षतजतृष्णाया लक्षणमभिदधाति - क्षतस्येति । क्षतस्य = • शस्त्रादिशस्त्रयुक्त. स्येत्यर्थः । ५ क्षयशब्दस्यानैकविषयत्वात् क्षयजां तृष्णां विशेषयन् तल्लक्षणं निर्दि-शति - रसेति । ६ रसक्षयोक्तानि लक्षणानि " रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णता च ” इति सूत्रस्थाने भगवता सुश्रुतेनैव प्रतिपादितानि । तस्यां क्षयजतृ • ष्णायाम्, व्यवस्येत् = जानीयादित्यर्थः । ७ आमजतृष्णालक्षणं दर्शयति - त्रिदोषेति । त्रिदोषलिङ्गा = त्रिदोषलिङ्गयुक्ता, आमे ह्यजीर्णात्त्रिदोषकोपः स्यात् । तदुक्तं सुश्रुतेनैव – “ श्रजीर्णात् पवनादीनां विभ्र. मो बलवान् भवेत् ” इति । निष्ठीवनं = लोके ' थुकथुकी ' इति प्रथितम्, सादः == अङ्गग्लानिरित्यर्थः । ८ भक्तजतृष्णालक्षणमाख्याति - स्निग्धमिति । लवणं चेति चकारात् कटु च, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1337
पाठ पढ़ें पाठ छिपाएँ
अ ० ४८ ] Digitized by Arya Samrat रस Chennai and eGangotri ११७ ९ क्षीणं विचित्तं बधिरं तृषार्त्तं विवर्जयेन्निर्गतजिह्वमाशु ॥ १५ ॥
तृष्णाभिवृद्धावृदरे च पूर्णे तं वामयेन्मागधिकोदकेन ।
विलोभनं चात्र हितं विधेयं स्यादाडिमाम्रातकमातुलुङ्गैः ॥ १६ ॥
तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्य्यजातैः ।
गण्डूषमैम्लैविरसे च वक्त्रे कुर्य्याच्छुभैरामलकस्य चूर्णैः ॥ १७ ॥
सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टः कृतं वा सिकतादिभिर्वा ।
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा ॥ १८ ॥
पञ्चौङ्गिकाः पञ्चगणाः य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा ।
पिबेत्सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः ॥१९ ॥
पित्तघ्नवस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः ।
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः ॥ २० ॥
बिल्वाढकीकन्यक पञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति ।
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन ॥ २१ ॥
सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्य्याद्विधिं तेन हि ता " न सन्ति ।
" पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्कथितोदकं वा ॥ २२ ॥
तुतिक्तकषायमधुराणीत्यर्थः । तन्त्रान्तरीयोपसर्गजालक्षणम् - " दीनस्वरः प्रताम्यन् दीनः संशुष्कवक्त्र गलतालुः । भवति खलु योपसर्गातृष्णा सा शोषिणी कष्टा ॥ ” इति । उपसर्गास्तु— “ ज्वरमोहक्षय कासश्वासाद्युपसृष्टदॆहानाम् ” इति । १ तृष्णायाः सामान्यविधिमभिधत्ते – तृष्णेति । वामयेत् = क्षयजां विहाय छर्दयेत् । तदुक्तं तन्त्रान्तरे - " उल्लेखनं तु तृष्णासु क्षयादन्यत्र युज्यते ” इति । मागधिकोदकेन = पिप्पलीमिश्रितोदकेनेत्यर्थः । २ तिस्रः = वातपित्तकफजास्तृष्णाः, प्रयोगः- वक्ष्यमाणैः । ३ अम्लैः: - मातुलुङ्गादिभिरम्लैरित्यर्थः । ४ हिमं = हिमीकृतमित्यर्थः । ५ वातज तृष्णा चिकित्सितं वक्ति - पञ्चाङ्गिका इति । पञ्चाङ्गिकाः पञ्चगणाः पञ्च पञ्चमूलानि, प्रथमे गणे = विदारिगन्धादौ । ६ पितृष्णा चिकित्सामभिदधाति -पित्तघ्नेति । पित्तघ्नवर्गः काकोल्यादिप्रभृतिः । ७ जीवनीयैः = काकोल्यादिभिः । ८ कफजतृष्णाचिकित्सामाचष्टे - बिल्वेति । कन्यकपञ्चमूली = लघुपञ्चमूलम् । ९ नि. -म्बप्रसवोदकेन = निम्ब पल्लव क्वाथेनेत्यर्थः । १० ताः = तृष्णाः, न सन्ति: = न भवन्ति । ११ पर्यागतोदुम्बरजः = पक्कोदुम्बरजः, तत्कथितोदकं = पक्कोदुम्बरक्कथितजलम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1338
पाठ पढ़ें पाठ छिपाएँ
११८० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४८
वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषात्तैः ।
कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं चतजां निहन्ति ॥ २३ ॥
लौजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु । तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं वदन्ति ॥ २४ ॥..
