सुश्रुत संहिता चौखम्बा — पृष्ठ 1381–1390

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1381–1390

पृष्ठ 1381

सुश्रुत संहिता चौखम्बा, पृष्ठ 1381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५७ ] Digitized by Arya च तन्त्र phennai and eGangotri सर्वैश्च सर्वकृतमेवमुपक्रमेत ॥ ८ ॥

द्राक्षापटोलविड वेत्रकरीर निम्ब-मूर्वाऽभयाऽक्षबद रामल केन्द्रवृक्षैः ।

बीजे: करञ्जनृपवृक्षेभवैश्च पिष्टै-लेहं पचेत् सुरभिमूत्रयुतं यथावत् ॥ ९ ॥

मुस्तां वचां त्रिकटुकं रजनीद्वयञ्च भार्गीश्च कुष्ठमथ निर्दहनीञ्च पिष्ट्वा । मूत्रेऽर्विजे द्विरदमूत्रयुते पचेद्वा पाठान्तुगामतिविषां रजनीच मुख्याम ॥ १० ॥

मैण्डूकिमर्कममृताञ्च सलाङ्गलाख्यां मूत्रे पचे महिषस्य विधानविद्वा । एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ॥ ११ ॥

सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्

पानानि मूलफलपाडवरागयोगान् ।

अद्यासांश्च विविधान् विविधैः प्रकारै-• र्भुञ्जीत चापि लघुरुक्षमनःसुखानि ॥ १२ ॥

आस्थापनं विधिवदत्र विरेचनञ्च कुर्यान्मृदूनि शिरसश्च विरेचनानि । १२२३ १ चतुर्णामप्यरोचकानां यथासंख्येन चतुरो लेहानुपदिशति - द्राक्षेति । द्राक्षादिः सुरभिमूत्रयुतं यथावदित्यन्तः प्रथमो योगः । श्रभया = हरीतकी, अक्षं = बिभीतकम्, इन्द्रवृक्षः = कुटजः । २ नृपवृक्षः = श्रारग्वधः । ३ मुस्तादिः मूत्रेऽविजे इति पर्यन्तो द्वितीयो योगः । निर्दद्दनी = चित्रकः । ४ श्रविजे = मेषोत्थे मूत्रे इत्यर्थः । द्विरदमूत्रयुते = इस्तिमूत्रयुक्ते, द्विरदमूत्रयुत पर्यन्तस्तृतीयो योगः । ५ मण्डूकीत्यादिश्चतुर्थो इत्यारभ्य रजनीं च मुख्यामिति योगः । मण्डूकी = ब्राह्मी, श्रमृता = गुडूची, लाङ्गलाख्या = कलिहारी । ६ सा-स्म्यान = • प्रकृत्यनुकूलान् । ७ मांसरसानित्यर्थः । ८निषिद्धस्यापि निरूहस्य अरोचके प्रयोगं वक्ति- आस्थापनमिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1382

सुश्रुत संहिता चौखम्बा, पृष्ठ 1382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२४ ' Digitized by Arya Samaj Foundation " सुश्रुतसंहितायां eGangotri [ अ ०५७ त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि ॥ १३ ॥

क्षौद्रायुतानि वितरेन्मुखबोधनार्थ-मन्यानि तिक्तकटुकानि च भेषजानि । मुस्तादिराजैतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥ १४ ॥

मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्ठैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः । स्यादेष एव कफवातहते विधिव शान्ति गते हुतभुजि प्रशमाय तस्य ॥ १५ ॥

इर्च्छाऽभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान् । अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिपथैरनुमानयेत्तम् ॥ १६ ॥

दैन्यं गते मनसि बोधनमत्रशस्तं यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥ १७ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम ( एकोनविंशोऽध्यायः, आदितः ) सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥

श्रास्थापनं निरूहः । १ त्रीण्यूषणानि = त्रिकटुकानि । २ यवशूकः यवक्षारः । = ३ राजतरुवर्गः = श्रारग्वधादिवर्ग:, दशाङ्गं = दशमूलम् । ४ मूत्रेणासूयन्त इति मूत्रासवास्तैर्मूत्रासवैः, कथम्भूतैः — गुडकृतैः = कुष्ठचिकित्सितोक्तविधिना गुडमध्वादि • कृतैरित्यर्थः । अरिष्टैः = अभयाऽरिष्टादिभिः, क्षारासवैः = महाकुष्ठोक्तैर्मध्वादिभिः पलाशक्षारपानीयेन सह साधितैः, मधुमाधव तुल्यगन्धः - मधु क्षौद्रं माधवं मधुकृतं मद्यं, तयोस्तुल्यगन्धैरित्यर्थः । ५ पूर्वोक्तविधानमविपाकेऽतिदिशति - स्यादेष इति । शान्ति गते = मन्दतां प्राप्ते, हुतभुजि = जाठराग्नौ, अविपाके इत्यर्थः । ६ श्रागन्तुजारोचकचिकित्सा-माह - इच्छेति । इच्छाऽभिघातः = वान्छाऽप्राप्तिः, भवाय = रुच्युत्पादनाय, शक्य. रूपान् = प्राप्यान् । ७ श्रपचितेषु नष्टेषु, अनुमानयेत् = प्रबोधयेत् । दैन्यं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1383

सुश्रुत संहिता चौखम्बा, पृष्ठ 1383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri १२२५ उत्तरतन्त्रम् ।

अष्टपञ्चाशत्तमोऽध्यायः ।

अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वाते कुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च ।

मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ॥ ३ ॥

मूत्रग्रन्थिर्मूत्रशुकमुष्णवातस्तथैव च ।

मूत्रौसादौ द्वौ चापि रोगा द्वादश कीर्त्तिताः ॥ ४ ॥

रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः ।

मूत्रं चरति सङ्गृह्य विर्गुणः कुण्डलीकृतः ॥ ५ ॥

सृजेदल्पाल्पमथवा संरुजस्कं शनैः शनै: वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ॥ ६ ॥

शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः ।

अष्टीलावद् घनं ग्रन्थि करोत्यचलमुन्नतम् ॥ ७ ॥

विण्मूत्रानिलसङ्गश्च तत्राध्मानञ्च जायते । गते = क्लिष्टे इत्यर्थः । बोधनं = सदुपदेशादिभिः प्रबोधनम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तपञ्चाशत्तमोऽध्यायः । अष्टपञ्चाशत्तमोऽध्यायः । १ अरोचकप्रतिषेधानन्तरं " भूयो वक्ष्यामि योगांश्च मूत्राघातोपशान्तये " इत्युदा-वर्तंप्रतिषेधे प्रतिज्ञातं व्याख्यातुं मूत्राघातप्रतिषेधमधिकरोति - प्रथात इति । मूत्रा • घातः = मूत्रावरोधः । २ मूत्राघातानां नामानि निर्दिशति - वातेति । श्रष्ठीला = वाताष्ठीलेत्यर्थः । निदानस्थानोक्ता वाताष्ठोला सा एतदभिन्ना बोध्या । ३ मूत्रको मूत्राश्रयः, मूत्राश्रयः सादो यस्य स मूत्रौकसादः । श्रोक श्राश्रय इति पर्यायौ । ४ वातकुण्डलिकालक्षणं दर्शयति - रौक्ष्यादिति । ५ विगुणः = कुपितः, कुण्डलीकृतः = वलयीकृतः, ' कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च ' इति मेदिनी । ६ सरुजस्कं = सवेदनम् । ७ सुदारुणं मारणात्मकत्वात् । ८ वाताष्ठीलालक्षणं निर्दिशति - शत्रूदिति । शकुन्मार्गस्य = गुदस्येत्यर्थः । ९ श्रष्ठीला दीर्घंवर्तुलपाषाणभेदः । १० श्राध्मानं बस्तौ ज्ञातव्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1384

सुश्रुत संहिता चौखम्बा, पृष्ठ 1384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सश्रुतसंहितायां— १२२६ Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ० ५८ वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ॥ ८ ॥

- वेगं विधारयेद्यस्तु मत्रस्याकुशलो नरः ।

निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ॥ ९ ॥

मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः ।

वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ॥ १० ॥

' सन्धा सन्धार्य्य मूत्रस्य यो भूयः स्रष्टुमिच्छति ॥ तस्य नौभ्येति यदि वा कथञ्चित्सम्प्रवर्त्तते ॥ ११ ॥

प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः ।

मूत्रातीतन्तु तं विद्यान्मूत्रवेगविघातजम् ॥ १२ ॥

मुत्रस्यै विहते वेगे तदुदावर्त्तहेतुना ।

अपानः कुपितो वायुरुदरं पूरयेद् भृशम् ॥ १३ ॥

नाभेरधस्तादाध्मानं जनयेत्तीव्र वेदनम् ।

तं मूत्रजठरं विद्याधःस्रोतोनिरोधनम् ॥ १४ ॥

बंस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः ।

मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ॥ १५ ॥

स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् ।

विगुणानिलैजो व्याधिः समूत्रोत्सङ्गसंज्ञितः ॥ १६ ॥

रूक्षस्य ' " क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ ।

सदाह वेदनं कृच्छ्रं कुर्य्यातां मूत्रसङ्क्षयम् ॥ १७ ॥

१ वातबस्तिलक्षणमाइ – वेगमिति । वेगं - प्रवृत्त्युन्मुखत्वम्, अकुशल:: == मूर्ख इत्यर्थः । २ मूत्रातीतलक्षणमभिधत्ते - वेगमिति । ३ नाभ्येति = मूत्रं ना. गच्छति । ४ प्रवाइत: = वेगेन वर्तयतः । ५ मूत्रजठरलक्षणमभिदधाति - मूत्रस्येति । उदावर्तहेतुना = मूत्रवेगधारणजनितोदावर्तनिमित्तेन । ६ अधःस्रोतोनिरोधनं = मूत्रपुरीष-मार्गावरोधकमित्यर्थः । = ७ मूत्रोत्सङ्गलक्षणमाचष्टे – बस्ताविति । नाले = मेढस्रोतसि, मणौ - मेढ्राग्रे । ८ सज्जेत = निरुद्धं स्यात्, सरक्तं = प्रवाहणकुपितवायुना बस्त्यादिभेदजनितरक्तयुक्त मूत्रमित्यर्थः । ९ त्रिगुणानिलजः = कुपितवातजः । मूत्रक्षयलक्षणमाख्याति -१० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1385

सुश्रुत संहिता चौखम्बा, पृष्ठ 1385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५८ ] उत्तरतन्त्रम् Chennai Digitized by Arya Samaj Foundation Chennai and eGangotri

अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च ।

वेदनावानति सदा मूत्रमार्गनिरोधनः ॥ १८ ॥

जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः स मूत्रन्थिरित्येवमुच्यते वेदनाऽऽदिभिः ॥ १ ९ ॥

प्रत्युपस्थित मूत्रस्तु मैथुनं योऽभिनन्दति ।

तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते ॥ २० ॥

पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन ।

भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥ २१ ॥

व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलावृतम् ।

बस्तिं मेढं गुदञ्चैव प्रदहन् स्रावयेदधः ॥ २२ ॥

मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ।

कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् ॥ २३ ॥

विशदं पीतकं मूत्रं सदाहं बहलं तथा ।

शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् ॥ २४ ॥।

१२२७ रूक्षस्येति । क्लान्तदॆहस्य = श्रान्तशरीरस्य । १ मूत्रग्रन्थिलक्षणं वक्ति - अभ्यन्तर इति । अभ्यन्तरे बस्तिमुखे - बस्तिमुखस्याभ्यन्तरे इत्यर्थः । बृत्तः = वर्तुलः । २ मूत्र-मार्गनिरोधनः = मूत्रवाहिस्रोतोनिरोधनः । ३ वेदनाभिर मर्यास्तुल्यलक्षणः । श्रश्मर्या सह श्रस्य भेदस्तु - श्रश्मय पित्ता-दिकं संइन्यते, अत्र रक्तमेव । तथा च तन्त्रान्तरम् - " रक्तं वातकफाद् दुष्टं बस्तिद्वारे सुदारुणम् । ग्रन्थि कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम् ॥ अश्मरीसमशूलं तं मूत्र-ग्रन्थि प्रचक्षते " इति । ४ मूत्रशुक्रस्य लक्षणं ब्रवीति - प्रत्युपस्थितेति । प्रत्युप-स्थितमूत्रः = सञ्जातमूत्रवेगः, अभिनन्दति = इच्छति, करोतीत्यर्थः । ५ भस्मोदक-प्रतीकाशं = भस्ममिलितोदकसदृशम् । ६ उष्णवातलक्षणमाइ — व्यायामेति । श्रनिलावृतं = बात संयुतम् ' अनिला-' न्वितम् ' इति पाठान्तरम् । ७ हारिद्रं = हरिद्रावर्णम्, सरक्तम् - ईवद्रक्तम्, रक्त • मेव = केवलं शोणितम्, अत्यन्तरक्तवर्णमूत्रं वेत्यर्थः । ८ मूत्रौकप्तादलक्षणमाचष्टे-घनमित्यर्थः । गोरोच-विशदमिति । पीतकं = पीतवर्णम्, बद्दलं = स्थूलम्, ९ नाचूर्णंसदृशमित्यर्थः । अस्य तन्त्रान्तरे ' मूत्रसाद ' इति संज्ञा पठ्यते । तद्यथा- " पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् । कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत् ॥ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1386

सुश्रुत संहिता चौखम्बा, पृष्ठ 1386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२२८ Digitized by Arya Samaj Fou युयुक्त संहितायां eengotri मत्रौसादं तं विद्याद्रोगं पित्तकृतं बुधः । [ अ ०५८ पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्त्तनम् ॥ २५ ॥

शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् ।

मन्त्रौकसादं तं विद्यादामयं द्वादशं कफात् ॥ २६ ॥

कषायैकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च ।

क्षारमद्यासवस्वेदान बस्तींश्चोत्तरसंज्ञितान् ॥ २७ ॥

विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् ।

मत्रोदावर्त योगांश्च कार्त्स्न्येनात्र प्रयोजयेत् ॥ २८ ॥

कल्कमेवबीजानामक्षमात्रं ससैन्धवम् ।

धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते ॥ २ ९ ॥

सुरां सौवर्चलवत मूत्रकृच्छ्री पिवेन्नरः ।

मधुमांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ॥ ३० ॥।

पिबेत् कुङङ्कुमकर्षं वा मधूदकसमायुतम् ।

रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ॥ ३१ ॥

दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः ।

पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ॥ ३२ ॥

पृथकपर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च । सदाईं रोचनाशङ्खचूर्णवर्णं भवेत्तु तद् । शुष्कं समस्तवर्णे वा मूत्रसादं वदन्वि तम् ॥ ” इति । १ मूत्राघातानां चिकित्सामाख्याति - कषायेति । कषायः = क्वाथः । २ अ. इमरोचिकित्सितोक्तं विधिमित्यर्थः । ३ सौवर्चलाढयां मदिरामित्यादिना सूत्रोदा-वर्तप्रतिषेधोक्तान् योगानित्यर्थः । ४ एर्वारुबीजानां = ग्रीष्मकर्कटीबीजानाम्, अक्ष. मात्रं = कर्षप्रमाणम् । ५ धान्याम्लयुक्तं = काञ्जिकयुक्तमित्यर्थः । ६ मधु = मद्यम्, ' मधु मद्ये पुष्परसे ' इति कोश: । मद्यमिदं मधुकृतं बोध्यम् । “ मांसोपदंश मधुना मद्यं वाऽपि पिबेन्नरः " इति तन्त्रान्तरम् । मांसोपदंशं मांसभक्षणसंयुतम् । ७ कुङ्कुम: = केसरः, तस्य कर्षप्रमाणम् । मधूदकसमायुतं = मधुयुक्तोदकसंयु-तम् । दाडिमेन अम्लीकृतां दाडिमाम्लाम् " सुरां मुख्यामिति सम्बन्धः । मुख्या सुरा पष्टी बोध्या । ९ पृथवपर्ण्यादिवर्गस्य = विदारिगन्धादिगणस्येत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1387

सुश्रुत संहिता चौखम्बा, पृष्ठ 1387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५८ ] उत्तरतम chennai: Digitized by Arya Samaj Foundation Chennai and eGangotri अर्द्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ॥ ३३ ॥

क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिवेत् ।

नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ॥ ३४ ॥

निष्पीड्यै वाससा सम्यग्वर्चो रासभवाजिनोः ।

रसस्य कुडेवन्तस्य पिबेन्मूत्ररुजापहम् ॥ ३५ ॥

मुस्ताऽभैयादेवदारुमूर्वाणां मधुकस्य च ।

पिबेदशैँसमं कल्कं मूत्रदोषनिवारणम् ॥ ३६ ॥

अभया ss मलकाक्षाणां कल्कं बदरसम्मितम् ।

अम्भसाऽलवणोपेतं पिवेन्मूत्ररुजापहम् ॥ ३७ ॥

उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् ।

पिवेत् पय्र्युषितं रात्रौ शीतं मूत्ररुजापहम् ॥। ३८ ॥

निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् ।

मूत्रदोषहरं कॅल्यमथवा क्षौद्रसंयुतम् ॥ ३ ९ ॥

प्रपीडयामलकानान्तु रसं कुडवसम्मितम् ।

पीत्वाऽगदी " भवेज्जन्तुर्मूत्रदोषरुजातुरः ॥ ४० ॥

धात्रीफलरसेनैवं सूक्ष्मैलां वा पिवेन्नरः ।

पिष्टाऽथवा सुशीतेन 79 शालितण्डुलवारिणा ॥ ४१ ॥

तालस्य तरुणं मूलं " त्रपुसस्य रसं तथा ।

श्वेतं १ ` कर्कटकञ्चैव प्रातस्तु पयसा पिबेत् ॥ ४२ ॥

शृतं वा " मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः । १२२ ९ १ निष्पीड्य = गालयित्वा । २ कुडवं = चरखारि पलानि । ३ श्रभया = हरीतकी, मूर्वा = ' मरोरफली ' इति ख्याता । ४ अक्षसमं = कर्षप्रमाणम् । ५ अक्षः -: बिभी. तकः, बदरप्तम्मितं = अर्द्धकर्षंप्रमाणम् । ६ अलवणोपेतं = किञ्चित् सैन्धवयुक्तम् । ७ उदुम्बरसमं = कर्षं प्रमाणम् । ८ निदिग्धिकायाः = कण्टकारिकायाः, कुडवस-म्मितं - चतुष्पलप्रमितम् । ९ कल्यं = प्रातःकाले । १० अगदी = नीरोग इत्यर्थः । ११ त्रपुसस्य = ‘ खीरा ' इति ख्यातस्य । १२ कर्केटयाः फलं कर्कटम्, ' फले लुक् ' इति तद्धितलुक्, स्वार्थे कप्रत्ययः कर्कटकम् । पयसा = दुग्धेन, " त्रपुसं वाऽथ दुग्वेन -मूत्रदोषहरं पिबेत् ” इति तन्त्रान्तरम् । १३ मधुरैः = काकोल्यादिभिः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1388

सुश्रुत संहिता चौखम्बा, पृष्ठ 1388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ODigitized by Arya Samaj Four संहिता [ amotri १२३०मूत्रदोषविशुद्धयर्थं तथैवाश्मरिनाशनम् ॥ ४३ ॥

बलाश्वदंष्ट्रा क्रौढाथिकोकिलाक्षकतण्डुलान् ।

शतपर्वकमूल देवदारु सचित्रकम् ॥ ४४ ॥

अक्षबीजश्च सुरया कल्कीकृत्य पिबन्नरः ।

मूत्रदोषविशुद्धयर्थं तथैवाश्मरिनाशनम् ॥ ४५ ॥

पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम् ।

पिवेन्मूत्रविकारघ्नं संसृष्टं तैलैमात्र या ॥ ४६ ॥

नामभेददर्भेक्षुत्र पुसैर्वारुबीजकान । [ अ [ ०५८ क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ॥ ४७ ॥

पाटल्या यावंशूकाच्च पारिभद्रात्तिलादपि ।

क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ॥ ४८ ॥

पिबेद गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक् ।

अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ॥ ४ ९ ॥

स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम् ।

ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ॥ ५० ॥

स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते । ५० मैथुनो परमस्तस्य " बृंहणश्च विधिः स्मृतः ॥ ५१ ॥

ताम्रचूडवसा " तैलं हितचोत्तरवस्तिषु । १ श्वदंष्ट्रा = गोक्षुरकः, कौश्च: ' कराकुल ' इति ख्यातः पक्षिविशेषस्तस्यास्थि, कोकिलाक्षकः = ‘ तालमखाना ' इति ख्यातः । २ शतपर्वकमूलं = इक्षुमूलम् । ३ अक्षबीजं = बिभीतकमज्जा । ४ परिस्रुतं = गालितम् । ५ तैलमात्रया === अल्पतैलेनेत्यर्थः । श्रत्र मात्राशब्दोऽल्पवाची । ६ अश्मभेदः = पाषाणभेदः, त्रपु · सं = ‘ खीरा ' इति ख्यातम् । एर्वारुः = ग्रीष्मकर्कटी, बीजकः = श्रसनसारः । ७ याव. शूकात् = यवक्षारात्, पारिभद्राद् = पर्वत निम्बात्, = ऊषणं = पिप्पली ॥ श्रर्थात् पाटल्यादीनां क्षारोदकेन सह खगेलोषणचूर्णं पिबेत्, पाटल्यादिक्षारोदकगुडकृतान् लेहान् वा लिह्यात् । ९ मूत्ररक्तचिकित्सामाह– स्त्रीणामिति । श्रतिप्रसङ्गेन = श्रतिमैथुनेन । १० मांस-क्षीरघृतादिसेवनं बृंहणो विधिः । ११ ताम्रचूडवसा = कुक्कुटवसेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1389

सुश्रुत संहिता चौखम्बा, पृष्ठ 1389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

थ ० ५८ ] Digitized by Arya Sama त र सन्त्र nai and eGangotri विधानं तस्य पूर्वं हि व्यासतः परिकीर्त्तितम् ॥ ५२ ॥

चौद्रार्द्धपात्रं दत्त्वा च पात्रन्तु क्षीरसर्पिषः ।

शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम् ॥ ५३ ॥।

स्वयङ्गुप्ताफलैञ्चैव तथैव क्षुरकस्य च ।

पिप्पलीचूर्णसंयुक्तमर्द्धभागं प्रकल्पयेत् ॥ ५४ ॥।

तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् ।

ततः पाणितलं चूर्ण लीढ्वा क्षीरं ततः पिबेत् ॥ ५५ ॥

एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा ।

मूत्रदोषान् जयेत् सर्वानन्ययोगैः सुदुर्जयान् ॥ ५६ ॥

जयेच्छाणितदोषांश्च बन्ध्या गर्भं लभेत च ।

नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ॥ ५७ ॥

ear कोलास्थि मधुकं श्वदंष्टाऽथ शतावरी ।

मृणालञ्च कशेरुश्च बीजानीक्षुरकस्य च ॥ ५८ ॥

सहस्रवीर्यांशुमती पयस्या सह कालया ।

शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ॥ ५ ९ ॥

एतानि समभागानि मतिमान् सह साधयेत् ।

चतुर्गुणेन पयसा गुडस्य तुलया सह ॥ ६० ॥

द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् ।

. तत् सिद्धं कलसे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् ॥ ६१ ॥

१२३१ १ मूत्राघाते घृतमभिधत्ते - क्षौद्रेति 1 । क्षौद्रस्य अर्धपात्रमर्धाढकम्, क्षीरसर्पिषः = क्षीरमथनोत्थघृतस्य । २ स्वयङ्गुप्ताफलं ==== कपिकच्छूफलम्, इक्षुरसस्य – कोकि-लाक्षस्य । ३ खजेन == मन्थनदण्डेनेत्यर्थः । ४ पाणितलं = इस्ततलम् । -५ बलाघृतमभिदधाति — बलेति । कोलास्थि = बदरमज्जा, मधुकं = यष्टीमधु, श्वदंष्ट्रा = गोक्षुरकः । ६ इक्षुरकस्य = ' तालमखाना ' इति ख्यातस्य । ७ सदस्रवी-= अर्कपुष्पी, क्षीरकाकोलीत्यन्ये | कालया = र्या = दूर्वा, अंशुमती = शालपर्णी, पयस्या = ' कालानुसारिवया सहेत्यर्थः । ८ शृगालविन्ना - पृश्निपर्णी, बृंहणीयो गणः = काको-ल्यादिः, स गुडूचीरहितो बोध्यः । तथा च तन्त्रान्तरम् - " गुडूचीरहितो वर्गः काको-ल्यादिरुदाहृतः । वृंहणीयः " इति । ९ पूतं = वाससा गालितम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1390

सुश्रुत संहिता चौखम्बा, पृष्ठ 1390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२३२ सुश्रतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ०५८

सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते ।

तुर्गाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ॥ ६२ ॥

क्षौद्रेण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत् ।

तस्य वदेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ॥ ६३ ॥

शुक्रदोषान् जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः ।

व्यवाये क्षीण रेतास्तु सद्यः संलभते सुखम् ॥ ६४ ॥

ओजस्वी बलवान् मर्त्यः पिबन्नेव च हृष्यति ।

चित्रकः सारिवा चैव बला कालानुसारिवा ॥ ६५ ॥

द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् ।

तथैव मधुकं पृथ्यां दद्यादामलकानि च ॥ ६६ ॥

घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः ।

क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ ६७ ॥

शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् ।

तुगांक्षीर्याश्च तत्सर्वं मतिमान परिमिश्रयेत ॥ ६८ ॥

ततो मितं पिबेत्काले यथादोषं यथाबलम् ।

वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ॥ ६ ९ ॥

रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् ।

जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ॥ ७० ॥

प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् ।

सर्पिरे तत् प्रयुञ्जाना स्त्री गर्भ लभतेऽचिरात् ॥ ७१ ॥

असृग्दोषान् ' ' जयेच्चापि योनिदोषांश्च संहतान् । १ तुगाक्षीर्याः = वंशरोचनायाः । २ व्यवायेन मैथुनेन क्षीणं रेतो यस्य स व्यवायक्षीणरेताः । ३ महाबलाघृतमाख्याति - चित्रक इति । फला = बृहदिन्द्रवारुणी । ५ पथ्य = हरीतकीम् । ४ विशाला = इन्द्रवारुणी, चित्र. ६ परिस्रुतं = वाससा गालि-तम् । ७ तुगाक्षीरी = वंशरोचना, अत्रापि ' प्रस्थसंयुतम् ' इति सम्बध्यते । यथा-ग्निबलमित्यर्थः । ९ प्रयुञ्जाना = सेवमाना | १० असृग्दोषान् = रक्तदोषान्, ' रुधिरेऽ-CC - 0. Gurukul Kangri Collection, Haridwar