सुश्रुत संहिता चौखम्बा — पृष्ठ 1371–1380

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1371–1380

पृष्ठ 1371

सुश्रुत संहिता चौखम्बा, पृष्ठ 1371 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] Digitized by Arya Samai उत्तरतन्त्रम् Foundation Chennai and eGangotri

पुरीषजे तु कर्त्तव्यो विधिरानाहिको भवेत् ।

सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ॥ २१ ॥

एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरः ।

धात्रीफलानां स्वरसं सजलं वा पिबेत् त्र्यहम् ॥ २२ ॥

रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत् ।

मांसोपदेशं मधु वा पिवेद्वा सीधु गौडिकम् ॥ २३ ॥

भद्रदारु धनं मूर्वा हरिद्रा मधुकं तथा ।

कोलैप्रमाणानि पिवेदान्तरिक्षेण वारिणा ॥ २४ ॥

दुःस्पर्शास्वरसं वाऽपि कषायं क्रुङ्कुमश्य च ।

एवरुवीजं तोयेन पिबेद्वाऽलवणीकृतम् ॥ २५ ॥।

पञ्चमूलीशृतं चीरं द्राक्षारसमथापि वा ।

योगांश्च वितरेदत्रं पूर्वोक्तानश्मरीभिदः ॥ २६ ॥

मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः ।

भूयो वक्ष्यामि योगान् यान मूत्राघातोपशान्तये ॥। २७ ॥

स्नेहै: " स्वेदैरुदावत्त जृम्भाजं समुपाचरेत् । १२१३ १ ' अश्रु मोक्षोऽश्रुजे काय ः स्निग्धस्विन्नस्य देहिनः ॥२८ ॥

१२ तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्ङ्घनैः । ' विशिष्यते == विशेषेण क्रियते । १ पुरीषजोदावर्त चिकित्सामाह - पुरीषज इति । आना. हिको विधिविसूचिकाप्रतिषेधे वक्ष्यते । २ मूत्रोदावर्तचिकित्सां वक्ति - सौवर्चलेति । ३ मांसोपदंशं = मांसभक्षणसहितम्, मधु = द्राक्षोद्भवं मद्यम्, तदुक्तं तन्त्रान्तरे -" द्राक्षोद्भवं चापि पिवेन्मद्यं मांसोपदंशकम् " इति । गौढिकं गुडकृतं सीधु । ४ घनं == मुस्तकम् । ५ कोलप्रमाणानि = अध कर्षप्रमाणानि । ६ दुःस्पर्शास्वरसं = दुराल-भास्वरसम् । ७ अलवणीकृतम् = ईषत्सैन्धवयुतम् । ८ पञ्चमूलीश्टतं = लघु पञ्चमूलसाधितम् । तदुक्तम् - " लघुना पञ्चमूलेन शृतं क्षीरं पिवेन्नरः ” इति । ९ श्रत्र = मूत्रजोदावर्ते, पूर्वोकान् = " कुशः काशः शरः " इत्यादिका-नश्मरीचिकित्सितोक्तान् । एवं मूत्रकृच्छ्रमूत्राघातचिकित्सितोक्ता योगा अपि बोध्याः । १० जृम्भाऽश्रुजोदावर्तचिकित्सामाचष्टे - स्नेहैरिति । ११ अश्रुमोक्षः = नेत्रजल-निःसारणन् । १२ दवजोदावर्तचिकित्सां दर्शयति- तीक्ष्णेति । तीक्ष्णगन्धोपशिङ्घनैः-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1372

सुश्रुत संहिता चौखम्बा, पृष्ठ 1372 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२१४ Digitized by Arya Samaj सुतसंहितायां nangotri [ अ ० ५५ वर्त्तिप्रयोगैरथवा क्षवसक्ति प्रवर्त्तयेत् ॥ २ ९ ॥

तीक्ष्णौषधप्रधमनैरथवाऽऽदित्यरश्मिभिः ।

उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ॥ ३० ॥

सुरां सौवर्चलवतीं बीजपूररसान्विताम् ।

छर्द्याघौतं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ॥ ३१ ॥

सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् ।

बैस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ॥ ३२ ॥

आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः 1 रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम् ॥ ३३ ॥