द्राक्षाप्रगाढच हिताय वैद्यस्तृष्णाऽर्दितेभ्यो वितरेन्नरेभ्यः ।
ससारिवादौ तृणपञ्चमूले तथोपलादौ प्रथमे गणे च ॥ २५ ॥
कुर्य्यात्कषायञ्च यथेरितेनं मधूकपुष्पादिषु चापरेषु ।
राजादनक्षीरिकँपीतनेषु षट्पानकान्यत्र हितानि च स्युः ॥ २६ ॥
सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि ।
क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः ॥ २७ ॥
क्षयोत्थितां ० क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा ।
आमोद्भवां " बिल्ववचायुतैस्तु जयेत्कषायैरथ दीपनीयैः ॥ २८ ॥
आम्रातभल्लातबलायुतानि पिवेत्कपायाण्यथ दीपनानि ।
गुर्वन्नजात " " वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् ॥ २ ९ ॥
श्रमोद्भवां'३ मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः । १ क्षतजतृष्णायाश्चिकित्सामभिधत्ते - कशेविति । मोचा = कदली, ' कदली वारणबुसा रम्भा मोचांशुमत्फला '. इत्यमरः । २ क्षतजतृष्णायां योगान्तरं निर्दि. शति - लाजेति । ३ उदारगन्धि = सुगन्धिपुष्पाधिवासितम् । ४ वितरेत् = दद्यात् । ५ प्रथमे गणे = विदारिगन्धादौ । ६ यथेरितेन = पूर्वोक्तविधानेन, लाजादिं दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेप इति विधिनेत्यर्थः । मधूकपुष्पा-दिषु श्रादिशब्दाच्छोभाञ्जनकोविदारप्रियङ्गुपुष्पेषु । ७ क्षीरिकपीतनः = आर्द्रशिरीषः, पानकानि = कषायाणि । ८ तुण्डिकेरी = वनकार्पासी, कार्पाससमुद्भवानि = ग्राम्य-कार्पासफलानीत्यर्थः । ९ रसानां = मांसरसानाम् असृजः एणादिरुधिरस्य । १० क्षयजतृष्णायाश्चिकित्सितं वक्ति - क्षयोत्थितामिति । क्षीरमथनोत्थं घृतं क्षीर-घृतम् । ११ श्रामजतृष्णायाश्चिकित्सामाचष्टे - आमोद्भवामिति । दीपनोयैः = पिप्पल्या. दिकृतैः । १२ भक्तजतृष्णायाश्चिकित्सामाख्याति - गुर्वन्नजातामिति । क्षयादृते = क्षयजां तृष्णां विहायेत्यर्थः । तन्त्रान्तरेऽपि - " उल्लेखनं तु तृष्णासु क्षयादन्यत्र युज्यते " इति । १३ प्रसङ्गाच्छमादिजानां तृष्णानां चिकित्सां दर्शयति - श्रमोद्भवामिति । भक्तो. परोधात् = आहारावरोधात, वातोरकटतृष्णायां यवागं पित्तोत्कटतृष्णायां हिमं मन्थं च CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1339
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ९ ] Digitized by Arya Samgration hennai and eGangotri तरतन्त्रम् pnnai. ११८१ भक्तोपरोधात् तृषितो यपागृमुष्णां पिवेन्मन्थमथो हिमं च ॥ ३० ॥
या स्नेहपोतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिवेन्मनुष्यः ।
मद्योद्भवामर्द्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ॥ ३१ ॥
तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः ।
स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ॥। ३२ ॥
लेपावगाह परिषेचनानि कुर्य्यात्तथा शीतगृहाणि चापि ।
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ॥ ३३ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ( दशमोऽव्यायः, आदितः ) अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
एकोनपञ्चाशत्तमोऽध्यायः ।
अथा " श्छदिप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति ।
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ॥ ३ ॥
