सुश्रुत संहिता चौखम्बा — पृष्ठ 1391–1400

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1391–1400

पृष्ठ 1391

सुश्रुत संहिता चौखम्बा, पृष्ठ 1391 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ९ ] Digitized by Arya Samajgeसत nai and eGangotri मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ ७२ ॥

१२३३ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्वातन्त्रे मूत्राघातप्रतिषेधो नाम ( विंशोऽध्यायः, आदितः ) अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥

ऊनषष्टितमोऽध्यायः । 1. अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वातेने पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम् ।

तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ॥ ३ ॥

अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः ।

फलैद्भिरिव कृच्छ्रेण वाताघातेन मेहति ॥ ४ ॥

हारिद्रमुष्णं रक्तं वा मुष्कमेन वस्तिभिः ।

अग्निना दह्यमानाभैः पित्ताघातेन मेहति ॥ ५ ।

स्निग्धं शुक्लमनुष्णञ्च मुष्कमेहनबस्तिभिः । सृग्लोहितास्ररक्तक्षत जशोणितम् ' इत्यमरः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽयटिप्पन्या-मष्टपञ्चाशत्तमोऽध्यायः । एकोनषष्टितमोऽध्यायः । १ बस्तिगतत्व साधर्म्याद मूत्राघातप्रतिषेधानन्तरं मूत्रकृच्छप्रतिषेधमधिकरोति-अथात इति । मूत्रकृच्छ्र = दुःखेन मूत्रप्रवृत्तिः । २ मूत्रकृच्छ्रभेदानाह - वातेनेति । ३ मूत्रोपघातः = मूत्रकृच्छ्रः । मूत्रकृच्छ्रस्य निदानं सम्प्राप्तिपूर्वक लक्षणं चोक्तं तन्त्रा-न्तरे— “ व्यायामतीक्ष्णौषधरूक्ष मद्यप्रसङ्गनित्यद्भुतपृष्ठयानात् । श्रनूपमसाध्यशनाद-जीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ ॥ पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा * कोपमुपेत्य बस्तौ । मूत्रस्य मार्गे परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ॥ ” इति । ४ वातजमूत्रकृच्छ्रलक्षणमभिदधाति - अल्पमिति । मुष्कः अण्डकोशः, मेहनं लिङ्गम्, बस्तिः मूत्राशयः । ५ फलद्भिः पीडयद्भिः, वातावातेन = वातकृच्छ्रेण । ६ पित्तजमूत्रकृच्छ्र लक्षणमभिधत्ते - हारिद्रमिति । हारिद्र् = हरिद्रावर्णम्, रक्तं = रक्त • चर्णम् । ७ दह्यमानाभैः = अत्यन्तदाहपरीतैरित्यर्थः । ८ कफजमूत्रकृच्छ्रलक्षणमाचष्टे-७८ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1392

सुश्रुत संहिता चौखम्बा, पृष्ठ 1392 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२३४ by Arya Samaj Fourt सुतसंहितायां camgotri संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ॥ ६ ॥

दाहशीत रुजाविष्टो नानावर्णं मुहुर्मुहुः ।

ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति ॥ ७ ॥

मूत्रैवाहिषु शल्येन क्षतेष्वभिहतेषु च ।

स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ॥ ८ ॥

वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् ।

शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ॥ ९ ॥

आध्मानञ्च सशूलच मूत्रसङ्गं करोति हि ।

अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः ॥ १० ॥

अँश्मरी शर्करा चैव तुल्ये सम्भवलक्षणैः ।

शर्कराया विशेषन्तु शृणु कीर्त्तयतो मम ॥ ११ ॥

पच्यमानस्य पित्तेन भिद्यमानस्य वायुना । [ ० ५ ९ श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः ॥ १२ ॥

हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः ।

ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः ॥ १३ ॥

10

मूत्रवेगनिरस्तासु तासु शाम्यति वेदना ।

यावदन्या पुननैति गुडिका स्रोतसो मुखम् ॥ १४ ॥

स्निग्धमिति । श्रनुष्णं = किश्चिदुष्णम् । १ संहृष्टरोमा = उद्गतरोमाञ्चः । २ सान्निपातिकमूत्रकृच्छ्रलक्षणमाद - दाहेति । श्राविष्टः == युक्तः । ३ श्रभिघातजमूत्रकृच्छ्रलक्षणमाख्याति - मूत्रवाहिष्विति । मूत्रवाहिस्रोतः स्वि-ति सम्बन्धः । ४ लिङ्गानि = लक्षणानि । ५ पुरीषजमूत्रकृच्छ्रलक्षणं दर्शयति— शक्कृत स्त्विति । प्रतीघातात् = अवरोधात् । ६ अश्मरीजमूत्रकृच्छ्र ं निर्दिशति-अश्मरीति । मूत्राघातः = मूत्रकृच्छ्रः । ७ मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोस्तुल्यतामवान्तरभेदं च बक्ति -- अ-श्मरीति । सम्भवः = उत्पत्ति: । ' तुल्यसम्भव लक्षणे ' इति पाठान्तरम् । तुल्यः सम्भव उत्पत्तिर्लक्षणं च ययोस्ते तथा, समाननिदानलिङ्ग इति तदर्थः । ८ पच्यमानस्य पक्कस्य, भाविनि भूतवदुपचारात् । एवं भिद्यमानस्य भिन्नस्येत्यर्थः । ९ ताभिः = शर्कराभिः । १० निरस्तासु = निःसृतासु । CC - 0. Gurukul Kangri Collection, Haridwar 1.

पृष्ठ 1393

सुश्रुत संहिता चौखम्बा, पृष्ठ 1393 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ९ ] Digitized by Arya नुतर n Cher Chennai and eGangotri १२३५

शर्करासम्भवस्यैतन्मूत्राघातस्य लक्षणम् ।

चिकित्सितमथैतेषामष्टानामपि वक्ष्यते ॥ १५ ॥

अश्मरीञ्च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् ।

यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् ॥ १६ ॥

श्वदंष्ट्राश्मभिदौ कुम्भी हपुषां कण्टकारिकाम् ।

बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् ॥ १७ ॥

तथा विदारिगन्धादि संहृत्य वृतं पचेत् ।

तैलं घृतं वा तत्पेयं तेन वाऽप्यनुवासनम् ॥ १८ ॥

दद्यादुत्तरवस्तिश्च वातकृच्छ्रोपशान्तये ।

श्वदंष्ट्रा स्वर से तैलं सगुडक्षीरनागरम् ॥। १ ९ ॥

पक्त्वा तत्पूर्ववद्योज्यं ' तत्रानिलरुजापहम् ।

५" तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम् ॥ २० ॥

पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा ।

दद्यादुत्तरबस्तिञ्च पित्तकृच्छ्रोपशान्तये ॥ २१ ॥

ऍभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु ।

हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर्युतम् ॥ २२ ॥

सुर सोषकमुस्तादौ वरुणादौ च यत् कृतम् । १ मूत्रकृच्छचिकित्सामाख्याति - चिकित्सितमिति । एतेषां = मूत्रकृच्छ्राणाम् । २ वातजमूत्रकृच्छचिकित्सां निर्दिशति - श्वदंष्ट्रेति । श्वदंष्ट्रा = गोक्षुरकः श्रश्म-भित् = पाषाणभेदः, कुम्भी = वारिपर्णी, इपुषा = ' हाऊबेर ' इति ख्याता । ३ गिरिकणिका - अपराजिताभेदः । ४ त्रिभिः सर्पिर्वसामज्जभिर्वृतं तैलम्, त्रि-भिस्तैलवसामज्जभिर्वृतं घृतं वा त्रैवृतमित्यर्थः । ४ पानानुवासनोत्तरबस्तिषु यो. ज्यमित्यर्थः । ५ पित्तजमूत्रकृच्छचिकित्सामाचष्टे – तृणेति । ६ तृणादिसंस्कृत स्नेहेनेति शेषः । ७ एभिः = पूर्वौक्कतृणोत्पलादिप्रभृतिभिः, त्रिविधेषु बस्तिषु = निरूद्दानुवास • । श्रादिशब्दः नोत्तरबस्तिषु – सुरसेति । ८ कफजमूत्र कृच्छचिकित्सामाख्याति सुरसादिभिः सह प्रत्येकं सम्बध्यते । तेन सुरसादौ ऊषकादौ मुस्तादौ चेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1394

सुश्रुत संहिता चौखम्बा, पृष्ठ 1394 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२३६ by Arya Samaj Fously G सुश्रुतसंहितायां scangotri [ अ ० ६० " लं तथा यवाग्वादि कफाघाते शस्यते ॥ २३ ॥

येथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे ।

फल्गुवृश्चीरदर्भाश्मसारचूर्णञ्च वारिणा ॥ २४ ॥

सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् ।

तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् ॥ २५ ॥

मूत्रकृच्छ्रे शज्जाते कार्या वातहरी क्रिया ।

स्वेदावगाहावभ्यङ्गवस्तिचूर्ण क्रियास्तथा ॥ २६ ॥

ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः ॥ २७ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेवो नाम ( एकविंशतितमोऽध्यायः, आदितः ) एकोनषष्टितमोऽध्यायः ॥५ ९ ॥

षष्टितमोऽध्यायः ।

अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

१ आदिशब्दाद् विलेप्यादयो बोध्याः । कफाघाते = कफजमूत्रकृच्छ्रे । ^ २ सान्निपातिकमूत्र कृच्छचिकित्सां वक्ति - यथेति । एतान् ^ = वातादिमूत्रकृच्छ्र-हरयोगान् । ३ फल्गुः = ‘ कठूमर ' इति ख्यातः । वृश्वीरः = श्वेतपुनर्नबा, अश्मसा · रः = शिलाजतु । ४ अभिघातजमूत्रकृच्छचिकित्सामभिधत्ते - तथेति । अभिघा तजे = अभिघातजमूत्रकृच्छे । ५ पुरीषजमूत्रकृच्छचिकित्सितमभिदधाति – मूत्रेति । ६ स्वेदावगाहादयो वातव्याध्युक्ता ग्राह्याः । ^ ७ श्रश्मरी शर्करोत्पन्नयोर्मूत्रकृच्छयोश्चिकित्सां ब्रवोति — य इति । प्रोक्तः - अश्मरीशर्कराचिकित्सितेऽभिहित इत्यर्थः ^ । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतकायचिकित्सातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकोनपञ्चाशोऽध्यायः । षष्टितमोऽध्यायः । ( अथ भूतविद्या ) = कायचिकित्साऽनन्तरं भूतविद्यामधिकरोति - अथात इति । " भूतविधा नाम CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1395

सुश्रुत संहिता चौखम्बा, पृष्ठ 1395 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६० ] Digitized by Arya Sai Chennai and eGangotri

निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः ।

इति यत्प्रागभिहितं विस्तरस्तस्य वक्ष्यते ॥ ३ ॥

गुद्यानागतविज्ञानमनवस्थाऽसहिष्णुता ।

क्रिया वाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्यते ॥ ४ ॥

अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम् ।

हिंस्युहिंसाविहारार्थं सत्कारार्थमथापि वा ॥ ५ ॥

असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये । १२३७ व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ॥ ६ ॥

देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः ।

रक्षांसि या चापि पिशाचजातिरेषोऽष्टको " देवगणो ग्रहाख्यः ॥७ ॥

सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी । तेजस्वी १२ स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ॥ ८ ॥

देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रद्दाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहो. पशमनार्थम् ” इति वेदोत्पत्यध्यायेऽभिहितम् । श्रमानुषाणां देवादिग्रहाणामुपसर्ग उपद्रवः, तस्य प्रतिषेधश्चिकित्सितम् । १ निशाचरेभ्यः = देवादिग्रहेभ्यः । २ प्राक् = ब्रणितोपासनीये । ३ ग्रहसामान्यलक्षणमभिधत्ते - गुह्येति । गुह्यं रहस्यम्, अना • गतं भावि, तयोर्विज्ञानम् । श्रनवस्था = अनवस्थिति:, चञ्चलत्वमित्यर्थः । श्रसहि-इत्यर्थः ष्णुता = अक्षमत्वम् । ४ यस्मिन् = आतुरे, सग्रहः = ग्रहजुष्ट! । ५ ग्रहावेशयोग्यान् पुरुषान् दर्शयति - अशुचिमिति । भिन्नमर्यादं = न्यायपथ-मतिक्रान्तम् । ६ हिंसाविहारार्थं = वधक्रीडार्थम् । ७ ग्रहाणामसंख्येयत्वं वक्ति-असंख्येया इति । ८ व्यज्यन्ते = पृथक् प्रतीयन्ते । ९ ग्रहाधिपानामष्टविधत्वं प्रतिपादयति - देवा इति । शत्रुगणाः - दैत्यगणाः, गन्धर्वाः = हाहाहूहूप्रभृतयः, यक्षाः = कुबेरादयः, पितरः = श्रग्निष्वात्तादयः, भुजङ्गाः = वासुकिप्रभृतयः । १० अष्ट परिमाणमस्येत्यष्टकः । ११ देवग्रहजुष्टस्य लक्षणमाह - सन्तुष्ट इति । इष्टानिं प्रियाणि गन्धमाल्यानि यस्य स इष्टगन्धमाल्यः, श्रवितथं सत्यं संस्कृतं च प्रभाषते इत्यवितथसंस्कृतप्रभाषी । १२ स्थिरनयनः = निमेषरहितः, ब्रह्मण्यः = ब्राह्मणानुरक्तः, देवजुष्टः = देवग्रहपीडितः, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1396

सुश्रुत संहिता चौखम्बा, पृष्ठ 1396 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

a. सुश्रुतसंहितायां and Gangotri १२३८ Digitized by Arya Samar संस्वेदी ' द्विजगुरुदेवदोषवक्ता

जिह्माक्षो विगतभयो विमार्गदृष्टिः ।

सन्तुष्टो भवति न चान्नपानजातै-दुष्टात्मा भवति च देवशत्रुजुष्टः ॥ ९ ॥

हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन् वै प्रहसति चारु चाल्पशब्द गन्धर्वग्रहपरिपीडितो मनुष्यः ॥ १० ॥

ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ॥ ११ ॥

प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान्

शान्तात्मा जलमपि चापसव्यवखः ।

मांसेप्सुस्तिलगुडपायसाभिकाम-स्तद्भक्तो भवति पितृग्रहाभिभूतः ॥ १२ ॥

भूमौ यः प्रसरति सर्पवत् कदाचित [ अ ० ६० देवग्रहणेन गणमातृकादयोऽपि ग्राह्याः । तथा च विदेहः – “ क्रोधनः स्रस्तसर्वाङ्गो लालाफेनाविलाननः । निद्रालुः कम्पनो मूको गणमातृभिरर्दितः ॥ ” इति । १ देवशत्रुजुष्टस्य लक्षणमभिधत्ते - संस्वेदीति । संस्वेदी = स्वेदवान्, जिह्माक्षः = कुटिलदृष्टिः, विमार्गदृष्टिः = श्रुतिधर्मनिन्दकः । २ गन्धर्वाविष्टस्य लक्षणमाख्याति— हृष्टात्मेति । हृष्टात्मा = चिन्तादिरहितः सन्तुष्टात्मा, पुलिनवनान्तरोपसेवी - पुलिनं नद्यादितटम्, वनमुद्यानम्, तयोरन्तरं मध्यमुपसेवते इति, स्वाचारः = शोभनाचारः, प्रियाणि परि सर्वतो गीतगन्धमाल्यानि यस्य स प्रियपरिगीतगन्धमाल्यः । ३ यक्षाविष्टस्य लक्षणमाद्द- ताम्राक्ष इति । ताम्राक्षः - रक्तनेत्रः, प्रियं शोभनं, तनु सूक्ष्मं, रक्तं च वस्त्रं धर्तुं शीलं यस्य स प्रियतनुरक्तवस्त्रधारी, गम्भीरः = गम्भीर-शीलः । ४ पितृजुष्टस्य लक्षणं ब्रवीति – प्रेतेभ्य इति । प्रेतेभ्यः = मृतेभ्यः, विसृ-जति = ददाति, संस्तरेषु = श्रास्तीर्णकुशेषु, शान्तात्मा = शान्तस्वभावः, अपसव्यवस्त्रः = - वामोत्तरीयः, अपसव्यहस्त इति पाठे दक्षिणहस्त इत्यर्थः । ५ नागाविष्टस्य लक्षण -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1397

सुश्रुत संहिता चौखम्बा, पृष्ठ 1397 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६० ] Digitized by Arya Sa कुतरतनत्रम Chennai and eGangotri

सृक्किण्यौ विलिखति जिह्वया तथैव ।

निद्रालुगुंडमधुदुग्धपायसेप्सु-विज्ञेयो भवति भुजङ्गमेन जुष्टः ॥ १३ ॥

मांस सृग्विविधसुराविकारलिप्सु-निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः । क्रोधालुर्विपुलैबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः ॥ १४ ॥

उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः । बह्नाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशा वजुष्टः ॥ १५ ॥

स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति । यश्चाद्रिद्विरदनंगादिविच्युतः सन् संसृष्टो न भवति वार्द्धकेन जुष्टः ॥ १६ ॥

देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि ।

गन्धर्वाः प्रायशोऽष्टम्यां यज्ञाश्च प्रतिपद्यथ ॥ १७ ॥

१२३ ९ माचष्टे - भूमाविति । प्रसरति = उरसा भ्रमति, सुक्किण्यौ = श्रोष्ठप्रान्तौ, विलिख-ति = विलेढि, धातूनामनेकार्थत्वात् । ' विलिहति ' इति पाठान्तरम् । १ राक्षसाविष्टस्य लक्षणमाख्याति - मांसेति । विविधसुरारा विकाराः = पैष्टोप्रभृ • तयः । २ विपुलबलः = अन्नाद्विनाऽपि प्रभूतबलः । रक्षःपदेन ब्रह्मराक्षसादयो ग्राह्याः । तथा च— “ देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः । श्रात्मपीडाकरो दासी ब्रह्मराक्षससे-वितः ॥ ” इति । ३ पिशाचाविष्टस्य लक्षणं निर्दिशति - उद्धस्त इति । उद्धस्तः = ऊर्ध्वबाहुः, अतिलोलः = श्रुतिचञ्चलः । ४ विजनं निर्जनस्थानं, हिमाम्बु शीताम्बु, रात्रिः निशा, एतत्सेवीति विजनहिमाम्बुरात्रिसेवी । ५ असाध्यलक्षणं दर्शयति -- स्थूलाक्ष इति । ६ नगः = वृक्षः, आदिशब्दात् भित्तिप्रासादादयो गृह्यन्ते । विदेहेऽधिकमसाध्यलक्षणम् - " मेढप्रवृत्तः क्षतजः सास्राक्षः स्रुतनासिकः । रूक्षजिह्वः पूतिगर्भो इतवागतिदुर्बलः ॥ ” इति । ७ देवादीनां ग्रहण-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1398

सुश्रुत संहिता चौखम्बा, पृष्ठ 1398 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४० Digitized by Arya Samaj Fo सुश्रुत संहितायां emgotri [ अ ० ६०

कृष्ण क्षये च पितरः पञ्चम्यामपि चोरगाः ।

रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च ॥ १८ ॥

दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।

स्वर्षैणि भास्करस्योस्रा यथा देहच देहधृक् ॥

विशन्ति च न दृश्यन्ते ग्रहास्तद्वेच्छरीरिणम् ॥। १ ९ ॥

तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम् ।

गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ॥२० ॥

न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् कचिदाविशन्ति ।

ये त्वाविशन्तीति वदन्ति मोहांत ते भूतविद्याविषयादपोह्याः ॥ २१ ॥

तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः । कालं वक्ति - देवग्रहा इति । १ कृष्णक्षये = श्रमावास्यायाम्, पितरः = पितृग्रहाः, उरगाः = नागग्रहाः । २ विशन्ति = अनुप्रवेशं कुर्वन्ति । तिथ्यभिधानप्रयोजनं तेषां तिथौबलिदानार्थम् । तदुक्तम्- - " ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । दि नेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥ ” इति । ३ देहं विशन्तो देवादिग्रहाः कथं न दृश्यन्ते इत्याशङ्कायामुपदिशति - दर्पणा-दीनिति । दर्पण: = श्रादर्शः, आदिशब्दादन्यदपि निर्मलद्रव्यं जलतैलादिकं गृह्यते । छाया = प्रतिकृतिः । शीतोष्णमिति कर्तृपदम् । प्राणिन इति कर्मपदम् । ४ स्वमणि = सूर्यकान्तम्, भास्करस्योत्राः = सूर्यरश्मयः, ' किरण ' स्रमयूखांशुगभस्तिघृणिरश्मयः ' इत्यमरः । देद्दधृक् = जीवात्मा । ५ यथा छायाशीतोष्णादयो दर्पणप्राणिप्रभृतीन् विशन्तो न दृश्यन्ते तद्वद् ग्रहा श्रपीत्यर्थः । शरीरिणमित्यत्र शरीरिशब्देन शरीरमभिप्रेतं, स्थानिनि स्थानोपचारात्; यथा मञ्चाः क्रोशन्तीति । ६ ग्रहाणां तीव्रतपोनियमादियुक्तत्वं प्रभाववत्तां च प्रति • पादयति- तपांसीति । ७ अष्टौ गुणाः == अणिमा, लघिमा, महिमा, गरिमा, प्राकाम्यं, प्राकाश्यम्, ईशित्वं, वशित्वं, कामावसायित्वं चेति । व्यस्ताः = = द्वित्राः, त्रिचतुष्काः, पञ्च षट्का वा । तत्र व्यस्ता गुणा असुरादिग्रहाणां समस्ताश्च देवग्रहा · णामिति बोध्यम् । -८ तपोनियमादियुक्ता देवादिग्रहाः कथमप्यशुचि देहं नाविशन्तीति दर्शयति-नेति ९ मोद्दात् = = ज्ञानात्, अपोह्या: - बाह्या इत्यर्थः । के वर्द्धाविशन्ती-। १० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1399

सुश्रुत संहिता चौखम्बा, पृष्ठ 1399 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६० ] Digitized by Arya Samay रस hnai and eGangotri १२४१ असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति ॥ २२ ॥

निशाचराणां तेषां हि ये देवगणमाश्रिताः ।

ते तु तत्संवसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ॥ २३ ॥

देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये ।

देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ॥ २४ ॥

स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु ।

निर्ऋतेर्या दुहितरस्तासां स प्रसवः स्मृतः ॥ २५ ॥

सत्यत्वादप्रवृत्तेषु वृत्तिस्तेषां गणैः कृता ।

. हिंसाविहारा ये केचिद् देवभावमुपाश्रिताः ॥ २६ ॥

भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः ।

ग्रहसंज्ञानि भूतानि यस्माद्वेत्यनया भिषक् ॥ २७ ॥

विद्यया भूतविद्यात्वमत एव निरुच्यते ।

तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ॥ २८ ॥

जपैः सनियमैर्होमैरारभेत चिकित्सितुम् ।

रक्तानि गन्धमाल्यानि बीजानि 10 मधुसर्पिषी ॥ २ ९ ॥

भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते ।

वस्त्राणि ' ' गन्धमाल्यानि मांसानि रुधिराणि च ॥ ३० ॥

त्याह - तेषामिति । १ निशाविहाराः = रात्रिभ्रमणशीलाः । २ तत्सत्वसंस • र्गात = देवादिसत्त्व संयोगात्, तदञ्जनाः = तल्लक्षणा इत्यर्थः । ३ ये पुनर्ग्रहाः शुच-यस्ते देवग्रहा इति प्रोच्यन्ते इति सम्बन्धः । ४ “ स्वामिशीलक्रियाचारक्रमा एव सुरादिषु । निर्ऋतेर्या दुहितरस्तासां सप्रसवाः स्मृताः ॥ ” इति श्रीहारायचन्द्रसम्मतपाठः । ५ निर्ऋतेः रक्षसां पितामहस्य, सः = देवाद्यनुचरगणः, प्रसवः = सन्तानः, श्रतो मांसादिभोजनस्वभावं न त्यज-तीति श्रपवृत्तेषु भावः । ६ गणैः स्वामिभूतदेवादिभिः सत्यत्वाच्छास्त्रोक्तानुष्ठानाद् पराङ्मुखेषु तेषामनुचरभूतग्रहाणां वृत्तिर्जीविका कृतेत्यर्थः । ७ ग्रहाणां भूतसंज्ञ-कत्वे हेतुमाह— हिंसेति । देवभावं = देवरूपमित्यर्थः । ८ भूतविद्याया निरुक्ति वक्ति - ग्रहेति । वेत्ति = जानाति । ९ ग्रहाणां । सामा-न्यचिकित्सामाह - तेषामिति । तेषां = देवाद्यनुचरभूतग्रहाणाम् । १० बीजानि = माषसर्षपयवप्रभृतीनि, यन्त्र लिखितानि बीजाक्षराणि बीजानीश्यन्ये । ११ तेषां विशे-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1400

सुश्रुत संहिता चौखम्बा, पृष्ठ 1400 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -१२४२ by Arya Samaj Follication Chennai and eGangotri [ अ ० ६०

यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ।

हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ॥ ३१ ॥

दिनेषु तेषु देयानि तद्भूतविनिवृत्तये ।

देवग्रहे देवगृहे हुत्वाऽग्निं प्रापयेद्बलिम् ॥ ३२ ॥

कुशस्वस्तिर्कपूपाज्यच्छत्र पायससम्भृतम् ।

असुराय यथाकालं विदध्याच्चत्वरादिषु ॥ ३३ ॥

गैन्धर्वस्य गवां मध्ये मद्यमांसाम्बु जाङ्गलम् ।

ये वेश्मनि पक्षस्य कुल्माषासृक्सुरादिभिः ॥ ३४ ॥

प्रतिमुक्तककुन्दा ० ज पुष्पैश्च वितरेद्वलिम् ।

नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ॥ ३५ ॥

तत्रैवोपहरेच्चापि नागाय विविधं बलिम् ।

चतुष्पथे राक्षसस्य भीमेषु गहनेषु १० वा ॥ ३६ ॥

शून्यागारे " पिशाचस्य तीव्रं बलिमुपाहरेत् । षचिकित्सितमभिधत्ते— वस्त्राणीति । यानि वस्त्रादीनि येषां देवाद्यनुचराणां यथेष्टानि यथेप्सितानि तानि तेभ्यः प्रदापयेदिति सम्बन्धनीयम् । १ वस्त्रादिप्रदानकालमाचष्टे - हिंसन्तीति । श्रन्यत्रापि - " ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥ ” इति । २ देवग्रइचिकित्सां वक्ति - देवेति । देवगृहे = देवस्थाने ३ स्वस्तिकः तण्डुला • दिचूर्णनिर्मित त्रिकोणाकाराधिवासद्रव्यम्, सम्भृतं = मिलितम् । ४ श्रसुरग्रहचि-कित्सामाचष्टे — असुरायेति । यथाकालं = सन्ध्याकाले, विदध्यात् = दद्यात्, स्वस्ति • कादिबलिमिति शेषः । ५ गन्धवग्रइचिकित्सां दर्शयति - गन्धर्वस्येति । श्रम्बु = जलम् । ६ यक्ष • ग्रहचिकित्सामाह -- हृद्य इति । हृद्ये = मनोज्ञे, कुल्माषाः = यदादिपिष्टकृताः शृङ्गाटका • दयः । ७ श्रतिमुक्तकः = माधवीलता । पितृग्रहचिकित्सामाख्याति -- नद्या-मिति । इष्टं = तिलगुडपायसादिबलिमित्यर्थः । ९ नागराक्षसग्रह योश्चिकित्सां निर्दि-शति — तत्रैवेति । तन्त्रैव = नद्याम्, विविधं = गुडमध्वा सत्रपायसाद्यनेकविधम् । १० गद्दनॆषु = वनॆषु, ‘ गद्दनं काननं वनम् ' इत्यमरः । अत्र मांसासृक्राविकाराद्यनेक-प्रकारं बलिं वितरेत् । ११ पिशाचग्रइचिकित्सामभिदधाति - शून्यागार इति । तीव्रं बलिम् = श्राममांसपशूप हारमद्योत्कटमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar