सुश्रुत संहिता चौखम्बा — पृष्ठ 1341–1350
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1341–1350
पृष्ठ 1341
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ९ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११८३ सा पञ्चमी ताञ्च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ ॥ १२ ॥
शूलैहृल्लासबहुला कृमिजा च विशेषतः ।
कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ॥ १३ ॥
क्षीणस्योपद्रवैर्युक्तां सासृकपूयां सचन्द्रिकाम् ।
छर्दि प्रसक्तां कुशलो नारभेत चिकित्सितुम् ॥ १४ ॥
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु । ( विधीयते मारुतां विना तु संशोधनं वा कफपित्तहारि १५ )
वमीषु बहुदोषासु छर्दनं हितमुच्यते ।
विरेचनं वा कुर्वीत यथादोपोच्छ्रयं भिषक् ॥ १६ ॥
संसर्गं नुपूर्वेण यथास्वं भेषजायुतः ।
लघूनि परिशुष्कारिण सात्म्यान्यानि चाचरेत् ॥ १७ ॥
यथास्वञ्च कषायाणि ज्वरघ्नानि प्रयोजयेत् ।
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसम्भवाम् ॥ १८ ॥।
ससैन्धवं १'पिबेत्सपिर्वातच्छर्दिनिवारणम् । स्वादजा, दौर्हृदजा = गर्भिण्याः स्त्रिया दौर्हृदालाभजा, श्रमजा = अजीर्णजा, असा-त्म्यजा ' श्रसात्म्य भक्षणादिसम्भूता क्रिमिजा = कोष्ठक्रिमिसम्भूता । एताः पञ्चापि श्राग-न्तुजत्वेन साम्यादेकैव बोध्याः । १ विभावयेत् = अनुबन्धयेत्, आदौ = वातादिलक्षणे । २ क्रिमिजच्छर्देविंशिष्टलक्षणमाह – शूलेति । क्रिमिजाया अयं विशेषः — हृच्छू ' लहल्ला साधिका क्रिमिजहृदरोग तुल्यलक्षणेन च लक्षिता । यथा - " उत्क्लेशः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः । श्ररुचिः श्यावनेत्रत्वं शोषश्च क्रिमिजे भवेत् ॥ ” इति । ३ सर्वासामसाध्य लक्षणमाख्याति - क्षीणस्येति । छर्देरुपद्रवास्तु – “ कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्यमेव च । हृद्रोगस्तमकश्चैव ज्ञेयाश्छदेरुपद्रवाः ॥ " इति । सचन्द्रिकां = मयूरपिच्छचन्द्रिकाप्रभायुक्ताम्, मेदःप्रभृतिधातूनां स्नेहः प्रवर्तमानो मयूरपिच्छचन्द्रिकावत् प्रतिभाति । ४ प्रसक्तां = निरन्तरप्रवृत्तामित्यर्थः । ५ सामान्येन सर्वासामपि छदनां चिकित्सां निर्दिशति - आमाशयेति ॥ ता-सु = छर्दिषु । ६ यथादोषोच्छ्रयं = दोषाधिक्यमवेदय । ७ संसर्गः = अन्नसंसर्गः, अनुक्रमेण = यथाक्रमेण, मण्डपेयाविलेप्यादिक्रमेणेत्यर्थः । ८ परिशुष्काणि = शष्कु-लीलाजादीनि । ९ वातजच्छदिचिकित्सां दर्शयति- हन्यादिति । क्षीरमथनोत्थं घृतं क्षीरघृतम् । १ ९ वाग्भटेऽपि - " हन्ति मारुतजां छर्दि सर्पिः पीतं ससैन्धवम् ” इति CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1342
पाठ पढ़ें पाठ छिपाएँ
११८४ Digitized by Arya Samajसुश्रुतसंहितायां ation Chennai and eGangotri [ अ ० ४ ९
मुद्रामलकयूष वा ससर्पिष्कः ससैन्धवः ।
यवागूं मधुमिश्रां वा पञ्चंमूलीकृतां पिबेत् ॥ १ ९ ॥।
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् ।
सुखोष्णलवणं चात्र हितं स्नेह विरेचनम् ॥ २० ॥
पिंत्तोपशमनीयानि पाक्यानि शिशिराणि च ।
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् ॥ २१ ॥
शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः ।