श्रमात् क्षयात्तथोद्वेगौद जीर्णात् कृमिदोषतः ।
नायश्चापन्न सत्त्वायास्तथाऽतिद्रुतमश्नतः ॥ ४ ॥
अत्यन्तामपरीतस्य छर्देवै सम्भवो ध्रुवम् । पिबेदित्यर्थः । १ तृष्णासु प्रागुक्तं पित्तहरविधिमभिधत्ते - लेपेति । विरेचनमित्यर्थः । २ संशोधनं = इति सुश्रुत संहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मष्टचत्वारिंशोऽध्यायः । एकोनपञ्चाशत्तमोऽध्यायः । ३ तृष्णाप्रतिषेधानन्तरं तुल्यचिकित्सितत्वाच्छर्दिप्रतिषेधमधिकरोति — अथेति । छर्दिः = वमिरित्पर्थः । ४ छर्दिनिदानमाद – आतद्रवैरिति । श्रहृद्यैः = अप्रियैः । ५ उद्वेगात् = उद्वेजनात् । ६ आपन्नसत्त्वायाः = गर्भिण्याः, ' आपन्नसत्त्वा स्याद् गुर्वि -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1340
पाठ पढ़ें पाठ छिपाएँ
११८२ Digitized by Arya Samaसुश्रुतसंहिताय ran eGangotri [ अ ०४ ९ बीभत्सैर्हेतुभिश्चान्यैर्द्रतमुत्क्लेशितो बलात् ॥ ५ ॥
छादेयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः ।
निरुच्यते छदिरिति दोषो वक्त्राद्विनिश्चरन् ॥ ६ ॥
दोषौनुदीरयन् वृद्धानुदानो व्यानसङ्गतः ।
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ॥ ७ ॥
प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम् ।
पूर्वरूपं मतं छर्द्या यथौस्वं च विभावयेत् ॥ ८ ॥
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः ।
श्रान्तः सघोषं बहुशः कंषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ॥ ९ ॥
योऽलं ' भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा ।
सदाह चोषज्वरवक्त्रशोषो मूर्च्छाऽन्वितः पित्तनिमित्तजा सा ॥ १० ॥
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम् ।
" अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ॥ ११ ॥
११ सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु । बीभत्सजा " दौहृदजाऽऽमजा च सात्म्यप्रकोपात्कृमिजा च या हि । ण्यन्तर्वत्नी च गर्भिणी ' इत्यमरः । श्रतिद्रतम् = अतिशीघ्रम् । १ बीभत्सैः = विकृतै -र्हेतुभिरित्यर्थः । २ छर्दिनिरुक्ति वक्ति - छादयन्निति । छादयन् - पूरयन्, प्रर्दयन् = श्रङ्गानि पीडयन्, अङ्गभञ्जनैः - अङ्गभेदैः । ३ छदिसम्प्राप्तिमभिदधाति - दोषानिति । व्यानसङ्गतः= व्यानेन वायुना मिलित इत्यर्थः । ४ छर्दिपूर्वरूपमाह - प्रसेक इति । प्रसेकः = मुखप्रसेकः । ५ यथास्वं = यथाऽऽत्मीय मित्यर्थः । ६ वातजच्छदिलक्षणमाख्याति - प्रच्छर्दयेदिति । श्रभ्यदितपाश्र्वपृष्ठः = पीडित-पार्श्वपृष्ठः । ७ कषायं = कषायरसमित्यर्थः । पित्तच्छर्दिलक्षणमभिधत्ते-योऽम्लमिति । कटुतिक्तवक्त्रः = कटुतिक्तमुखः । ९ कफजच्छर्दिलक्षणमभिदधाति -य इति । सान्द्रकफानुविद्धं = घनकफमिश्रम् । १० अभक्तरुक् = अन्नानभिलाष इत्यर्थः । ११ सान्निपातकच्छर्दिल क्षणमाचष्टे - सर्वाणीति । सर्वाणि रूपाणि = वातजादिस-मस्तच्छदिरूपाणीत्यर्थः । तन्त्रान्तरे— “ शूलाविपाकारुचिदाह तृष्णा श्वासप्रमोह प्रबला प्रसक्तम् । छर्दिस्त्रिदोषाल्लवणाम्लनील सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥ ” इति । १२ श्रागन्तुजच्छदिंलक्षणमाचष्टे - बीभत्सजेति । बीभत्सजा = पूयामेध्यादिदर्शनगन्ध • CC - 0. Gurukul Kangri Collection, Haridwar