सुश्रुत संहिता चौखम्बा — पृष्ठ 1361–1370
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1361–1370
पृष्ठ 1361
पाठ पढ़ें पाठ छिपाएँ
अ ० ५३ ] Digitized by Arya Sa Chennai and eGangotri
त्रिपञ्चाशत्तमोऽध्यायः ।
अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अत्युच्चे भाषण विषाध्ययनातिगीत-शीतादिभिः प्रकुपिताः पवनादयस्तु । स्रोतसुः ते स्वरवहेषु गताः प्रतिष्ठां १२०३ हन्युः स्वरं भवति चापि हि षड्विधः सः ॥ ३ ॥
वातेनँ कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गद् गदद्वत् स्वरञ्च ।
पित्तेन पीतवदनाक्षिपुरीषमूत्रो ब्रूयाद् गलेन परिदाहसमन्वितेन ॥ ४ ॥
कृच्छ्रात् कफेन सततं रुकण्ठो
मन्दं शनैर्वदति चापि दिवा विशेषः ।
सर्वात्मकेभवति सर्वविकारसम्प-दुव्यक्तता च वचसस्तमसाध्यमाहु ॥ ५ ॥
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च । वागेष चापि हतवाक् परिवर्जनीयः । अन्तर्गलं स्वरमलक्ष्यपदञ्चिरेण मेदचयाद्वदति दिग्ध गलौष्ठतालुः ॥ ६ ॥
त्रिपञ्चाशत्तमोऽध्यायः । १ प्रतीकारसाम्यात् कासप्रतिषेधानन्तरं स्वरभेदप्रतिषेधमधिकरोति - अथेति । स्वरभेदः = स्वरोपघातः । २ एकेनैव इलोकेन स्वरभेदस्य हेतु- सम्प्राप्ति - संख्या निर्दिशति — अत्युच्चेति । अध्ययनम् = उच्चैर्वेदादिपाठः । ३ स्वरवहेषु स्रो. धमनीषु, षड्विधः = वातपित्तकफसग्निपातक्षय मेदोज भे-तःसु = शब्दवाहिनीषु दात् षट्प्रकारः । ४ वातिकादिस्वरभेदं लक्षयति - वातेनेति । कृष्णशब्दो नयनादिवर्चः पर्यन्तैः सह सम्बध्यते । भिन्नं = भिन्नस्वरम् । ५ कफरुद्धकण्ठः = श्लेष्मावृतगलः, मन्दं शनैः = मन्दं मन्दमित्यर्थः । दिवा विशेषः = दिने सूर्यरश्मिभिः कफस्य मन्दीभावा-द्विशेषो भवेदित्यर्थः । ६ सर्वविकारसम्पत् = वातादिस्वरभेदलिङ्गप्रादुर्भावः । ७ मे. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1362
पाठ पढ़ें पाठ छिपाएँ
१२०४ Digitized by Arya Samaj सुश्रुतसंहितायां aangotri [ अ ० ५३
क्षीर्णस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः ।
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ॥ ७ ॥
स्निग्धान् स्वरातुरनरानपकृष्टदोषान् न्यायेन तान् वमनरेचनवस्तिभिश्च । नस्यावपीडमुखैधावनधूमले है: सम्पादयेच्च विविधैः कवलग्रहैश्च ॥ ८ ॥
यः श्वासकासविधिरादित एव चोक्त. स्तञ्चाप्यशेषमवतारयितुं यतेत । वैशेषिकञ्च विधिमूर्ध्वमतो वदामि तं वै स्वरातुरहितं निखिलं निबोध ॥ ९ ॥
खरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत् ।
कासमर्दकवार्त्ताकमार्केवस्वरसे शृतम् ॥ १० ॥
पीतं घृतं हन्त्यनिलं ७ सिद्धमात्तंगले रसे ।
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ॥ ११ ॥
देवदार्वनिकाभ्यां वा सिद्धमाजं समाक्षिकम् ।
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः ॥ १२ ॥
क्षीरौनुपानं पित्ते तु पिबेत् सर्पिरतन्द्रितः । दोजस्वरभेदलक्षणमाख्याति — अन्तरिति । मेदश्चयात् = मेदोवृद्धेः, दिग्धं मेदसा लिप्तं गलौष्ठतालु यस्य स दिग्धगलौष्ठतालुः । १ उक्तवातादिजानामेवावस्थायामसाध्यत्वं प्रतिपादयति-- क्षीणस्येति । क्षीण-· स्य - क्षीणर्मासस्य, कृशस्य = प्रबलस्य, सहोपजातः = जन्मप्रभृतिबद्धः, ' काकस्वर ’ इति लोके । २ सामान्येन स्वरभेद चिकित्सितमभिदधाति - स्निग्धानिति । ३ सुखधावनं = गण्डूषादिकम्, कवलग्रहैः गण्डूषभेदे: । " सुखं सचार्यंते या तु गण्डूषे सा प्रकीर्तिता । असनार्या तु या मात्रा कवले सा प्रकीर्तिता ॥ ” इति ज्ञेयम् । ४ स्वरातुरहितं = स्वरभेदातुरहितमित्यर्थः । ५ वातजस्वरभेदचिकित्सामाचष्टे - स्वरेति । ६ कासमर्दः = ‘ कसौंदी ' इति ख्यातः । माकवः = भृङ्गराजः । ७ श्रनिलं == वातजस्वरभेदम्, आर्तगलः = ककुभ-इत्यर्थः। अग्निकः अजमोदा । ९ पैत्तिकस्वरभेदचिकित्सामभिधत्ते - क्षीरा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1363
पाठ पढ़ें पाठ छिपाएँ
अ ० ५४ ] उत्तरतन्त्रम Digitized by Arya Samaj Foundation Chennai and eGangotri १२०५ अश्नीयाच्च ससर्पिष्कं यष्टीमधुकैपायसम् ॥ १३ ॥
लिह्यान्मधुरकाणां वा चूण मधुघृताप्लुतम् ।
शतावरीचूर्णयोगं बलाचूर्णमथापि वा ॥ १४ ॥
पिबेत् कनि मूत्रेण कफजे स्वरसङ्क्षये ।
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा ॥ १५ ॥
स्वरोपघाते मेदोजे कफँवद्विधिरिष्यते ।
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् ॥ १६ ॥
शर्करामधुमिश्राणि शतानि मधुरैः सह ।
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ॥ ११ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छदिंप्रतिषेधो नाम ( पञ्चदशोऽध्यायः, आदितः ) त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
चतुःपञ्चाशत्तमोऽध्यायः ।
अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अजीर्णाध्यशनासात्म्यविरुद्ध मलिनाशनैः ।
अव्यायामदिवास्वप्नगुर्वतिस्नग्धशीतलैः ॥ ३ ॥
मापिष्ठन्निविदलबिसशालूकसेरुकैः । नुपानमिति । १ यष्टीमधुकान्वितं पायसं यष्टीमधुकपायसम् । २ मधुरकाणां = काकोल्यादीनाम्। ३ कफजस्वरभेदचिकित्सितमभिदधाति - पिवेदिति । कटूनि = त्रिकटुकादीनि । ४ कफवत् = कफजस्वरभेदवत् । ५ प्रत्याख्याय = असाध्यत्वेन निराकृत्येत्यर्थः । ६ मधुरैः = काकोल्यादिभिः । ७ गोमहिष्यजानां पयांसोत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां त्रिपञ्चाशत्तमोऽध्यायः । चतुःपञ्चाशत्तमोऽध्यायः । ८ कृमीणां निदानमुपदिशति - अजीर्णेति । असत्म्यं = प्रकृतिप्रतिकूलमशनम्, विरुद्धं = हिताहितीयोक्तम् 1 । ९ पिष्टान्नं = तण्डुलादिपिष्टम्, विदलं = मकुष्ठादि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1364
पाठ पढ़ें पाठ छिपाएँ
१२०६ Digitized by Arya Samaj Houndation Chennal and eGangotri [ अ ० ५४ पर्णशाकसुराशुक्तदद्धिक्षीरगुडेक्षुभिः ॥ ४ ॥
पललानूपपिशितपिण्याकपृथुकादिभिः ।
स्वाद्वम्लद्रवपानैश्च श्लेष्मा पितञ्च कुप्यति ॥ ५ ॥
कृमीन् बहुविधाकारान् करोति विविधाश्रयान् ।
ओमपकाशये तेषां कफविड्जन्मनां पुनः ।
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ॥ ६ ॥
विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः ।
पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम् ॥ ७ ॥
अर्जंवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा ।
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ॥ ८ ॥
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च ।
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ॥ ९ ॥
शूलाग्निमान्द्यपाण्डुत्व विष्टम्भबलसङ्क्षयाः ।
प्रसेकारुचिहृद्रोगविंड्भेदास्तु पुरीषजैः ॥ १० ॥
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः ।
शूलाटोपशकृद्भेदपक्तिनाशंजूराश्च ते ॥ ११ ॥
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा ।
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः ॥ १२ ॥
रोमशा रोममूर्द्धानः सपुच्छाः श्यावंमण्डलाः । 9 कम्, शालूः = कमल कन्दः । १ पललं - तिलकल्कः, श्रानूपपिशितम् = श्रानूपमां-सम्, पिण्याकः = निःस्नेह तिलकल्कः, ' खरी ' इति प्रथते । पृथुकः = चिपिटकः । २ कृमीणामुत्पत्तिस्थानानि निर्दिशति - आमेति । तेषां = क्रिमीणाम् । ३ प्रसवः = उत्पत्तिरित्यर्थः । ४ पुरीषजकृमीणां नामानि लक्षणं चाभिदधाति - अजवा इति । श्रजवादिद्वि-मुखान्ताः सप्त पुरीषजाः क्रिमयः । ५ गुदं प्रति = गुदं लक्षीकृत्येत्यर्थः । ६ विड्-भेदः - द्रवपुरीषत्वम् । ७ पक्तिनाशकराः = अग्निनाशकराः । कफजक्रिमीणां नामानि लक्षणं चाभिधत्ते - दर्भपुष्पा इति । दर्भपुष्पादयो दारुणान्ताः षट् कफजाः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1365
पाठ पढ़ें पाठ छिपाएँ
अ ० ५४ ] उत्तरतन्त्रम् Digitized by Arya Samaj Foundation Chennai and eGangotri रूढधान्याकुराकाराः शुक्लास्ते तेनवस्तथा ॥ १३ ॥
मज्जादा नेत्रलेढ । रस्तालुश्रोत्रभुजस्तथा ।
शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते ॥ १४ ॥
केशरोमनखादाश्च दन्तादाः किक्किशास्तथा ।
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसम्भवाः ॥ १५ ॥
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा ।
रक्ताधिष्ठानजान् प्रायोविकारान् जनयन्ति ते ॥ १६ ॥
माषैपिष्टान्नविदलपर्णशाकैः पुरीषजाः ।
मांसमाषगुड क्षीरदधितैलैः कफोद्भवाः ॥ १७ ॥
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि ।
ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ॥ १८ ॥
भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ।
दृश्यात्रयोदशाद्यास्तु कृमीरणां परिकीर्तिताः ॥ १ ९ ॥
केशादयस्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत् ।
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् ॥ २० ॥
सुरसादिविपक्केन सर्पिषा वान्तमादितः ।
विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् ॥ २१ ॥
यव कोलकुलत्थानां सुरसादेर्गणस्य च । १० क्रिमयः । १ तनवः = कृशाः, सूत्राकारा इति यावत् । १२०७ २ रक्तजकृमीणां नामानि लक्षणं च वक्ति - केशेति । केशादिपरीसर्पान्ताः सप्त रक्तजाः क्रिमयः । ३ पृथवः = स्थूलाः । ४ विकारान् = कुष्ठविसर्पपिडकादीन् । ५ पुरीषजादिकिमीणां विशेषकारणानि दर्शयति- माषेति । विदलं = मकुष्ठादि, पर्णशाकं = - ज्वर इति । विवर्णता = = पत्रशाकम् । ६ सञ्जातक्रिमिलक्षणमुपदिशति गौरादिवर्णान्यत्वमित्यर्थः । ७ क्रिमीणां दृश्यादृश्यविभागं ब्रवीति - दृश्या इति । श्राद्यास्त्रयोदश = अजवादिदारुणान्ता इत्यर्थः । = केशादाद्याः परीसर्पान्ता रकजाः क्रिमय इत्यर्थः । ९ पुरीषज - कफज - कृमीणां सामान्यं चिकित्सितमाह - एषामिति । अन्यतमम् = एकतमम् । १० चकारात् सुरसादिगणकल्कोऽपि ग्राह्यः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1366
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-१२०८ ५० ९ १३ लड्डुकादीन् । CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० ०४ -१३ सप्तकृ. Digitized by Arya Samaj Foundation Chennai and eGangotri विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च ॥ २२
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना ।
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः ॥ २३ ॥
स्नेहेनोक्तेने चैनन्तु योजयेत् स्नेहवस्तिना ।
ततः शिरीषकिणिहीरसं क्षौद्रयुतं पिबेत् ॥ २४ ॥
केवस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः ।
पलाशबीजस्वरसं कैल्कं वा तण्डुलाम्बुना ॥ २५ ॥
पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् ।
पत्तरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् ॥ २६ ॥
लिह्यादश्वं शकृच्चूर्णं वैडङ्गं वा समाक्षिकम् ।
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः ॥ २७ ॥
खादेत् पूपलिकाः पक्काः " धान्याम्लञ्च पिबेदनु ।
सुरसादिगणे पक्वं तैलं वा पानमिष्यते ॥ २८ ॥
विडङ्गचूर्णयुक्तैर्वा १ " पिष्टैर्भक्ष्यांस्तु कारयेत् ।
तत्कषायप्रपीतानां " तिलानां स्नेहमेव वा ॥ २ ९ ॥
श्वाविधः शकृतश्चूर " सप्तकृत्वः सुभावितम् ॥
विडङ्गानां कषायेण त्रैफलेन तथैव च ॥ ३० ॥
क्षौद्रेण लीढ्वाऽनुपिबेद्रसमामलकोद्भवम् ।
अक्षाभयारसं वाऽपि विधिरेषोऽयसामपि ॥ ३१ ॥
१ प्रत्यागते - पतिते । २ स्नेहेनोक्तेन = विडङ्गसाधितस्नेहेन, स्नेहवत्तिना = अनुवासनेनेत्यर्थः । ३ किणिही = अपामार्गः । ४ केवूकः = ' केऊ ' इति ख्यातः । पूर्ववत = क्षौद्रयुतमित्यर्थः । ५ पलाशबीजकल्कं वेत्यर्थः । ६ पारिभद्रकः पर्वत निम्बः । ७ पत्तूरस्त्ररसं = सिरवालिकास्वरसम् । पत्तरं रक्तचन्दनमित्यन्ये । अश्वशकृच्चूर्णं = घोटकपुरोष-चूर्णम्, वैडङ्गं - विडङ्गचूर्णम् । ९ मूषिकपर्ण्याः = दन्त्याः, पिष्टमिश्रितैः = यवपिष्ट-युक्तरित्यर्थः । १० धान्याम्लं = काञ्जिकम् । ११ यवादिपिष्टैरित्यर्थः । भक्ष्यान् = १२ तत्कषायप्रपीतानां = विडङ्गकाथभावितानाम् ।
पृष्ठ 1367
पाठ पढ़ें पाठ छिपाएँ