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च ॥ २२ ॥
आरग्वधादिनिर्यहं दशाङ्गयोगमेव वा ।
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः ॥ २३ ॥
कृतं “ गुडूच्या विधिवत्कषायं हिमसंज्ञितम् ।
तिसृष्वपि भवेत्पथ्यं माक्षिकेण समन्वितम् ॥ २४ ॥
बीभत्सजां " हृद्यतमै दौहृदीं काङ्क्षितैः फलैः । १ पञ्चमूलीकृतां - शालपर्ण्यादिकेन बिल्वादिकेन वा कृतामित्यर्थः । २ व्यक्त · सिन्धूत्थं = प्रकटलवणम्, फलाम्लं = दाडिममातुलुङ्गादिफलेनाम्लीकृतम्, वैष्किरं = लावादिमांसरसम् । ३ सुखं सुखकरमुष्णं लवणं यस्मिन् तत् सुखोष्णलवणम् । “ कोष्णं सलवणं चात्र हितं स्नेहविरेचनम् " इति वाग्भटः । स्नेहेन एरण्डतैलादिना विरेचनं स्नेहविरेचनम् । ४ पित्तजच्छर्दिचिकित्सामाचष्टे - पित्तेति । पित्तोपशमनीयानि पित्तज्वरशम-नानि, पाक्यानि = शृतानि, शिशिराणि = शीतकषायाणि । ५ वमनं विरेचनं वा शोधनम् । ६ तैल्वकं सर्पिर्वातव्याधौ द्रष्टव्यम् । ७ कफजच्छदिचिकित्सामाख्याति-आरग्वधाविति । निर्यूहः = काथः, दशाङ्गयोगं = कफज्वरोकं " कटुका चित्रकम् ” इत्यादिकं मरिचरहितम् । 2 ८ सन्निपातजायाश्छर्देश्चिकित्सितं ब्रवीति -- कृतमिति । हिमसंज्ञितं शीतक -षायाख्यम् । “ द्रव्य।दापोत्थितात्तोये प्रतप्ते निशि संस्थितात् । कषायो योऽभिनिर्याति स शीतः समुदाहृतः ॥ षभिः पलैश्चतुर्भिर्वा सलिलाच्छी फाण्टयोः । श्राप्लुतं भेष-जपलं रसाख्यस्य पलद्वयम् ॥ ” इति । ९ तिसृषु = वातपित्तकफजासु, अपिशब्दात् रून्निपात जास्वपि । १० बीभत्सजायाश्चिकित्सां प्रतिपादयति-- बीभत्सजामिति । दौर्हृदीं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1343
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ९ ] Digitized by Arya Samajhehnai and eGangotri लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् ॥ २५ ॥
११८५
कृमिहृद्रोगवच्चापि कृमिजां सावयेद्वमीम् ।
वितरेच्च यथादोषं शस्तं विधिमनन्तरम् ॥ २६ ॥
दवित्थे रससंयुक्तां पिप्पलीं माक्षिकान्विताम् ।
मुहुर्मुहुर्नरो लीवा छर्दिभ्यः प्रविमुच्यते ॥ २७ ॥
समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना ।
तर्पणं वा मधुयुतं तिसृणामपि भेषजम् ॥ २८ ॥
स्वयैङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम् ।
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः ॥ २ ९ ॥
युक्ताम्ललवणाः पिष्टा कुस्तुम्बुय्र्योऽथवा हिताः ।
तण्डुलाम्बुयुतं खादेत्कपित्थं न्यूषणेन वा ॥ ३० ॥
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत् ।
पिवेत् पयोऽग्नितप्तञ्च निर्वाप्य गृहगोधिकाम् ॥ ३१ ॥
सर्पिः क्षौद्रयुतान् वाऽपि लाजसक्तून् पिबेत्तथा ।
सापः क्षौद्रसितोपेतां " मागधीं वा लिहेत्तथा ॥ ३२ ॥
धात्रीरसे चन्दनं वा घृष्टं मुद्गद्लाम्बु वा ।
कोलाम लकमज्जानं लिह्याद्वा " त्रिसुगन्धिकम् ॥ ३३ ॥
सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः । दौर्हृदविमानन जातां वमिम् । १ सात्म्यप्रकोपजां = सात्म्य परित्यागजाम् । २ सा-मान्येन छर्दिचिकित्सामाह -- दधित्थेति । दधित्थः = कपित्थः । ३ मधुरसा = मूर्वा, तण्डुलाम्बुना = तण्डुलप्रक्षालन जलेन । ४ लाजसक्तुकृतं तर्पणमित्यर्थः । तिसृणां = वातपित्तकफजानां छदींनाम् । ५ स्वयङ्गुप्तां = कपिकच्छूम्, तण्डुलाम्बुमधुद्रवां-- तण्डुलाम्बुमधूनि द्रवेयस्यां सा तथोक्ताम् । ६ कुस्तुम्बुय: = धान्यकाः । ७ त्र्यूषणेन = त्रिकटुकेन । ८ चन्दनं = रक्तचन्द-नम्, मक्षिकाशकृत = मक्षिकापुरीषम् । ९ पयः = जलम् । गृइगोधिकाशब्देन वरमठीकृतं मृन्मयंगृ इमुच्यत इति निबन्धसङ्ग्रहव्याख्याकारः । १० मागधीं = पिप्पलीम् । ११ त्रिसुगन्धिकं = त्रिजातकम् । " त्वगेलापत्र कैस्तुल्यै त्रिसुगन्धि त्रिजा • ७५ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1344
पाठ पढ़ें पाठ छिपाएँ
११८६ सुश्रुतसंहितायां -Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ० ५० घेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ॥ ३४ ॥
जाङ्गलानि च मांसानि शुभानि पानकानि च ।
भोजनानि विचित्राणि कुर्य्यात्सर्वास्वतन्द्रितः ॥ ३५ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छदिंप्रतिषेधो नाम ( एकादशोऽध्यायः, आदितः ) एकोनपञ्चाशत्तमोऽध्यायः ॥ ४ ९ ॥
पञ्चाशत्तमोऽध्यायः ।
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः । २ ॥
विदाहिगुरुविष्टम्भिरुक्षाभिष्यन्दिभोजनैः ।
शीतपानासनस्थानरजोधूमानिलानलैः ॥ ३ ॥
व्यायामकर्मभाराध्ववेगौघातापतर्पणैः ।
आमदोषाभिघात स्त्री क्षयदोषप्रपीडनैः ॥ ४ ॥
विषमाशनाध्यशनैस्तथा समशनैरपि । तकम् ” इति तन्त्रान्तरम् । १ प्रेयाणि = सुगन्धद्रव्याणि । २ विचित्राणि = अनेक विधानीत्यर्थः । श्रतन्द्रितः = अनलसः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत काय चिकित्सातन्त्रे सुधाऽख्यटिप्पन्या-मेकोनपञ्चाशोऽध्यायः । पञ्चाशत्तमोऽध्यायः । ३ छर्दिप्रतिषेधानन्तरं तुल्यसंख्यश्वाद् हिक्काप्रतिषेधमधिकरोति — अथेति । हिक्कति ऊर्ध्वे वातप्रवृत्तौ हिगिति शब्दविशेषं करोतीति हिक्का " गुरोश्च इलः " " इत्यः । हिक्का = ' हिचकी ' इति ख्याता । ४ हिक्कार्या निदानमभिधत्ते - विदा-हीति । विदाहीनि = विदहनशीलानि, गुरूणि = गुणतः पाकतश्च, विष्टम्भीनि = करी • रादीनि, रूक्षाणि = चणकादीनि, श्रभिष्यन्दीनि = अभिष्यन्दनशीलानि फाणितमाषम • रस्यक्षीरादीनि । ५ वेगाघातः = मलादिवेगधारणम्, अपतर्पणम् = अनशनादि । लक्षणम् - " ऊष्मणोऽल्पबलत्वेन धातुमान्द्यादपाचितम् । प्रचक्षते ॥ ” इति । ६ श्रामदोषस्य दुष्टमामाशयगतं रसमामं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1345
पाठ पढ़ें पाठ छिपाएँ
अ ० ५० ] उत्तरतन्त्रम् Chennai: Digitized by Arya Samaj Foundation Chennai and eGangotri ११८७ हिक्का श्वासश्च कांसश्च नृणां समुपजायते ॥ ५ ॥
मुहुर्मुहुर्वायुरुदेति सम्वनो यकृत्हिान्त्राणि मुखादिवाक्षिपन् ।
स घोषवानाशु हिनेस्त्यसून्यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ॥६ ॥
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा ।
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ॥ ७ ॥
मुखं कषायमरतिगौरवं कण्ठवक्षसोः ।
पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ॥ ८ ॥
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम् ।
वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ॥ ९ ॥
हिक्कत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ।
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्त्तते ॥ १० ॥
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ।
" विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ॥ ११ ॥
१ हिक्कानां स्वरूपं निरुक्तिं च वक्ति - मुहुरिति । वायुरत्र सोदानप्राणो ' बोद्ध-व्यः । उदेति = ऊर्ध्वं याति, सस्वनः = हिगिति शब्दवान् । ऊर्ध्वगमनमेव विशिनष्टि-यकृदिति । प्लिहेति हस्वेकारश्छन्दोऽनुरोधात् । मुखादिति व्यलोपे पञ्चमी, तेन यकृ · प्लीहान्त्राणि मुखमानीय श्राक्षिपन् निःसारयन्निवेत्यर्थः । मुखादिवेत्यत्र मुखशब्देन प्राणोदकान्नवाहीनि स्रोतांसि भण्यन्ते । तदुक्तं तन्त्रान्तरे – “ प्राणोदकान्नवाहीनि स्रोतांसि विकृतोऽनिलः । हिक्काः करोति संरुध्य तासां लिङ्गं पृथक्छृणु ॥ ” इति । २ ' हिनस्त्यसून् ' इति हिक्केति निरुक्तिः । एतादृशे विग्रहे पृषोदरादित्वाद् रूपसि · द्धिर्बोध्या । ३ हिक्कानां भेदं सम्प्राप्ति चाभिधत्ते - अन्नजामिति । अन्नजायाः साध्यत्वेन प्राशस्यात् पूर्वमभिधानम् । चरके यमलैव व्यपेतेति नाम्ना पठिता । ४ हिक्कान पूर्वरूपं दर्शयति - मुखमिति । अरतिः = चेतसोऽनवस्थितिः । ५ श्रन्नजालक्षणम. भिदधाति — त्वरमाणस्येति । घनं = गुरुमन्नम् । ६ श्रवस्तीर्णः = श्राच्छादितः । ७ ‘ हिक्क हिंसायाम् ' इति चुरादिः । ८ यमलालक्षणं निर्दिशति - चिरेणेति । यमलैर्वेगैः = युग्मैरुपक्रमैरित्यर्थः । ९ शिरोग्रीवमित्युपलक्षणम्, तेन चरकोक्तप्रलापमूर्च्छावमितृष्णावैचित्य जृम्भाविप्लुता-क्षत्वमुखशोषा बोध्या इति गयदासः । १० क्षुद्रालक्षणमभिधत्ते - विकृष्टेति । विकृ-ष्टकालैः = अचिरकालैरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1346
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां -११८८ Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ०५०
क्षुद्रिका नाम सा हिक्का जत्रमूलात् प्रधाविता ।
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ॥ १२ ॥
शुष्कोष्ठकण्ठजिह्वास्यश्वासपार्श्व रुजाकरी ।
अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता ॥ १३ ॥
मर्माण्यापीडयन्तीव सततं या प्रवर्तते ।
देहमायम्य वेगेन घोषयत्यतितृष्यतः ॥
माहिति सा ज्ञेया सर्वगात्रप्रकम्पिनी ॥ १४ ॥
आर्यम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्योध्व ताम्यते यस्य गाढम् । क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्क मानौ १५
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः सम्भ्रमश्चात्र शस्तः ।
यष्ट्रया वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः ॥ १६ ॥
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छंदैनं शान्तिहेतोः ।
नारीपयःपिष्टमशुक्लैचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा ॥ १७ ॥
चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्काञ्च हितञ्च नश्यतः ।
युञ्जयाद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा ॥ १८ ॥
सर्पिः “ स्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्य्यम् ।
क्षौद्रोपेतं गैरिकं " काञ्चनाह्व लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा ॥१ ९ ॥
१ गम्भीरालक्षणमाख्यावि- नाभिप्रवृत्तेति । नाभितः प्रवृत्तिर्यस्याः सा । अ-साध्येयम् । २ अनॆकोपद्रवैर्त्ररश्वासतृष्णादिभिर्युक्तेत्यर्थः । ३ महती ( महाद्दिका ) -लक्षणमाचष्टे - मर्माणीति । मर्माणि = प्रधानानि बस्तिहृदयशिरांसि | ४ साध्यानामपि हिक्कानामवस्थाविशेषेण असाध्यत्वं प्रतिपादयति - आयम्यत इति । श्रायम्यते = विस्तार्यत इव दृष्टिश्चोर्ध्वं भवतीति शेषः । ५ अन्त्यौ गम्भीरा महती चेत्यर्थः । ६ हिक्कानां चिकित्सितं वक्ति - प्राणायामेति I । प्राणायामोऽत्र कुम्भक एव, न तु रेचकपूरकौ । उद्वेजनं = परुषवचनैर्मनस श्राकुलीकरणम् । ७ छर्दनं = वम • नमित्यर्थः । ८ अशुक्लचन्दनं = रक्तचन्दनम् । ९ शालनिर्यासजातं = सर्जरसो-द्भवं धूमम्, नैपालं = मनःशिलाजातं धूमम्, गोविषाणोद्भवं = गोशृङ्गजातधूमम् । १० गोचर्मबालै रित्यर्थः । ११ काञ्चनाह्व ं गैरिकं = सुवर्णगैरिकम्, ग्राम्य सत्त्वास्थिजं = गवादिग्राम्यजीवास्थि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1347
पाठ पढ़ें पाठ छिपाएँ
श्र ० ५० ] Digitized by Arya Sanchennai and eGangotri
तद्वच्छ्वाविन्मेष गोशल्लकानां रोमाण्यन्तर्धूमदग्धानि चात्र ।
मध्वोज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा ॥ २० ॥
स्वर्जिक्षारं बोजपूराद्रसेन क्षौद्रोपेतं हन्ति लीढ्वाऽऽशु हिक्काम् । सर्पिःस्निग्धा घ्नन्ति हिक्कां यवाग्वः २ कोष्णासाः पायसो वा सुखोष्णः ॥ २१ ॥
११८ ९ शुण्ठीतोये साधितं चीरमाजं तद्वत्पीतं शर्करा संयुतं वा । आतृप्तेर्वा सेव्यमानं निहन्याद् व्रातं हिक्कामाशु मूत्रं त्वजाव्योः ।२२ ।
सपूतिकीटं लशुनोग्रगन्धाहि वजमाचूर्ण्य सुभावितं तत् ।
क्षौद्रं सितां वारणकेशरञ्च पिवेद्रसेनेक्षुमधूकजेन ॥ २३ ॥
पिबेत्पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम् ।
हरीतकीं कोष्ण जलानुपानां पिबेद् घृतं चारमधूपपन्नम् ॥ २४ ॥
रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय ॥ २५ ॥
कृष्णां ' 9 सितां चामलकञ्च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि ।
कोलास्थिमज्जाञ्जनलाजचूर्ण हिक्कां निहन्यान्मधुनाऽवलीढम् ॥ २६ ॥
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी ।
खर्जूरमध्यं ' ° मागध्यः काशीशं दधिनाम च ॥ २७ ॥
चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः ।
मधुद्वितीयाः कर्त्तव्यास्ते हिक्कासु विजानता ॥ २८ ॥
भवं भस्मेत्यर्थः । १ मध्वाज्ये तुल्यभागे न देये, यतो निषिद्धम् - " भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी ” इति तन्त्रान्तरे । बर्हिपत्र प्रसूतं = मयूरपिच्छचन्द्रिकोत्पन्नं भस्मे त्यर्थः । २ कोष्णग्रासाः = ईषदुष्णकवलाः । ३ पूतिगन्धिः कीटः पूतिकीटः, उग्रग · न्वा = वचा, सुभावितं = श्रजाव्योर्मूत्रेण बहून् वारान् भावितम् । ४ वारणकेशरं = नागकेशरम् । ५ लवणोत्तमस्य = सैन्धवस्य । ६ मधु अर्धपलप्रमितम्, पिप्पली कर्षप्रमाणा । ७ कृष्णां = पिप्पलीम् । ८ श्रञ्जनं = सौवीराञ्जनम् । ९ गैरिकं = स्वर्णगैरिकम्, कटुरोहिणी = ' कुटकी ' इति ख्याता । १० खर्जूरमध्यं = खर्जूरमस्तकमज्जा, दधिनाम = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1348
पाठ पढ़ें पाठ छिपाएँ
११ ९ ० Digitized by Arya सुश्रुतसंहितायां mai and eGangotri Sama ndation कपोतपारावतलावशल्लक-श्वदं गोधावृपदंशजान् रसान् । पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ण्यमृगद्विजोद्भवान् ॥ २ ९ ॥ [ अ ०५१
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णञ्च सितोपलायुतम् ।
सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ॥ ३० ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ढिक्काप्रतिषेधोनाम ( द्वादशोऽध्यायः, आदितः ) पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
एकपञ्चाशत्तमोऽध्यायः ।
अथौतः श्वासप्रतिषेधं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
यैरेव कारणैहिक्का बहुभिः सम्प्रवर्त्तते ।
तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ॥ ३ ॥
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः । कपित्थफलम् । १ वृषदंशः = वनमार्जारः । २ मृगद्विजाः = जङ्घालविष्किराः । ३ विस्तरोक्तं चिकित्सितं सङ्क्षेपेण दर्शयति - विरेचनमिति । ४ सदागतौ = वायौ, ' श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ' इत्यमरः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चाशत्तमोऽध्यायः । एकपञ्चाशत्तमोऽध्यायः । ५ हिक्काप्रतिषेधानन्तरं समानहेतुकत्वाच्छ्वासप्रतिषेधमधिकरोति - अथेति । “ कामं प्राणहरा रोगा बद्दवो न तु ते तथा । यथा श्वासश्च हिक्का च प्राणानाशु निकृ-न्ततः ॥ ” इति तयोरात्ययिकत्व साम्यमपि बोध्यम् । ६ श्वासनिदानमभिदधाति -यरेवेति । यैरेव कारणैः = विदाह्यादिभिर्हेतुभिः । ७ श्वाससम्प्राप्तिं दर्शयति-विहायेति । प्रकृतिं विहाय = विगुणो भूत्वेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1349
पाठ पढ़ें पाठ छिपाएँ
अ ० ५१ ] Digitized by Arya Samaj dash chennai and eGangotri Fou श्वासयत्यूद्ध्वगो भूत्वा तं श्वासं परिचक्षते ॥ ४ ॥
क्षुद्रकस्तम कश्छिन्नो महानूर्ध्वश्च पञ्चधा ।
भिद्यते स महाव्याधिः श्वास एको विशेषतः ॥ ५ ॥
प्रोग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा ।
आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ॥ ६ ॥
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्त्तते ।
निषण्णस्यैति शान्तिञ्च स क्षुद्र इति संज्ञितः ॥ ७ ॥
तृट्स्वेदवमथुप्रायः कण्ठघुघुरिकान्वितः । ५ ११ ९ १ विशेषाद् " दुर्दिने ताम्येच्छ्वासः स तमको मतः ॥ ८ ॥
घोषेण महताऽऽविष्टः सकासः सकफो नरः ।
यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ॥ ९ ॥
स शाम्यति कफे हीने स्वपतश्च विवर्द्धते ।
मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः ॥ १० ॥।
मातो दह्यमानेन बस्तिना सरुजं नरः ।
सर्वप्राणेन विच्र्च्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ॥ ११ ॥
विसंज्ञः पार्श्वशूलार्त्तः शुष्ककण्ठोऽतिघोषवान् ।
' ' संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः ॥ १२ ॥
स्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः । १ श्वासभेदान् निर्दिशति - क्षुद्रक इति । स महाव्याधिः श्वासः एकोऽपि विशेषतः क्षुद्रकादिभेदात् पञ्चधा भिद्यते इति सम्बन्धः । प्रतमकः श्वासः तमकस्य भेद एव, अतो न पश्ञ्चसंख्याऽतिरेकः । २ श्वासस्य पूर्वरूपं ब्रवोति — प्राग्रूपमिति । प्रामूपं = पूर्वरूपम् । भक्तद्वेषः = अन्नानभिलाषः, श्ररतिः = कुत्रापि चेतसोऽनवस्थितिः । ३ क्षुद्रश्वासलक्षणं दर्शयति- किञ्चिदिति । किञ्चित्कार्यमित्यर्थः । ४ तम-कश्वासं लक्षयति - तृडिति । ५ दुर्दिने = मेघाच्छन्ने दिने । ६ तमकभेदस्य प्रतमकश्वासस्य लक्षणमाइ - मूच्छति । अभिभूतस्य = श्राक्रान्तस्येत्यर्थः । ७ छिन्न-श्वासं लक्षयति- आध्मात इति । ८ विच्छिन्नम् = अन्तराऽन्तरा, श्वस्यात् = श्वासं कुर्यात् । ९ महाश्वासलक्षणं कथयति - विसंज्ञ इति । विसंज्ञः -चेतनारहितः । १० संरब्धनेत्रः - सशोधनयनः । ११ ऊर्ध्वश्वासलक्षणमभिधत्ते - मर्मंस्विति । मर्मसु = हृद्वस्तिशिरःसु, आयम्य CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1350
पाठ पढ़ें पाठ छिपाएँ
११ ९ २ सुश्रुतसंहितायां-Digitized by Arya Sama Poundation Chennai and eGangotri [ अ ०५१ ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् ॥ १३ ॥
क्षुद्रः ' साध्यतमस्तेषां तमकः कृच्छ उच्यते ।
त्रयः श्वासौ न सिध्यन्ति तमको दुर्बलस्य च ॥ १४ ॥
स्नेहँबस्ति विना केचिदूर्ध्वञ्चाधश्च शोधनम् ।
मृदुप्राणवँतां श्रेष्ठं श्वासिनामादिशन्ति हि ॥ १५ ॥
वासे कासेच हिक्कायां हृद्रोगे चापि पूजितम् ।
घृतं पुराणं संसिद्धमभयाबिडरोमठैः ॥ १६ ॥
सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम् ।
पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे ॥ १७ ॥
सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति ।
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ॥ १८ ॥
द्विक्षीरं साधितं सर्पिञ्चतुर्गुणजलाप्लुतम् ।
कोर्लेमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति ॥ १ ९ ॥
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ।
कृत्स्ने वृषकषाये वा पचेत् सर्पिञ्चतुर्गुणे ॥ २० ॥
तन्मूलकुसुमावापं १ शीतं क्षौद्रेण योजयेत ।
१२ शृङ्गी मधूलिका भार्गीशुण्ठीतार्क्ष्यसिताऽम्बुदैः ॥ २१ ॥
सहरिद्रैः स्यष्ट्रया हैः समैरावाप्य योगतः ३ । मानेषु = श्राकृष्यमाणेषु मूढः = चेष्टारहित इत्यर्थः । १ श्वासानां साध्यासाध्यत्वं निरूपयति — क्षुद्र इति । २ त्रयः श्वासाः - छिन्नश्वासमहाश्वा सोर्ध्वश्वासाः, दुर्बलस्य तमकः श्वासो न सिद्ध्यति । चकारात् तन्त्रान्तरोक्तज्वरमूर्च्छादियुक्तस्यापि न सिद्ध्यतीति बोध्यम् । ३ श्वासचिकित्सां प्रतिपादयति - स्नेहेति । ४ प्राणवतां = बलवताम् । ५ रा. मठं = हिङ्गु, ' सहस्रवेधि जतुकं बाह्रोकं हिङ्गु रामठम् ' इत्यमरः । ६ प्रथमे गणे त्रि-दारिगन्धादौ । ७ हिंस्रा = ' बालछड़ ' इति ख्याता । पूतीकः = नक्तमालः । द्वि. क्षीरं = द्विगुणक्षीरम् । सर्पिः प्रस्थप्रमाणं बोध्यम् । ९ कोलमात्रैः श्रर्धकर्ष प्र माणैः। १० वृषकषाये = वासाक्काथे । ११ तन्मूलकुसुमावापं = वासामूलपुष्पकरक-प्रतीवापम् । १२ शृङ्गो = कर्कटश्शृङ्गी, मधूलिका = मूर्वा, तार्यं = रसाञ्जनम्, सिता = शर्करा, अम्बुदः = मुस्ता । १३ योगतः = युक्तित इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar