सुश्रुत संहिता चौखम्बा — पृष्ठ 1341–1350

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1341–1350

पृष्ठ 1341

सुश्रुत संहिता चौखम्बा, पृष्ठ 1341 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ९ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri ११८३ सा पञ्चमी ताञ्च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ ॥ १२ ॥

शूलैहृल्लासबहुला कृमिजा च विशेषतः ।

कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ॥ १३ ॥

क्षीणस्योपद्रवैर्युक्तां सासृकपूयां सचन्द्रिकाम् ।

छर्दि प्रसक्तां कुशलो नारभेत चिकित्सितुम् ॥ १४ ॥

आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु । ( विधीयते मारुतां विना तु संशोधनं वा कफपित्तहारि १५ )

वमीषु बहुदोषासु छर्दनं हितमुच्यते ।

विरेचनं वा कुर्वीत यथादोपोच्छ्रयं भिषक् ॥ १६ ॥

संसर्गं नुपूर्वेण यथास्वं भेषजायुतः ।

लघूनि परिशुष्कारिण सात्म्यान्यानि चाचरेत् ॥ १७ ॥

यथास्वञ्च कषायाणि ज्वरघ्नानि प्रयोजयेत् ।

हन्यात् क्षीरघृतं पीतं छर्दिं पवनसम्भवाम् ॥ १८ ॥।

ससैन्धवं १'पिबेत्सपिर्वातच्छर्दिनिवारणम् । स्वादजा, दौर्हृदजा = गर्भिण्याः स्त्रिया दौर्हृदालाभजा, श्रमजा = अजीर्णजा, असा-त्म्यजा ' श्रसात्म्य भक्षणादिसम्भूता क्रिमिजा = कोष्ठक्रिमिसम्भूता । एताः पञ्चापि श्राग-न्तुजत्वेन साम्यादेकैव बोध्याः । १ विभावयेत् = अनुबन्धयेत्, आदौ = वातादिलक्षणे । २ क्रिमिजच्छर्देविंशिष्टलक्षणमाह – शूलेति । क्रिमिजाया अयं विशेषः — हृच्छू ' लहल्ला साधिका क्रिमिजहृदरोग तुल्यलक्षणेन च लक्षिता । यथा - " उत्क्लेशः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः । श्ररुचिः श्यावनेत्रत्वं शोषश्च क्रिमिजे भवेत् ॥ ” इति । ३ सर्वासामसाध्य लक्षणमाख्याति - क्षीणस्येति । छर्देरुपद्रवास्तु – “ कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्यमेव च । हृद्रोगस्तमकश्चैव ज्ञेयाश्छदेरुपद्रवाः ॥ " इति । सचन्द्रिकां = मयूरपिच्छचन्द्रिकाप्रभायुक्ताम्, मेदःप्रभृतिधातूनां स्नेहः प्रवर्तमानो मयूरपिच्छचन्द्रिकावत् प्रतिभाति । ४ प्रसक्तां = निरन्तरप्रवृत्तामित्यर्थः । ५ सामान्येन सर्वासामपि छदनां चिकित्सां निर्दिशति - आमाशयेति ॥ ता-सु = छर्दिषु । ६ यथादोषोच्छ्रयं = दोषाधिक्यमवेदय । ७ संसर्गः = अन्नसंसर्गः, अनुक्रमेण = यथाक्रमेण, मण्डपेयाविलेप्यादिक्रमेणेत्यर्थः । ८ परिशुष्काणि = शष्कु-लीलाजादीनि । ९ वातजच्छदिचिकित्सां दर्शयति- हन्यादिति । क्षीरमथनोत्थं घृतं क्षीरघृतम् । १ ९ वाग्भटेऽपि - " हन्ति मारुतजां छर्दि सर्पिः पीतं ससैन्धवम् ” इति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1342

सुश्रुत संहिता चौखम्बा, पृष्ठ 1342 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८४ Digitized by Arya Samajसुश्रुतसंहितायां ation Chennai and eGangotri [ अ ० ४ ९

मुद्रामलकयूष वा ससर्पिष्कः ससैन्धवः ।

यवागूं मधुमिश्रां वा पञ्चंमूलीकृतां पिबेत् ॥ १ ९ ॥।

पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् ।

सुखोष्णलवणं चात्र हितं स्नेह विरेचनम् ॥ २० ॥

पिंत्तोपशमनीयानि पाक्यानि शिशिराणि च ।

कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् ॥ २१ ॥

शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः ।

बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च ॥ २२ ॥

आरग्वधादिनिर्यहं दशाङ्गयोगमेव वा ।

पाययेताथ सक्षौद्रं कफजायां चिकित्सकः ॥ २३ ॥

कृतं “ गुडूच्या विधिवत्कषायं हिमसंज्ञितम् ।

तिसृष्वपि भवेत्पथ्यं माक्षिकेण समन्वितम् ॥ २४ ॥

बीभत्सजां " हृद्यतमै दौहृदीं काङ्क्षितैः फलैः । १ पञ्चमूलीकृतां - शालपर्ण्यादिकेन बिल्वादिकेन वा कृतामित्यर्थः । २ व्यक्त · सिन्धूत्थं = प्रकटलवणम्, फलाम्लं = दाडिममातुलुङ्गादिफलेनाम्लीकृतम्, वैष्किरं = लावादिमांसरसम् । ३ सुखं सुखकरमुष्णं लवणं यस्मिन् तत् सुखोष्णलवणम् । “ कोष्णं सलवणं चात्र हितं स्नेहविरेचनम् " इति वाग्भटः । स्नेहेन एरण्डतैलादिना विरेचनं स्नेहविरेचनम् । ४ पित्तजच्छर्दिचिकित्सामाचष्टे - पित्तेति । पित्तोपशमनीयानि पित्तज्वरशम-नानि, पाक्यानि = शृतानि, शिशिराणि = शीतकषायाणि । ५ वमनं विरेचनं वा शोधनम् । ६ तैल्वकं सर्पिर्वातव्याधौ द्रष्टव्यम् । ७ कफजच्छदिचिकित्सामाख्याति-आरग्वधाविति । निर्यूहः = काथः, दशाङ्गयोगं = कफज्वरोकं " कटुका चित्रकम् ” इत्यादिकं मरिचरहितम् । 2 ८ सन्निपातजायाश्छर्देश्चिकित्सितं ब्रवीति -- कृतमिति । हिमसंज्ञितं शीतक -षायाख्यम् । “ द्रव्य।दापोत्थितात्तोये प्रतप्ते निशि संस्थितात् । कषायो योऽभिनिर्याति स शीतः समुदाहृतः ॥ षभिः पलैश्चतुर्भिर्वा सलिलाच्छी फाण्टयोः । श्राप्लुतं भेष-जपलं रसाख्यस्य पलद्वयम् ॥ ” इति । ९ तिसृषु = वातपित्तकफजासु, अपिशब्दात् रून्निपात जास्वपि । १० बीभत्सजायाश्चिकित्सां प्रतिपादयति-- बीभत्सजामिति । दौर्हृदीं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1343

सुश्रुत संहिता चौखम्बा, पृष्ठ 1343 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ९ ] Digitized by Arya Samajhehnai and eGangotri लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् ॥ २५ ॥

११८५

कृमिहृद्रोगवच्चापि कृमिजां सावयेद्वमीम् ।

वितरेच्च यथादोषं शस्तं विधिमनन्तरम् ॥ २६ ॥

दवित्थे रससंयुक्तां पिप्पलीं माक्षिकान्विताम् ।

मुहुर्मुहुर्नरो लीवा छर्दिभ्यः प्रविमुच्यते ॥ २७ ॥

समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना ।

तर्पणं वा मधुयुतं तिसृणामपि भेषजम् ॥ २८ ॥

स्वयैङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम् ।

पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः ॥ २ ९ ॥

युक्ताम्ललवणाः पिष्टा कुस्तुम्बुय्र्योऽथवा हिताः ।

तण्डुलाम्बुयुतं खादेत्कपित्थं न्यूषणेन वा ॥ ३० ॥

सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत् ।

पिवेत् पयोऽग्नितप्तञ्च निर्वाप्य गृहगोधिकाम् ॥ ३१ ॥

सर्पिः क्षौद्रयुतान् वाऽपि लाजसक्तून् पिबेत्तथा ।

सापः क्षौद्रसितोपेतां " मागधीं वा लिहेत्तथा ॥ ३२ ॥

धात्रीरसे चन्दनं वा घृष्टं मुद्गद्लाम्बु वा ।

कोलाम लकमज्जानं लिह्याद्वा " त्रिसुगन्धिकम् ॥ ३३ ॥

सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः । दौर्हृदविमानन जातां वमिम् । १ सात्म्यप्रकोपजां = सात्म्य परित्यागजाम् । २ सा-मान्येन छर्दिचिकित्सामाह -- दधित्थेति । दधित्थः = कपित्थः । ३ मधुरसा = मूर्वा, तण्डुलाम्बुना = तण्डुलप्रक्षालन जलेन । ४ लाजसक्तुकृतं तर्पणमित्यर्थः । तिसृणां = वातपित्तकफजानां छदींनाम् । ५ स्वयङ्गुप्तां = कपिकच्छूम्, तण्डुलाम्बुमधुद्रवां-- तण्डुलाम्बुमधूनि द्रवेयस्यां सा तथोक्ताम् । ६ कुस्तुम्बुय: = धान्यकाः । ७ त्र्यूषणेन = त्रिकटुकेन । ८ चन्दनं = रक्तचन्द-नम्, मक्षिकाशकृत = मक्षिकापुरीषम् । ९ पयः = जलम् । गृइगोधिकाशब्देन वरमठीकृतं मृन्मयंगृ इमुच्यत इति निबन्धसङ्ग्रहव्याख्याकारः । १० मागधीं = पिप्पलीम् । ११ त्रिसुगन्धिकं = त्रिजातकम् । " त्वगेलापत्र कैस्तुल्यै त्रिसुगन्धि त्रिजा • ७५ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1344

सुश्रुत संहिता चौखम्बा, पृष्ठ 1344 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८६ सुश्रुतसंहितायां -Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ० ५० घेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ॥ ३४ ॥

जाङ्गलानि च मांसानि शुभानि पानकानि च ।

भोजनानि विचित्राणि कुर्य्यात्सर्वास्वतन्द्रितः ॥ ३५ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छदिंप्रतिषेधो नाम ( एकादशोऽध्यायः, आदितः ) एकोनपञ्चाशत्तमोऽध्यायः ॥ ४ ९ ॥

पञ्चाशत्तमोऽध्यायः ।

अथातो हिक्काप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः । २ ॥

विदाहिगुरुविष्टम्भिरुक्षाभिष्यन्दिभोजनैः ।

शीतपानासनस्थानरजोधूमानिलानलैः ॥ ३ ॥

व्यायामकर्मभाराध्ववेगौघातापतर्पणैः ।

आमदोषाभिघात स्त्री क्षयदोषप्रपीडनैः ॥ ४ ॥

विषमाशनाध्यशनैस्तथा समशनैरपि । तकम् ” इति तन्त्रान्तरम् । १ प्रेयाणि = सुगन्धद्रव्याणि । २ विचित्राणि = अनेक विधानीत्यर्थः । श्रतन्द्रितः = अनलसः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत काय चिकित्सातन्त्रे सुधाऽख्यटिप्पन्या-मेकोनपञ्चाशोऽध्यायः । पञ्चाशत्तमोऽध्यायः । ३ छर्दिप्रतिषेधानन्तरं तुल्यसंख्यश्वाद् हिक्काप्रतिषेधमधिकरोति — अथेति । हिक्कति ऊर्ध्वे वातप्रवृत्तौ हिगिति शब्दविशेषं करोतीति हिक्का " गुरोश्च इलः " " इत्यः । हिक्का = ' हिचकी ' इति ख्याता । ४ हिक्कार्या निदानमभिधत्ते - विदा-हीति । विदाहीनि = विदहनशीलानि, गुरूणि = गुणतः पाकतश्च, विष्टम्भीनि = करी • रादीनि, रूक्षाणि = चणकादीनि, श्रभिष्यन्दीनि = अभिष्यन्दनशीलानि फाणितमाषम • रस्यक्षीरादीनि । ५ वेगाघातः = मलादिवेगधारणम्, अपतर्पणम् = अनशनादि । लक्षणम् - " ऊष्मणोऽल्पबलत्वेन धातुमान्द्यादपाचितम् । प्रचक्षते ॥ ” इति । ६ श्रामदोषस्य दुष्टमामाशयगतं रसमामं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1345

सुश्रुत संहिता चौखम्बा, पृष्ठ 1345 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५० ] उत्तरतन्त्रम् Chennai: Digitized by Arya Samaj Foundation Chennai and eGangotri ११८७ हिक्का श्वासश्च कांसश्च नृणां समुपजायते ॥ ५ ॥

मुहुर्मुहुर्वायुरुदेति सम्वनो यकृत्हिान्त्राणि मुखादिवाक्षिपन् ।

स घोषवानाशु हिनेस्त्यसून्यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ॥६ ॥

अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा ।

वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ॥ ७ ॥

मुखं कषायमरतिगौरवं कण्ठवक्षसोः ।

पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ॥ ८ ॥

त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम् ।

वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ॥ ९ ॥

हिक्कत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ।

चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्त्तते ॥ १० ॥

कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ।

" विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ॥ ११ ॥

१ हिक्कानां स्वरूपं निरुक्तिं च वक्ति - मुहुरिति । वायुरत्र सोदानप्राणो ' बोद्ध-व्यः । उदेति = ऊर्ध्वं याति, सस्वनः = हिगिति शब्दवान् । ऊर्ध्वगमनमेव विशिनष्टि-यकृदिति । प्लिहेति हस्वेकारश्छन्दोऽनुरोधात् । मुखादिति व्यलोपे पञ्चमी, तेन यकृ · प्लीहान्त्राणि मुखमानीय श्राक्षिपन् निःसारयन्निवेत्यर्थः । मुखादिवेत्यत्र मुखशब्देन प्राणोदकान्नवाहीनि स्रोतांसि भण्यन्ते । तदुक्तं तन्त्रान्तरे – “ प्राणोदकान्नवाहीनि स्रोतांसि विकृतोऽनिलः । हिक्काः करोति संरुध्य तासां लिङ्गं पृथक्छृणु ॥ ” इति । २ ' हिनस्त्यसून् ' इति हिक्केति निरुक्तिः । एतादृशे विग्रहे पृषोदरादित्वाद् रूपसि · द्धिर्बोध्या । ३ हिक्कानां भेदं सम्प्राप्ति चाभिधत्ते - अन्नजामिति । अन्नजायाः साध्यत्वेन प्राशस्यात् पूर्वमभिधानम् । चरके यमलैव व्यपेतेति नाम्ना पठिता । ४ हिक्कान पूर्वरूपं दर्शयति - मुखमिति । अरतिः = चेतसोऽनवस्थितिः । ५ श्रन्नजालक्षणम. भिदधाति — त्वरमाणस्येति । घनं = गुरुमन्नम् । ६ श्रवस्तीर्णः = श्राच्छादितः । ७ ‘ हिक्क हिंसायाम् ' इति चुरादिः । ८ यमलालक्षणं निर्दिशति - चिरेणेति । यमलैर्वेगैः = युग्मैरुपक्रमैरित्यर्थः । ९ शिरोग्रीवमित्युपलक्षणम्, तेन चरकोक्तप्रलापमूर्च्छावमितृष्णावैचित्य जृम्भाविप्लुता-क्षत्वमुखशोषा बोध्या इति गयदासः । १० क्षुद्रालक्षणमभिधत्ते - विकृष्टेति । विकृ-ष्टकालैः = अचिरकालैरित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1346

सुश्रुत संहिता चौखम्बा, पृष्ठ 1346 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -११८८ Digitized by Arya Sama Foundation Chennai and eGangotri [ अ ०५०

क्षुद्रिका नाम सा हिक्का जत्रमूलात् प्रधाविता ।

नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ॥ १२ ॥

शुष्कोष्ठकण्ठजिह्वास्यश्वासपार्श्व रुजाकरी ।

अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता ॥ १३ ॥

मर्माण्यापीडयन्तीव सततं या प्रवर्तते ।

देहमायम्य वेगेन घोषयत्यतितृष्यतः ॥

माहिति सा ज्ञेया सर्वगात्रप्रकम्पिनी ॥ १४ ॥

आर्यम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्योध्व ताम्यते यस्य गाढम् । क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्क मानौ १५

प्राणायामोद्वेजनत्रासनानि सूचीतोदैः सम्भ्रमश्चात्र शस्तः ।

यष्ट्रया वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः ॥ १६ ॥

सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छंदैनं शान्तिहेतोः ।

नारीपयःपिष्टमशुक्लैचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा ॥ १७ ॥

चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्काञ्च हितञ्च नश्यतः ।

युञ्जयाद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा ॥ १८ ॥

सर्पिः “ स्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्य्यम् ।

क्षौद्रोपेतं गैरिकं " काञ्चनाह्व लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा ॥१ ९ ॥

१ गम्भीरालक्षणमाख्यावि- नाभिप्रवृत्तेति । नाभितः प्रवृत्तिर्यस्याः सा । अ-साध्येयम् । २ अनॆकोपद्रवैर्त्ररश्वासतृष्णादिभिर्युक्तेत्यर्थः । ३ महती ( महाद्दिका ) -लक्षणमाचष्टे - मर्माणीति । मर्माणि = प्रधानानि बस्तिहृदयशिरांसि | ४ साध्यानामपि हिक्कानामवस्थाविशेषेण असाध्यत्वं प्रतिपादयति - आयम्यत इति । श्रायम्यते = विस्तार्यत इव दृष्टिश्चोर्ध्वं भवतीति शेषः । ५ अन्त्यौ गम्भीरा महती चेत्यर्थः । ६ हिक्कानां चिकित्सितं वक्ति - प्राणायामेति I । प्राणायामोऽत्र कुम्भक एव, न तु रेचकपूरकौ । उद्वेजनं = परुषवचनैर्मनस श्राकुलीकरणम् । ७ छर्दनं = वम • नमित्यर्थः । ८ अशुक्लचन्दनं = रक्तचन्दनम् । ९ शालनिर्यासजातं = सर्जरसो-द्भवं धूमम्, नैपालं = मनःशिलाजातं धूमम्, गोविषाणोद्भवं = गोशृङ्गजातधूमम् । १० गोचर्मबालै रित्यर्थः । ११ काञ्चनाह्व ं गैरिकं = सुवर्णगैरिकम्, ग्राम्य सत्त्वास्थिजं = गवादिग्राम्यजीवास्थि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1347

सुश्रुत संहिता चौखम्बा, पृष्ठ 1347 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ५० ] Digitized by Arya Sanchennai and eGangotri

तद्वच्छ्वाविन्मेष गोशल्लकानां रोमाण्यन्तर्धूमदग्धानि चात्र ।

मध्वोज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा ॥ २० ॥

स्वर्जिक्षारं बोजपूराद्रसेन क्षौद्रोपेतं हन्ति लीढ्वाऽऽशु हिक्काम् । सर्पिःस्निग्धा घ्नन्ति हिक्कां यवाग्वः २ कोष्णासाः पायसो वा सुखोष्णः ॥ २१ ॥

११८ ९ शुण्ठीतोये साधितं चीरमाजं तद्वत्पीतं शर्करा संयुतं वा । आतृप्तेर्वा सेव्यमानं निहन्याद् व्रातं हिक्कामाशु मूत्रं त्वजाव्योः ।२२ ।

सपूतिकीटं लशुनोग्रगन्धाहि वजमाचूर्ण्य सुभावितं तत् ।

क्षौद्रं सितां वारणकेशरञ्च पिवेद्रसेनेक्षुमधूकजेन ॥ २३ ॥

पिबेत्पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम् ।

हरीतकीं कोष्ण जलानुपानां पिबेद् घृतं चारमधूपपन्नम् ॥ २४ ॥

रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय ॥ २५ ॥

कृष्णां ' 9 सितां चामलकञ्च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि ।

कोलास्थिमज्जाञ्जनलाजचूर्ण हिक्कां निहन्यान्मधुनाऽवलीढम् ॥ २६ ॥

पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी ।

खर्जूरमध्यं ' ° मागध्यः काशीशं दधिनाम च ॥ २७ ॥

चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः ।

मधुद्वितीयाः कर्त्तव्यास्ते हिक्कासु विजानता ॥ २८ ॥

भवं भस्मेत्यर्थः । १ मध्वाज्ये तुल्यभागे न देये, यतो निषिद्धम् - " भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी ” इति तन्त्रान्तरे । बर्हिपत्र प्रसूतं = मयूरपिच्छचन्द्रिकोत्पन्नं भस्मे त्यर्थः । २ कोष्णग्रासाः = ईषदुष्णकवलाः । ३ पूतिगन्धिः कीटः पूतिकीटः, उग्रग · न्वा = वचा, सुभावितं = श्रजाव्योर्मूत्रेण बहून् वारान् भावितम् । ४ वारणकेशरं = नागकेशरम् । ५ लवणोत्तमस्य = सैन्धवस्य । ६ मधु अर्धपलप्रमितम्, पिप्पली कर्षप्रमाणा । ७ कृष्णां = पिप्पलीम् । ८ श्रञ्जनं = सौवीराञ्जनम् । ९ गैरिकं = स्वर्णगैरिकम्, कटुरोहिणी = ' कुटकी ' इति ख्याता । १० खर्जूरमध्यं = खर्जूरमस्तकमज्जा, दधिनाम = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1348

सुश्रुत संहिता चौखम्बा, पृष्ठ 1348 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११ ९ ० Digitized by Arya सुश्रुतसंहितायां mai and eGangotri Sama ndation कपोतपारावतलावशल्लक-श्वदं गोधावृपदंशजान् रसान् । पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ण्यमृगद्विजोद्भवान् ॥ २ ९ ॥ [ अ ०५१

विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णञ्च सितोपलायुतम् ।

सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ॥ ३० ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ढिक्काप्रतिषेधोनाम ( द्वादशोऽध्यायः, आदितः ) पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

एकपञ्चाशत्तमोऽध्यायः ।

अथौतः श्वासप्रतिषेधं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

यैरेव कारणैहिक्का बहुभिः सम्प्रवर्त्तते ।

तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ॥ ३ ॥

विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः । कपित्थफलम् । १ वृषदंशः = वनमार्जारः । २ मृगद्विजाः = जङ्घालविष्किराः । ३ विस्तरोक्तं चिकित्सितं सङ्क्षेपेण दर्शयति - विरेचनमिति । ४ सदागतौ = वायौ, ' श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ' इत्यमरः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां पञ्चाशत्तमोऽध्यायः । एकपञ्चाशत्तमोऽध्यायः । ५ हिक्काप्रतिषेधानन्तरं समानहेतुकत्वाच्छ्वासप्रतिषेधमधिकरोति - अथेति । “ कामं प्राणहरा रोगा बद्दवो न तु ते तथा । यथा श्वासश्च हिक्का च प्राणानाशु निकृ-न्ततः ॥ ” इति तयोरात्ययिकत्व साम्यमपि बोध्यम् । ६ श्वासनिदानमभिदधाति -यरेवेति । यैरेव कारणैः = विदाह्यादिभिर्हेतुभिः । ७ श्वाससम्प्राप्तिं दर्शयति-विहायेति । प्रकृतिं विहाय = विगुणो भूत्वेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1349

सुश्रुत संहिता चौखम्बा, पृष्ठ 1349 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५१ ] Digitized by Arya Samaj dash chennai and eGangotri Fou श्वासयत्यूद्ध्वगो भूत्वा तं श्वासं परिचक्षते ॥ ४ ॥

क्षुद्रकस्तम कश्छिन्नो महानूर्ध्वश्च पञ्चधा ।

भिद्यते स महाव्याधिः श्वास एको विशेषतः ॥ ५ ॥

प्रोग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा ।

आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ॥ ६ ॥

किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्त्तते ।

निषण्णस्यैति शान्तिञ्च स क्षुद्र इति संज्ञितः ॥ ७ ॥

तृट्स्वेदवमथुप्रायः कण्ठघुघुरिकान्वितः । ५ ११ ९ १ विशेषाद् " दुर्दिने ताम्येच्छ्वासः स तमको मतः ॥ ८ ॥

घोषेण महताऽऽविष्टः सकासः सकफो नरः ।

यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ॥ ९ ॥

स शाम्यति कफे हीने स्वपतश्च विवर्द्धते ।

मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः ॥ १० ॥।

मातो दह्यमानेन बस्तिना सरुजं नरः ।

सर्वप्राणेन विच्र्च्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ॥ ११ ॥

विसंज्ञः पार्श्वशूलार्त्तः शुष्ककण्ठोऽतिघोषवान् ।

' ' संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः ॥ १२ ॥

स्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः । १ श्वासभेदान् निर्दिशति - क्षुद्रक इति । स महाव्याधिः श्वासः एकोऽपि विशेषतः क्षुद्रकादिभेदात् पञ्चधा भिद्यते इति सम्बन्धः । प्रतमकः श्वासः तमकस्य भेद एव, अतो न पश्ञ्चसंख्याऽतिरेकः । २ श्वासस्य पूर्वरूपं ब्रवोति — प्राग्रूपमिति । प्रामूपं = पूर्वरूपम् । भक्तद्वेषः = अन्नानभिलाषः, श्ररतिः = कुत्रापि चेतसोऽनवस्थितिः । ३ क्षुद्रश्वासलक्षणं दर्शयति- किञ्चिदिति । किञ्चित्कार्यमित्यर्थः । ४ तम-कश्वासं लक्षयति - तृडिति । ५ दुर्दिने = मेघाच्छन्ने दिने । ६ तमकभेदस्य प्रतमकश्वासस्य लक्षणमाइ - मूच्छति । अभिभूतस्य = श्राक्रान्तस्येत्यर्थः । ७ छिन्न-श्वासं लक्षयति- आध्मात इति । ८ विच्छिन्नम् = अन्तराऽन्तरा, श्वस्यात् = श्वासं कुर्यात् । ९ महाश्वासलक्षणं कथयति - विसंज्ञ इति । विसंज्ञः -चेतनारहितः । १० संरब्धनेत्रः - सशोधनयनः । ११ ऊर्ध्वश्वासलक्षणमभिधत्ते - मर्मंस्विति । मर्मसु = हृद्वस्तिशिरःसु, आयम्य CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1350

सुश्रुत संहिता चौखम्बा, पृष्ठ 1350 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११ ९ २ सुश्रुतसंहितायां-Digitized by Arya Sama Poundation Chennai and eGangotri [ अ ०५१ ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् ॥ १३ ॥

क्षुद्रः ' साध्यतमस्तेषां तमकः कृच्छ उच्यते ।

त्रयः श्वासौ न सिध्यन्ति तमको दुर्बलस्य च ॥ १४ ॥

स्नेहँबस्ति विना केचिदूर्ध्वञ्चाधश्च शोधनम् ।

मृदुप्राणवँतां श्रेष्ठं श्वासिनामादिशन्ति हि ॥ १५ ॥

वासे कासेच हिक्कायां हृद्रोगे चापि पूजितम् ।

घृतं पुराणं संसिद्धमभयाबिडरोमठैः ॥ १६ ॥

सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम् ।

पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे ॥ १७ ॥

सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति ।

हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ॥ १८ ॥

द्विक्षीरं साधितं सर्पिञ्चतुर्गुणजलाप्लुतम् ।

कोर्लेमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति ॥ १ ९ ॥

अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ।

कृत्स्ने वृषकषाये वा पचेत् सर्पिञ्चतुर्गुणे ॥ २० ॥

तन्मूलकुसुमावापं १ शीतं क्षौद्रेण योजयेत ।

१२ शृङ्गी मधूलिका भार्गीशुण्ठीतार्क्ष्यसिताऽम्बुदैः ॥ २१ ॥

सहरिद्रैः स्यष्ट्रया हैः समैरावाप्य योगतः ३ । मानेषु = श्राकृष्यमाणेषु मूढः = चेष्टारहित इत्यर्थः । १ श्वासानां साध्यासाध्यत्वं निरूपयति — क्षुद्र इति । २ त्रयः श्वासाः - छिन्नश्वासमहाश्वा सोर्ध्वश्वासाः, दुर्बलस्य तमकः श्वासो न सिद्ध्यति । चकारात् तन्त्रान्तरोक्तज्वरमूर्च्छादियुक्तस्यापि न सिद्ध्यतीति बोध्यम् । ३ श्वासचिकित्सां प्रतिपादयति - स्नेहेति । ४ प्राणवतां = बलवताम् । ५ रा. मठं = हिङ्गु, ' सहस्रवेधि जतुकं बाह्रोकं हिङ्गु रामठम् ' इत्यमरः । ६ प्रथमे गणे त्रि-दारिगन्धादौ । ७ हिंस्रा = ' बालछड़ ' इति ख्याता । पूतीकः = नक्तमालः । द्वि. क्षीरं = द्विगुणक्षीरम् । सर्पिः प्रस्थप्रमाणं बोध्यम् । ९ कोलमात्रैः श्रर्धकर्ष प्र माणैः। १० वृषकषाये = वासाक्काथे । ११ तन्मूलकुसुमावापं = वासामूलपुष्पकरक-प्रतीवापम् । १२ शृङ्गो = कर्कटश्शृङ्गी, मधूलिका = मूर्वा, तार्यं = रसाञ्जनम्, सिता = शर्करा, अम्बुदः = मुस्ता । १३ योगतः = युक्तित इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar