सुश्रुत संहिता चौखम्बा — पृष्ठ 1331–1340

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1331–1340

पृष्ठ 1331

सुश्रुत संहिता चौखम्बा, पृष्ठ 1331 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४७ ] Digitized by Aryasa dation Chennai and eGangotri ११७३ भिन्नोत्पलोज्ज्वलहि मे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ॥ ५६ ॥

औसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसञ्चयेषु । कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ५७ दाहाभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ॥ ७८ ॥

वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः । तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ॥ ५ ९ ॥ तोयावगाहकुशला मधुरस्वभावाः संहर्षेयेयुरबलाः सुकलैः प्रलापैः । धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ॥ ६० ॥

गन्धोदकैः ' सुकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुडये । प्रौढ स्त्रियः । { भिन्नं प्रफुल्ल मुत्पलमत्रेति भिन्नोत्पलम्, अत एवोज्ज्वलद्दिमम्, श्रास्ती प्रफुल्लनीलोत्पलोज्ज्वलशीतले इत्यर्थः । २ किं कुर्वन् शयीतेति निरूपयति- आसादयन्निति । श्रसादयन् = प्राप्नुवन्, श्राहृतम् = श्रानीतं व्यञ्जनादिभिरित्यर्थः । ३ परिमृश्यमानः स्पृश्यमानः । ४ तोयं = तत्र = वाप्याम्, बालकम् । ५ तस्यां एनं = दाहपीडितम् । ६ सुकलैः = शोभनकलायुक्तैः, प्रलापैः = प्रकृष्टवचनैरित्यर्थः । ७ प्रग-लितं गलितुं प्रवृत्तं यदुदकं तेन दुर्दिनस्य इव आभा यस्य तत्तस्मिन् प्रगलितोदक-दुर्दिनाभे, क्लान्तः = ग्लानियुक्तः, दाहात इति शेषः । सलिलानिलशीतकुक्षौ - सलि-लेन मिश्रितोऽनिलः सलिलानिलस्तेन शीतः कुक्षिरभ्यन्तरं यस्य तत्तस्मिन् । ८| सुकुसुमैः = जात्यादिसुगन्धिपुष्पवासितैः, पत्रं = पत्रकम्, श्रम्बु बालकम्.. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1332

सुश्रुत संहिता चौखम्बा, पृष्ठ 1332 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११७४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri जात्युत्पलप्रियककेशरपुण्डरीक-पुन्नागनागकरवीरकृतोपचारे ॥ ६१ ॥

तस्मिन गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदानि । हेमन्तविन्ध्यहिमवन्मलयाचलानाम् [ अ ० ४० शीताम्भसां सकदलोहरितद्रुमाणाम् ॥ ६२ ॥

उद्भिन्ननीलनलिनाम्बुरुहाकराणाम् । चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञः । म्लानं प्रतान्तं मनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्गन्यः ॥ ६३ ॥

ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वाऽबलाः शिथिलमेखलहारयष्टयः ॥ ६४ ॥

हर्षयेयुनैरं नायः स्वगुणै रहसि स्थिताः ।

ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ॥ ६५ ॥

तृड्दाह रक्तपित्तेषु कार्योऽयं भेषजक्रमः ।

सामान्यतो विशेषन्तु शृणु दाहेष्वशेषतः ॥ ६६ ॥

कृत्स्नं देहानुगं रक्तमुद्रिक्तं दहति ह्यति ।

सञ्चूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ॥ ६१ ॥

लोहगन्धाङ्गवदनो वह्निमेवावकीर्य्यते ।

तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ॥ ६८ ॥

अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः ।

शाखाऽऽश्रया यथान्यायं रोहिणीव्यंधयेत् सिराः ॥ ६ ९ ॥

चन्दनं = श्वेतचन्दनम् । १ केशरः = वकुलः । २ नागः = नागकेसरम् । ३ कम • लरेण्वरुणे === कमलपांसुवद्रक्ताङ्गे इत्यर्थः । ४ प्रतान्तमनसं = दीनमनस्कम् । ५ संविशेयुः = दाहार्तेन सह विश्रामं कुर्युरित्यर्थः । ६ पित्तपानात्ययान्तरं = पित्तपानात्यय भेदम् । ७ रक्तजदाद्दलक्षणमभिदधाति - कृत्स्नेति । कृत्स्नदेहानुगं = सकलदेहव्याप्तम् । ८ ताम्रलोचनः = लोहिताक्षः । ९ तं = रक्तदाहार्तम् । १० शाखाऽऽश्रयाः बाहु. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1333

