सुश्रुत संहिता चौखम्बा — पृष्ठ 1381–1390
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1381–1390
पृष्ठ 1381
पाठ पढ़ें पाठ छिपाएँ
अ ० ५७ ] Digitized by Arya च तन्त्र phennai and eGangotri सर्वैश्च सर्वकृतमेवमुपक्रमेत ॥ ८ ॥
द्राक्षापटोलविड वेत्रकरीर निम्ब-मूर्वाऽभयाऽक्षबद रामल केन्द्रवृक्षैः ।
बीजे: करञ्जनृपवृक्षेभवैश्च पिष्टै-लेहं पचेत् सुरभिमूत्रयुतं यथावत् ॥ ९ ॥
मुस्तां वचां त्रिकटुकं रजनीद्वयञ्च भार्गीश्च कुष्ठमथ निर्दहनीञ्च पिष्ट्वा । मूत्रेऽर्विजे द्विरदमूत्रयुते पचेद्वा पाठान्तुगामतिविषां रजनीच मुख्याम ॥ १० ॥
मैण्डूकिमर्कममृताञ्च सलाङ्गलाख्यां मूत्रे पचे महिषस्य विधानविद्वा । एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ॥ ११ ॥
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्
पानानि मूलफलपाडवरागयोगान् ।
अद्यासांश्च विविधान् विविधैः प्रकारै-• र्भुञ्जीत चापि लघुरुक्षमनःसुखानि ॥ १२ ॥
आस्थापनं विधिवदत्र विरेचनञ्च कुर्यान्मृदूनि शिरसश्च विरेचनानि । १२२३ १ चतुर्णामप्यरोचकानां यथासंख्येन चतुरो लेहानुपदिशति - द्राक्षेति । द्राक्षादिः सुरभिमूत्रयुतं यथावदित्यन्तः प्रथमो योगः । श्रभया = हरीतकी, अक्षं = बिभीतकम्, इन्द्रवृक्षः = कुटजः । २ नृपवृक्षः = श्रारग्वधः । ३ मुस्तादिः मूत्रेऽविजे इति पर्यन्तो द्वितीयो योगः । निर्दद्दनी = चित्रकः । ४ श्रविजे = मेषोत्थे मूत्रे इत्यर्थः । द्विरदमूत्रयुते = इस्तिमूत्रयुक्ते, द्विरदमूत्रयुत पर्यन्तस्तृतीयो योगः । ५ मण्डूकीत्यादिश्चतुर्थो इत्यारभ्य रजनीं च मुख्यामिति योगः । मण्डूकी = ब्राह्मी, श्रमृता = गुडूची, लाङ्गलाख्या = कलिहारी । ६ सा-स्म्यान = • प्रकृत्यनुकूलान् । ७ मांसरसानित्यर्थः । ८निषिद्धस्यापि निरूहस्य अरोचके प्रयोगं वक्ति- आस्थापनमिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1382
पाठ पढ़ें पाठ छिपाएँ
१२२४ ' Digitized by Arya Samaj Foundation " सुश्रुतसंहितायां eGangotri [ अ ०५७ त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि ॥ १३ ॥
क्षौद्रायुतानि वितरेन्मुखबोधनार्थ-मन्यानि तिक्तकटुकानि च भेषजानि । मुस्तादिराजैतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥ १४ ॥
मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्ठैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः । स्यादेष एव कफवातहते विधिव शान्ति गते हुतभुजि प्रशमाय तस्य ॥ १५ ॥
इर्च्छाऽभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान् । अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिपथैरनुमानयेत्तम् ॥ १६ ॥
दैन्यं गते मनसि बोधनमत्रशस्तं यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥ १७ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम ( एकोनविंशोऽध्यायः, आदितः ) सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥
श्रास्थापनं निरूहः । १ त्रीण्यूषणानि = त्रिकटुकानि । २ यवशूकः यवक्षारः । = ३ राजतरुवर्गः = श्रारग्वधादिवर्ग:, दशाङ्गं = दशमूलम् । ४ मूत्रेणासूयन्त इति मूत्रासवास्तैर्मूत्रासवैः, कथम्भूतैः — गुडकृतैः = कुष्ठचिकित्सितोक्तविधिना गुडमध्वादि • कृतैरित्यर्थः । अरिष्टैः = अभयाऽरिष्टादिभिः, क्षारासवैः = महाकुष्ठोक्तैर्मध्वादिभिः पलाशक्षारपानीयेन सह साधितैः, मधुमाधव तुल्यगन्धः - मधु क्षौद्रं माधवं मधुकृतं मद्यं, तयोस्तुल्यगन्धैरित्यर्थः । ५ पूर्वोक्तविधानमविपाकेऽतिदिशति - स्यादेष इति । शान्ति गते = मन्दतां प्राप्ते, हुतभुजि = जाठराग्नौ, अविपाके इत्यर्थः । ६ श्रागन्तुजारोचकचिकित्सा-माह - इच्छेति । इच्छाऽभिघातः = वान्छाऽप्राप्तिः, भवाय = रुच्युत्पादनाय, शक्य. रूपान् = प्राप्यान् । ७ श्रपचितेषु नष्टेषु, अनुमानयेत् = प्रबोधयेत् । दैन्यं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1383
पाठ पढ़ें पाठ छिपाएँ
अ ० ५८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri १२२५ उत्तरतन्त्रम् ।
अष्टपञ्चाशत्तमोऽध्यायः ।
अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वाते कुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च ।
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ॥ ३ ॥
मूत्रग्रन्थिर्मूत्रशुकमुष्णवातस्तथैव च ।
मूत्रौसादौ द्वौ चापि रोगा द्वादश कीर्त्तिताः ॥ ४ ॥
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः ।
मूत्रं चरति सङ्गृह्य विर्गुणः कुण्डलीकृतः ॥ ५ ॥
सृजेदल्पाल्पमथवा संरुजस्कं शनैः शनै: वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ॥ ६ ॥
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः ।
अष्टीलावद् घनं ग्रन्थि करोत्यचलमुन्नतम् ॥ ७ ॥
विण्मूत्रानिलसङ्गश्च तत्राध्मानञ्च जायते । गते = क्लिष्टे इत्यर्थः । बोधनं = सदुपदेशादिभिः प्रबोधनम् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत कायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्यां सप्तपञ्चाशत्तमोऽध्यायः । अष्टपञ्चाशत्तमोऽध्यायः । १ अरोचकप्रतिषेधानन्तरं " भूयो वक्ष्यामि योगांश्च मूत्राघातोपशान्तये " इत्युदा-वर्तंप्रतिषेधे प्रतिज्ञातं व्याख्यातुं मूत्राघातप्रतिषेधमधिकरोति - प्रथात इति । मूत्रा • घातः = मूत्रावरोधः । २ मूत्राघातानां नामानि निर्दिशति - वातेति । श्रष्ठीला = वाताष्ठीलेत्यर्थः । निदानस्थानोक्ता वाताष्ठोला सा एतदभिन्ना बोध्या । ३ मूत्रको मूत्राश्रयः, मूत्राश्रयः सादो यस्य स मूत्रौकसादः । श्रोक श्राश्रय इति पर्यायौ । ४ वातकुण्डलिकालक्षणं दर्शयति - रौक्ष्यादिति । ५ विगुणः = कुपितः, कुण्डलीकृतः = वलयीकृतः, ' कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च ' इति मेदिनी । ६ सरुजस्कं = सवेदनम् । ७ सुदारुणं मारणात्मकत्वात् । ८ वाताष्ठीलालक्षणं निर्दिशति - शत्रूदिति । शकुन्मार्गस्य = गुदस्येत्यर्थः । ९ श्रष्ठीला दीर्घंवर्तुलपाषाणभेदः । १० श्राध्मानं बस्तौ ज्ञातव्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1384
पाठ पढ़ें पाठ छिपाएँ
सश्रुतसंहितायां— १२२६ Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ० ५८ वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ॥ ८ ॥
- वेगं विधारयेद्यस्तु मत्रस्याकुशलो नरः ।
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ॥ ९ ॥
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः ।
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ॥ १० ॥
' सन्धा सन्धार्य्य मूत्रस्य यो भूयः स्रष्टुमिच्छति ॥ तस्य नौभ्येति यदि वा कथञ्चित्सम्प्रवर्त्तते ॥ ११ ॥
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः ।
मूत्रातीतन्तु तं विद्यान्मूत्रवेगविघातजम् ॥ १२ ॥
मुत्रस्यै विहते वेगे तदुदावर्त्तहेतुना ।
अपानः कुपितो वायुरुदरं पूरयेद् भृशम् ॥ १३ ॥
नाभेरधस्तादाध्मानं जनयेत्तीव्र वेदनम् ।
तं मूत्रजठरं विद्याधःस्रोतोनिरोधनम् ॥ १४ ॥
बंस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः ।
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ॥ १५ ॥
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् ।
विगुणानिलैजो व्याधिः समूत्रोत्सङ्गसंज्ञितः ॥ १६ ॥
रूक्षस्य ' " क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ ।
सदाह वेदनं कृच्छ्रं कुर्य्यातां मूत्रसङ्क्षयम् ॥ १७ ॥
१ वातबस्तिलक्षणमाइ – वेगमिति । वेगं - प्रवृत्त्युन्मुखत्वम्, अकुशल:: == मूर्ख इत्यर्थः । २ मूत्रातीतलक्षणमभिधत्ते - वेगमिति । ३ नाभ्येति = मूत्रं ना. गच्छति । ४ प्रवाइत: = वेगेन वर्तयतः । ५ मूत्रजठरलक्षणमभिदधाति - मूत्रस्येति । उदावर्तहेतुना = मूत्रवेगधारणजनितोदावर्तनिमित्तेन । ६ अधःस्रोतोनिरोधनं = मूत्रपुरीष-मार्गावरोधकमित्यर्थः । = ७ मूत्रोत्सङ्गलक्षणमाचष्टे – बस्ताविति । नाले = मेढस्रोतसि, मणौ - मेढ्राग्रे । ८ सज्जेत = निरुद्धं स्यात्, सरक्तं = प्रवाहणकुपितवायुना बस्त्यादिभेदजनितरक्तयुक्त मूत्रमित्यर्थः । ९ त्रिगुणानिलजः = कुपितवातजः । मूत्रक्षयलक्षणमाख्याति -१० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1385
पाठ पढ़ें पाठ छिपाएँ
अ ० ५८ ] उत्तरतन्त्रम् Chennai Digitized by Arya Samaj Foundation Chennai and eGangotri
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च ।
वेदनावानति सदा मूत्रमार्गनिरोधनः ॥ १८ ॥
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः स मूत्रन्थिरित्येवमुच्यते वेदनाऽऽदिभिः ॥ १ ९ ॥
प्रत्युपस्थित मूत्रस्तु मैथुनं योऽभिनन्दति ।
तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते ॥ २० ॥
पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन ।
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥ २१ ॥
व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलावृतम् ।
बस्तिं मेढं गुदञ्चैव प्रदहन् स्रावयेदधः ॥ २२ ॥
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ।
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् ॥ २३ ॥
विशदं पीतकं मूत्रं सदाहं बहलं तथा ।
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् ॥ २४ ॥।