क्षुद्विघाते हितं स्निग्धमुष्णमल्पञ्च भोजनम् ।

तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ॥ ३४ ॥

भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः ।

निद्राघाते १० पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ॥ ३५ ॥

आध्मानाद्येषु ' ' रोगेषु यथास्वं प्रयतेत हि ।

यच्च यत्र भवेत् १२ प्राप्तं तच्च तस्मिन् प्रयोजयेत् ॥ ३६ ॥

वायुः १३ ३ कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः । पौनःपुन्येन मरिचादिचूर्णावघ्राणैः । १ धूमवर्तिप्रयोगैरित्यर्थः । क्षवसक्ति = छिक्काया अप्रवर्तनम् । २ उद्गारजोदावर्तचिकित्सां निर्दिशति - उद्गारज इति । क्रमोपेतं = धूमनस्य कवलग्रहचिकित्सितोक्तक्रमयुतम् । ३ छर्घाघातजोदावर्तचिकित्सामभिदधाति -छर्घाघातमिति । छर्घाघातं = छर्धा. घातजमुदावर्तमित्यर्थः ४ क्षारः = यवक्षारः । ५ । शुकोदावर्तचिकित्सामभिधत्ते— बस्तीति । बस्तिशुद्धिकरावा पं = कूष्माण्डकतृणपच मूलादिप्रक्षेपम् । ६ प्रकामतः = स्वेच्छयेत्यर्थः । ७ क्षुत्तृष्णाघातजोदावर्तचिकित्सामाह- क्षुद्विघात इति । ८ यवागूं = पेयाम्! ९ मांसरसेनेत्यर्थः । १० निद्राघातजोदावर्तचिकित्सां ब्रवीति — निद्रेति । क्षीरं = गोदुग्धम् । तदुक्तमन्यत्र - " निद्राघाते पिबेत् क्षीरं गोस्तनादथवा नरः " इति । इष्ट--कथाः = अनुकूलकथाः, ' शृणुयात् ' इति शेषः । ११ उदावर्तोपद्रवचिकित्सामाचष्टे - आध्मानाद्येष्विति । श्रादिशब्दाच्छूलपरि • कर्तिकापुरोषसङ्गादयो ग्राह्याः । १२ प्राप्तं = युक्तमित्यर्थः । १३ " श्रपथ्यभोजना--CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1373

सुश्रुत संहिता चौखम्बा, पृष्ठ 1373 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५५ ] Digitized by Arya उतरत on Chennai and eGangotri १२१५ भोजनैः कुपितः सद्य उदावर्त्तं करोति हि ॥ ३७ ॥

वातमूत्रपुरीषासृक्कफमेदोवहानि वै ।

स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ॥ ३८ ॥

ततो हृद्वस्तिशूला गौरवारुचिपीडितः ।

वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ॥ ३ ९ ॥

श्वासकासप्रतिश्यायदाह मोहवमिज्वरान् ।

तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ॥ ४० ॥

लभते च बहूनन्यान् विकारान् वातकोपजान् ॥

तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ॥ ४१ ॥

दोपतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् ।

न चेच्छान्ति व्रजत्येवमुदावर्तः सुदारुणः ॥ ४२ ॥

अथैनं बहुशः स्विन्नं युज्यात् स्नेहविरेचनैः ॥

पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ॥ ४३ ॥

हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम् ।

योगावेतावुदावर्त्तं शूलञ्चानिलजं हतः ॥ ४४ ॥

देवदाको कुष्टं शुण्ठीं पथ्यां पलङ्कषाम् ।

पौष्कराणि च मूलानि तोयस्यर्द्धाढके पचेत् ॥ ४५ ॥

पादावशिष्टं तत् पीतमुदावर्त्तमपोहति । च्चापि वदयते च तथाऽपरः " इति प्रागुक्तस्य दोषजोदावर्तस्य निदानं लक्षणानि चोप. दिशति - वायुरिति । अपानवायुरित्यर्थः । कोष्ठानुगः कोष्ठशब्देन समस्तमुदरमध्य-मुच्यते । रूक्षैः = चणकराजमाषादिभिः । १ उदावर्तयति = ऊर्ध्वमावर्तयति, अति. वर्तयेत् = शोषयेदित्यर्थः । २ दोषजोदावर्तस्य चिकित्सां प्रतिपादयति — तमिति । तम् = उदावर्तिनम् । ३ भिन्नवर्चस्कं = निरूह भिन्नपुरोषम् । ४ एरण्डतैलादिस्नेहविरेचनैरित्यर्थः । ५ पी-लुः कोङ्कणदेशप्रसिद्धो गुडफलविशेषः । अम्लं = काञ्जिकम्, पाचनानि = चित्रका · दीनि द्विगुणं ग्राह्यमित्यर्थः । ७ श्रग्नि । ६ द्विरुत्तरं = हिङ्ग्वादिद्रव्यादुत्तरोत्तरं ८ अर्धाढके = द्वात्रिंशत्पलप्रमिते । ९ पा कः = अजमोदा, पलङ्कषा = गुग्गुलुः । दावशिष्टम् = अष्टपलप्रमितम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1374

सुश्रुत संहिता चौखम्बा, पृष्ठ 1374 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२१६ Digitized by Arya Samaj सुश्रुतसंहितायांIndeGangotri [ अ ० ५५ मूलकं मुष्कमार्द्रञ्च वर्षाभूः पञ्चमूलकम् ॥ ४६ ॥

आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् ।

तत्पीयमानं शास्त्युग्रमुदावर्तमशेषतः ॥ ४७ ॥

वचामतिर्विषां कुष्ठं यवक्षारं हरीतकी म् ।

कृष्णां निर्दहनीचापि पिबेदुष्णेन वारिणा ॥ ४८ ॥

इक्ष्वाकुमूलं मदनं विशल्याऽतिविषे वचाम् ।

कुष्ठ किण्वग्निक चैव पिबेत् तुल्यानि पूर्ववत् ॥ ४ ९ ॥

मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत् ।

यर्श्वप्रस्थं फलैः सार्धं ' कण्टकाय्र्या जलाढके ॥ ५० ॥

पक्त्वाऽर्द्धप्रस्थ शेषन्तु पिबेद्धिङ्गुसमन्वितम् ।

मदनाला बुबीजानि 0 पिप्पलीं सनिदिग्धिकाम् ॥ ५१ ॥

सञ्चूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् ।

चूर्णं " निकुम्भकम्पिल्लश्यामेक्ष्वाक्कनिकोद्भवम् ॥ ५२ ॥

१२ कृतवेधनमागध्योलवणानाञ्च साधयेत् । गवां मूत्रेण ता वर्त्तीः कारयेत्तु १ गुदानुगाः । १ बिल्वादिपञ्चमूलमित्यर्थः । २ श्रारेवतफलं = शम्पाकफलम्, पक्त्वा = क्वाथयित्वा । ३ शास्ति = दन्ति । ४ अतिविषा = ' अतीत ' इति ख्याता ।. ५ नि दहनी = ' अरनी ' इति ख्याता । ६ इक्ष्वाकुमूलं = कटुतुम्बीमूलम्, मदनं = मदन-फलम्, विशल्या == इन्द्रवारुणी । ७ किण्वं = मधूकपुष्पजीरकमित्यर्थः । श्रग्निकः = अजमोदा, पूर्ववत् = उष्णेन वारिणा । ८ श्रग्निः = चित्रकः । यवस्य प्रस्थं ९ षोडशपलानीत्यर्थः । जलाढके = जलस्य चतुःषष्टिपलप्रमिते । १० मदनालाबुनोबींजानोत्यर्थः । तदुक्तं तन्त्रान्तरेऽपि - " मदनालाबुनोबीजं कण्ट-कारी समन्वितम् ” इति । सनिदिग्धिकां = कण्टकारीसहिताम् । ११ निकुम्भः = दन्ती, कम्पिल्लः = ' कवीला ' इति ख्यातः । श्यामा = रक्तमूला त्रिवृत्, इक्ष्वाकुः = कटुतुम्बी, अग्निकः = अजमोदा । १२ कृतवेधनं = कोशात कीफलम्, मागधी = पिप्प • लो । १३ गुदानुगाः गुदप्रवेशयोग्यप्रमाणा इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1375