सुश्रुत संहिता चौखम्बा, पृष्ठ 1333 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४७ ] Digitized by Arya Son Chennai and eGangotri ११७५

पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः ।

तृष्णोनिरोधादव्धातौ क्षीणे तेजः समुद्धतम् ॥ ७० ॥

सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः ।

संशुष्कगलताल्वोष्टो जिह्वां निष्कृष्य चेष्टते ॥ ७१ ॥

तंत्रोपशमयेत्तेजस्स्वच्धातुञ्च विवर्द्धयेत् ।

पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ॥ ७२ ॥

शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम् ।

सृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ॥ ७३ ॥

विधिः सद्योव्रणीयोक्तंस्तस्य लक्षणमेव च ।

धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ॥ ७४ ॥।

क्षारः क्रियाहीनो भृशं सीदति पीडितः ।

रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ॥ ७५ ॥

" क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा ।

तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ॥ ७६ ॥

तमिष्टविषयोपेतं " सुहृद्भिरभिसंवृतम् ।

क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ॥ ७७ ॥

• जङ्घाऽऽश्रयाः, रोहिणीसिराः = लोहिताः सिरा इत्यर्थः । १ पित्तज्वरसम: - पित्तज्वर • लिङ्गयुक्तः, स चाप्यस्य विधिः = पित्तज्वरचिकित्सेत्यर्थः । २ तृष्णानिरोधजे दाहे चिकित्सां वक्ति- तृष्णेति । प्रब्धातौ = रसे, तेजः --पित्तोष्मा, समुद्धतं = श्रत्यन्तवृद्धः । ३ निष्कृष्य = निःसार्य, चेष्टते = हस्तपादादिवि-क्षेपणं करोति । ४ तत्र = तृष्णानिरोधजे दाहे, तेजः = पित्तोष्माणम् । ५ ईरितं = कथितम्, विधि - पित्तज्वरहर विधानम् । ६ श्रवगाढशस्त्र प्रहारजनितपूर्णकोष्ठजदाइलक्षणं तच्चिकित्सां च ब्रवीति - असृजे-ति I ७ “ तस्मिन् भिन्नै रक्तपूर्णे ” इत्यादिना तत्रोक्तः । ८ धातुक्षयजदाह-लक्षणं तश्च्चिकित्सां च दर्शयति- धात्विति । ९ क्षामस्वरः = दुर्बलस्वरः, क्रिया-होनः = निश्चेष्ट इत्यर्थः । १० रक्तजदादलक्षणं तच्चिकित्सां च निर्दिशति - क्षतजेनेति । श्रश्नतः = भोजनं कुर्वतः । ११ इष्टविषयोपेतं = अभिलषितशब्दस्पर्शादिसंयुक्तम्, अभिसंवृतं = समन्ततः परिवृतमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1334

सुश्रुत संहिता चौखम्बा, पृष्ठ 1334 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११७६ सुश्रुतसंहितायां-[ अ ० ४८ Digitized by Arya Samaj Foundation Chennai and eGangotri

मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः ।

सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ॥ ७८ ॥

एवंविधो भवेद्यस्तु मदिरामयपीडितः ।

प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् ॥ ७ ९ ॥

संजीर काण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्द्धजलप्लुतानि ।

मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ॥ ८० ॥

जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् ।

पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ॥ ८१ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम ( नवमोऽध्यायः, आदितः ) सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥

अष्टचत्वारिंशोऽध्यायः ।

अर्थातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सततं यः पिबेद्वारि न तृप्तिमधिगच्छति ।

पुनः काङ्ङ्क्षति तोयञ्च तं तृष्णाऽर्दितमादिशेत् ॥ ३ ॥

१ मर्माभिघातजदाहमभिदधाति — मर्मेति । मर्माणि शिरोहृदयबस्त्यादीनि । २ प्रशान्तोपद्रवे = निवृत्त तृष्णाऽऽदिके, ' आतुरे ' इति शेषः । १३ मद्यसेवन विधिमभि. धत्ते - सजीरकाणीति । तन्त्रान्तरे मात्रा कथिता - " शुद्धकायः पिबेन्मद्यं सोपदंशं पलद्वयम् । मध्याह्ने द्विगुणं तच्च सुस्निग्धं भक्षयेदनु ॥ प्रदोषेऽष्टपलं तद्वन्मात्रा मद्य-रसायने । अनॆन विधिना सेव्यं मद्यं नित्यमतन्द्रितैः ॥ ” इति । ४ उपदंशः मद्य-पानरोचकद्रव्यम् । ५ पानजान् रोगानित्यर्थः । मनोनुविघ्नं = मनोविघातकम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकाय चिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तचत्वारिंशोऽध्यायः । अष्टचत्वारिंशत्तमोऽध्यायः । ६ पानात्ययप्रतिषेधानन्तरं तुल्यचिकित्सितत्वात् तृष्णाप्रतिषेधमधिकरोति — अथे-ति । तृष्णा = पिपासा । ७ तृष्णायाः सामान्यलक्षणं निरूपयति — सततमिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1335

सुश्रुत संहिता चौखम्बा, पृष्ठ 1335 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४८ ] Digitized by Arya Samaja chennai and eGangotri ११७७

सङ्क्षोभशोकश्रममद्यपानाद्रक्षाम्लशुष्कोष्णकटूपयोगात् ।

धातुक्षयाल्लङ्घनसूर्य्यतापात् पित्तञ्च वातश्च भृशं प्रवृद्धौ ॥ ४ ॥

स्रोतांसि सन्दूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि ।

स्रोतः स्वपांवाहिषु दूषितेषु जायेत तृष्णा प्रबला ततस्तु ॥ ५ ॥

तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च ।

• स्यात्सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ॥ ६ ॥

तौल्वोष्ठकण्ठारय विशोषदाहाः सन्तापमोहभ्रमविप्रलापाः ।

' पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ॥ ७ ॥

शुष्कौस्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि ।

स्रोतोनिरोधो विरसञ्च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ॥ ८ ॥

मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः ।

शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपर्नञ्च ॥ ९ ॥

सततं = निरन्तरम् । १ तृष्णाया निदानं सम्प्राप्ति च दर्शयति - सङ्घोभेति । सङ्क्षोभः = प्रत्यर्थं चलनम् । २ अम्बुवाहीनि स्रोतांसीति सम्बन्धः । श्रम्बुवाहोनि = जलवाहीनि, स्रोतांसि = जिह्वागल तालुक्लोमजानि रसवाहिन्यश्च घमन्यः । चरकेऽप्यु • क्तम्– “ रसवाहिनीश्च धमनीजिह्वा मूल गलतालुकक्लोग्नः । संशोष्य नृणां देहे कुरुत • स्तृषमतिबलौ दौ तु ॥ ” इति । ३ तृष्णायाः संख्यामाख्याति - तिस्र इति 1 । वातपित्तकफजा स्तिस्र इत्यर्थः । क्षतजा == वर्णानिमित्ता, क्षयात् = रसक्षयात्, श्रमसमुद्भवा = श्रजीर्णजा 1 । दृढबलेन तु पञ्च तृष्णाः पठिताः-- " वातपित्त दयामोपसर्गजाः " इति । तत्र कफजा श्रमजायामेवावरुद्धा, क्षयजा वातजायाम्, भक्तजा च वातजायाम् । ४ भक्तनिमित्तजा = स्निग्धादि भोज-ननिमित्तेत्यर्थः । ५ तृष्णायाः पूर्वरूपमाख्याति तात्विति । विशेषेण शोषो विशोषः । ६ वातजतृष्णालक्षणं वक्ति - शुष्कास्यतेति । शुष्कास्यता = शुष्कमुखत्वम्, शङ्खशिरःसु = शङ्खयोः शिरसि च तोद इत्यर्थः । ७ स्रोतोनिरोधः = कर्णस्रोतोनि-रोधः, रसाम्बुवाहिनीघमनीनिरोध इति विजयरक्षितः । विरसं चेति चकाराच्चरको. क्तनिद्रानाशस्य ग्रहणम् । यदाह चरकः - “ निद्रानाशः शिरसो भ्रमस्तथा शुष्कगल-तालुः ॥ ” इति! ८ पित्तजतृष्णाया लक्षणं ब्रवीति - मूर्च्छति । मूर्च्छा = चेतनाच्युतिः, प्रलापः--विलापः, प्रततः शोषः = श्रविरतः शोषः । ९ परिधूपनं = धूमस्योद्गिरणमिव । चका • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1336