१२२७ रूक्षस्येति । क्लान्तदॆहस्य = श्रान्तशरीरस्य । १ मूत्रग्रन्थिलक्षणं वक्ति - अभ्यन्तर इति । अभ्यन्तरे बस्तिमुखे - बस्तिमुखस्याभ्यन्तरे इत्यर्थः । बृत्तः = वर्तुलः । २ मूत्र-मार्गनिरोधनः = मूत्रवाहिस्रोतोनिरोधनः । ३ वेदनाभिर मर्यास्तुल्यलक्षणः । श्रश्मर्या सह श्रस्य भेदस्तु - श्रश्मय पित्ता-दिकं संइन्यते, अत्र रक्तमेव । तथा च तन्त्रान्तरम् - " रक्तं वातकफाद् दुष्टं बस्तिद्वारे सुदारुणम् । ग्रन्थि कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम् ॥ अश्मरीसमशूलं तं मूत्र-ग्रन्थि प्रचक्षते " इति । ४ मूत्रशुक्रस्य लक्षणं ब्रवीति - प्रत्युपस्थितेति । प्रत्युप-स्थितमूत्रः = सञ्जातमूत्रवेगः, अभिनन्दति = इच्छति, करोतीत्यर्थः । ५ भस्मोदक-प्रतीकाशं = भस्ममिलितोदकसदृशम् । ६ उष्णवातलक्षणमाइ — व्यायामेति । श्रनिलावृतं = बात संयुतम् ' अनिला-' न्वितम् ' इति पाठान्तरम् । ७ हारिद्रं = हरिद्रावर्णम्, सरक्तम् - ईवद्रक्तम्, रक्त • मेव = केवलं शोणितम्, अत्यन्तरक्तवर्णमूत्रं वेत्यर्थः । ८ मूत्रौकप्तादलक्षणमाचष्टे-घनमित्यर्थः । गोरोच-विशदमिति । पीतकं = पीतवर्णम्, बद्दलं = स्थूलम्, ९ नाचूर्णंसदृशमित्यर्थः । अस्य तन्त्रान्तरे ' मूत्रसाद ' इति संज्ञा पठ्यते । तद्यथा- " पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् । कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत् ॥ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1386
पाठ पढ़ें पाठ छिपाएँ
१२२८ Digitized by Arya Samaj Fou युयुक्त संहितायां eengotri मत्रौसादं तं विद्याद्रोगं पित्तकृतं बुधः । [ अ ०५८ पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्त्तनम् ॥ २५ ॥
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् ।
मन्त्रौकसादं तं विद्यादामयं द्वादशं कफात् ॥ २६ ॥
कषायैकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च ।
क्षारमद्यासवस्वेदान बस्तींश्चोत्तरसंज्ञितान् ॥ २७ ॥
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् ।
मत्रोदावर्त योगांश्च कार्त्स्न्येनात्र प्रयोजयेत् ॥ २८ ॥
कल्कमेवबीजानामक्षमात्रं ससैन्धवम् ।
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते ॥ २ ९ ॥
सुरां सौवर्चलवत मूत्रकृच्छ्री पिवेन्नरः ।
मधुमांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ॥ ३० ॥।
पिबेत् कुङङ्कुमकर्षं वा मधूदकसमायुतम् ।
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ॥ ३१ ॥
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः ।
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ॥ ३२ ॥
पृथकपर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च । सदाईं रोचनाशङ्खचूर्णवर्णं भवेत्तु तद् । शुष्कं समस्तवर्णे वा मूत्रसादं वदन्वि तम् ॥ ” इति । १ मूत्राघातानां चिकित्सामाख्याति - कषायेति । कषायः = क्वाथः । २ अ. इमरोचिकित्सितोक्तं विधिमित्यर्थः । ३ सौवर्चलाढयां मदिरामित्यादिना सूत्रोदा-वर्तप्रतिषेधोक्तान् योगानित्यर्थः । ४ एर्वारुबीजानां = ग्रीष्मकर्कटीबीजानाम्, अक्ष. मात्रं = कर्षप्रमाणम् । ५ धान्याम्लयुक्तं = काञ्जिकयुक्तमित्यर्थः । ६ मधु = मद्यम्, ' मधु मद्ये पुष्परसे ' इति कोश: । मद्यमिदं मधुकृतं बोध्यम् । “ मांसोपदंश मधुना मद्यं वाऽपि पिबेन्नरः " इति तन्त्रान्तरम् । मांसोपदंशं मांसभक्षणसंयुतम् । ७ कुङ्कुम: = केसरः, तस्य कर्षप्रमाणम् । मधूदकसमायुतं = मधुयुक्तोदकसंयु-तम् । दाडिमेन अम्लीकृतां दाडिमाम्लाम् " सुरां मुख्यामिति सम्बन्धः । मुख्या सुरा पष्टी बोध्या । ९ पृथवपर्ण्यादिवर्गस्य = विदारिगन्धादिगणस्येत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1387
पाठ पढ़ें पाठ छिपाएँ
अ ० ५८ ] उत्तरतम chennai: Digitized by Arya Samaj Foundation Chennai and eGangotri अर्द्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ॥ ३३ ॥
क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिवेत् ।
नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ॥ ३४ ॥
निष्पीड्यै वाससा सम्यग्वर्चो रासभवाजिनोः ।
रसस्य कुडेवन्तस्य पिबेन्मूत्ररुजापहम् ॥ ३५ ॥
मुस्ताऽभैयादेवदारुमूर्वाणां मधुकस्य च ।
पिबेदशैँसमं कल्कं मूत्रदोषनिवारणम् ॥ ३६ ॥
अभया ss मलकाक्षाणां कल्कं बदरसम्मितम् ।
अम्भसाऽलवणोपेतं पिवेन्मूत्ररुजापहम् ॥ ३७ ॥
उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् ।
पिवेत् पय्र्युषितं रात्रौ शीतं मूत्ररुजापहम् ॥। ३८ ॥
निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् ।
मूत्रदोषहरं कॅल्यमथवा क्षौद्रसंयुतम् ॥ ३ ९ ॥
प्रपीडयामलकानान्तु रसं कुडवसम्मितम् ।
पीत्वाऽगदी " भवेज्जन्तुर्मूत्रदोषरुजातुरः ॥ ४० ॥
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिवेन्नरः ।
पिष्टाऽथवा सुशीतेन 79 शालितण्डुलवारिणा ॥ ४१ ॥
तालस्य तरुणं मूलं " त्रपुसस्य रसं तथा ।
श्वेतं १ ` कर्कटकञ्चैव प्रातस्तु पयसा पिबेत् ॥ ४२ ॥
शृतं वा " मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः । १२२ ९ १ निष्पीड्य = गालयित्वा । २ कुडवं = चरखारि पलानि । ३ श्रभया = हरीतकी, मूर्वा = ' मरोरफली ' इति ख्याता । ४ अक्षसमं = कर्षप्रमाणम् । ५ अक्षः -: बिभी. तकः, बदरप्तम्मितं = अर्द्धकर्षंप्रमाणम् । ६ अलवणोपेतं = किञ्चित् सैन्धवयुक्तम् । ७ उदुम्बरसमं = कर्षं प्रमाणम् । ८ निदिग्धिकायाः = कण्टकारिकायाः, कुडवस-म्मितं - चतुष्पलप्रमितम् । ९ कल्यं = प्रातःकाले । १० अगदी = नीरोग इत्यर्थः । ११ त्रपुसस्य = ‘ खीरा ' इति ख्यातस्य । १२ कर्केटयाः फलं कर्कटम्, ' फले लुक् ' इति तद्धितलुक्, स्वार्थे कप्रत्ययः कर्कटकम् । पयसा = दुग्धेन, " त्रपुसं वाऽथ दुग्वेन -मूत्रदोषहरं पिबेत् ” इति तन्त्रान्तरम् । १३ मधुरैः = काकोल्यादिभिः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1388
पाठ पढ़ें पाठ छिपाएँ
ODigitized by Arya Samaj Four संहिता [ amotri १२३० मूत्रदोषविशुद्धयर्थं तथैवाश्मरिनाशनम् ॥ ४३ ॥
बलाश्वदंष्ट्रा क्रौढाथिकोकिलाक्षकतण्डुलान् ।
शतपर्वकमूल देवदारु सचित्रकम् ॥ ४४ ॥
अक्षबीजश्च सुरया कल्कीकृत्य पिबन्नरः ।
मूत्रदोषविशुद्धयर्थं तथैवाश्मरिनाशनम् ॥ ४५ ॥
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम् ।
पिवेन्मूत्रविकारघ्नं संसृष्टं तैलैमात्र या ॥ ४६ ॥
नामभेददर्भेक्षुत्र पुसैर्वारुबीजकान । [ अ [ ०५८ क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ॥ ४७ ॥
पाटल्या यावंशूकाच्च पारिभद्रात्तिलादपि ।
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ॥ ४८ ॥
पिबेद गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक् ।
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ॥ ४ ९ ॥
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम् ।
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ॥ ५० ॥
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते । ५० मैथुनो परमस्तस्य " बृंहणश्च विधिः स्मृतः ॥ ५१ ॥
ताम्रचूडवसा " तैलं हितचोत्तरवस्तिषु । १ श्वदंष्ट्रा = गोक्षुरकः, कौश्च: ' कराकुल ' इति ख्यातः पक्षिविशेषस्तस्यास्थि, कोकिलाक्षकः = ‘ तालमखाना ' इति ख्यातः । २ शतपर्वकमूलं = इक्षुमूलम् । ३ अक्षबीजं = बिभीतकमज्जा । ४ परिस्रुतं = गालितम् । ५ तैलमात्रया === अल्पतैलेनेत्यर्थः । श्रत्र मात्राशब्दोऽल्पवाची । ६ अश्मभेदः = पाषाणभेदः, त्रपु · सं = ‘ खीरा ' इति ख्यातम् । एर्वारुः = ग्रीष्मकर्कटी, बीजकः = श्रसनसारः । ७ याव. शूकात् = यवक्षारात्, पारिभद्राद् = पर्वत निम्बात्, = ऊषणं = पिप्पली ॥ श्रर्थात् पाटल्यादीनां क्षारोदकेन सह खगेलोषणचूर्णं पिबेत्, पाटल्यादिक्षारोदकगुडकृतान् लेहान् वा लिह्यात् । ९ मूत्ररक्तचिकित्सामाह– स्त्रीणामिति । श्रतिप्रसङ्गेन = श्रतिमैथुनेन । १० मांस-क्षीरघृतादिसेवनं बृंहणो विधिः । ११ ताम्रचूडवसा = कुक्कुटवसेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1389
पाठ पढ़ें पाठ छिपाएँ
थ ० ५८ ] Digitized by Arya Sama त र सन्त्र nai and eGangotri विधानं तस्य पूर्वं हि व्यासतः परिकीर्त्तितम् ॥ ५२ ॥
चौद्रार्द्धपात्रं दत्त्वा च पात्रन्तु क्षीरसर्पिषः ।
शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम् ॥ ५३ ॥।
स्वयङ्गुप्ताफलैञ्चैव तथैव क्षुरकस्य च ।
पिप्पलीचूर्णसंयुक्तमर्द्धभागं प्रकल्पयेत् ॥ ५४ ॥।
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् ।
ततः पाणितलं चूर्ण लीढ्वा क्षीरं ततः पिबेत् ॥ ५५ ॥
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा ।
मूत्रदोषान् जयेत् सर्वानन्ययोगैः सुदुर्जयान् ॥ ५६ ॥
जयेच्छाणितदोषांश्च बन्ध्या गर्भं लभेत च ।
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ॥ ५७ ॥
ear कोलास्थि मधुकं श्वदंष्टाऽथ शतावरी ।
मृणालञ्च कशेरुश्च बीजानीक्षुरकस्य च ॥ ५८ ॥
सहस्रवीर्यांशुमती पयस्या सह कालया ।
शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ॥ ५ ९ ॥
एतानि समभागानि मतिमान् सह साधयेत् ।
चतुर्गुणेन पयसा गुडस्य तुलया सह ॥ ६० ॥
द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् ।
. तत् सिद्धं कलसे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् ॥ ६१ ॥
१२३१ १ मूत्राघाते घृतमभिधत्ते - क्षौद्रेति 1 । क्षौद्रस्य अर्धपात्रमर्धाढकम्, क्षीरसर्पिषः = क्षीरमथनोत्थघृतस्य । २ स्वयङ्गुप्ताफलं ==== कपिकच्छूफलम्, इक्षुरसस्य – कोकि-लाक्षस्य । ३ खजेन == मन्थनदण्डेनेत्यर्थः । ४ पाणितलं = इस्ततलम् । -५ बलाघृतमभिदधाति — बलेति । कोलास्थि = बदरमज्जा, मधुकं = यष्टीमधु, श्वदंष्ट्रा = गोक्षुरकः । ६ इक्षुरकस्य = ' तालमखाना ' इति ख्यातस्य । ७ सदस्रवी-= अर्कपुष्पी, क्षीरकाकोलीत्यन्ये | कालया = र्या = दूर्वा, अंशुमती = शालपर्णी, पयस्या = ' कालानुसारिवया सहेत्यर्थः । ८ शृगालविन्ना - पृश्निपर्णी, बृंहणीयो गणः = काको-ल्यादिः, स गुडूचीरहितो बोध्यः । तथा च तन्त्रान्तरम् - " गुडूचीरहितो वर्गः काको-ल्यादिरुदाहृतः । वृंहणीयः " इति । ९ पूतं = वाससा गालितम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1390
पाठ पढ़ें पाठ छिपाएँ
१२३२ सुश्रतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri अ ०५८
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते ।
तुर्गाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ॥ ६२ ॥
क्षौद्रेण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत् ।
तस्य वदेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ॥ ६३ ॥
शुक्रदोषान् जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः ।
व्यवाये क्षीण रेतास्तु सद्यः संलभते सुखम् ॥ ६४ ॥
ओजस्वी बलवान् मर्त्यः पिबन्नेव च हृष्यति ।
चित्रकः सारिवा चैव बला कालानुसारिवा ॥ ६५ ॥
द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् ।
तथैव मधुकं पृथ्यां दद्यादामलकानि च ॥ ६६ ॥
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः ।
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ ६७ ॥
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् ।
तुगांक्षीर्याश्च तत्सर्वं मतिमान परिमिश्रयेत ॥ ६८ ॥
ततो मितं पिबेत्काले यथादोषं यथाबलम् ।
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ॥ ६ ९ ॥
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् ।
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ॥ ७० ॥
प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् ।
सर्पिरे तत् प्रयुञ्जाना स्त्री गर्भ लभतेऽचिरात् ॥ ७१ ॥
असृग्दोषान् ' ' जयेच्चापि योनिदोषांश्च संहतान् । १ तुगाक्षीर्याः = वंशरोचनायाः । २ व्यवायेन मैथुनेन क्षीणं रेतो यस्य स व्यवायक्षीणरेताः । ३ महाबलाघृतमाख्याति - चित्रक इति । फला = बृहदिन्द्रवारुणी । ५ पथ्य = हरीतकीम् । ४ विशाला = इन्द्रवारुणी, चित्र. ६ परिस्रुतं = वाससा गालि-तम् । ७ तुगाक्षीरी = वंशरोचना, अत्रापि ' प्रस्थसंयुतम् ' इति सम्बध्यते । यथा-ग्निबलमित्यर्थः । ९ प्रयुञ्जाना = सेवमाना | १० असृग्दोषान् = रक्तदोषान्, ' रुधिरेऽ-CC - 0. Gurukul Kangri Collection, Haridwar