भ ० ५४ ] १२ इति ख्यातम् । १२० ९ २ त्रपु - रङ्गम्, ' रांगा ' CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri
पृतिकैस्वरसं वाऽपि पिबेद्वा मधुना सह ।
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ॥ ३२
सप्तराजं पिबेद् घृष्टं त्रेषु वा दधिमस्तुना । ॥
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक् ॥। ३३ ॥
शिरोहृद् घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान् ।
विशेषेणाञ्जनैर्नस्यैरवपोडैश्च साधयेत् ॥ ३४ ॥।
शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति ।
निष्काथेन विडङ्गानां चूर्णं प्रधमनन्तु तत् ॥ ३५ ॥
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक् ।
सँकांस्यनीलं तैलञ्च नस्यं स्यात्सुरसादिके ॥ ३६ ॥
इन्द्रलुप्तविधिश्वापि विधेयो रोमभोजिषु ।
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ॥ ३७ ॥
रक्तानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते ।
सुरसादिन्तु I सर्वेषु सर्वथैवोपयोजयेत् ॥ ३८ ॥।
प्रव्यक्ततिक्तकटुकं भोजनञ्च हितं भवेत् ।
कुलत्थक्षारसंसृष्टं ' क्षारपानञ्च पूजितम् ॥ ३ ९ ॥
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति । त्वः = सप्तवारान् । १ पूतीकस्वरसं = करव्जस्वरसम् । ३ स्थानविशेषेण कफजक्रिमीणां विशेषचिकित्सित माचष्टे - शिरोहृदिति । ४ चकाराद् गण्डूषकवल ग्रहादिभिरपि साधयेदिति बोध्यम् । ५ प्रधमनं = नासाय चूर्णप्रक्षेपणम् । ६ अनेनैव = श्रश्वपुरीषस्वरसप्रधमनविधानेनेव । ७ सकांस्य-नीलं == कांस्यापमार्जनमसीसहितम् । सुरसादि के ' विपक्कम् ' इति शेषः । ८ मुखरोगिवं = कृमिदन्तोक्तम् । ९ रक्तजकिमि चिकित्सामाह - रक्तजानामिति । कुष्ठचिकित्सिते ' समुदिष्टम् ' इति पदसम्बन्धनीयम् । १० पुरीषजादिषु सर्वेष्वित्यर्थः 1 ११ यवक्षारपानमित्यर्थः । तदुक्तम् - " यावशूकस्य पानं तु कुलत्थक्षारवारिणा ' इति । १२ क्रिमिरोगे वर्ज्याणि निर्दिशति - क्षीराणीति । पर्यवन्ति शाकानि = पत्र-
पृष्ठ 1368
पाठ पढ़ें पाठ छिपाएँ
१२१० Digitized by Arya Sam सुश्रुतसंहितायां and eGangotri [ अ ०५५ समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ॥ ४० ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम ( षोडशोऽध्यायः, आदितः ) चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
पञ्चपञ्चाशत्तमोऽध्यायः ।
अर्थात उदावर्त्तप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अधश्चोर्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः ।
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ॥ ३ ॥
वातविण्मूत्रजृम्भाऽश्रुक्षवोद् गारवमन्द्रियैः ।
व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते ॥ ४ ॥
क्षुत्तृष्णाश्वासनिद्राणामुदावर्त्तो विधारणात् ।
तस्याभिधास्ये व्यासेन लक्षणञ्च चिकित्सितम् ॥ ५ ॥
त्रयोदशविधश्चासौ भिन्न ६ एतैस्तु कारणैः ।
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ॥ ६ ॥
शाकानि । १ जिघांसुः - इन्तुमिच्छुः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां चतुःपञ्चाशत्तमोऽध्यायः । पञ्चपञ्चाशत्तमोऽध्यायः । २ कृमिप्रतिषेधानन्तरमुदावर्तप्रतिषेधमधिकरोति - अथात इति । उद् ऊर्ध्वं वातविण्मूत्रादीनामावर्ती भ्रमणं यस्मिन् स उदावर्तः । उदावर्तस्य सामान्यलक्षणमुक्तं तन्त्रान्तरे— “ यत्रोर्ध्वं जायते वायोरावर्तः स चिकित्सकैः । उदावर्त इति प्रोक्तो, व्या. धिस्तत्रानिलः प्रभुः ॥ ” इति । ३ वेगधारणं निषेधति - अध इति । अधःप्रवृ · तानां भावानां मूत्रादीनाम्, उर्ध्वं प्रवृत्तानां भावानामुद्गारादीनाम् । ४ उदावर्तस्य निदानं निरुक्ति च निर्दिशति - वातेति । इन्द्रियमत्र शुक्रम् । तदुक्तमभिधाने – ' श्रोत्रवागादि सत्त्वं च शुक्रं चेन्द्रियमुच्यते ' इति । ५ व्याहन्यमा. नः = - अवरुध्यमानैरित्यर्थः । ६एतैः = पूर्वोक्तवातविण्मूत्रादिभिः । ७ अपरः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1369
पाठ पढ़ें पाठ छिपाएँ
अ ० ५'५ ] Digitized by Arya Samaj +" वं - तरम् hennai and eGangotri १२११
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् ।
कासप्रतिश्यायगलप्रहांश्च बलासपित्तप्रसरञ्च घोरम् ॥ ७ ॥
कुर्यादपानोऽभितः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा ।
आटोपशूलो परिकर्त्तनञ्च सङ्गः पुरीषस्य तयोर्ध्ववातः ॥ ८ ॥
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य ।
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ॥ ९ ॥
मेढ़े गुदे वङ्ङ्क्षणबस्ति मुष्कनाभि प्रदेशेष्वथवाऽपि मूर्ध्नि ।
वस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः ॥ १० ॥
मन्याँगलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः ।
श्रोत्राननब्राणविलोचनोत्था भवन्ति तीव्राचं तथा विकाराः ॥११ ॥
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि ।
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ॥ १२ ॥
भवन्ति " गाढं क्षवथोविंघाताच्छिरोऽक्षिनासाश्रवणेषु रोगाः ।
कण्ठास्य पूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः ॥ १३ ॥
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः । वाताद्यवरोधजातिरिक्तः । १ वातावरोघोत्पन्नोदावर्तलक्षणमभिदधाति - आध्मा · नेति । हृदयोपरोधं = हृदयावरणम् । २ बलासपित्तप्रसरं = कफपित्तप्रसरणम् । ३ अभिहतः = अवरुद्धः, स्वमार्गे - गुर्दे । ४ पुरीषावरोधोत्पन्नोदावर्तलक्षणमभिधत्ते - आटोपेति = सरुग्गुड-। आटोपः गुडाशब्दः, परिकर्तनं = गुदमेढबस्त्यादिषु कर्तनवद् व्यथा, पुरीषस्य सङ्गः - पुरीषा. प्रवृत्तिः, ऊर्ध्ववातः = उद्गारः । ५ मूत्रावरोधोत्पन्नोदावर्तलक्षणमाख्याति - मूत्र-स्येति । ६ भिन्नमूर्तेः = भिन्नशरीरस्येत्यर्थः । ७ जृम्भाऽवरोघोत्पन्नोदावर्तलक्षणमाचष्टे - मन्येति । मन्यागलयोः स्वम्भः, शिरो. विकाराः - सूर्यावर्तादिशिरोरोगाः, पवनात्मकाः = पवनजाः कम्पसुप्त्यादयः । ८ च. कारादरुचिविभ्रमादयश्च बोध्या: । ९ नैत्रोदकावरोधोत्पन्नोदावर्तलक्षणं वक्ति-आनन्दजमिति । प्राप्तं = प्रवृत्त्युन्मुखम् । १० चकारात् प्रतिश्यायादयो बोध्याः । ११ छिक्काऽवरोधोत्पन्नोदावर्तलक्षणं ब्रवीति - भवन्तीति । क्षवयोर्विधातात् - छिक्काऽ-वरोधात् । १२ चकारान्मन्यास्तम्भादयो बोध्याः । उतवा = अथवेत्यर्थः । १३ उद्गारावरोधोत्पन्नोदावर्तलक्षणं प्रतिपादयति- उद्गारेति । पवनप्रसूताः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1370
पाठ पढ़ें पाठ छिपाएँ
१२१२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ५५ छैर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् ॥ १४ ॥
मूत्राशये पानि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च ।
शुक्राश्मरी वत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ॥ १५ ॥
तन्द्राऽङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः ।
कैण्ठास्यशोपः श्रवणावरोधस्तृष्णाऽभिघाताद् हृदये व्यथा च ॥ १६ ॥
श्रान्तस्यै निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः । जृम्भाऽङ्गमर्दोऽङ्गशिरोऽक्षिजाड्य निद्राऽभिघातादथवाऽपि तन्द्रा १७
तृष्णाऽदितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् ।
शकृद्वमन्तं मतिमानुदावत्तनमुत्सृजेत् ॥ १८ ॥
सर्वेष्वेतेषु विधिवदुदावर्त्तेषु कृत्स्नशः ।
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये ॥ १ ९ ॥
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे 1 आस्थापनं ' ' मारुतजे स्निग्धस्विन्ने विशिष्यते ॥ २० ॥
वातजाः कम्पद्दिक्काहृद्विबन्धादयः । १ वमनावरोधोत्पन्नोदावर्तलक्षणमाह - छढ़ें-रिति । भवेच्चेति चकारादरोचकादयो बोध्याः । २ वीर्यावरोधोत्पन्नोदावर्तलक्षणं दर्शयति - मूत्राशय इति । मूत्राशये बस्तौ, पायुनि - गुदे, मूत्रविनिग्रहः = मूत्राप्रवर्तनम् । ३ तस्य शुक्रस्य स्रवणं तत्स्रवणम्, ते ते विकाराः = शुक्रवेगविधा -तजा हृत्पीडाऽङ्गमर्दादयः, विहते शुक्रे = निर्गच्छच्छुकावरोधे । ४ क्षुधाऽवरोधोत्पन्नोदावर्तलक्षणं निर्दिशति - तन्द्रेति । तन्द्रा = निद्राभेदः । कृशता चेति चकारात् कार्यदौर्बल्यादयो बोध्याः । ५ तृषावरोधोत्पन्नोदावर्तल -क्षणमाचष्टे - कण्ठेति । श्रवणावरोधः = अङ्गुलिपिहित इव शब्दस्याग्रहणम् । व्यथा-चेति चकाराच्छमस्वेदादयः । ६ श्वासावरोधोत्पन्नोदावर्तल क्षणमाख्याति - श्रान्तस्ये-ति । श्रान्तस्य== - घावनादिना खिन्नस्येत्यर्थः । ७ निद्राऽवरोधोत्पन्नोदावर्तलक्षणमभिधत्ते - जृम्भेति । जा © थं = गौरवम् । ८ अ · साध्योदावर्ते लक्षयति – तृष्णाऽर्दितमिति । परिक्लिष्टं = क्लेश संयुक्तम् । ९ उदा. वर्तेषु सामान्यचिकित्सां दर्शयति - सर्वेष्विति । १० स्वमागंप्रतिपत्तये = वायोरात्म • मार्गप्रवर्तनायेत्यर्थः । ११ वातजोदावर्तचिकित्सामाख्याति - आस्थापनमिति । श्रास्थापनं = निरूहः, CC - 0. Gurukul Kangri Collection, Haridwar