सुश्रुत संहिता चौखम्बा, पृष्ठ 1336 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११७८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४८

कफौवृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम् ।

निद्रागुरुत्वं मधुरास्यता च तथाऽर्दितः शुष्यति चातिमात्रम् ॥ १० ॥

कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरच्छर्दिर रोचकश्च । कैफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव । एतानि रूपाणि भवन्ति तस्यां तयाऽदितः काङ्क्षति नाति चाम्भः ११ क्षैतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु । तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् १२

रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च ।

अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः ॥ १३ ॥

रसंक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग् व्यवस्येत् ।

त्रिदोषलिङ्गाऽऽम समुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता ॥ १४ ॥

स्निग्धं तथाऽम्लं लवणञ्च भुक्तं गुवन्नमेवाति तृषां करोति । रात् पीतविण्मूत्रनेत्रत्वादयो ग्राह्याः । १ कफजतृष्णालक्षणमभिधत्ते - कफेति । अनिलानलाभ्यां = वातपित्ताभ्याम् । २ तयाऽर्दितः = कफजतृष्णया पीडितः । ३ चरके कफजा तृष्णा न पठिता । भगवता सुश्रुतेन चिकित्साभेदार्थं पठिता । हारोतेनापि सपित्तेनैव श्लेष्मणा तृष्णा पठिता, न तु केवलेन । यदाह - " स्वाद्वम्लल-वणाजीर्णैः क्रुद्धः श्लेष्मा सहोष्मणा । प्रपद्याम्बुवहं स्रोतस्तृष्णां सञ्जनयेन्नृणाम् ॥ शिरसो गौरवं तन्द्रा माधुर्यं वदनस्य च । भक्तद्वेषः प्रसेकश्च निद्राऽऽधिक्यं तथैव च ॥ एतैर्लिङ्गेर्विजानीयात्तृष्णां कफसमुद्भवाम् । " इति । शाखासु = बाहुपादेषु । ४ क्षतजतृष्णाया लक्षणमभिदधाति - क्षतस्येति । क्षतस्य = • शस्त्रादिशस्त्रयुक्त. स्येत्यर्थः । ५ क्षयशब्दस्यानैकविषयत्वात् क्षयजां तृष्णां विशेषयन् तल्लक्षणं निर्दि-शति - रसेति । ६ रसक्षयोक्तानि लक्षणानि " रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णता च ” इति सूत्रस्थाने भगवता सुश्रुतेनैव प्रतिपादितानि । तस्यां क्षयजतृ • ष्णायाम्, व्यवस्येत् = जानीयादित्यर्थः । ७ आमजतृष्णालक्षणं दर्शयति - त्रिदोषेति । त्रिदोषलिङ्गा = त्रिदोषलिङ्गयुक्ता, आमे ह्यजीर्णात्त्रिदोषकोपः स्यात् । तदुक्तं सुश्रुतेनैव – “ श्रजीर्णात् पवनादीनां विभ्र. मो बलवान् भवेत् ” इति । निष्ठीवनं = लोके ' थुकथुकी ' इति प्रथितम्, सादः == अङ्गग्लानिरित्यर्थः । ८ भक्तजतृष्णालक्षणमाख्याति - स्निग्धमिति । लवणं चेति चकारात् कटु च, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1337

सुश्रुत संहिता चौखम्बा, पृष्ठ 1337 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४८ ] Digitized by Arya Samrat रस Chennai and eGangotri ११७ ९ क्षीणं विचित्तं बधिरं तृषार्त्तं विवर्जयेन्निर्गतजिह्वमाशु ॥ १५ ॥

तृष्णाभिवृद्धावृदरे च पूर्णे तं वामयेन्मागधिकोदकेन ।

विलोभनं चात्र हितं विधेयं स्यादाडिमाम्रातकमातुलुङ्गैः ॥ १६ ॥

तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्य्यजातैः ।

गण्डूषमैम्लैविरसे च वक्त्रे कुर्य्याच्छुभैरामलकस्य चूर्णैः ॥ १७ ॥

सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टः कृतं वा सिकतादिभिर्वा ।

जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा ॥ १८ ॥

पञ्चौङ्गिकाः पञ्चगणाः य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा ।

पिबेत्सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः ॥१९ ॥

पित्तघ्नवस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः ।

पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः ॥ २० ॥

बिल्वाढकीकन्यक पञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति ।

हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन ॥ २१ ॥

सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्य्याद्विधिं तेन हि ता " न सन्ति ।

" पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्कथितोदकं वा ॥ २२ ॥

तुतिक्तकषायमधुराणीत्यर्थः । तन्त्रान्तरीयोपसर्गजालक्षणम् - " दीनस्वरः प्रताम्यन् दीनः संशुष्कवक्त्र गलतालुः । भवति खलु योपसर्गातृष्णा सा शोषिणी कष्टा ॥ ” इति । उपसर्गास्तु— “ ज्वरमोहक्षय कासश्वासाद्युपसृष्टदॆहानाम् ” इति । १ तृष्णायाः सामान्यविधिमभिधत्ते – तृष्णेति । वामयेत् = क्षयजां विहाय छर्दयेत् । तदुक्तं तन्त्रान्तरे - " उल्लेखनं तु तृष्णासु क्षयादन्यत्र युज्यते ” इति । मागधिकोदकेन = पिप्पलीमिश्रितोदकेनेत्यर्थः । २ तिस्रः = वातपित्तकफजास्तृष्णाः, प्रयोगः- वक्ष्यमाणैः । ३ अम्लैः: - मातुलुङ्गादिभिरम्लैरित्यर्थः । ४ हिमं = हिमीकृतमित्यर्थः । ५ वातज तृष्णा चिकित्सितं वक्ति - पञ्चाङ्गिका इति । पञ्चाङ्गिकाः पञ्चगणाःपञ्च पञ्चमूलानि, प्रथमे गणे = विदारिगन्धादौ । ६ पितृष्णा चिकित्सामभिदधाति -पित्तघ्नेति । पित्तघ्नवर्गः काकोल्यादिप्रभृतिः । ७ जीवनीयैः = काकोल्यादिभिः । ८ कफजतृष्णाचिकित्सामाचष्टे - बिल्वेति । कन्यकपञ्चमूली = लघुपञ्चमूलम् । ९ नि. -म्बप्रसवोदकेन = निम्ब पल्लव क्वाथेनेत्यर्थः । १० ताः = तृष्णाः, न सन्ति: = न भवन्ति । ११ पर्यागतोदुम्बरजः = पक्कोदुम्बरजः, तत्कथितोदकं = पक्कोदुम्बरक्कथितजलम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1338

सुश्रुत संहिता चौखम्बा, पृष्ठ 1338 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४८

वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषात्तैः ।

कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं चतजां निहन्ति ॥ २३ ॥

लौजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु । तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं वदन्ति ॥ २४ ॥..

द्राक्षाप्रगाढच हिताय वैद्यस्तृष्णाऽर्दितेभ्यो वितरेन्नरेभ्यः ।

ससारिवादौ तृणपञ्चमूले तथोपलादौ प्रथमे गणे च ॥ २५ ॥

कुर्य्यात्कषायञ्च यथेरितेनं मधूकपुष्पादिषु चापरेषु ।

राजादनक्षीरिकँपीतनेषु षट्पानकान्यत्र हितानि च स्युः ॥ २६ ॥

सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि ।

क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः ॥ २७ ॥

क्षयोत्थितां ० क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा ।

आमोद्भवां " बिल्ववचायुतैस्तु जयेत्कषायैरथ दीपनीयैः ॥ २८ ॥

आम्रातभल्लातबलायुतानि पिवेत्कपायाण्यथ दीपनानि ।

गुर्वन्नजात " " वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् ॥ २ ९ ॥

श्रमोद्भवां'३ मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः । १ क्षतजतृष्णायाश्चिकित्सामभिधत्ते - कशेविति । मोचा = कदली, ' कदली वारणबुसा रम्भा मोचांशुमत्फला '. इत्यमरः । २ क्षतजतृष्णायां योगान्तरं निर्दि. शति - लाजेति । ३ उदारगन्धि = सुगन्धिपुष्पाधिवासितम् । ४ वितरेत् = दद्यात् । ५ प्रथमे गणे = विदारिगन्धादौ । ६ यथेरितेन = पूर्वोक्तविधानेन, लाजादिं दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेप इति विधिनेत्यर्थः । मधूकपुष्पा-दिषु श्रादिशब्दाच्छोभाञ्जनकोविदारप्रियङ्गुपुष्पेषु । ७ क्षीरिकपीतनः = आर्द्रशिरीषः, पानकानि = कषायाणि । ८ तुण्डिकेरी = वनकार्पासी, कार्पाससमुद्भवानि = ग्राम्य-कार्पासफलानीत्यर्थः । ९ रसानां = मांसरसानाम् असृजः एणादिरुधिरस्य । १० क्षयजतृष्णायाश्चिकित्सितं वक्ति - क्षयोत्थितामिति । क्षीरमथनोत्थं घृतं क्षीर-घृतम् । ११ श्रामजतृष्णायाश्चिकित्सामाचष्टे - आमोद्भवामिति । दीपनोयैः = पिप्पल्या. दिकृतैः । १२ भक्तजतृष्णायाश्चिकित्सामाख्याति - गुर्वन्नजातामिति । क्षयादृते = क्षयजां तृष्णां विहायेत्यर्थः । तन्त्रान्तरेऽपि - " उल्लेखनं तु तृष्णासु क्षयादन्यत्र युज्यते " इति । १३ प्रसङ्गाच्छमादिजानां तृष्णानां चिकित्सां दर्शयति - श्रमोद्भवामिति । भक्तो. परोधात् = आहारावरोधात, वातोरकटतृष्णायां यवागं पित्तोत्कटतृष्णायां हिमं मन्थं च CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1339

सुश्रुत संहिता चौखम्बा, पृष्ठ 1339 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ९ ] Digitized by Arya Samgration hennai and eGangotri तरतन्त्रम् pnnai. ११८१ भक्तोपरोधात् तृषितो यपागृमुष्णां पिवेन्मन्थमथो हिमं च ॥ ३० ॥

या स्नेहपोतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिवेन्मनुष्यः ।

मद्योद्भवामर्द्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ॥ ३१ ॥

तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः ।

स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ॥। ३२ ॥

लेपावगाह परिषेचनानि कुर्य्यात्तथा शीतगृहाणि चापि ।

संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ॥ ३३ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ( दशमोऽव्यायः, आदितः ) अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

एकोनपञ्चाशत्तमोऽध्यायः ।

अथा " श्छदिप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति ।

अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ॥ ३ ॥

श्रमात् क्षयात्तथोद्वेगौद जीर्णात् कृमिदोषतः ।

नायश्चापन्न सत्त्वायास्तथाऽतिद्रुतमश्नतः ॥ ४ ॥

अत्यन्तामपरीतस्य छर्देवै सम्भवो ध्रुवम् । पिबेदित्यर्थः । १ तृष्णासु प्रागुक्तं पित्तहरविधिमभिधत्ते - लेपेति । विरेचनमित्यर्थः । २ संशोधनं = इति सुश्रुत संहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मष्टचत्वारिंशोऽध्यायः । एकोनपञ्चाशत्तमोऽध्यायः । ३ तृष्णाप्रतिषेधानन्तरं तुल्यचिकित्सितत्वाच्छर्दिप्रतिषेधमधिकरोति — अथेति । छर्दिः = वमिरित्पर्थः । ४ छर्दिनिदानमाद – आतद्रवैरिति । श्रहृद्यैः = अप्रियैः । ५ उद्वेगात् = उद्वेजनात् । ६ आपन्नसत्त्वायाः = गर्भिण्याः, ' आपन्नसत्त्वा स्याद् गुर्वि -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1340

सुश्रुत संहिता चौखम्बा, पृष्ठ 1340 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८२ Digitized by Arya Samaसुश्रुतसंहिताय ran eGangotri [ अ ०४ ९ बीभत्सैर्हेतुभिश्चान्यैर्द्रतमुत्क्लेशितो बलात् ॥ ५ ॥

छादेयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः ।

निरुच्यते छदिरिति दोषो वक्त्राद्विनिश्चरन् ॥ ६ ॥

दोषौनुदीरयन् वृद्धानुदानो व्यानसङ्गतः ।

ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ॥ ७ ॥

प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम् ।

पूर्वरूपं मतं छर्द्या यथौस्वं च विभावयेत् ॥ ८ ॥

प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः ।

श्रान्तः सघोषं बहुशः कंषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ॥ ९ ॥

योऽलं ' भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा ।

सदाह चोषज्वरवक्त्रशोषो मूर्च्छाऽन्वितः पित्तनिमित्तजा सा ॥ १० ॥

यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम् ।

" अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ॥ ११ ॥

११ सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु । बीभत्सजा " दौहृदजाऽऽमजा च सात्म्यप्रकोपात्कृमिजा च या हि । ण्यन्तर्वत्नी च गर्भिणी ' इत्यमरः । श्रतिद्रतम् = अतिशीघ्रम् । १ बीभत्सैः = विकृतै -र्हेतुभिरित्यर्थः । २ छर्दिनिरुक्ति वक्ति - छादयन्निति । छादयन् - पूरयन्, प्रर्दयन् = श्रङ्गानि पीडयन्, अङ्गभञ्जनैः - अङ्गभेदैः । ३ छदिसम्प्राप्तिमभिदधाति - दोषानिति । व्यानसङ्गतः= व्यानेन वायुना मिलित इत्यर्थः । ४ छर्दिपूर्वरूपमाह - प्रसेक इति । प्रसेकः = मुखप्रसेकः । ५ यथास्वं = यथाऽऽत्मीय मित्यर्थः । ६ वातजच्छदिलक्षणमाख्याति - प्रच्छर्दयेदिति । श्रभ्यदितपाश्र्वपृष्ठः = पीडित-पार्श्वपृष्ठः । ७ कषायं = कषायरसमित्यर्थः । पित्तच्छर्दिलक्षणमभिधत्ते-योऽम्लमिति । कटुतिक्तवक्त्रः = कटुतिक्तमुखः । ९ कफजच्छर्दिलक्षणमभिदधाति -य इति । सान्द्रकफानुविद्धं = घनकफमिश्रम् । १० अभक्तरुक् = अन्नानभिलाष इत्यर्थः । ११ सान्निपातकच्छर्दिल क्षणमाचष्टे - सर्वाणीति । सर्वाणि रूपाणि = वातजादिस-मस्तच्छदिरूपाणीत्यर्थः । तन्त्रान्तरे— “ शूलाविपाकारुचिदाह तृष्णा श्वासप्रमोह प्रबला प्रसक्तम् । छर्दिस्त्रिदोषाल्लवणाम्लनील सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥ ” इति । १२ श्रागन्तुजच्छदिंलक्षणमाचष्टे - बीभत्सजेति । बीभत्सजा = पूयामेध्यादिदर्शनगन्ध • CC - 0. Gurukul Kangri Collection, Haridwar