सुश्रुत संहिता चौखम्बा — पृष्ठ 1391–1400
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1391–1400
पृष्ठ 1391
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ९ ] Digitized by Arya Samajgeसत nai and eGangotri मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ ७२ ॥
१२३३ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्वातन्त्रे मूत्राघातप्रतिषेधो नाम ( विंशोऽध्यायः, आदितः ) अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
ऊनषष्टितमोऽध्यायः । 1. अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वातेने पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम् ।
तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ॥ ३ ॥
अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः ।
फलैद्भिरिव कृच्छ्रेण वाताघातेन मेहति ॥ ४ ॥
हारिद्रमुष्णं रक्तं वा मुष्कमेन वस्तिभिः ।
अग्निना दह्यमानाभैः पित्ताघातेन मेहति ॥ ५ ।
स्निग्धं शुक्लमनुष्णञ्च मुष्कमेहनबस्तिभिः । सृग्लोहितास्ररक्तक्षत जशोणितम् ' इत्यमरः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽयटिप्पन्या-मष्टपञ्चाशत्तमोऽध्यायः । एकोनषष्टितमोऽध्यायः । १ बस्तिगतत्व साधर्म्याद मूत्राघातप्रतिषेधानन्तरं मूत्रकृच्छप्रतिषेधमधिकरोति-अथात इति । मूत्रकृच्छ्र = दुःखेन मूत्रप्रवृत्तिः । २ मूत्रकृच्छ्रभेदानाह - वातेनेति । ३ मूत्रोपघातः = मूत्रकृच्छ्रः । मूत्रकृच्छ्रस्य निदानं सम्प्राप्तिपूर्वक लक्षणं चोक्तं तन्त्रा-न्तरे— “ व्यायामतीक्ष्णौषधरूक्ष मद्यप्रसङ्गनित्यद्भुतपृष्ठयानात् । श्रनूपमसाध्यशनाद-जीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ ॥ पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा * कोपमुपेत्य बस्तौ । मूत्रस्य मार्गे परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ॥ ” इति । ४ वातजमूत्रकृच्छ्रलक्षणमभिदधाति - अल्पमिति । मुष्कः अण्डकोशः, मेहनं लिङ्गम्, बस्तिः मूत्राशयः । ५ फलद्भिः पीडयद्भिः, वातावातेन = वातकृच्छ्रेण । ६ पित्तजमूत्रकृच्छ्र लक्षणमभिधत्ते - हारिद्रमिति । हारिद्र् = हरिद्रावर्णम्, रक्तं = रक्त • चर्णम् । ७ दह्यमानाभैः = अत्यन्तदाहपरीतैरित्यर्थः । ८ कफजमूत्रकृच्छ्रलक्षणमाचष्टे-७८ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1392
पाठ पढ़ें पाठ छिपाएँ
१२३४ by Arya Samaj Fourt सुतसंहितायां camgotri संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ॥ ६ ॥
दाहशीत रुजाविष्टो नानावर्णं मुहुर्मुहुः ।
ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति ॥ ७ ॥
मूत्रैवाहिषु शल्येन क्षतेष्वभिहतेषु च ।
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ॥ ८ ॥
वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् ।
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ॥ ९ ॥
आध्मानञ्च सशूलच मूत्रसङ्गं करोति हि ।
अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः ॥ १० ॥
अँश्मरी शर्करा चैव तुल्ये सम्भवलक्षणैः ।
शर्कराया विशेषन्तु शृणु कीर्त्तयतो मम ॥ ११ ॥
पच्यमानस्य पित्तेन भिद्यमानस्य वायुना । [ ० ५ ९ श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः ॥ १२ ॥
हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः ।
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः ॥ १३ ॥
10
मूत्रवेगनिरस्तासु तासु शाम्यति वेदना ।
यावदन्या पुननैति गुडिका स्रोतसो मुखम् ॥ १४ ॥
स्निग्धमिति । श्रनुष्णं = किश्चिदुष्णम् । १ संहृष्टरोमा = उद्गतरोमाञ्चः । २ सान्निपातिकमूत्रकृच्छ्रलक्षणमाद - दाहेति । श्राविष्टः == युक्तः । ३ श्रभिघातजमूत्रकृच्छ्रलक्षणमाख्याति - मूत्रवाहिष्विति । मूत्रवाहिस्रोतः स्वि-ति सम्बन्धः । ४ लिङ्गानि = लक्षणानि । ५ पुरीषजमूत्रकृच्छ्रलक्षणं दर्शयति— शक्कृत स्त्विति । प्रतीघातात् = अवरोधात् । ६ अश्मरीजमूत्रकृच्छ्र ं निर्दिशति-अश्मरीति । मूत्राघातः = मूत्रकृच्छ्रः । ७ मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोस्तुल्यतामवान्तरभेदं च बक्ति -- अ-श्मरीति । सम्भवः = उत्पत्ति: । ' तुल्यसम्भव लक्षणे ' इति पाठान्तरम् । तुल्यः सम्भव उत्पत्तिर्लक्षणं च ययोस्ते तथा, समाननिदानलिङ्ग इति तदर्थः । ८ पच्यमानस्य पक्कस्य, भाविनि भूतवदुपचारात् । एवं भिद्यमानस्य भिन्नस्येत्यर्थः । ९ ताभिः = शर्कराभिः । १० निरस्तासु = निःसृतासु । CC - 0. Gurukul Kangri Collection, Haridwar 1.
पृष्ठ 1393
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ९ ] Digitized by Arya नुतर n Cher Chennai and eGangotri १२३५
शर्करासम्भवस्यैतन्मूत्राघातस्य लक्षणम् ।
चिकित्सितमथैतेषामष्टानामपि वक्ष्यते ॥ १५ ॥
अश्मरीञ्च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् ।
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् ॥ १६ ॥
श्वदंष्ट्राश्मभिदौ कुम्भी हपुषां कण्टकारिकाम् ।
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् ॥ १७ ॥
तथा विदारिगन्धादि संहृत्य वृतं पचेत् ।
तैलं घृतं वा तत्पेयं तेन वाऽप्यनुवासनम् ॥ १८ ॥
दद्यादुत्तरवस्तिश्च वातकृच्छ्रोपशान्तये ।
श्वदंष्ट्रा स्वर से तैलं सगुडक्षीरनागरम् ॥। १ ९ ॥
पक्त्वा तत्पूर्ववद्योज्यं ' तत्रानिलरुजापहम् ।
५" तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम् ॥ २० ॥
पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा ।
दद्यादुत्तरबस्तिञ्च पित्तकृच्छ्रोपशान्तये ॥ २१ ॥
ऍभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु ।
हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर्युतम् ॥ २२ ॥
सुर सोषकमुस्तादौ वरुणादौ च यत् कृतम् । १ मूत्रकृच्छचिकित्सामाख्याति - चिकित्सितमिति । एतेषां = मूत्रकृच्छ्राणाम् । २ वातजमूत्रकृच्छचिकित्सां निर्दिशति - श्वदंष्ट्रेति । श्वदंष्ट्रा = गोक्षुरकः श्रश्म-भित् = पाषाणभेदः, कुम्भी = वारिपर्णी, इपुषा = ' हाऊबेर ' इति ख्याता । ३ गिरिकणिका - अपराजिताभेदः । ४ त्रिभिः सर्पिर्वसामज्जभिर्वृतं तैलम्, त्रि-भिस्तैलवसामज्जभिर्वृतं घृतं वा त्रैवृतमित्यर्थः । ४ पानानुवासनोत्तरबस्तिषु यो. ज्यमित्यर्थः । ५ पित्तजमूत्रकृच्छचिकित्सामाचष्टे – तृणेति । ६ तृणादिसंस्कृत स्नेहेनेति शेषः । ७ एभिः = पूर्वौक्कतृणोत्पलादिप्रभृतिभिः, त्रिविधेषु बस्तिषु = निरूद्दानुवास • । श्रादिशब्दः नोत्तरबस्तिषु – सुरसेति । ८ कफजमूत्र कृच्छचिकित्सामाख्याति सुरसादिभिः सह प्रत्येकं सम्बध्यते । तेन सुरसादौ ऊषकादौ मुस्तादौ चेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1394
पाठ पढ़ें पाठ छिपाएँ
१२३६ by Arya Samaj Fously G सुश्रुतसंहितायां scangotri [ अ ० ६० " लं तथा यवाग्वादि कफाघाते शस्यते ॥ २३ ॥
येथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे ।
फल्गुवृश्चीरदर्भाश्मसारचूर्णञ्च वारिणा ॥ २४ ॥
सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् ।
तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् ॥ २५ ॥
मूत्रकृच्छ्रे शज्जाते कार्या वातहरी क्रिया ।
स्वेदावगाहावभ्यङ्गवस्तिचूर्ण क्रियास्तथा ॥ २६ ॥
ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः ॥ २७ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेवो नाम ( एकविंशतितमोऽध्यायः, आदितः ) एकोनषष्टितमोऽध्यायः ॥५ ९ ॥
षष्टितमोऽध्यायः ।
अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
१ आदिशब्दाद् विलेप्यादयो बोध्याः । कफाघाते = कफजमूत्रकृच्छ्रे । ^ २ सान्निपातिकमूत्र कृच्छचिकित्सां वक्ति - यथेति । एतान् ^ = वातादिमूत्रकृच्छ्र-हरयोगान् । ३ फल्गुः = ‘ कठूमर ' इति ख्यातः । वृश्वीरः = श्वेतपुनर्नबा, अश्मसा · रः = शिलाजतु । ४ अभिघातजमूत्रकृच्छचिकित्सामभिधत्ते - तथेति । अभिघा तजे = अभिघातजमूत्रकृच्छे । ५ पुरीषजमूत्रकृच्छचिकित्सितमभिदधाति – मूत्रेति । ६ स्वेदावगाहादयो वातव्याध्युक्ता ग्राह्याः । ^ ७ श्रश्मरी शर्करोत्पन्नयोर्मूत्रकृच्छयोश्चिकित्सां ब्रवोति — य इति । प्रोक्तः - अश्मरीशर्कराचिकित्सितेऽभिहित इत्यर्थः ^ । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनपञ्चाशोऽध्यायः । षष्टितमोऽध्यायः । ( अथ भूतविद्या ) = कायचिकित्साऽनन्तरं भूतविद्यामधिकरोति - अथात इति । " भूतविधा नाम CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1395
पाठ पढ़ें पाठ छिपाएँ
अ ० ६० ] Digitized by Arya Sai Chennai and eGangotri
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः ।
इति यत्प्रागभिहितं विस्तरस्तस्य वक्ष्यते ॥ ३ ॥
गुद्यानागतविज्ञानमनवस्थाऽसहिष्णुता ।
क्रिया वाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्यते ॥ ४ ॥
अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम् ।
हिंस्युहिंसाविहारार्थं सत्कारार्थमथापि वा ॥ ५ ॥
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये । १२३७ व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ॥ ६ ॥
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः ।
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको " देवगणो ग्रहाख्यः ॥७ ॥
सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी । तेजस्वी १२ स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ॥ ८ ॥
देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रद्दाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहो. पशमनार्थम् ” इति वेदोत्पत्यध्यायेऽभिहितम् । श्रमानुषाणां देवादिग्रहाणामुपसर्ग उपद्रवः, तस्य प्रतिषेधश्चिकित्सितम् । १ निशाचरेभ्यः = देवादिग्रहेभ्यः । २ प्राक् = ब्रणितोपासनीये । ३ ग्रहसामान्यलक्षणमभिधत्ते - गुह्येति । गुह्यं रहस्यम्, अना • गतं भावि, तयोर्विज्ञानम् । श्रनवस्था = अनवस्थिति:, चञ्चलत्वमित्यर्थः । श्रसहि-इत्यर्थः ष्णुता = अक्षमत्वम् । ४ यस्मिन् = आतुरे, सग्रहः = ग्रहजुष्ट! । ५ ग्रहावेशयोग्यान् पुरुषान् दर्शयति - अशुचिमिति । भिन्नमर्यादं = न्यायपथ-मतिक्रान्तम् । ६ हिंसाविहारार्थं = वधक्रीडार्थम् । ७ ग्रहाणामसंख्येयत्वं वक्ति-असंख्येया इति । ८ व्यज्यन्ते = पृथक् प्रतीयन्ते । ९ ग्रहाधिपानामष्टविधत्वं प्रतिपादयति - देवा इति । शत्रुगणाः - दैत्यगणाः, गन्धर्वाः = हाहाहूहूप्रभृतयः, यक्षाः = कुबेरादयः, पितरः = श्रग्निष्वात्तादयः, भुजङ्गाः = वासुकिप्रभृतयः । १० अष्ट परिमाणमस्येत्यष्टकः । ११ देवग्रहजुष्टस्य लक्षणमाह - सन्तुष्ट इति । इष्टानिं प्रियाणि गन्धमाल्यानि यस्य स इष्टगन्धमाल्यः, श्रवितथं सत्यं संस्कृतं च प्रभाषते इत्यवितथसंस्कृतप्रभाषी । १२ स्थिरनयनः = निमेषरहितः, ब्रह्मण्यः = ब्राह्मणानुरक्तः, देवजुष्टः = देवग्रहपीडितः, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1396
पाठ पढ़ें पाठ छिपाएँ
a. सुश्रुतसंहितायां and Gangotri १२३८ Digitized by Arya Samar संस्वेदी ' द्विजगुरुदेवदोषवक्ता
जिह्माक्षो विगतभयो विमार्गदृष्टिः ।
सन्तुष्टो भवति न चान्नपानजातै-दुष्टात्मा भवति च देवशत्रुजुष्टः ॥ ९ ॥
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन् वै प्रहसति चारु चाल्पशब्द गन्धर्वग्रहपरिपीडितो मनुष्यः ॥ १० ॥
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ॥ ११ ॥
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान्
शान्तात्मा जलमपि चापसव्यवखः ।
मांसेप्सुस्तिलगुडपायसाभिकाम-स्तद्भक्तो भवति पितृग्रहाभिभूतः ॥ १२ ॥
भूमौ यः प्रसरति सर्पवत् कदाचित [ अ ० ६० देवग्रहणेन गणमातृकादयोऽपि ग्राह्याः । तथा च विदेहः – “ क्रोधनः स्रस्तसर्वाङ्गो लालाफेनाविलाननः । निद्रालुः कम्पनो मूको गणमातृभिरर्दितः ॥ ” इति । १ देवशत्रुजुष्टस्य लक्षणमभिधत्ते - संस्वेदीति । संस्वेदी = स्वेदवान्, जिह्माक्षः = कुटिलदृष्टिः, विमार्गदृष्टिः = श्रुतिधर्मनिन्दकः । २ गन्धर्वाविष्टस्य लक्षणमाख्याति— हृष्टात्मेति । हृष्टात्मा = चिन्तादिरहितः सन्तुष्टात्मा, पुलिनवनान्तरोपसेवी - पुलिनं नद्यादितटम्, वनमुद्यानम्, तयोरन्तरं मध्यमुपसेवते इति, स्वाचारः = शोभनाचारः, प्रियाणि परि सर्वतो गीतगन्धमाल्यानि यस्य स प्रियपरिगीतगन्धमाल्यः । ३ यक्षाविष्टस्य लक्षणमाद्द- ताम्राक्ष इति । ताम्राक्षः - रक्तनेत्रः, प्रियं शोभनं, तनु सूक्ष्मं, रक्तं च वस्त्रं धर्तुं शीलं यस्य स प्रियतनुरक्तवस्त्रधारी, गम्भीरः = गम्भीर-शीलः । ४ पितृजुष्टस्य लक्षणं ब्रवीति – प्रेतेभ्य इति । प्रेतेभ्यः = मृतेभ्यः, विसृ-जति = ददाति, संस्तरेषु = श्रास्तीर्णकुशेषु, शान्तात्मा = शान्तस्वभावः, अपसव्यवस्त्रः = - वामोत्तरीयः, अपसव्यहस्त इति पाठे दक्षिणहस्त इत्यर्थः । ५ नागाविष्टस्य लक्षण -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1397
पाठ पढ़ें पाठ छिपाएँ
अ ० ६० ] Digitized by Arya Sa कुतरतनत्रम Chennai and eGangotri
सृक्किण्यौ विलिखति जिह्वया तथैव ।
निद्रालुगुंडमधुदुग्धपायसेप्सु-विज्ञेयो भवति भुजङ्गमेन जुष्टः ॥ १३ ॥
मांस सृग्विविधसुराविकारलिप्सु-निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः । क्रोधालुर्विपुलैबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः ॥ १४ ॥
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः । बह्नाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशा वजुष्टः ॥ १५ ॥
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति । यश्चाद्रिद्विरदनंगादिविच्युतः सन् संसृष्टो न भवति वार्द्धकेन जुष्टः ॥ १६ ॥
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि ।
गन्धर्वाः प्रायशोऽष्टम्यां यज्ञाश्च प्रतिपद्यथ ॥ १७ ॥
१२३ ९ माचष्टे - भूमाविति । प्रसरति = उरसा भ्रमति, सुक्किण्यौ = श्रोष्ठप्रान्तौ, विलिख-ति = विलेढि, धातूनामनेकार्थत्वात् । ' विलिहति ' इति पाठान्तरम् । १ राक्षसाविष्टस्य लक्षणमाख्याति - मांसेति । विविधसुरारा विकाराः = पैष्टोप्रभृ • तयः । २ विपुलबलः = अन्नाद्विनाऽपि प्रभूतबलः । रक्षःपदेन ब्रह्मराक्षसादयो ग्राह्याः । तथा च— “ देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः । श्रात्मपीडाकरो दासी ब्रह्मराक्षससे-वितः ॥ ” इति । ३ पिशाचाविष्टस्य लक्षणं निर्दिशति - उद्धस्त इति । उद्धस्तः = ऊर्ध्वबाहुः, अतिलोलः = श्रुतिचञ्चलः । ४ विजनं निर्जनस्थानं, हिमाम्बु शीताम्बु, रात्रिः निशा, एतत्सेवीति विजनहिमाम्बुरात्रिसेवी । ५ असाध्यलक्षणं दर्शयति -- स्थूलाक्ष इति । ६ नगः = वृक्षः, आदिशब्दात् भित्तिप्रासादादयो गृह्यन्ते । विदेहेऽधिकमसाध्यलक्षणम् - " मेढप्रवृत्तः क्षतजः सास्राक्षः स्रुतनासिकः । रूक्षजिह्वः पूतिगर्भो इतवागतिदुर्बलः ॥ ” इति । ७ देवादीनां ग्रहण-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1398
पाठ पढ़ें पाठ छिपाएँ
१२४० Digitized by Arya Samaj Fo सुश्रुत संहितायां emgotri [ अ ० ६०
कृष्ण क्षये च पितरः पञ्चम्यामपि चोरगाः ।
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च ॥ १८ ॥
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।
स्वर्षैणि भास्करस्योस्रा यथा देहच देहधृक् ॥
विशन्ति च न दृश्यन्ते ग्रहास्तद्वेच्छरीरिणम् ॥। १ ९ ॥
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम् ।
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ॥२० ॥
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् कचिदाविशन्ति ।
ये त्वाविशन्तीति वदन्ति मोहांत ते भूतविद्याविषयादपोह्याः ॥ २१ ॥
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः । कालं वक्ति - देवग्रहा इति । १ कृष्णक्षये = श्रमावास्यायाम्, पितरः = पितृग्रहाः, उरगाः = नागग्रहाः । २ विशन्ति = अनुप्रवेशं कुर्वन्ति । तिथ्यभिधानप्रयोजनं तेषां तिथौबलिदानार्थम् । तदुक्तम्- - " ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । दि नेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥ ” इति । ३ देहं विशन्तो देवादिग्रहाः कथं न दृश्यन्ते इत्याशङ्कायामुपदिशति - दर्पणा-दीनिति । दर्पण: = श्रादर्शः, आदिशब्दादन्यदपि निर्मलद्रव्यं जलतैलादिकं गृह्यते । छाया = प्रतिकृतिः । शीतोष्णमिति कर्तृपदम् । प्राणिन इति कर्मपदम् । ४ स्वमणि = सूर्यकान्तम्, भास्करस्योत्राः = सूर्यरश्मयः, ' किरण ' स्रमयूखांशुगभस्तिघृणिरश्मयः ' इत्यमरः । देद्दधृक् = जीवात्मा । ५ यथा छायाशीतोष्णादयो दर्पणप्राणिप्रभृतीन् विशन्तो न दृश्यन्ते तद्वद् ग्रहा श्रपीत्यर्थः । शरीरिणमित्यत्र शरीरिशब्देन शरीरमभिप्रेतं, स्थानिनि स्थानोपचारात्; यथा मञ्चाः क्रोशन्तीति । ६ ग्रहाणां तीव्रतपोनियमादियुक्तत्वं प्रभाववत्तां च प्रति • पादयति- तपांसीति । ७ अष्टौ गुणाः == अणिमा, लघिमा, महिमा, गरिमा, प्राकाम्यं, प्राकाश्यम्, ईशित्वं, वशित्वं, कामावसायित्वं चेति । व्यस्ताः = = द्वित्राः, त्रिचतुष्काः, पञ्च षट्का वा । तत्र व्यस्ता गुणा असुरादिग्रहाणां समस्ताश्च देवग्रहा · णामिति बोध्यम् । -८ तपोनियमादियुक्ता देवादिग्रहाः कथमप्यशुचि देहं नाविशन्तीति दर्शयति-नेति ९ मोद्दात् = = ज्ञानात्, अपोह्या: - बाह्या इत्यर्थः । के वर्द्धाविशन्ती-। १० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1399
पाठ पढ़ें पाठ छिपाएँ
अ ० ६० ] Digitized by Arya Samay रस hnai and eGangotri १२४१ असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति ॥ २२ ॥
निशाचराणां तेषां हि ये देवगणमाश्रिताः ।
ते तु तत्संवसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ॥ २३ ॥
देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये ।
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ॥ २४ ॥
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु ।
निर्ऋतेर्या दुहितरस्तासां स प्रसवः स्मृतः ॥ २५ ॥
सत्यत्वादप्रवृत्तेषु वृत्तिस्तेषां गणैः कृता ।
. हिंसाविहारा ये केचिद् देवभावमुपाश्रिताः ॥ २६ ॥
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः ।
ग्रहसंज्ञानि भूतानि यस्माद्वेत्यनया भिषक् ॥ २७ ॥
विद्यया भूतविद्यात्वमत एव निरुच्यते ।
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ॥ २८ ॥
जपैः सनियमैर्होमैरारभेत चिकित्सितुम् ।
रक्तानि गन्धमाल्यानि बीजानि 10 मधुसर्पिषी ॥ २ ९ ॥
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते ।
वस्त्राणि ' ' गन्धमाल्यानि मांसानि रुधिराणि च ॥ ३० ॥
त्याह - तेषामिति । १ निशाविहाराः = रात्रिभ्रमणशीलाः । २ तत्सत्वसंस • र्गात = देवादिसत्त्व संयोगात्, तदञ्जनाः = तल्लक्षणा इत्यर्थः । ३ ये पुनर्ग्रहाः शुच-यस्ते देवग्रहा इति प्रोच्यन्ते इति सम्बन्धः । ४ “ स्वामिशीलक्रियाचारक्रमा एव सुरादिषु । निर्ऋतेर्या दुहितरस्तासां सप्रसवाः स्मृताः ॥ ” इति श्रीहारायचन्द्रसम्मतपाठः । ५ निर्ऋतेः रक्षसां पितामहस्य, सः = देवाद्यनुचरगणः, प्रसवः = सन्तानः, श्रतो मांसादिभोजनस्वभावं न त्यज-तीति श्रपवृत्तेषु भावः । ६ गणैः स्वामिभूतदेवादिभिः सत्यत्वाच्छास्त्रोक्तानुष्ठानाद् पराङ्मुखेषु तेषामनुचरभूतग्रहाणां वृत्तिर्जीविका कृतेत्यर्थः । ७ ग्रहाणां भूतसंज्ञ-कत्वे हेतुमाह— हिंसेति । देवभावं = देवरूपमित्यर्थः । ८ भूतविद्याया निरुक्ति वक्ति - ग्रहेति । वेत्ति = जानाति । ९ ग्रहाणां । सामा-न्यचिकित्सामाह - तेषामिति । तेषां = देवाद्यनुचरभूतग्रहाणाम् । १० बीजानि = माषसर्षपयवप्रभृतीनि, यन्त्र लिखितानि बीजाक्षराणि बीजानीश्यन्ये । ११ तेषां विशे-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1400
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां -१२४२ by Arya Samaj Follication Chennai and eGangotri [ अ ० ६०
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ।
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ॥ ३१ ॥
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये ।
देवग्रहे देवगृहे हुत्वाऽग्निं प्रापयेद्बलिम् ॥ ३२ ॥
कुशस्वस्तिर्कपूपाज्यच्छत्र पायससम्भृतम् ।
असुराय यथाकालं विदध्याच्चत्वरादिषु ॥ ३३ ॥
गैन्धर्वस्य गवां मध्ये मद्यमांसाम्बु जाङ्गलम् ।
ये वेश्मनि पक्षस्य कुल्माषासृक्सुरादिभिः ॥ ३४ ॥
प्रतिमुक्तककुन्दा ० ज पुष्पैश्च वितरेद्वलिम् ।
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ॥ ३५ ॥
तत्रैवोपहरेच्चापि नागाय विविधं बलिम् ।
चतुष्पथे राक्षसस्य भीमेषु गहनेषु १० वा ॥ ३६ ॥
शून्यागारे " पिशाचस्य तीव्रं बलिमुपाहरेत् । षचिकित्सितमभिधत्ते— वस्त्राणीति । यानि वस्त्रादीनि येषां देवाद्यनुचराणां यथेष्टानि यथेप्सितानि तानि तेभ्यः प्रदापयेदिति सम्बन्धनीयम् । १ वस्त्रादिप्रदानकालमाचष्टे - हिंसन्तीति । श्रन्यत्रापि - " ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥ ” इति । २ देवग्रइचिकित्सां वक्ति - देवेति । देवगृहे = देवस्थाने ३ स्वस्तिकः तण्डुला • दिचूर्णनिर्मित त्रिकोणाकाराधिवासद्रव्यम्, सम्भृतं = मिलितम् । ४ श्रसुरग्रहचि-कित्सामाचष्टे — असुरायेति । यथाकालं = सन्ध्याकाले, विदध्यात् = दद्यात्, स्वस्ति • कादिबलिमिति शेषः । ५ गन्धवग्रइचिकित्सां दर्शयति - गन्धर्वस्येति । श्रम्बु = जलम् । ६ यक्ष • ग्रहचिकित्सामाह -- हृद्य इति । हृद्ये = मनोज्ञे, कुल्माषाः = यदादिपिष्टकृताः शृङ्गाटका • दयः । ७ श्रतिमुक्तकः = माधवीलता । पितृग्रहचिकित्सामाख्याति -- नद्या-मिति । इष्टं = तिलगुडपायसादिबलिमित्यर्थः । ९ नागराक्षसग्रह योश्चिकित्सां निर्दि-शति — तत्रैवेति । तन्त्रैव = नद्याम्, विविधं = गुडमध्वा सत्रपायसाद्यनेकविधम् । १० गद्दनॆषु = वनॆषु, ‘ गद्दनं काननं वनम् ' इत्यमरः । अत्र मांसासृक्राविकाराद्यनेक-प्रकारं बलिं वितरेत् । ११ पिशाचग्रइचिकित्सामभिदधाति - शून्यागार इति । तीव्रं बलिम् = श्राममांसपशूप हारमद्योत्कटमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar