सुश्रुत संहिता चौखम्बा — पृष्ठ 1401–1410
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1401–1410
पृष्ठ 1401
पाठ पढ़ें पाठ छिपाएँ
उत्त ० ६० ] Digitized by Arya Saha aata dhennai and eGangotri Foun पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ॥ ३७ ॥
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् ।
अंजचर्मरोमाणि शल्य कोलूकयोस्तथा ॥ ३८ ॥
हिङ्गु मूत्रञ्च बस्तस्य धूममस्य प्रयोजयेत् ।
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ॥ ३ ९ ॥
गजपिप्पलीमूलव्योपामलकसर्षपान् ।
गोधान कुलमार्जारऋध्यपित्तप्रपेषितान् ॥ ४० ॥
नस्याभ्यञ्जनसे केषु विदध्याद्योगतत्त्ववित् ।
खरौश्वाश्वतरोलूककर भश्वशृगालजम् ॥। ४१ ॥
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत् ।
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ॥ ४२ ॥
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम् ।
मञ्जिष्ठां रजनीं कृष्णां बस्तमत्रेण पेषयेत् ॥ ४३ ॥
वर्त्यश्छायाविशुष्कास्ताः संपित्ता नयनाञ्जनम् ।
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ॥ ४४ ॥
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम् ।
सैन्धवं कटुकां हिङ्गु वयःस्थञ्च वचामपि ।
बस्तमूत्रेण सम्पिष्टं मत्स्यपित्तेन पूर्ववत् ॥ ४५ ॥
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम् । १२४३ १ अग्रोपद्दरणीयैमन्त्रैरिह्वोक्तैर्बलिदानादिभिश्च जेतुमशक्यानां ग्रहाणां धूपनप्र-कारमुपदेष्टुमिदमुच्यते — पूर्वमिति । पूर्व = प्राक्, आचरितैः = प्रयुक्तैरित्यर्थः । भूतविद्यानिदर्शितैर्बलिभिरिति सम्बन्धः । २ ग्रहजुष्टे तदेव धूपनमुपदिशति-अजक्षैति । अज: छगलः, ऋक्षः = ' रीछ ' इति ख्यातः । ३ ग्रजुष्टे गजपिप्प-ल्यादियोगं वक्ति - गजाह्वेति । गजाह्वा - गजपिप्पली । ४ पित्तशब्दस्य गोधा-दिभिः सह प्रत्येकं सम्बन्धः । ५ खरपुरीषादितैलमाह - खरेति । खरः - गर्दभः । ६ ग्रहजुष्टे कतिपययोगान् दर्शयति- शिरीषबीजमिति । सिद्धार्थकः = श्वेत सर्षपः । ८ नक्तमालफलं करञ्जफलम् । ७ सपित्ताः = गोपित्तयुक्ताः । ९ वयःस्था = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1402
पाठ पढ़ें पाठ छिपाएँ
[ अ ० ६० १२४४ Digitized by Arya Samaj सुश्रुतसंहितायां eGangotri पुराणे सर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा ॥ ४६ ॥
गोलोमी ' चाजलोमी च भूतकेशी जटा तथा ।
कुक्कुटा सर्पगन्धा च तथा का विकारिणके ॥ ४७ ॥
वज्रप्रोक्तौ वयःस्था च शृङ्गी मोहनवल्लिका! अर्कमूलं त्रिकटुकं लतौ स्रोतोऽजमञ्जनम् ॥ ४८ ॥
नैलो हरितालच रक्षोघ्ना ये च कीर्तिताः ।
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवान्तथा ॥ ४ ९ ॥
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च ।
विदूत्वग्रोमवसामूत्ररक्तपित्तनखादयः ॥ ५० ॥
अस्मिन् वर्गे भिषक कुर्य्यात्तैलानि च घृतानि च ।
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ॥ ५१ ॥
अवपीडेऽञ्जने चैव विदध्याद् गुटिकीकृतम् ।
विदधीत परीषेके कथितं " चूर्णितं तथा ॥ ५२ ॥।
ऊद्धलने, श्लक्ष्णपिष्टं प्रदेहे चावचारयेत् ।
एष सर्वविकारांस्तु मानसानपराजितः ॥ ५३ ॥
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः । गुडूची, हरीतकीति सुश्रुतार्थसन्दीपनम् । १ ग्रजुष्टे अपराजितयोगं ब्रवीति--पुराणेति । २ गोलोमी = दूर्वा, अजलोमी = श्वेतदूर्वा, भूतकेशी = मांसी, श्वेतव-चेत्यन्ये । जटा गन्धमांसी । ३ कुक्कुटा = कुक्कुटशिम्बी, कुक्कुटोति पाठे शाल्मली बोध्या । सर्पगन्धा = छत्राकी, काणविकाणिके = काकोलीक्षीरकाकोल्यौ । ४ वज्रप्रोक्ता = वजकन्दः, ऋष्यप्रोक्तेति पाठ शतावरी, मोहनवल्लिका = वटपत्रो । ५ लता = प्रियङ्गुः, स्रोतोऽअनं पर्णसानद्यां सिन्धुनदे वा समुद्भूतम् । तच्च- “ वल्मी · कशिखराकारं रूपे नीलोत्पलद्युवि । स्रोतोऽञ्जनं प्रशंसन्ति तच्च प्रत्यञ्जने हितम् ॥ ” इत्युक्तलक्षणम् ॥ ६ नैपाली = मनःशिला, रक्षोघ्नाः - सर्जरसगुग्गुलश्वेतसर्षपा · दयः । ७ अस्मिन् वर्गे == पुराणसर्पिरित्यादिके रक्तपित्तनखादिपर्यन्ते । ८ श्रव. पीडे = नस्यप्रभेदे, गुटिकीकृतं वर्तीकृतम् । ९ उदूधुलने = अवचूर्णने, चूर्यावघ ये इत्यर्थः । १० आदिशब्दात् स्वेदवमन विरेकादिकं बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1403
पाठ पढ़ें पाठ छिपाएँ
अ ० ६१ ] Digitized by Arya Samabad Chennai and eGangotri १२४५ न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ॥ ५४ ॥
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् ।
वैद्यतुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ॥ ५५ ॥
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत् ।
ततः प्राप्स्यति सिद्धिञ्च यशश्च विपुलं भिषक् ॥ ५३ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रति-षेधो नाम ( प्रथमोऽध्यायः, आदितः ) षष्टितमोऽध्यायः ॥ ६० ॥
एकषष्टितमोऽध्यायः ।
अथातोऽपस्मार प्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने ।
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरर्न्तकृत् ॥ ३ ॥
१ देवग्रहे श्रचौक्षप्रयोगं निषेधति - नेति 1 । श्रचौक्षम् = अपवित्रम्, ' चोक्षः सुन्दरगीतयोः । शुचौ ' इति हेमचन्द्रः । २ प्रतिकूलं = निषिद्धम् । ३ पिशाचा. दन्यत्र निषिद्धाचरणे यद् भवति, तद्दर्शयति- वैद्येति I । ते देवादिग्रहा ध्रुवं प्रति-कूलाचरणात् कुद्धाः सन्तो वैधातुरौ निहन्युरित्यर्थः । ४ ग्रहजुष्टे हिताद्दारादिसेव-नार्थमुपदिशति - हितेति । ५ ग्रहमुक्तिलक्षणसिद्धिं प्राप्स्यति, ' श्रातुर ' इति शेषः । भिषक् विपुलं यशश्च प्राप्स्यति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतभूतविद्यातन्त्रे सुधाऽख्यटिप्पन्यां षष्टितमोऽध्यायः । एकषष्टितमोऽध्यायः । ६ श्रमानुषोपसर्गप्रतिषेवानन्तरं चित्तविकृतिजनकत्व साधर्म्यादपस्मार प्रतिषेधम-विकरोति -- अथात इति । श्रपगतः स्मारः स्मरणं यस्मिन् रोगे सोऽपस्मारः, तस्य प्रतिषेधश्चिकित्सितम् । ७ अपस्मारशब्दं निर्वक्ति - स्मृतिरिति । ८ श्रन्तकृत् = विनाशकृदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1404
पाठ पढ़ें पाठ छिपाएँ
१२४६ by Arya Samaj Fo सुश्रुतसंहितायां | eGangotri
मिथ्याऽतियोगेन्द्रियार्थं कर्मणामभिसेवनात् ।
विरुद्धमलिनाहारविहारकुपितैलैः ॥ ४ ॥
वेगनिग्रहशीलानामहिताशुचिभोजिनाम् ।
रजस्तमोऽभिभूतानां गच्छताञ्च रजस्वलाम् ॥ ५ ॥
तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् ।
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ॥ ६ ॥
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता ।
निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ॥ ७ ॥
संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः ।
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ॥ ८ ॥
विक्षिपन् हस्तपादं च विजिह्मभ्रविलोचनः । [ अ ० ६१ दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत क्षितौ ॥ ९ ॥
१ अपस्मारनिदानं निर्दिशति - मिथ्येति । मिथ्यायोगायोगातियो गैरिन्द्रियार्थानां स्पर्शादीनां, कर्मणां कायवाङ्मानसानामिति मिथ्याऽतियोगेन्द्रियार्थकर्मणाम् । शब्दा · दीनां मिथ्यायोगादयो दर्शिता वाचस्पतिना - परुषेष्टविनाशादिश्रवणं मिथ्यायोगः, पट. हादीनामतिशब्दश्रवणमतियोगः सर्वशोऽश्रवणमयोगः । श्रभिघातभूताशुचिसंस्पर्शो मिथ्यायोगः, अतिमात्रशीतोष्णादीनां स्पृश्यानां स्नानाभ्यङ्गादीनां चातिसेवनमतियोगः, तथा सर्वशोऽसेवनमयोगः । तथाऽतितेजसामतिदर्शनमतियोगः, सर्वथाऽनवलोकनमयो · गः, सूक्ष्मादिदर्शनं मिथ्यायोगः । रसानामत्यादानमतियोगः, अनादानमयोगः, तथाऽ. योग्यरसानामादानं मिथ्यायोगः । तथा पूत्याद्यान्त्राणं मिथ्यायोगः, अतितीक्ष्गादिग. न्धाघ्राणमतियोगः, सर्वशोऽघ्राणमयोगः । तथा कायिकर्मणो व्यायामादेर्निषिद्धकालादिषु सेवनं मिथ्यायोगः, अतिसेवनमतियोगः, सर्वशोऽसेवनमयोगः । तथा वाचिककर्मणः परुषानृतादिवचनं मिथ्यायोगः, प्रतिवचनादिकश्चातियोगः, सर्वशो मौनमयोगः । तथा मानसकर्मणः शोकादिचिन्तनं मिथ्यायोगः, अतिमात्र चिन्तनादिकमतियोगः, सर्वशोऽ • चिन्तनमयोग इति । २ मलिनाहारः = पूतिद्विष्टामेध्यपर्युषिताहारः । अभिहते = ३ दूषिते इत्यर्थः । ४ अपस्मारस्य पूर्वरूपं निरूपयति - हृत्कम्प इति । शुन्यता = हृदयस्यैव, ध्यानं विस्मापनम्, मूर्च्छा = मनोमोहः, प्रमूढता = इन्द्रियमोहः । ५ अपस्मारस्य सामा-न्यलक्षणमाख्याति — संज्ञेति । दोषव्याप्तेषु = वातादिदोषाभिभूतेषु । ६ विजिह्मा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1405
पाठ पढ़ें पाठ छिपाएँ
अ ० ६१ ] Digitized by Arya Samahennai and eGangotri
अल्पकालान्तरञ्चापि पुनः संज्ञां लभेत सः ।
सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुविधः ॥ १० ॥
वातपित्तकफैर्नृणाञ्चतुर्थः सन्निपाततः ।
वेपेमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ॥। ११ ॥
यो ब्रूयाद्विकृतं संवं कृष्णं मामनुधावति । १२४७ ततो मे चित्तनाश: स्यात्सोऽपस्मारोऽनिलात्मकः ॥ १२ ॥
तृत परवेदमूर्च्छार्त्ता धुन्वन्नङ्गानि विह्वलः ।
यो ब्रूयाद्विकृतं सत्त्वं पी ' मामनुधावति ॥ १३ ॥
ततो मे चित्तनाश: स्यात्स पित्तभव उच्यते ।
शी हृल्लासनिद्रार्त्तः पतन् भूमौ वमन् कफम् ॥ १४ ॥
यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति ।
ततो मे चित्तनाश: स्यात्सोऽपस्मारः कफात्मकः ॥ १२ ॥
हृदि तोदस्मृडुक्लेदस्त्रिष्वप्येतेषु ६ सङ्ख्यया ।
प्रलापः कूजनं क्लेशः प्रत्येकन्तु भवेदिह ॥ १६ ॥
२ वलिङ्गसमवायः सर्वदोषप्रकोपजे ।
अनिर्मित्तागमाद् व्याधेर्गमनादकृतेऽपि च ॥ १७ ॥
आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् । कुटिला सूर्यस्य स विजिह्मभ्रूः विलोचनः = विकृतनयन: । १ अपस्मारस्य संख्या-माचष्टे - स चेति । चतुर्विध इति संख्याकरणं द्वन्द्वजप्रतिषेधार्थम्, द्वन्द्वजाभावस्तु व्याधिस्वभावात् । २ वातजापस्मारस्य लक्षणमभिधत्ते - वेपमान इति । वेपमानः = कम्पमानः । ३ विकृतं सवं = विकृतरूपं सत्त्वम् । ४ पित्तजापस्मारलक्षणमभिदधाति -तृडिति । तृट् == पिपासा, तापः = सन्तापः, धुन्वन् = विक्षिपन् श्रङ्गानि = इस्तपादादीनि, वि. ह्वल: = विकल इत्यर्थः । ५ श्लैष्मिकापस्मारलक्षणं वक्ति - शीतेति । हृल्लासः = थूत्कारः । ६ एतेषु = वातादिजापस्मारेषु । ७ सान्निपातिकापस्मारलक्षणमाह-सवेंति । सर्वलिङ्गसमवायः = वातादिलक्षण समावेशः । ८ एकीयमतेन अपस्मारस्यागन्तुकत्वं निरूपयति-- अनिमित्तेति । श्रनिमित्ता-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1406
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-8igitized by Arya Samaj Foundation Chennai and eGangotri क्रेमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च ॥ १८ ॥
आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः । [ अ ० ६१ देवे ' वर्षत्यपि यथा भूमौ बीजानि कानिचित् ॥ १ ९ ॥
शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः ।
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्द्धिताः ॥ २० ॥
दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः ।
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु ॥ २१ ॥
तस्य कार्यो विधि: सर्वो य उन्मादेषु वक्ष्यते ।
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः ॥ २२ ॥
उपयोगो होतानां योगानान्तु विशेषतः ।
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत ।
शिप्रकट्वङ्गकिणिहीनिम्बत्वप्रससाधितम् ॥ २३ ॥
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् ।
गोधान कुलनागानां पृषतर्क्षगवामपि ॥ २४ ॥
गमात् = श्रकारणोत्पादनात्, गमनादकृतेऽपि ' प्रतीकारे ' इति शेषः ।. १ स्वमतेऽप स्मारस्य हेतुचतुष्टयेन दोषजत्वं प्रतिपादयति-- क्रमेति । क्रमोपयोगात् = सञ्चयादि • क्रमेण विकारोत्पन्नकारकयोगात् । २ श्रागमात् = शास्त्रात, यतः शास्त्रे वातिक-पैत्तिक - श्लैष्मिक - सान्निपातिकाश्चत्वारोऽपस्मारा अभिहिताः, वैश्वरूप्यात् — विश्वेषां सर्वेषां वातपित्तश्लेष्मणां मनोदोषयो रजस्तमसोइच रूपं नानाप्रकारं लिङ्गं यस्याप • स्मारस्य सः, तस्य भावस्तस्मात् । ३ यदि दोषाणां सञ्चयादिक्रमेणोपयोगस्तदा कथमल्पेनैव कालेन तद्विकारोद्गमः स्यादिति दृष्टान्तेन दर्शयति-- देव इति । " अधिशेते यथा भूमिं बीजं कालेऽवरोहति । अधिशेते तथा धातून् दोष: कालेऽव कुप्यति ॥ " इत्यात्रेयः । ४ स्थायिनः = स्थिति-शीला वातादयः । ५ विश्वरूपान् = नानारूपान् । अपस्मारप्रकोप कालमाइ तन्त्रा-न्तरे— “ पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः । अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ॥ ” इति । ६ श्रथापस्मारचिकित्सां निर्दिशति -- तख्येति पदेन स्कन्दग्रहादयो देवग्रहादयश्च बोधपाः । अपामार्गः । ‘ किण्वाहि - किण्वंहि ' इति पाठश्चिन्त्यः । भेदः, ऋक्षः = भल्लूकः ॥ तस्य = अपस्मारस्य । ७ ग्रह • ८ कटूवङ्गः = श्योनाकः, किणिही ९ पृषतः - शुभविन्दुमान् मृग-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1407
पाठ पढ़ें पाठ छिपाएँ
प्र ० ६१ ] Digitized by Arya Sam यु तर मत्र hypnai and eGangotri १२४ ९
पित्तेषु सिद्धं तैलञ्च पानाभ्यङ्गेषु पूजितम् ।
' तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् ॥ २५ ॥
पूजां रुद्रस्य कुर्वीत तद्गणानाञ्च नित्यशः ।
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः ॥ २६ ॥
कफजं वमनैर्धीमानपरमारमुपाचरेत् ।
कुलत्थय को ठानि शबोजं पलङ्कम् ॥ २७ ॥
जटिलौं पञ्चमूल्यौ द्वे पथ्याञ्चोत्क्वाथ्य यत्नतः ।
बस्तसूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् ॥ २८ ॥
काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे ।
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ॥ २ ९ ॥
कृष्णौ वचामुस्तकाद्यैर्यक्तमारग्वधादिके ।
पक्वं च सूत्रवर्गेषु श्लेष्मापस्मारिणे हितम् ॥ ३० ॥
सुरद्रुमवचाकुष्ठ सिद्धार्थ व्योषहिङ्गुभिः ।
मजिठारजंनीयुग्म समङ्गात्रिफलाऽम्बुदैः ॥ ३१ ॥
करञ्जबीज शैरीषगिरिकर्णीहुताशनैः ।
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ॥ ३२ ॥
कृमिकुष्ठर्गरश्वासबलासविषमज्वरान् । १ तीक्ष्णैः = विषाणिकाब्राह्मोकारवेल्लकादिभिः, उभयतोभागः = वमनविरेचनैरि-त्यर्थः। २ वातिकापस्मारचिकित्सामा ख्याति - कुलत्थेति । कोलं = बदरम्, पल-दुषा = गुग्गुलुः । ३ जटिला = जटामांसी, पञ्चमूल्यौ द्वे - शालिपर्ण्यादिवित्वादिश्च । ४ पैत्तिकापस्मारचिकित्सामाचष्टे - काकोल्यादीति । काकोश्यादिप्रतीवापं = काको -ल्यादिकल्कम्, प्रथमे गणे = विदारिगन्धादिक्काथे । ५ इलैष्मिकापस्मारचिकित्सामभिषत्ते - कृष्णेति । कृष्णा = पिप्पली, श्रादिश-उदस्य कृष्णादिभिः सह प्रत्येकं सम्बन्धः । पिप्पल्यादिवचादिमुस्तकादीनां काथैः, आरग्वधादीनां कल्कैः सूत्रवर्गे घृतं साधनीयम् । ६ सिद्धार्थ कघृतमभिदधाति--सुरद्रुमेति । सुरद्रुमः = देवदारु, सिद्धार्थः = दवे सर्षपः, व्योषं = निकटु । ७ रजनी · द्वयं = हरिद्रा दारुहरिद्रा च, समङ्गा = लज्जालुः, श्रम्बुदः = मुस्ता । = शैरीषं = शिरीषबीजम्, गिरिकर्णी = अपराजिताभेदः, हुताशनः = चित्रकः । ९ गरः = संयोग ' विषमित्यर्थः । ७ ९ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1408
पाठ पढ़ें पाठ छिपाएँ
सश्रुतसंहितायां Gangotri १२५० Digitized by Arya Samaj Fouldharon Chemical and eGangotri [ अ ० ६१ सर्वभूतग्र होन्मादानपस्मारांश्च नाशयेत् ॥ ३३ ॥
दर्श मूलेन्द्रवृक्षत्वङ्मूर्वा भार्गीफलत्रिकैः ।
शम्पाकश्रेयसी सप्तपर्णापामार्ग फल्गुभिः ॥ ३४ ॥
तैः कल्कैश्च भूनिम्बपूतीकव्योपचित्रकैः ।
त्रिवृत्पाठानिशौयुग्म सारिवाद्वयपौष्करैः ॥ ३५ ॥
कटुकायासदन्त्युप्रानीलिनीक्रिमिशत्रुभिः ।
सर्पिरेभिश्च गोक्षीरदधिमन्त्रशकृद्रसैः ॥ ३६ ॥
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् ।
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ॥ ३७ ॥
भार्गीते पचेत् क्षीरे शालितण्डुलपायसम् ।
त्र्यहं शुद्धायं तं भोक्तुं वराहायोपकल्पयेत् ॥ ३८ ॥
ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत् ।
त्रीन् भागांस्तस्यै चूर्णस्य किण्वभागेन संसृजेत् ॥ ३ ९ ॥
मण्डोदकार्थे " देयश्च भार्गीक्वाथः सुशीतलः ।
शुद्धे " कुम्भे निदध्याच्च सम्भारं तं सुरां ततः ॥ ४० ॥
१ पञ्चगव्याख्यघृतमभिदधाति -- दशेति । इन्द्रवृक्षः = कुटजः, मूर्वा = ' मरोर-फली ' इति ख्याता । फलत्रिकं = त्रिफला । -२ शम्पाकः = आरग्वधः, श्रेयसी गजपिप्पली, फल्गुः = ‘ कठूमर ' इति प्रथते । ३ भूनिम्बः = ' चिरायता ' इति, पूतीकः = ' कंजा ' इति । ४ निशायुग्मं = हरिद्राद्वयम् सारिवाद्वयं = सारिवा उत्पलसारिवा च पौष्करं = पुष्करमूलम् । ५ यासः = ' जवासा ' इति, दन्ती = ' दतैयः ' इति, उग्रा = वचा, नीलिनी = ' नील ' इति, " क्रिमिशत्रुः = विडङ्गम् । ' कटुका मदयन्त्युग्रा ' इति पाठे मदयन्ती वनमल्लिका बोध्या । अत्र दशमूलादि फल्गुपर्यन्तानां क्काप:, भूनिम्बा. दिक्रिमिशत्रुपर्यन्तानां कल्कः, गोक्षीरादयः प्रत्येकं स्नेहसमाः । ६ भाग्र्ग्यादिसुरां दर्शयति- भार्गीति । क्षीरे चतुर्थांशं भाग कल्कं चतुर्गुणं जलं च दत्त्वा क्षीरं साधनीयम्. । ७ शुद्धाय = अभुक्ताय, वराहाय = शूकराय, उपक · ल्पयेत् = दद्यात्, चतुर्थंदिने इति भावः । ८ मधुरीभूतं = श्रामाशये पाकमप्राप्तम् । विषीभूतमित्यन्ये, मधुरशब्दस्य विषार्थकत्वात् । विशस्य = इत्वेत्यर्थः । ९ तस्य = उद्घृतस्यान्नस्य, किण्वभागेन = सुराबीजैकभागेन, १० मण्डोदकार्थे = सन्धानार्थे । ११ शुद्धे = लोघ्रादिविलिप्तत्वेन कृत संस्कारे, कुम्भे = घृतकुम्भे इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1409
पाठ पढ़ें पाठ छिपाएँ
अ ० ६२ ] Digitized by Arya Sadh त एतच्चम् hennai and eGangotri १२५१
जातगन्धां जातरसां पाययेदातुरं भिषक् ।
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ॥ ४१ ॥
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम ( द्वितीयोऽध्यायः, आदितः ) एकषष्टितमोऽध्यायः ॥ ६१ ॥
द्विषष्टितमोऽध्यायः ।
अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
मदयन्त्युद्धता दोषा यम्मादुन्मार्गमाश्रिता ।
मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः ॥ ३ ॥
एकैकँशः समस्तैश्च दोषैरत्यर्थमूच्छितैः ।
मानसेन च दुःखेन स पञ्चविध उच्यते ॥ ४ ॥
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् । १ अपस्मारे सिराव्यधमुपदिशति - सिरामिति । उरोपाङ्गललाटजां सिरामित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतभूतविधातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकषष्टितमोऽध्यायः । द्विषष्टितमोऽध्यायः । २ अपस्मारप्रतिषेधानन्तरं चित्तविकृतिजनकत्व साधर्म्यात् तुल्यचिकित्सितत्वादु · न्मादप्रतिषेधमधिकरोति - अथात इति । उन्मादः = चित्तविभ्रमः । ३ उन्मादनि.. रुक्ति वक्ति - मदयन्तीति । मदयन्ति = मनोविभ्रमं कुर्वन्ति, उद्धताः - उपचिताः, उन्मार्गमाश्रिताः = मनोवइधमनीरनुप्राप्ताः । उन्मादस्य सामान्य हेतुमाह तन्त्रान्तरे-“ विरुद्धदुष्टाशुचिभोजनानि प्रघर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्वी मनोऽ-भिघातो विषमाश्च चेष्टाः ॥ ” इति । श्रस्य सम्प्राप्तिर्यथा – “ तैरल्प सत्त्वस्य मलाः प्रदुष्टा बुद्धेनिंवासं हृदयं प्रदूष्य । स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नर. स्य चेतः ॥ ” इति । ४ उन्मादभेदान् दर्शयति— एकैकश इति । श्रत्यर्थमूच्छितैः = अत्यन्तप्रवृद्धेरि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 1410
पाठ पढ़ें पाठ छिपाएँ
१२५२ Digitized by Arya Samaj P सुतसंहितायां rangotri २ [ अ ० ६२ स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ॥ ५ ॥
* मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् ।
अत्युत्साहोऽरुचिचान्ने स्वप्ने कलुषभोजनम् ॥ ६ ॥
वायु नोन्मथनञ्चापि भ्रमश्चक्रगतस्य वा ।
यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ॥ ७ ॥
रूक्षच्छविः परुषवाग् धमनीततो वा शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः । आस्फोटयत्यति गायति नृत्यशोलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ॥ ८ ॥
9 स्वेददाहबहुलो बहुभुग्विनिद्र-श्छायाहिमानिरजलान्तविहारसेवी । तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की पित्ताद्दिवा नभसि पश्यति तारकाच ॥ ९ ॥
छैर्द्यग्निसादसदनारुचिकासयुक्तो योपिद्विविक्तरतिरल्पमतिप्रचारः । त्यर्थः अल्प-। १ अप्रवृद्धः = यावद् वृद्धिं न गतः, अल्पलित इत्यर्थः । तरुणः = मात्रः । २ उम्मादस्य पूर्वरूपमाख्याति - मोहेति । अपकर्षणं == दुर्बलीभवनम् । ३ श्रत्युत्साहः = कर्तव्य कार्येष्वत्यनुरागः । कलुषभोजनं = मलयुत भोजनम् । ४ उन्म. थनं = पीडनम्, चक्रगतस्य = कुलालचक्रस्थितस्य, वाइव, भ्रमः त्रभ्रमणम् । ५ वातजमुन्मादं लक्षयति-- रूक्षेति । धमनीततः सिराव्याप्तः, शीतातुरः = शीतपीडितः । ६ श्रास्फोटयति, भाण्डादिकमिति शेषः । श्रटति चलति, विक्रो • शति = रोदिति, भ्रमति = कम्पते । ७ पित्तजोन्मादचिकित्सां ब्रवीति -तृडिति । तृट् = पिपासा, बहुलशब्दस्य तृडादिभिः सह सम्बन्धः । छायां हिमानिलं जलान्तवि-हारभूमिं च सेवितुं शीलमस्येति छायाहिमानिलजलान्तविहारसेवी । हिमाम्बुनि चयेऽपि = शीतलजलराशावपीत्यर्थः । ९ कफजोन्मादचिकित्सामभिदधाति -- छर्दीति । अग्निसादः = अग्निमान्द्यम्, -सदनम् = अङ्गसादः, योषित्सु विविक्ते एकान्ते च रतिर्यस्य स योषिद्विविक्तरतिः, अल्प-CC - 0. Gurukul Kangri Collection, Haridwar