सुश्रुत संहिता चौखम्बा, पृष्ठ 1375 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५६ ] उत्तरतन्त्रम Digitized by Arya Samaj Foundation Chennai and eGangotri सद्यः शर्म करावेतौ योगावमृतसम्भवौ ॥ ५३ ॥

१२१७ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम ( सप्तदशोऽध्यायः, आदितः ) पञ्चपञ्चाशत्तमोऽध्यायः ॥५५ ॥

षट्पञ्चाशत्तमोऽध्यायः ।

थोतो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अजीर्ण मामं विश्वधं विदग्धञ्च यदीरितम् ।

विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ॥ ३ ॥

सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः ।

यस्याजीर्णेन सा वैद्यैरुच्यते ' ति विसूचिका ॥ ४ ॥

न तीं परिमिताहारा लभन्ते विदितागमाः ।

मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ॥ ५ ॥

मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः । १ शर्म करो - सुखकरौ, ' शर्मशातसुखानि च ' इत्यमरः । श्रमृतसम्मतौ = सुधा • तुल्यावित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽख्यटिप्पन्यां पञ्चपञ्चाशोऽध्यायः । षट्पञ्चाशत्तमोऽध्यायः । २ उदावर्तप्रतिषेधानन्तरं विसूचिकाप्रतिषेधमधिकरोति - अथात इति । विसू ॰ चिकाशब्दोऽयं प्रकृत्या जहत्स्वार्थया लक्षणया अलसकविलम्बिके लक्षयति । ३ विसु-च्यादीनां कारणं दर्शयति - अजीर्णमिति । ईरितम् ' अन्नपानविधौ ' इति शेषः । ४ विसूचिकाया निरुक्तिं वक्ति– सूचीभिरिति । ५ ' वर्णागम ' इत्यादिना इकारस्य लोपात् साधुः । ' ति ' इत्यत्र ' तु ' इति पाठः । ६ तां = विसूचिकाम्, विदि. तागमाः = ज्ञातायुर्वेदाः । ७ कलुषाशयाः = प्रदुष्टामाशयाः । ' लभन्तेऽशनलोलुपाः ' इति पाठान्तरम् । ८ विसूचिकालक्षणमुपदिशति — मूर्च्छति । ७७ वमथुः = वमनम्, उद्वेष्टनं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1376

सुश्रुत संहिता चौखम्बा, पृष्ठ 1376 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२१८ Digitized by Arya Samaj Four Fou सुश्रुत संहितायां oceangotri [ अ ० ५६ वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ॥ ६ ॥

कुक्षिरानह्यतेऽत्यथ प्रताम्यति विकूजति ।

निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ॥ ७ ॥

वातवर्चोनिरोधश्च कुक्षौ यस्य भृशम्भवेत् ।

तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ॥ ८ ॥

दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवर्त्तते नोर्ध्वमधश्च यस्य । विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ९

यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः ।

दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च ॥ १० ॥

यः श्यावदन्तौष्ठनखोऽल्प संज्ञश्छद्येदितोऽभ्यन्तरयातनेत्रः ।

क्षामवँरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ॥११ ॥

इस्तपादादीनां मोटनम् । १ शिरसो भेदः = शिरःशूलम् । २ अलंसकलक्षणं प्रतिपादयति — कुक्षिरिति । कुक्षिः = उदरम्, आनह्यते = श्राध्मायते, प्रताम्यति = वाडयति, विकूजति = आर्तनादं करोति । ३ विपरिधावतिविशेषेण समन्ताद् गच्छतीत्यर्थः । ४ विलम्बिकालक्षणं ब्रवीति - दुष्टमिति । यस्य पुरुषस्य भुक्तमन्नं कफमारु • ताभ्यां दुष्टं सदूर्ध्वमधश्च न प्रवर्तते, पुराणाः शास्त्रविदस्तां विलम्बिकामाचक्षते इति सम्बन्धः । भृशं दुश्चिकित्स्यां प्रत्याख्यायोपचरणीयामित्यर्थः । इयमेव विलम्बिका तन्त्रान्तरे ' दण्डालसक ' इति नाम्ना पठ्यते । ५ श्रमस्य विकारान्तरकारित्वं प्रतिपा • दयति — यत्रस्थमिति । श्रामं कर्तृ, यत्रस्थं यस्मिन् देशे स्थितं येन च दोषेण स्व ॰ कारणकुपितेन वातादिनाऽवततं व्याप्तं स्यात्, तमेव देशं यस्माद् विशेषेण विरुजेत्; एतेनान्यदेशेऽपि किञ्चिद्रुजं करोतीति बोध्यम् । यथा गण्डमालादौ पिण्डिकास्थित -स्यापि दोषस्य ग्रीवादौ विकारकर्तृत्वम् । तस्मात् तं देशं स्वलिङ्गैस्तोदादिभिरामस · मुद्भवैश्च स्तम्भाध्मानादिभिर्विकारजातैर्विकार समूहैः लक्षयेद्, वैद्य इति शेषः । आमस्य लक्षणम्– “ अविपक्चमसंयुक्तं दुर्गन्धं बहु पिच्छिलम् । सादनं सर्वगात्राणामाममित्य-भिधीयते ॥ ” इति । ६ विसूचिलाया असाध्यलक्षणं दर्शयति - य इति । अल्पसंज्ञः = मन्दचेतनः, अभ्यन्तरयातनेत्रः = कोटरान्तः प्रविष्टाक्षिगोलकः । ७ क्षामस्वरः = क्षीणस्वरः, सर्व-विमुक्तसन्धिः = शिथिलीभूत सर्वपर्वास्थिसन्धिः, अपुनरागमाय = मरणायेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1377

सुश्रुत संहिता चौखम्बा, पृष्ठ 1377 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Samaj " उत्तरतन्त्रम् Eundation Chennai and eGangotri To ] Digitized by Arya " । " १२१ ९

सांध्यासु पार्योर्दहनं प्रशस्तमग्निप्रतापो वमनञ्च तीक्ष्णम् ।

पक्के ततोऽन्ने तु विलङ्ङ्घनं स्यात् सम्पाचनं चापि विरेचनं च ॥१२ ॥

विशुद्धदेहस्य हि सद्य एव मूर्च्छाऽतिसारादिरुपैति शान्तिम् ।

आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानरान्निबोध ॥ १३ ॥

पथ्यावचाहिङ्गुकँलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम् ।

सुखाम्बुपीतं विनिहन्त्यजीर्ण शूलं विसूचीमरुचिश्च सद्यः ॥ १४ ॥

क्षारौगदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा ।

अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सधृतौ त्रिव ॥ १५ ॥

कटुत्रिकं वा लवणैरुपेतं पिवेत् स्नुहोक्षीरविमिश्रितं तु ।

कल्याणकं वा लवणं पिवेत्तु यदुक्तंमादावनिलामयेषु ॥ १६ ॥

कृष्णाऽजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ ।

दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषर्व तीरसेन ॥ १७ ॥

उष्णाभिरद्भि मँगधोद्भवानां कल्कं पिवेन्नागरकल्कयुक्तम् ।

व्योष " करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्गयाः ॥ १८ ॥

छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं " नयनाञ्जनेन ।

सुवामितं साधुविरेचितं वा सुलङ्घितं वा मनुजं विदित्वा ॥ १ ९ ॥

पेयादिभिर्दीपनपाचनीयैः: सम्यक् क्षुधार्त्त समुपक्रमेत ॥

आमं २ शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन ॥ २० ॥

१ विसूचिकादीनां चिकित्सितमाचष्टे - साध्यास्विति । २ स्वेदादिभिः स. म्पाचनमित्यर्थः । ३ अपरान् = पथ्यावचेत्यादिना वच्यमाणान् । ४ कलिङ्गः = इन्द्रयवः, गृअ: = गृञ्जनम् । ५ क्षारागदं दुन्दुभिस्वनीयोक्तम्, लवणं विडं = विड-लवणम् । ६ अम्लेन = काञ्जिकेन, सबीजपूरौ - बीजपूरसहितौ, सधृनौ = तुल्यप्र-माणौ, त्रिवर्गौ = त्रिफलात्रिकटुकौ । ७ वातव्याधिचिकित्सिते गण्डीरपलाशैत्या-दिना यदुक्तमित्यर्थः । ८ अम्लेनेति अत्रापि सम्बध्यते । मगधा = पिप्पली, निकुम्भ: = दन्तौ । ९ कोषवती घोषकभेदः, तस्य रसेनेत्यर्थः । १० विसूच्यां प्रमीलकादिशान्त्यर्थं नयनाञ्जनं निर्दिशति - व्योषमिति । व्योषं = त्रिकटुकम् । ११ विसूची = विसूचिकाजनितं प्रमीलकशिरोरोगादिकम्, कारणे कार्यो · पचारात् । १२ अथ विसूचिकातुल्यचिकित्सितत्वाद विसूचिकोपद्रवाच्च श्रनाहमा--CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1378

सुश्रुत संहिता चौखम्बा, पृष्ठ 1378 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२०. सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५६ प्रवर्त्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति । तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः आमाशये शूलमथो गुरु हृल्लास उद्गारविघातनञ्च । || २१ || स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च ॥ २२ ॥

श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि ।

औमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः ॥ २३ ॥

अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च ।

विसूचिकायां परिकीर्त्तितानि द्रव्याणि वैरेचनिकानि यानि ॥ २४ ॥

तान्येव वर्त्तीर्वितरेद् विचूर्ण्य महिष्यजावीभगवां तु मन्त्रैः ।

स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या ॥ २५ ॥

मूत्रेषु 5 संसाध्य यथाविधानं द्रव्याणि यान्यूर्ध्वमधश्च यान्ति ।

क्वाथेन तेनाशु निरूहयेच्च मूत्रार्द्धयुक्तेन समाक्षिकेन ॥ २६ ॥

ख्याति – आममिति । क्रमेण निचितं वृद्धि गतमामपक्वान्नरसः शकृद् वा विगुणा. निलेन उन्मार्गवायुना विबद्धमवरुद्धं सद् न प्रवर्तमानं स्वमार्गेऽप्रवर्तमानमेनमानाइ-मुदाहरन्तीत्यर्थः । १ श्रामजानाहं लक्षयति - तस्मिन्निति । तस्मिन् = श्रनाहे, श्रामसमुद्भवे । २ उद्गारविघातनम् = उद्गारप्रवृत्तिः । ३ पुरीषजानाइलक्षणं दर्शयति --- स्तम्भ इति ॥ ४ पक्वाशयजे श्रनाहे इत्यर्थः ५ श्रामजानाइ चिकित्सां वक्ति- आमे. ति । संसर्गभक्तक्रमः = पेयादिक्रमः । ६ पुरीषजानाइ चिकित्सामाचष्टे – अथेति । यः पुरुषः शकृत् पुरीषं न वमेत्, तस्य तमामम् श्रामदोषानुविद्वमितरं पुरीषजमानाहं स्वेदनपाचनैर्जयेदिति योजनीयम् । ७ अतिदेशेन आनाहचिकित्सितमभिधत्ते - विसूचिकायामिति । विसूचिकायां यानि वैरेचनिकानि द्रव्याणि दन्त्यादीनि परिकीर्तितानि तानि विचूर्ण्य महिष्यजावी. भगवां मूत्रैर्विपाच्य वर्तीविरचेत्, ताश्च वर्तीः स्त्रिन्नस्य नरस्य पायौ गुदे विनिवेश्य एषां वैरेचनिकद्रव्याणां चूर्णानि नाढया प्रघमेदिति सम्बन्धनीयम् । ८ श्रानाहे निरूहमुपदिशति - मूत्रेष्विति । यानि द्रव्याणि ऊर्ध्वमधश्च यान्ति संशोधनसंशमनोयोक्तानि कोशातक्यादीनि तानि महिष्यादिजेषु सूत्रेषु यथाविधानं क्वाथपाकविधिना संसाध्य तेन क्वाथेन मूत्रार्धं युक्तेन श्रर्धमूत्रान्वितेन समाक्षिकेन त्रि-भण्डियुक्तं लवणप्रकुचं त्रिवृत्सहितमेव सैन्धवलवणपलं दत्त्वा निरूइयेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1379

सुश्रुत संहिता चौखम्बा, पृष्ठ 1379 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri उत्तरतन्त्रम् । १२२१

त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च ।

एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च ॥ २७ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रति षेधो नाम ( अष्टादशोऽध्यायः, आदितः ) षट्पञ्चाशोऽध्यायः ॥५६ ॥

सप्तपञ्चाशत्तमोऽध्यायः ।

अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

३ दोषैः पृथक् सह च चित्तविपर्य्ययाश्च भक्तायनेषु हृदि चावतते प्रगाढम् । नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपँघातमिह पञ्चविधं वदन्ति ॥ ३ ॥

१ आनाहेऽनुवासनं निर्दिशति - एष्वेवेति । एषु = कोशातक्यादिष्वित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्र सुधाऽख्यटिप्पन्यां षट्पञ्चाशत्तमोऽध्यायः । सप्तपञ्चाशत्तमोऽध्यायः । २ विसूचिकाप्रतिषेधानन्तरमग्निमान्ध हेतुत्व साम्यादरोचकप्रति षेध मधिकरोति-अथेति । अरोचकः, श्रभक्तच्छन्दः, अन्नद्वेषश्चेति पर्यायाः । वृद्धभोजे एषां परस्परं भेदोऽङ्गीकृतः । तद्यथा - " प्रक्षिप्तं तु मुखे चान्नं जन्तोर्न स्वदते मुहुः । श्ररोचकः स विज्ञेयो, भक्तद्वेषमतः शृणु ॥ चिन्तयित्वा तु मनसा दृष्ट्वा श्रुखाऽपि भोजनम् । द्वेष-मायाति यज्जन्तुर्भक्तद्वेषः स उच्यते ॥ यस्य नान्ने भवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते ” । इति । ३ सम्प्राप्तिद्वारेण संख्यामाख्याति - दोषैरिति । चित्तविपर्ययात् = कामशोक ' भयादिनिमित्ततश्चित्तवैकल्यात्, भक्तायनेषु = अन्नवहेषु स्रोतःसु, भक्तायनपदं जिह्वो • पलक्षणम् । तथा च तन्त्रान्तरम् – “ पृथग्दोषैः समस्श्च जिह्वा हृदय संसृतैः । जाय-तेऽरुचिराहारे द्विष्टैरन्यैश्च मानसैः ॥ ” इति । ४ भक्तोपघातम् = श्ररोचकम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1380

सुश्रुत संहिता चौखम्बा, पृष्ठ 1380 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सश्रुतसंहितायां १२२२ Digitized by Arya Samaj Fodaion Chennal and eGangotri हृच्छूलंपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु । हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छातृ भवति पित्तकृते तथैव ॥ ४ ॥

कण्डूगुरुत्वकर्फसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु । सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति ॥ ५ ॥

संरोगशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च ।

वाते वचाऽम्बुवमनं कृतवान् पिबेच्च ।

स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् ॥ ६ ॥

कृष्णाविडङ्गयवभस्महरेणु भार्गी -रास्नैलहिङ्गलवणोत्तम नागराणाम् । पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ॥ ७ ॥

निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात् । चूर्ण यदुक्तमथ वाऽनिलजे तदेव [ अ ०५७ १ वातिकाधरोचकलक्षणं दर्शयति - हृच्छूलेति । २ कफसंस्रवः = श्लेष्म • स्यन्दनम्, सादः = अङ्गग्लानिः । ३ अवशिष्ट पञ्चममरोचकं लक्षयति - संरागेति । संरागः = कामः, अशुचिदर्शनात् = बीभत्सादिदर्शनात् । ४ वातिकारोचकचिकित्सा • माचष्टे -वात इति । वाते = त्रातजा रोचके, वचाऽम्बुना वचाक्काथेन वमनं वचाऽम्बु-बमनम् । ५ इरेणुः = रेणुका, निर्गुण्डीबोजमित्यर्थः । लवणोत्तमं = सैन्धवम् । ६ पैत्तिकारोचकचिकित्सामभिधत्ते - पित्त इति । पित्ते = पित्तजारोचके । ७ श्लैष्मिकारोचकचिकित्सां निर्दिशति - निम्बेति । निम्बाम्बुना निम्बक्काथेन वामितवतः पंस इत्यर्थः । राजद्रुमाम्बु आरग्वधक्काथः, सदोप्यकम् = प्रजमोदास · दितम् । कृष्णाविडङ्गयत्र भस्मेत्यादिना यदुक्तमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar