सुश्रुत संहिता चौखम्बा — पृष्ठ 1351–1360

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1351–1360

पृष्ठ 1351

सुश्रुत संहिता चौखम्बा, पृष्ठ 1351 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५१ ] Digitized by Arya Samajehnai and eGangotri ११ ९ ३ घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे ॥। २२ ॥

श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति ।

सुर्वेहा कालिका भार्गी शुकाख्या नैचुलं फलम् ॥ २३ ॥

काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम् ।

कोलैमात्रैर्वृतप्रस्थं पचेदेभिर्जलद्विकम् ॥ २४ ॥

कटूष्णं पीतमेतद्धि श्वासामयविनाशनम् ।

सौवचलयवक्षारकटुकाव्योषचित्रकैः ॥ २५ ॥

वचाऽभयाविडङ्गैश्च साधितं श्वासशान्तये ।

गोपवल्ल्युदके सिद्धं स्यादन्यद् द्विगुणे घृतम् ॥ २६ ॥

पतानि हवींष्याहुर्भिषजः श्वासकासयोः ।

तालीशतामलक्युग्रा जीवन्तीकुष्ठसैन्धवैः ॥ २७ ॥

बिल्वपुष्करभूतीकं सौवर्चल करणाऽग्निभिः ।

पथ्याते जोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् ॥ २८ ॥

हिपादयुतं सिद्धं सर्वश्वासहरं परम् ।

वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् ॥ २ ९ ॥

तैलं " दशगुणे सिद्धं भृङ्गराजर से शुभे ।

सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ॥ ३० ॥

फलाम्ला ' विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः । १ सुवहा = गोधापदी ' लजालू ' इति ख्याता । कालिका = जटामांसी, शुकाख्या = शुकशिम्बा, नैचुलं फलं = = जलवेत सफलम् । २ वर्षांभूः = श्वेतपुनर्नवा । ३ कोल-मात्रैः = श्रर्धकर्षंप्रमाणैः, जलद्विकं द्विगुणजलम् । ४ गोपवल्ल्युदके = सारिवा-काथे । ५ हिंस्रादि - शृङ्गयादि- सुवहादि - सौवर्चलादि - गोपवल्ल्या दीनि पन्चै. तानि हवींषीत्यर्थः । ६ तामलकी = ' भुई आंवला ' इति प्रथते । उग्रा = बचा । ७ भूतीकं रो. हिषतृणम्, कणा - पिप्पली । ८ तेजोवती = चव्यम् । ९ वासाघृतं कृत्स्ने वृषे तत्कुसुमैरित्यादिना रक्तपित्तोक्तम्, षट्पलघृतं च पिप्पलीपिप्पलीमूलेत्यादिना उद रचिकित्सितोक्तं बोध्यम् । १० कफप्रधाने श्वासे स्नेहमभिदधाति - तैलमिति । ११ फलाम्लाः = दाडिम • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1352

सुश्रुत संहिता चौखम्बा, पृष्ठ 1352 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां 98 Digitized by Arya Sama, Foundation Chennai and eGangotri 9 [ अ ०५१ एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ॥ ३१ ॥

हन्युः श्वासञ्च कासञ्च संस्कृतानि पेयांसि च ।

तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ॥ ३२ ॥

दुरौलभाऽथ पिप्पल्यः कटुकाख्या हरीतकी ।

श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ॥ ३३ ॥

भार्गीत्व शृङ्गवेरञ्च शर्करा शैल्लकाङ्गजम् ।

' नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ॥ ३४ ॥

पञ्च श्लोकार्द्धिकारत्वेते लेहा ये सम्यगीरिताः ।

सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ॥ ३५ ॥

सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना ।

पिबेत सञ्चूर्ण्य मधुना धानाञ्चाप्यथ भक्षयेत् ॥ ३६ ॥

G अर्कारैर्भावितानां यवानां साध्वनेकशः ।

तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ॥ ३७ ॥

शिरीषकदलीकुन्दपुष्पं मागधिकायुतम् । to तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः " ॥ ३८ ॥

कोलमज्जां " तालमूलमृष्य चर्ममसीमपि ।

लिह्यात क्षौद्रेण भार्गी वा सर्पिर्मधुसमायुताम् ॥ ३ ९ ॥

नीचैः १२ क म्बबीजं वा सक्षौद्रं तण्डुलाम्बुना । बीजपूरादिभिरम्लीकृताः, विष्किररसाः - लावादिमांसरसाः । १ कुलत्थसंस्कृता यूषा बोध्यम् । इत्यर्थः । २ ‘ संस्कृतानि पयांसि ' इति तु वातहरैर्दशमूलादिभिरिति ३ तिमिरो नखरागिपत्र: ' तिवरिया ' इति प्रसिद्ध इति डरहणः । ' तिनिशस्य ' इति श्रीहाराणचन्द्रसम्मतपाठः । कर्कटाख्या = कर्कटशृङ्गी । ४ दुरालभा = ' जवासा ' इति प्रथते । ५ श्वाविदूरोमाणि, शललाख्यानि, ' त्रेण्या शलल्या विनीय ' इति पारस्करः । कोला - चव्यम्, मागधिकाकणाः = पिप्प • तण्डुलाः । ६ शल्लकाङ्गजं = शल्लकशकलम् । ७ नृत्त कौण्डको मर्कटक इति ढल्हणः । नृत्तकौण्डकबीजानीत्यत्र त्रिकण्टकस्य बीजानीति श्रीहाराणचन्द्र सम्मतपाठः । दधाना भृष्टयवाः स्मृताः । ९ अर्काङ्कुरैः = अर्कपल्लवपुष्पकृतैः क्वाथैरित्यर्थः । १० अशेषतः - निःशेषान् । ११ ऋष्यचमंमसी = ऋष्याख्यमृगचर्मभस्म । १२ नीचैः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1353

सुश्रुत संहिता चौखम्बा, पृष्ठ 1353 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५१ ] Digitized by Arya Sadi phennai and eGangotri ११ ९ ५ द्राक्षां हरीतकीं कृष्णों कर्कटाख्यां दुरालभाम् ॥ ४० ॥।

सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान् ।

हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शेटीम् ॥ ४१ ॥

लिह्यात् तैलेन तुल्यानि श्वासार्त्तो हितभोजनः ।

गवां पुरीषस्वरसं मधुसर्पिःकरणयुतम् ॥ ४२ ॥

लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्रसम् ।

पाण्डुरोगेषु शोथेषु ये योगाः सम्प्रकीर्त्तिताः ॥ ४३ ॥

श्वासकासापहास्तेऽपि कासना ये च कीर्तिताः ।

भार्गीत्व क्यूषणं तैलं हरिद्रां कटुरोहिणीम् ॥ ४४ ॥

पिप्पलीं मरिचं चण्डां गोशकृद्रसमेव च ।

तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ॥। ४५ ॥

सेव्यमाना निहन्त्येवा श्वासानाशु सुदुस्तरान् ।

पुराणसर्पिः पिप्पल्यः कौलव्था जाङ्गला रसाः ॥ ४६ ॥

सुरा सौवीरकं हिङ्ग मातुलुङ्गरसो मधु ।

द्राक्षाऽऽमलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ॥ १७ ॥

श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत् ।

आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ॥ ४८ ॥

खस्थो विलयनं याति मारुतश्च प्रशाम्यति ।

स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ॥ ४ ९ ॥

वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत् ।

मनःशिला देवदारुहरिद्राच्छदनामिषैः ॥ ५० ॥

लाक्षोरुकमूलैश्व " कृत्वा वत्तविधानतः । कदम्बबीजं = लघुकदम्बवृतफलम् । १ कृष्णां = पिप्पलाम्, कर्कटाख्यां = कर्केटश्शृङ्गीम्, दुरालभां = ' जवासा ' इति ख्याताम् । २ शर्टी = ' कचूर ' इति ख्याताम् । ३ कणायुतं == पिप्पलीचूर्णसंयुतम् । ४ वाजिनां = वोटकानाम् । ५ चण्डा = कपिकच्छूः, शिवलिङ्गी • त्यन्ये । ६ तलको ± स्य = श्रङ्कोठस्य । ७ कौलत्थाः = कुलत्थैः संस्कृताः । = a: = स्निग्धस्वेदैः, ग्रथितः घनीभूतः । ९ स्वस्थः = स्रोतःस्थितः, विलयनं द्रवत्वम् । १० छदनं = तेजपत्रम्, श्रामिषं = गुग्गुलुः । ११ उरुबूकमूलं = रक्तैरण्डमूलमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1354

सुश्रुत संहिता चौखम्बा, पृष्ठ 1354 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

• सुश्रुतसंहितायां ??? Digitized by Arya Samandaron Chennai and eGangotri [ अ ०५२ सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा ॥ ५१ ॥

शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि ।

तुरुष्के शल्लकीनाञ्च गुग्गुलोः पद्मकस्य च ॥ ५२ ॥

एते सर्वे खसपष्का धूमाः कार्या विजानता ।

बलीयसि कफग्रस्ते वमनं सविरेचनम् ॥ ५३ ॥

दुबैले चैव रूक्षे च तर्पणं हितमुच्यते ।

जाङ्गलोर भ्रजैर्मासैरानूपैर्वा सुसंस्कृतैः ॥ ५४ ॥

निदिग्धकौञ्चामलकप्रमाणां हिङ्रवर्द्धयुक्तां मधुना सुयुक्ताम् ।

लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव वलाय हे ॥ १५ ॥

यथाऽग्निरिद्धः पवनानुविद्धो वज्र ं यथा वा सुरराजमुक्तम् ।

रोगास्तथैते खलु दुर्निवाराः श्वासञ्च कासश्च विलम्बिका च ॥५६ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे श्वासप्रतिषेधो नाम ( त्रयोदशोऽध्यायः, आदितः ) एकपञ्चाशत्तमोऽध्यायः ॥५१ ॥

द्विपञ्चाशत्तमोऽध्यायः ।

अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

१ मधूच्छिष्टं = ' मोम ' इति ख्यातम्, शालनिर्यासः = ' राल ' इति प्रथते । २ तु. रुष्कः = सिह्नकः, शल्लकी = ' साही ' इति लोके । ३ बलीयसि = बलयुक्तातुरे । ४ जा-ङ्गलाः = एणादयो लावादयश्च, उरभ्रः मेषः, श्रानूपा: = कच्छपादयः । ५ निदिग्धि-कां = कण्टकारिकाम् । ६ इद्ध: = प्रदीप्तः, पवनानुविद्धः = वातयुक्तः । ७ दुर्निवारा: दुश्चिकित्स्या इत्यर्थः । विलम्बिकाया लक्षणं विसूचिकाप्रतिषेधेऽभिहितम् । तद्यथा— " दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य । विलम्बिकां तां भृशदुश्चि--किरस्यामाचक्षते शास्त्रविदः पुराणाः ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकपञ्चाशत्तमोऽध्यायः । द्विपञ्चाशत्तमोऽध्यायः । ८ श्वासप्रतिषेधानन्तरं तुल्यहेतुकत्वात् कामप्रतिषेधमधिकरोति - अथेति । कास-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1355

सुश्रुत संहिता चौखम्बा, पृष्ठ 1355 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५२ ] Digitized by Arya Sama Fomotion Chennai and eGangotri

उक्ता ये हेतवो नृणां रोगयोः श्वासहिक्कयोः ।

कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ॥ ३ ॥

११ ९ ७

यूँ मोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च ।

विमार्गगत्वादपि भोजनस्य वेगावरोधात क्षवथोस्तथैव ॥ ४ ॥

प्रोणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः ।

निरेति वक्त्रात्सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ॥ ५ ॥

सं वातपित्तप्रभवः कफाच्च दक्षतात्तथाऽन्यः क्षयजोऽपरश्च ।

पञ्चप्रकारः कथितो भिषग्भिर्विवर्द्धितो यक्ष्मविकारकृत् स्यात् ॥ ६ ॥

भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः ।

स्व शब्दवैषम्यमरोच कोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ॥ ७ ॥

हृच्छमूर्षोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः ।

प्रसक्तमन्तः कफमीरणेनं कासेत्तु शुष्कं स्वरभेदयुक्तः ॥ ८ ॥

उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्त्तः । १० II पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ॥९ ॥

तेऽनेनेति कासः, ' कास्ट शब्दकुत्सायाम् ' इति धातु:, ' इलश्च ' इति घञ् । १ कास-स्म सम्प्राप्ति निरुक्ति चाभिधते - धूमेति 1 । धूपोपघातात् - धूमेन कण्ठप्रविष्टेन कण्ठ-स्योपघातात्, रजसः = कण्ठनासाप्रविष्टादेव, व्यायामः = श्रायासः, रूक्षान्नं चणका-दिकम् प्रदुष्टः सन् वक्त्रान्निरेति, स वायुः सम्भिन्न • । २ प्राणो वायुः उदानानुगतः कांस्यस्वनतुल्यघोषः कास इति प्रदिष्ट इति सम्बन्धः । ३ काससंख्यामाख्याति - स इति । ४ यक्ष्मविकारकृत् = राजयक्ष्मकृदित्यर्थः । तन्त्रान्तरेऽपि— “ पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः । | क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ॥ ” इति । ५ कासस्य पूर्वरूपं निर्दिशति - भविष्यत इति । भोज्यानां गले सङ्गो भोज्योपरोधः । ६ स्वशब्दवैषम्यं = किश्चित्प्रकृतिस्वरवैलक्षण्यम् । ७ वातिककासलक्षणमभिदधाति - हृच्छडूखेति । शङ्खः- = ललाटैकदेशः, क्षामा-ननः = शुष्कमुखः, क्षीणबलस्वरौजा: - क्षीणं वलं स्वर श्रोजश्च यस्य त तथा । ८ इर. णेन = वायुनेत्यर्थः । कासेदिति परस्मैपदमार्षम् । ९ पैत्तिककासं लक्षयति- उर इति । १० पीतानि वमेत् पित्तं कफसंसृष्टं निष्ठीवति, उक्तं च तन्त्रान्तरे -- " श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिकः ” इति । २१ परिदह्यमानः = दाहयुक्तः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1356

सुश्रुत संहिता चौखम्बा, पृष्ठ 1356 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११ ९ ८ Digitized by Arya Samaj F सुश्रुतसंहितायां Gangotri [ अ ०५२

प्रलिप्यमानेन मुखेन सीदन शिरोरुजार्त्तः कफपूर्ण देहः ।

अभक्तेरुग्गौरवसादयुक्तः कासेत ना सान्द्रकफं कफेन ॥ १२ ॥

वृक्षोऽतिमात्रं विहतं तु यश्य व्यायामभाराध्ययनाभिघातैः ।

विश्लिष्टर्वक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ॥११ ॥

गात्रशूलज्वरदाह मोहान प्रारणक्षयञ्चोपलभेत कासी ।

शुष्यन् विनिष्ठीवति दुर्बलैस्तु प्रक्षीणमांसो रुधिरं सपृयम् ॥ १२ ॥

ससर्वलिङ्गं भृशदुचिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ।

वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् ॥ १३ ॥

" शृङ्गीव चा कट्फलकत्तणान्दधान्याभया भाग्य मराह्नविश्वम् ।

उष्णाम्बुना हिङ्गुयुतं तु पीत्वा " बद्धास्यमप्याशु जहाति का सम् ॥ १४ ॥

10 १ कफकासलक्षणमाख्याति - प्रलिप्यमानेनेति । प्रलिप्यमानेन मुखेन न = = श्लेष्म. लिप्तेन मुखेनेत्यर्थः । २ न भक्ते रुग् रुचिर्यस्य सोऽभक्तरुक्, सान्द्रकफः घनश्लेष्मा । ३ उरःक्षतजकासं लक्षयति - वक्ष इति । विहतं = विशेषेण पीडितम्, व्यायामः = श्रायासः । ४ विश्लिष्टवक्षाः = अवसन्नवक्षा इत्यर्थः । तन्त्रान्तरे - " श्रतिव्यवायभा. राध्वयुद्धाश्वगजविग्रहैः । रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत् ॥ स पूर्व कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कण्ठेन रुजताऽत्यर्थे विभिन्नेनैव चोरसा || सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना । दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ॥ पर्वभेदज्वरः श्वासतृष्णावैस्वर्य्यपीडितः । पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ॥ ” इति । ५ क्षयजकासलक्षणं दर्शयति - स इति । ६ दुर्बलः = उपचयरहितः । तन्त्रा-न्तरे क्षयजकासलक्षणम् - " विषमासात्म्य भोज्यातिव्यवायाद् वेगनिग्रहात् । घृणिनां शोचतां नृणां व्यापन्नॆऽग्नौ त्रयो मलाः । कुपिताः क्षयजं कासं कुर्युर्देद्दक्षयप्रदम् ॥ ” इति। ७ क्षयजं = शुक्रादिधातुक्षयजम् । ८ कासस्यावस्थायां याप्यत्वं निर्दि-शति - वृद्धत्वेति । तन्त्रान्तरे कासस्य असाध्यसाध्प्रयाप्यत्वमाइ – “ इत्येव क्षयजः कासः क्षीणानां देइनाशनः । साध्यो बलवतां वा स्याद्याप्यस्त्वेव क्षतोत्थितः ॥ नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ । स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः । श्रीन् पूर्वान् साधयेत्साध्यान् पयैर्यायांस्तु यापयेत् ॥ ” इति । ९ सामान्येन कासचिकित्सामाचष्टे – शृङ्गीति । शृङ्गी = कर्कटश्शृङ्गी, कत्तृणं = रोद्दिषतृणम्, श्रब्दं = मुस्ता, अमराह्वः = देवदारुः, विश्वं = शुण्ठी । १० बद्धास्यं = चिरकालं व्याप्य श्रस्ये स्थितिकरम्, चिरकालानुबद्धमिति तात्पर्यम् । बद्धा आस्या CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1357

सुश्रुत संहिता चौखम्बा, पृष्ठ 1357 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५२ ] Digitized by Arya Sam त्तरतन्त्र hennai and eGangotri ११ ९९

फलत्रिक व्योषविडङ्गशृङ्गीरास्नाव चापद्मक देव काष्ठैः ।

लेहः समैः क्षौद्रसिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् ॥ १५ ॥

पथ्यां सितामामलकानि लाजां समागधीञ्चापि विचूर्ण्य शुण्ठीम् ।

सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् ॥१६ ॥

खादेद् गुडं नागरपिप्पलीभ्यां द्राक्षाच सर्पिर्मधुनाऽवलिह्यात् ।

द्राक्षां सितां मागधिकाञ्च तुल्यां सशृङ्गवेरं मधुकं तुगाश्च ॥ १७ ॥

लिह्या घृतक्षौद्रयुतां समांशां सितोपलां वा मरिचांशयुक्ताम् ।

धौत्रीकरणाविश्वसितोपलाश्च सञ्चूर्ण्य मण्डेन पिबेच्च दध्नः ॥ १८ ॥

रेणुका मागधिकाञ्च तुल्यां दध्ना पिबेत् कासगदाभिभूतः ।

उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारञ्च पिबेत् समांशम् ॥ १ ९ ॥

बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्रवन्तीञ्च सतिल्वकाख्याम् ।

भृष्टानि सपष्यथ बादराणि खादेत्पलाशानि ससैन्धवानि ॥ २० ॥

कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीर केणाम्लरसेन वाऽपि ।

क्षौद्रेण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्त्तिः ॥ २१ ॥

धूमे प्रशस्ता घृतसम्प्रयुक्ता वेणुवं गेलालवणैः कृता वा ।

मुस्तेङ्गुदीत्वङ्मधुकामांसीमनःशिलालैश्छगलाम्बुपिष्टैः १ ° ॥ २२ ॥

विधाय वर्त्तीच पयोऽनुपानं धमं पिबेद्वातब लासकासी ।

पिवेच्च " सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य ॥ २३ ॥

१२ द्राक्षाऽम्बुमञ्जिष्ठ पुराह्वयाभिः क्षीरं शृतं माक्षिकसम्प्रयुक्तम् । श्रासना थेन तं तथोक्तं, येन कासेनोपविश्यापि शान्ति नाप्नुवन्ति तमपीति यावदिति सुश्रुतार्थसन्दोपनम् । १ फलत्रिकं = त्रिफला, व्योषं = त्रिकुटा, शृङ्गी = कर्कटशृङ्गी, पद्मकं = ' पद्माख ' इति ख्यातम् । देवकाष्ठं = देवदारु । २ कृष्णां = पिप्पलीम् । ३ धात्री = श्रामलकीफलम्, कणा = पिप्पली, विश्वं शुण्ठी । ४ हरेणुका = निर्गुण्डीबीजम् मागधिका = पिप्पली । ५ गायत्रिसारं = खदिर. सारम् । ६ द्रवन्ती = दन्तीभेदः । ७ बादराणि पलाशानि पत्राणीत्यर्थः । को. लप्रमाणं = कर्षं प्रमाणम्, सौवीरकेण = काजिकेन, अम्लरसेन = बीजपूररसेन । ९ वेणुत्वक् === ' वंशलोचन ' इति । १० आलं = हरितालम् । ११ शस्यकं = सीधुमि. त्यर्थः ।I १२ अम्बु === ' नेत्रवाला ' इति ख्यातम् । पुराह्वया = शल्लकी, पुराह्वया गुग्गु ० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1358

सुश्रुत संहिता चौखम्बा, पृष्ठ 1358 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२०० Digitized by Arya Samaj सुश्रुतसंहितायां-Chennai and eGangotri [ अ ० ५२ निदिग्धिकानागर पिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् २४ उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्रुटिकोलपत्रैः । एभिर्निषेवेत कृताञ्च पेयां तन्वीं सुशीतां मधुना विमिश्राम् ।

यत् लोह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य ।

विदारिगन्धादिकृतं घृतं वा रसेनँ वा वासकजेन पक्वम् ॥ २६ ॥

विरेचनं स्नैहिकमत्रं चोक्तमास्थापनं चाप्यनुवासनञ्च ।

धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत सुखोष्णं घृतमेव चात्र ॥ २७ ॥

हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव ।

प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च ॥ २८ ॥

उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च ।

कटुत्रिकञ्चापि वदन्ति पथ्यं घृतं कृमिन्नस्वर से विपक्कम् ॥ २ ९ ॥

निर्गुण्डिपत्रस्वरसे च पक्कं सर्पिः कफोत्थं विनिहन्ति कासम् ।

पाठाविडव्योषविडङ्गसिन्धु त्रिकण्टरास्त्र हुतभुग्बलाभिः ॥ ३० ॥

शृङ्गीवचाऽम्भोधे र देवदारुदुरालभाभार्ग्य भयाशटीभिः ।

सम्यग्विपक्कं द्विगुणेन सर्पिनिदिग्धिकायाः " स्वरसेन चैतत् ॥ ३१ ॥

श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान् ।

' विदारिगन्धोत्पलसारिवादीन्निष्काथ्य वर्ग मधुर कृनम् ॥ ३२ ॥

लुरित्यन्ये । १ निदिग्धिका = कण्टकारिका । २ उत्कारिकां = लप्सिकाम्, नाग-राढ्यां = शुण्ठ्यधिकाम्, त्रुटि: = सूक्ष्मैला, कोलः = बदरः, पत्रं = ' तेजपात ' इति ख्यातम् । ३ वातजकासचिकित्सामाह - यदिति 1 । षडङ्गं = षट्पलम् । ४ रसेन == क्काथे-नेत्यर्थः । ५ अत्र = • वातकासे । ६ रसेषु = मांसरसेषु । ७ कफका सचिकित्सामा-ख्याति — प्रच्छर्दनमिति । प्रच्छर्दनं = वमनम् । उष्णा लेहाः कटुद्रव्यकृता बोध्याः । ८ कृमिघ्नस्वरसे = विडङ्गस्वरसे 1 । १० सिन्धु = सैन्धवम्, त्रिकण्टः = गो-क्षुरकः, हुतभुक् = चित्रकः, बला ' खरैटी ' इति ख्याता । ११ अम्भोधरः = मुस्तकम्, दुरालभा = ‘ जवासा ' इति, शटी = ' कचूर ' इति ख्याता । १२ निदिग्धि. कायाः = कण्टकारिकायाः । १३ पित्तज - क्षयज - क्षतज - कासानां चिकित्सामाचष्टे - विदारीति । श्रादिशब्दस्य विदारिगन्धादिभिः सह प्रत्येकं सम्बन्धः । तेन विदारिगन्धादिः, उत्पलादिः, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1359

सुश्रुत संहिता चौखम्बा, पृष्ठ 1359 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Foundation अ ० ५२ ] Digitized by Arya सुतर ton Chennai and eGangotri १२०१

घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत् ।

प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ॥ ३३ ॥

खर्जूरभार्गी मगधापियाल में धूलि कैलाऽऽमलकैः समांशैः ।

चूर्णं सिताक्षौद्रघृतप्रगाढं त्रीन् हन्ति का सानुपयुज्यमानम् ॥ ३४ ॥

रक्तीहरिद्राऽञ्जनवहिपाठामूर्वोपकुल्या विलिहेत् समांशाः ।

चौद्रेण कासे तजे दयोत्थे पिबेद् घृतं चेक्षुरसे विपक्वम् ॥ ३५ ॥

चूर्णं पिवेदामलकस्य वाऽपि चोरेण पक्वं सघृतं हिताशी ।

चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ॥ ३६ ॥

कासेषु पेषु कासवद्भिः क्षीरेण सक्षौद्रघृतेन वाऽपि ।

गुडोदकं वा कथितं पिबेद्धि क्षौद्रेण शीतं मरिचोपदंशम् ॥ ३७ ॥

प्रस्थं त्रयेणाम लकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य ।

चूर्णीकृतैर्ग्रन्थिकै चव्यजीरव्योषेभकृष्णाहपुषाऽजमोदैः ॥ ३८ ॥

विडङ्ग सिन्धुत्रिफलाय वानी पाठाऽग्निधान्यैश्च पिचुप्रमाणैः ।

दत्त्वा त्रिवृच्चूर्ण पलानि चाष्टावष्टौ च तैलस्य पचेद् यथावत् ॥ ३ ९ ॥

तं भक्षयेदक्ष फलप्रमाणं " यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् । .49 अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ॥ ४० ॥

शाम्यन्ति " चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ।

स्त्रीणाञ्च वन्ध्याऽऽमयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ॥४१ ॥

सारिवादिश्चेत्यर्थः । मधुरं वर्ग = काकोल्यादिवर्गम् । १ रतिप्रसूते = क्षयसमाख्ये इति निष्कर्षः । २ मधूलिका = मूर्वा । ३ त्रीन् = वित्तोरःक्षतक्षयजान् । ४ रक्ता = मञ्जिष्ठा, अञ्जनं = सौवीराञ्जनम्, वह्निः = अजमोदा, उपकुल्या = पिप्पली । ५ क्षी. रेण = दुग्धेन । ६ क्वथितं = शीतकषायविधिना गृहीतस्य गुडोदकस्य पश्चात् किञ्चित् पक्कमित्यर्थः । ७ कल्याणगुडमभिधत्ते - प्रस्थेति । अर्धतुलां = पञ्चाशत्पलानि । ८ ग्र. न्थिकं = पिपरामूल ' इति ख्यातम् । इभकृष्णा = गजपिप्पली, हपुषा = ' हाउबेर ' इति ख्याता । ९ अग्निः = चित्रकः, धान्यं = ' धनिया ' इति ख्यातम् । पिचुप्रमाणैः = कर्षंप्रमाणैः = त्रिजा-। १० अक्ष फलप्रमाणं = बिभीतकफलप्रमाणम्, त्रिसुगन्धियुक्तं तकयुतम् । ११ अयं = कल्याणकगुडः । ७६ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1360

सुश्रुत संहिता चौखम्बा, पृष्ठ 1360 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२०२ Digitized by Arya Samaj F सुश्रुतसंहितायां - eangotri [ अ ० ५२

द्विपञ्चमूलेभकरण । ss त्मगुप्ता भार्गीशटी पुष्कर मूलविश्वान् ।

पाठाऽमृताग्रन्थिकशङ्गपुष्पी रास्नाऽग्न्यपामार्गबलायवासान् ॥ ४२ ॥

द्विपालिकान् न्यस्य यवाढैकञ्च हरीतकीनाञ्च शतं गुरूणाम् ।

द्रोणे जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ॥ ४३ ॥

पचेत् तुलां शुद्धगुडस्य दत्त्वा पृथक च तैलात् कुडवं घृताच्च ।

चूर्णञ्च तावन्मर्गंधोद्भवाया देयञ्च तस्मिन्मधु सिद्धशीते ॥ ४४ ॥

रसायनात् कर्षमतो विलियाद् द्वे चाभये नित्यमथाशु हन्यात् ।

तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ॥ ४५ ॥

पाण्ड्वामयश्वासशिरोविकारान् हृद्रोगहिक्काविषमज्वरांश्च ।

मेघावलोत्साह मतिप्रदा चकार चैतद्भगवानगस्त्यः ॥ ४६ ॥

कुली र शुक्ती चटक लावान्निष्काध्य वर्गं मधुरं च कृत्स्नम् ।

पचेद् घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं तयजञ्च कासम् ॥४७ ॥

शतावरीनागबलाविपक्कं घृतं विधेयञ्च हिताय कासिनाम् ॥ ४८ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कास प्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥

१ अगस्त्यावलेहं प्रतिपादयति – द्विपचमूलेति । द्विपञ्चमूलं = दशमूलम्, इभकणा = गजपिप्पली, आत्मगुप्ता = कपिकच्छूः, शटी = ' कचूर ' इति ख्याता । विश्वं = शुण्ठी । २ अमृता = गुडूची, ग्रन्थिकं - पिप्पलीमूलम्, अग्निः = चित्रकः, बला = ' खरैटी ' इति प्रथते । ३ यवाढकं = यवानां चतुःषष्टिपलानि, गुरूणाम् = प्रतिस्थूलानाम् । द्भवायाः पिप्पल्या इत्यर्थः । ५ कुलीरादिघृतमभिधत्ते- कुलीरेति । कर्कटकः, शुक्तिः = जलशुक्तिः, चटकः = ग्रामचद्रकः, एणः 1 कृष्णमृगः । कल्याणायेत्यर्थः । ४ मगधो. कुलीरः = ६ हिताय == इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां द्विपञ्चाशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar