सुश्रुत संहिता चौखम्बा — पृष्ठ 1351–1360
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1351–1360
पृष्ठ 1351
पाठ पढ़ें पाठ छिपाएँ
अ ० ५१ ] Digitized by Arya Samajehnai and eGangotri ११ ९ ३ घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे ॥। २२ ॥
श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति ।
सुर्वेहा कालिका भार्गी शुकाख्या नैचुलं फलम् ॥ २३ ॥
काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम् ।
कोलैमात्रैर्वृतप्रस्थं पचेदेभिर्जलद्विकम् ॥ २४ ॥
कटूष्णं पीतमेतद्धि श्वासामयविनाशनम् ।
सौवचलयवक्षारकटुकाव्योषचित्रकैः ॥ २५ ॥
वचाऽभयाविडङ्गैश्च साधितं श्वासशान्तये ।
गोपवल्ल्युदके सिद्धं स्यादन्यद् द्विगुणे घृतम् ॥ २६ ॥
पतानि हवींष्याहुर्भिषजः श्वासकासयोः ।
तालीशतामलक्युग्रा जीवन्तीकुष्ठसैन्धवैः ॥ २७ ॥
बिल्वपुष्करभूतीकं सौवर्चल करणाऽग्निभिः ।
पथ्याते जोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् ॥ २८ ॥
हिपादयुतं सिद्धं सर्वश्वासहरं परम् ।
वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् ॥ २ ९ ॥
तैलं " दशगुणे सिद्धं भृङ्गराजर से शुभे ।
सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ॥ ३० ॥
फलाम्ला ' विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः । १ सुवहा = गोधापदी ' लजालू ' इति ख्याता । कालिका = जटामांसी, शुकाख्या = शुकशिम्बा, नैचुलं फलं = = जलवेत सफलम् । २ वर्षांभूः = श्वेतपुनर्नवा । ३ कोल-मात्रैः = श्रर्धकर्षंप्रमाणैः, जलद्विकं द्विगुणजलम् । ४ गोपवल्ल्युदके = सारिवा-काथे । ५ हिंस्रादि - शृङ्गयादि- सुवहादि - सौवर्चलादि - गोपवल्ल्या दीनि पन्चै. तानि हवींषीत्यर्थः । ६ तामलकी = ' भुई आंवला ' इति प्रथते । उग्रा = बचा । ७ भूतीकं रो. हिषतृणम्, कणा - पिप्पली । ८ तेजोवती = चव्यम् । ९ वासाघृतं कृत्स्ने वृषे तत्कुसुमैरित्यादिना रक्तपित्तोक्तम्, षट्पलघृतं च पिप्पलीपिप्पलीमूलेत्यादिना उद रचिकित्सितोक्तं बोध्यम् । १० कफप्रधाने श्वासे स्नेहमभिदधाति - तैलमिति । ११ फलाम्लाः = दाडिम • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1352
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां 98 Digitized by Arya Sama, Foundation Chennai and eGangotri 9 [ अ ०५१ एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ॥ ३१ ॥
हन्युः श्वासञ्च कासञ्च संस्कृतानि पेयांसि च ।
तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ॥ ३२ ॥
दुरौलभाऽथ पिप्पल्यः कटुकाख्या हरीतकी ।
श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ॥ ३३ ॥
भार्गीत्व शृङ्गवेरञ्च शर्करा शैल्लकाङ्गजम् ।
' नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ॥ ३४ ॥
पञ्च श्लोकार्द्धिकारत्वेते लेहा ये सम्यगीरिताः ।
सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ॥ ३५ ॥
सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना ।
पिबेत सञ्चूर्ण्य मधुना धानाञ्चाप्यथ भक्षयेत् ॥ ३६ ॥
G अर्कारैर्भावितानां यवानां साध्वनेकशः ।
तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ॥ ३७ ॥
शिरीषकदलीकुन्दपुष्पं मागधिकायुतम् । to तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः " ॥ ३८ ॥
कोलमज्जां " तालमूलमृष्य चर्ममसीमपि ।
लिह्यात क्षौद्रेण भार्गी वा सर्पिर्मधुसमायुताम् ॥ ३ ९ ॥
नीचैः १२ क म्बबीजं वा सक्षौद्रं तण्डुलाम्बुना । बीजपूरादिभिरम्लीकृताः, विष्किररसाः - लावादिमांसरसाः । १ कुलत्थसंस्कृता यूषा बोध्यम् । इत्यर्थः । २ ‘ संस्कृतानि पयांसि ' इति तु वातहरैर्दशमूलादिभिरिति ३ तिमिरो नखरागिपत्र: ' तिवरिया ' इति प्रसिद्ध इति डरहणः । ' तिनिशस्य ' इति श्रीहाराणचन्द्रसम्मतपाठः । कर्कटाख्या = कर्कटशृङ्गी । ४ दुरालभा = ' जवासा ' इति प्रथते । ५ श्वाविदूरोमाणि, शललाख्यानि, ' त्रेण्या शलल्या विनीय ' इति पारस्करः । कोला - चव्यम्, मागधिकाकणाः = पिप्प • तण्डुलाः । ६ शल्लकाङ्गजं = शल्लकशकलम् । ७ नृत्त कौण्डको मर्कटक इति ढल्हणः । नृत्तकौण्डकबीजानीत्यत्र त्रिकण्टकस्य बीजानीति श्रीहाराणचन्द्र सम्मतपाठः । दधाना भृष्टयवाः स्मृताः । ९ अर्काङ्कुरैः = अर्कपल्लवपुष्पकृतैः क्वाथैरित्यर्थः । १० अशेषतः - निःशेषान् । ११ ऋष्यचमंमसी = ऋष्याख्यमृगचर्मभस्म । १२ नीचैः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1353
पाठ पढ़ें पाठ छिपाएँ
अ ० ५१ ] Digitized by Arya Sadi phennai and eGangotri ११ ९ ५ द्राक्षां हरीतकीं कृष्णों कर्कटाख्यां दुरालभाम् ॥ ४० ॥।
सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान् ।
हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शेटीम् ॥ ४१ ॥
लिह्यात् तैलेन तुल्यानि श्वासार्त्तो हितभोजनः ।
गवां पुरीषस्वरसं मधुसर्पिःकरणयुतम् ॥ ४२ ॥
लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्रसम् ।
पाण्डुरोगेषु शोथेषु ये योगाः सम्प्रकीर्त्तिताः ॥ ४३ ॥
श्वासकासापहास्तेऽपि कासना ये च कीर्तिताः ।
भार्गीत्व क्यूषणं तैलं हरिद्रां कटुरोहिणीम् ॥ ४४ ॥
पिप्पलीं मरिचं चण्डां गोशकृद्रसमेव च ।
तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ॥। ४५ ॥
सेव्यमाना निहन्त्येवा श्वासानाशु सुदुस्तरान् ।
पुराणसर्पिः पिप्पल्यः कौलव्था जाङ्गला रसाः ॥ ४६ ॥
सुरा सौवीरकं हिङ्ग मातुलुङ्गरसो मधु ।
द्राक्षाऽऽमलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ॥ १७ ॥
श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत् ।
आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ॥ ४८ ॥
खस्थो विलयनं याति मारुतश्च प्रशाम्यति ।
स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ॥ ४ ९ ॥
वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत् ।
मनःशिला देवदारुहरिद्राच्छदनामिषैः ॥ ५० ॥
लाक्षोरुकमूलैश्व " कृत्वा वत्तविधानतः । कदम्बबीजं = लघुकदम्बवृतफलम् । १ कृष्णां = पिप्पलाम्, कर्कटाख्यां = कर्केटश्शृङ्गीम्, दुरालभां = ' जवासा ' इति ख्याताम् । २ शर्टी = ' कचूर ' इति ख्याताम् । ३ कणायुतं == पिप्पलीचूर्णसंयुतम् । ४ वाजिनां = वोटकानाम् । ५ चण्डा = कपिकच्छूः, शिवलिङ्गी • त्यन्ये । ६ तलको ± स्य = श्रङ्कोठस्य । ७ कौलत्थाः = कुलत्थैः संस्कृताः । = a: = स्निग्धस्वेदैः, ग्रथितः घनीभूतः । ९ स्वस्थः = स्रोतःस्थितः, विलयनं द्रवत्वम् । १० छदनं = तेजपत्रम्, श्रामिषं = गुग्गुलुः । ११ उरुबूकमूलं = रक्तैरण्डमूलमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1354
पाठ पढ़ें पाठ छिपाएँ
• सुश्रुतसंहितायां ??? Digitized by Arya Samandaron Chennai and eGangotri [ अ ०५२ सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा ॥ ५१ ॥
शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि ।
तुरुष्के शल्लकीनाञ्च गुग्गुलोः पद्मकस्य च ॥ ५२ ॥
एते सर्वे खसपष्का धूमाः कार्या विजानता ।
बलीयसि कफग्रस्ते वमनं सविरेचनम् ॥ ५३ ॥
दुबैले चैव रूक्षे च तर्पणं हितमुच्यते ।
जाङ्गलोर भ्रजैर्मासैरानूपैर्वा सुसंस्कृतैः ॥ ५४ ॥
निदिग्धकौञ्चामलकप्रमाणां हिङ्रवर्द्धयुक्तां मधुना सुयुक्ताम् ।
लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव वलाय हे ॥ १५ ॥
यथाऽग्निरिद्धः पवनानुविद्धो वज्र ं यथा वा सुरराजमुक्तम् ।
रोगास्तथैते खलु दुर्निवाराः श्वासञ्च कासश्च विलम्बिका च ॥५६ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे श्वासप्रतिषेधो नाम ( त्रयोदशोऽध्यायः, आदितः ) एकपञ्चाशत्तमोऽध्यायः ॥५१ ॥
द्विपञ्चाशत्तमोऽध्यायः ।
अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
१ मधूच्छिष्टं = ' मोम ' इति ख्यातम्, शालनिर्यासः = ' राल ' इति प्रथते । २ तु. रुष्कः = सिह्नकः, शल्लकी = ' साही ' इति लोके । ३ बलीयसि = बलयुक्तातुरे । ४ जा-ङ्गलाः = एणादयो लावादयश्च, उरभ्रः मेषः, श्रानूपा: = कच्छपादयः । ५ निदिग्धि-कां = कण्टकारिकाम् । ६ इद्ध: = प्रदीप्तः, पवनानुविद्धः = वातयुक्तः । ७ दुर्निवारा: दुश्चिकित्स्या इत्यर्थः । विलम्बिकाया लक्षणं विसूचिकाप्रतिषेधेऽभिहितम् । तद्यथा— " दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य । विलम्बिकां तां भृशदुश्चि--किरस्यामाचक्षते शास्त्रविदः पुराणाः ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकपञ्चाशत्तमोऽध्यायः । द्विपञ्चाशत्तमोऽध्यायः । ८ श्वासप्रतिषेधानन्तरं तुल्यहेतुकत्वात् कामप्रतिषेधमधिकरोति - अथेति । कास-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1355
पाठ पढ़ें पाठ छिपाएँ
अ ०५२ ] Digitized by Arya Sama Fomotion Chennai and eGangotri
उक्ता ये हेतवो नृणां रोगयोः श्वासहिक्कयोः ।
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ॥ ३ ॥
११ ९ ७
यूँ मोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च ।
विमार्गगत्वादपि भोजनस्य वेगावरोधात क्षवथोस्तथैव ॥ ४ ॥
प्रोणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः ।
निरेति वक्त्रात्सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ॥ ५ ॥
सं वातपित्तप्रभवः कफाच्च दक्षतात्तथाऽन्यः क्षयजोऽपरश्च ।
पञ्चप्रकारः कथितो भिषग्भिर्विवर्द्धितो यक्ष्मविकारकृत् स्यात् ॥ ६ ॥
भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः ।
स्व शब्दवैषम्यमरोच कोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ॥ ७ ॥
हृच्छमूर्षोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः ।
प्रसक्तमन्तः कफमीरणेनं कासेत्तु शुष्कं स्वरभेदयुक्तः ॥ ८ ॥
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्त्तः । १० II पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ॥९ ॥
तेऽनेनेति कासः, ' कास्ट शब्दकुत्सायाम् ' इति धातु:, ' इलश्च ' इति घञ् । १ कास-स्म सम्प्राप्ति निरुक्ति चाभिधते - धूमेति 1 । धूपोपघातात् - धूमेन कण्ठप्रविष्टेन कण्ठ-स्योपघातात्, रजसः = कण्ठनासाप्रविष्टादेव, व्यायामः = श्रायासः, रूक्षान्नं चणका-दिकम् प्रदुष्टः सन् वक्त्रान्निरेति, स वायुः सम्भिन्न • । २ प्राणो वायुः उदानानुगतः कांस्यस्वनतुल्यघोषः कास इति प्रदिष्ट इति सम्बन्धः । ३ काससंख्यामाख्याति - स इति । ४ यक्ष्मविकारकृत् = राजयक्ष्मकृदित्यर्थः । तन्त्रान्तरेऽपि— “ पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः । | क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ॥ ” इति । ५ कासस्य पूर्वरूपं निर्दिशति - भविष्यत इति । भोज्यानां गले सङ्गो भोज्योपरोधः । ६ स्वशब्दवैषम्यं = किश्चित्प्रकृतिस्वरवैलक्षण्यम् । ७ वातिककासलक्षणमभिदधाति - हृच्छडूखेति । शङ्खः- = ललाटैकदेशः, क्षामा-ननः = शुष्कमुखः, क्षीणबलस्वरौजा: - क्षीणं वलं स्वर श्रोजश्च यस्य त तथा । ८ इर. णेन = वायुनेत्यर्थः । कासेदिति परस्मैपदमार्षम् । ९ पैत्तिककासं लक्षयति- उर इति । १० पीतानि वमेत् पित्तं कफसंसृष्टं निष्ठीवति, उक्तं च तन्त्रान्तरे -- " श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिकः ” इति । २१ परिदह्यमानः = दाहयुक्तः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1356
पाठ पढ़ें पाठ छिपाएँ
११ ९ ८ Digitized by Arya Samaj F सुश्रुतसंहितायां Gangotri [ अ ०५२
प्रलिप्यमानेन मुखेन सीदन शिरोरुजार्त्तः कफपूर्ण देहः ।
अभक्तेरुग्गौरवसादयुक्तः कासेत ना सान्द्रकफं कफेन ॥ १२ ॥
वृक्षोऽतिमात्रं विहतं तु यश्य व्यायामभाराध्ययनाभिघातैः ।
विश्लिष्टर्वक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ॥११ ॥
गात्रशूलज्वरदाह मोहान प्रारणक्षयञ्चोपलभेत कासी ।
शुष्यन् विनिष्ठीवति दुर्बलैस्तु प्रक्षीणमांसो रुधिरं सपृयम् ॥ १२ ॥
ससर्वलिङ्गं भृशदुचिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ।
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् ॥ १३ ॥
" शृङ्गीव चा कट्फलकत्तणान्दधान्याभया भाग्य मराह्नविश्वम् ।
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा " बद्धास्यमप्याशु जहाति का सम् ॥ १४ ॥
10 १ कफकासलक्षणमाख्याति - प्रलिप्यमानेनेति । प्रलिप्यमानेन मुखेन न = = श्लेष्म. लिप्तेन मुखेनेत्यर्थः । २ न भक्ते रुग् रुचिर्यस्य सोऽभक्तरुक्, सान्द्रकफः घनश्लेष्मा । ३ उरःक्षतजकासं लक्षयति - वक्ष इति । विहतं = विशेषेण पीडितम्, व्यायामः = श्रायासः । ४ विश्लिष्टवक्षाः = अवसन्नवक्षा इत्यर्थः । तन्त्रान्तरे - " श्रतिव्यवायभा. राध्वयुद्धाश्वगजविग्रहैः । रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत् ॥ स पूर्व कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कण्ठेन रुजताऽत्यर्थे विभिन्नेनैव चोरसा || सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना । दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ॥ पर्वभेदज्वरः श्वासतृष्णावैस्वर्य्यपीडितः । पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ॥ ” इति । ५ क्षयजकासलक्षणं दर्शयति - स इति । ६ दुर्बलः = उपचयरहितः । तन्त्रा-न्तरे क्षयजकासलक्षणम् - " विषमासात्म्य भोज्यातिव्यवायाद् वेगनिग्रहात् । घृणिनां शोचतां नृणां व्यापन्नॆऽग्नौ त्रयो मलाः । कुपिताः क्षयजं कासं कुर्युर्देद्दक्षयप्रदम् ॥ ” इति। ७ क्षयजं = शुक्रादिधातुक्षयजम् । ८ कासस्यावस्थायां याप्यत्वं निर्दि-शति - वृद्धत्वेति । तन्त्रान्तरे कासस्य असाध्यसाध्प्रयाप्यत्वमाइ – “ इत्येव क्षयजः कासः क्षीणानां देइनाशनः । साध्यो बलवतां वा स्याद्याप्यस्त्वेव क्षतोत्थितः ॥ नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ । स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः । श्रीन् पूर्वान् साधयेत्साध्यान् पयैर्यायांस्तु यापयेत् ॥ ” इति । ९ सामान्येन कासचिकित्सामाचष्टे – शृङ्गीति । शृङ्गी = कर्कटश्शृङ्गी, कत्तृणं = रोद्दिषतृणम्, श्रब्दं = मुस्ता, अमराह्वः = देवदारुः, विश्वं = शुण्ठी । १० बद्धास्यं = चिरकालं व्याप्य श्रस्ये स्थितिकरम्, चिरकालानुबद्धमिति तात्पर्यम् । बद्धा आस्या CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1357
पाठ पढ़ें पाठ छिपाएँ
अ ० ५२ ] Digitized by Arya Sam त्तरतन्त्र hennai and eGangotri ११ ९९
फलत्रिक व्योषविडङ्गशृङ्गीरास्नाव चापद्मक देव काष्ठैः ।
लेहः समैः क्षौद्रसिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् ॥ १५ ॥
पथ्यां सितामामलकानि लाजां समागधीञ्चापि विचूर्ण्य शुण्ठीम् ।
सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् ॥१६ ॥
खादेद् गुडं नागरपिप्पलीभ्यां द्राक्षाच सर्पिर्मधुनाऽवलिह्यात् ।
द्राक्षां सितां मागधिकाञ्च तुल्यां सशृङ्गवेरं मधुकं तुगाश्च ॥ १७ ॥
लिह्या घृतक्षौद्रयुतां समांशां सितोपलां वा मरिचांशयुक्ताम् ।
धौत्रीकरणाविश्वसितोपलाश्च सञ्चूर्ण्य मण्डेन पिबेच्च दध्नः ॥ १८ ॥
रेणुका मागधिकाञ्च तुल्यां दध्ना पिबेत् कासगदाभिभूतः ।
उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारञ्च पिबेत् समांशम् ॥ १ ९ ॥
बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्रवन्तीञ्च सतिल्वकाख्याम् ।
भृष्टानि सपष्यथ बादराणि खादेत्पलाशानि ससैन्धवानि ॥ २० ॥
कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीर केणाम्लरसेन वाऽपि ।
क्षौद्रेण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्त्तिः ॥ २१ ॥
धूमे प्रशस्ता घृतसम्प्रयुक्ता वेणुवं गेलालवणैः कृता वा ।
मुस्तेङ्गुदीत्वङ्मधुकामांसीमनःशिलालैश्छगलाम्बुपिष्टैः १ ° ॥ २२ ॥
विधाय वर्त्तीच पयोऽनुपानं धमं पिबेद्वातब लासकासी ।
पिवेच्च " सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य ॥ २३ ॥
१२ द्राक्षाऽम्बुमञ्जिष्ठ पुराह्वयाभिः क्षीरं शृतं माक्षिकसम्प्रयुक्तम् । श्रासना थेन तं तथोक्तं, येन कासेनोपविश्यापि शान्ति नाप्नुवन्ति तमपीति यावदिति सुश्रुतार्थसन्दोपनम् । १ फलत्रिकं = त्रिफला, व्योषं = त्रिकुटा, शृङ्गी = कर्कटशृङ्गी, पद्मकं = ' पद्माख ' इति ख्यातम् । देवकाष्ठं = देवदारु । २ कृष्णां = पिप्पलीम् । ३ धात्री = श्रामलकीफलम्, कणा = पिप्पली, विश्वं शुण्ठी । ४ हरेणुका = निर्गुण्डीबीजम् मागधिका = पिप्पली । ५ गायत्रिसारं = खदिर. सारम् । ६ द्रवन्ती = दन्तीभेदः । ७ बादराणि पलाशानि पत्राणीत्यर्थः । को. लप्रमाणं = कर्षं प्रमाणम्, सौवीरकेण = काजिकेन, अम्लरसेन = बीजपूररसेन । ९ वेणुत्वक् === ' वंशलोचन ' इति । १० आलं = हरितालम् । ११ शस्यकं = सीधुमि. त्यर्थः ।I १२ अम्बु === ' नेत्रवाला ' इति ख्यातम् । पुराह्वया = शल्लकी, पुराह्वया गुग्गु ० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1358
पाठ पढ़ें पाठ छिपाएँ
१२०० Digitized by Arya Samaj सुश्रुतसंहितायां-Chennai and eGangotri [ अ ० ५२ निदिग्धिकानागर पिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् २४ उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्रुटिकोलपत्रैः । एभिर्निषेवेत कृताञ्च पेयां तन्वीं सुशीतां मधुना विमिश्राम् ।
यत् लोह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य ।
विदारिगन्धादिकृतं घृतं वा रसेनँ वा वासकजेन पक्वम् ॥ २६ ॥
विरेचनं स्नैहिकमत्रं चोक्तमास्थापनं चाप्यनुवासनञ्च ।
धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत सुखोष्णं घृतमेव चात्र ॥ २७ ॥
हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव ।
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च ॥ २८ ॥
उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च ।
कटुत्रिकञ्चापि वदन्ति पथ्यं घृतं कृमिन्नस्वर से विपक्कम् ॥ २ ९ ॥
निर्गुण्डिपत्रस्वरसे च पक्कं सर्पिः कफोत्थं विनिहन्ति कासम् ।
पाठाविडव्योषविडङ्गसिन्धु त्रिकण्टरास्त्र हुतभुग्बलाभिः ॥ ३० ॥
शृङ्गीवचाऽम्भोधे र देवदारुदुरालभाभार्ग्य भयाशटीभिः ।
सम्यग्विपक्कं द्विगुणेन सर्पिनिदिग्धिकायाः " स्वरसेन चैतत् ॥ ३१ ॥
श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान् ।
' विदारिगन्धोत्पलसारिवादीन्निष्काथ्य वर्ग मधुर कृनम् ॥ ३२ ॥
लुरित्यन्ये । १ निदिग्धिका = कण्टकारिका । २ उत्कारिकां = लप्सिकाम्, नाग-राढ्यां = शुण्ठ्यधिकाम्, त्रुटि: = सूक्ष्मैला, कोलः = बदरः, पत्रं = ' तेजपात ' इति ख्यातम् । ३ वातजकासचिकित्सामाह - यदिति 1 । षडङ्गं = षट्पलम् । ४ रसेन == क्काथे-नेत्यर्थः । ५ अत्र = • वातकासे । ६ रसेषु = मांसरसेषु । ७ कफका सचिकित्सामा-ख्याति — प्रच्छर्दनमिति । प्रच्छर्दनं = वमनम् । उष्णा लेहाः कटुद्रव्यकृता बोध्याः । ८ कृमिघ्नस्वरसे = विडङ्गस्वरसे 1 । १० सिन्धु = सैन्धवम्, त्रिकण्टः = गो-क्षुरकः, हुतभुक् = चित्रकः, बला ' खरैटी ' इति ख्याता । ११ अम्भोधरः = मुस्तकम्, दुरालभा = ‘ जवासा ' इति, शटी = ' कचूर ' इति ख्याता । १२ निदिग्धि. कायाः = कण्टकारिकायाः । १३ पित्तज - क्षयज - क्षतज - कासानां चिकित्सामाचष्टे - विदारीति । श्रादिशब्दस्य विदारिगन्धादिभिः सह प्रत्येकं सम्बन्धः । तेन विदारिगन्धादिः, उत्पलादिः, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1359
पाठ पढ़ें पाठ छिपाएँ
Foundation अ ० ५२ ] Digitized by Arya सुतर ton Chennai and eGangotri १२०१
घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत् ।
प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ॥ ३३ ॥
खर्जूरभार्गी मगधापियाल में धूलि कैलाऽऽमलकैः समांशैः ।
चूर्णं सिताक्षौद्रघृतप्रगाढं त्रीन् हन्ति का सानुपयुज्यमानम् ॥ ३४ ॥
रक्तीहरिद्राऽञ्जनवहिपाठामूर्वोपकुल्या विलिहेत् समांशाः ।
चौद्रेण कासे तजे दयोत्थे पिबेद् घृतं चेक्षुरसे विपक्वम् ॥ ३५ ॥
चूर्णं पिवेदामलकस्य वाऽपि चोरेण पक्वं सघृतं हिताशी ।
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ॥ ३६ ॥
कासेषु पेषु कासवद्भिः क्षीरेण सक्षौद्रघृतेन वाऽपि ।
गुडोदकं वा कथितं पिबेद्धि क्षौद्रेण शीतं मरिचोपदंशम् ॥ ३७ ॥
प्रस्थं त्रयेणाम लकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य ।
चूर्णीकृतैर्ग्रन्थिकै चव्यजीरव्योषेभकृष्णाहपुषाऽजमोदैः ॥ ३८ ॥
विडङ्ग सिन्धुत्रिफलाय वानी पाठाऽग्निधान्यैश्च पिचुप्रमाणैः ।
दत्त्वा त्रिवृच्चूर्ण पलानि चाष्टावष्टौ च तैलस्य पचेद् यथावत् ॥ ३ ९ ॥
तं भक्षयेदक्ष फलप्रमाणं " यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् । .49 अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ॥ ४० ॥
शाम्यन्ति " चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ।
स्त्रीणाञ्च वन्ध्याऽऽमयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ॥४१ ॥
सारिवादिश्चेत्यर्थः । मधुरं वर्ग = काकोल्यादिवर्गम् । १ रतिप्रसूते = क्षयसमाख्ये इति निष्कर्षः । २ मधूलिका = मूर्वा । ३ त्रीन् = वित्तोरःक्षतक्षयजान् । ४ रक्ता = मञ्जिष्ठा, अञ्जनं = सौवीराञ्जनम्, वह्निः = अजमोदा, उपकुल्या = पिप्पली । ५ क्षी. रेण = दुग्धेन । ६ क्वथितं = शीतकषायविधिना गृहीतस्य गुडोदकस्य पश्चात् किञ्चित् पक्कमित्यर्थः । ७ कल्याणगुडमभिधत्ते - प्रस्थेति । अर्धतुलां = पञ्चाशत्पलानि । ८ ग्र. न्थिकं = पिपरामूल ' इति ख्यातम् । इभकृष्णा = गजपिप्पली, हपुषा = ' हाउबेर ' इति ख्याता । ९ अग्निः = चित्रकः, धान्यं = ' धनिया ' इति ख्यातम् । पिचुप्रमाणैः = कर्षंप्रमाणैः = त्रिजा-। १० अक्ष फलप्रमाणं = बिभीतकफलप्रमाणम्, त्रिसुगन्धियुक्तं तकयुतम् । ११ अयं = कल्याणकगुडः । ७६ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1360
पाठ पढ़ें पाठ छिपाएँ
१२०२ Digitized by Arya Samaj F सुश्रुतसंहितायां - eangotri [ अ ० ५२
द्विपञ्चमूलेभकरण । ss त्मगुप्ता भार्गीशटी पुष्कर मूलविश्वान् ।
पाठाऽमृताग्रन्थिकशङ्गपुष्पी रास्नाऽग्न्यपामार्गबलायवासान् ॥ ४२ ॥
द्विपालिकान् न्यस्य यवाढैकञ्च हरीतकीनाञ्च शतं गुरूणाम् ।
द्रोणे जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ॥ ४३ ॥
पचेत् तुलां शुद्धगुडस्य दत्त्वा पृथक च तैलात् कुडवं घृताच्च ।
चूर्णञ्च तावन्मर्गंधोद्भवाया देयञ्च तस्मिन्मधु सिद्धशीते ॥ ४४ ॥
रसायनात् कर्षमतो विलियाद् द्वे चाभये नित्यमथाशु हन्यात् ।
तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ॥ ४५ ॥
पाण्ड्वामयश्वासशिरोविकारान् हृद्रोगहिक्काविषमज्वरांश्च ।
मेघावलोत्साह मतिप्रदा चकार चैतद्भगवानगस्त्यः ॥ ४६ ॥
कुली र शुक्ती चटक लावान्निष्काध्य वर्गं मधुरं च कृत्स्नम् ।
पचेद् घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं तयजञ्च कासम् ॥४७ ॥
शतावरीनागबलाविपक्कं घृतं विधेयञ्च हिताय कासिनाम् ॥ ४८ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कास प्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
१ अगस्त्यावलेहं प्रतिपादयति – द्विपचमूलेति । द्विपञ्चमूलं = दशमूलम्, इभकणा = गजपिप्पली, आत्मगुप्ता = कपिकच्छूः, शटी = ' कचूर ' इति ख्याता । विश्वं = शुण्ठी । २ अमृता = गुडूची, ग्रन्थिकं - पिप्पलीमूलम्, अग्निः = चित्रकः, बला = ' खरैटी ' इति प्रथते । ३ यवाढकं = यवानां चतुःषष्टिपलानि, गुरूणाम् = प्रतिस्थूलानाम् । द्भवायाः पिप्पल्या इत्यर्थः । ५ कुलीरादिघृतमभिधत्ते- कुलीरेति । कर्कटकः, शुक्तिः = जलशुक्तिः, चटकः = ग्रामचद्रकः, एणः 1 कृष्णमृगः । कल्याणायेत्यर्थः । ४ मगधो. कुलीरः = ६ हिताय == इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां द्विपञ्चाशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar