सुश्रुत संहिता चौखम्बा — पृष्ठ 1401–1410

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1401–1410

पृष्ठ 1401

सुश्रुत संहिता चौखम्बा, पृष्ठ 1401 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

उत्त ० ६० ] Digitized by Arya Saha aata dhennai and eGangotri Foun पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ॥ ३७ ॥

न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् ।

अंजचर्मरोमाणि शल्य कोलूकयोस्तथा ॥ ३८ ॥

हिङ्गु मूत्रञ्च बस्तस्य धूममस्य प्रयोजयेत् ।

एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ॥ ३ ९ ॥

गजपिप्पलीमूलव्योपामलकसर्षपान् ।

गोधान कुलमार्जारऋध्यपित्तप्रपेषितान् ॥ ४० ॥

नस्याभ्यञ्जनसे केषु विदध्याद्योगतत्त्ववित् ।

खरौश्वाश्वतरोलूककर भश्वशृगालजम् ॥। ४१ ॥

पुरीषं गृध्रकाकानां वराहस्य च पेषयेत् ।

बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ॥ ४२ ॥

शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम् ।

मञ्जिष्ठां रजनीं कृष्णां बस्तमत्रेण पेषयेत् ॥ ४३ ॥

वर्त्यश्छायाविशुष्कास्ताः संपित्ता नयनाञ्जनम् ।

नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ॥ ४४ ॥

हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम् ।

सैन्धवं कटुकां हिङ्गु वयःस्थञ्च वचामपि ।

बस्तमूत्रेण सम्पिष्टं मत्स्यपित्तेन पूर्ववत् ॥ ४५ ॥

ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम् । १२४३ १ अग्रोपद्दरणीयैमन्त्रैरिह्वोक्तैर्बलिदानादिभिश्च जेतुमशक्यानां ग्रहाणां धूपनप्र-कारमुपदेष्टुमिदमुच्यते — पूर्वमिति । पूर्व = प्राक्, आचरितैः = प्रयुक्तैरित्यर्थः । भूतविद्यानिदर्शितैर्बलिभिरिति सम्बन्धः । २ ग्रहजुष्टे तदेव धूपनमुपदिशति-अजक्षैति । अज: छगलः, ऋक्षः = ' रीछ ' इति ख्यातः । ३ ग्रजुष्टे गजपिप्प-ल्यादियोगं वक्ति - गजाह्वेति । गजाह्वा - गजपिप्पली । ४ पित्तशब्दस्य गोधा-दिभिः सह प्रत्येकं सम्बन्धः । ५ खरपुरीषादितैलमाह - खरेति । खरः - गर्दभः । ६ ग्रहजुष्टे कतिपययोगान् दर्शयति- शिरीषबीजमिति । सिद्धार्थकः = श्वेत सर्षपः । ८ नक्तमालफलं करञ्जफलम् । ७ सपित्ताः = गोपित्तयुक्ताः । ९ वयःस्था = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1402

सुश्रुत संहिता चौखम्बा, पृष्ठ 1402 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ अ ० ६० १२४४ Digitized by Arya Samaj सुश्रुतसंहितायां eGangotri पुराणे सर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा ॥ ४६ ॥

गोलोमी ' चाजलोमी च भूतकेशी जटा तथा ।

कुक्कुटा सर्पगन्धा च तथा का विकारिणके ॥ ४७ ॥

वज्रप्रोक्तौ वयःस्था च शृङ्गी मोहनवल्लिका! अर्कमूलं त्रिकटुकं लतौ स्रोतोऽजमञ्जनम् ॥ ४८ ॥

नैलो हरितालच रक्षोघ्ना ये च कीर्तिताः ।

सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवान्तथा ॥ ४ ९ ॥

श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च ।

विदूत्वग्रोमवसामूत्ररक्तपित्तनखादयः ॥ ५० ॥

अस्मिन् वर्गे भिषक कुर्य्यात्तैलानि च घृतानि च ।

पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ॥ ५१ ॥

अवपीडेऽञ्जने चैव विदध्याद् गुटिकीकृतम् ।

विदधीत परीषेके कथितं " चूर्णितं तथा ॥ ५२ ॥।

ऊद्धलने, श्लक्ष्णपिष्टं प्रदेहे चावचारयेत् ।

एष सर्वविकारांस्तु मानसानपराजितः ॥ ५३ ॥

हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः । गुडूची, हरीतकीति सुश्रुतार्थसन्दीपनम् । १ ग्रजुष्टे अपराजितयोगं ब्रवीति--पुराणेति । २ गोलोमी = दूर्वा, अजलोमी = श्वेतदूर्वा, भूतकेशी = मांसी, श्वेतव-चेत्यन्ये । जटा गन्धमांसी । ३ कुक्कुटा = कुक्कुटशिम्बी, कुक्कुटोति पाठे शाल्मली बोध्या । सर्पगन्धा = छत्राकी, काणविकाणिके = काकोलीक्षीरकाकोल्यौ । ४ वज्रप्रोक्ता = वजकन्दः, ऋष्यप्रोक्तेति पाठ शतावरी, मोहनवल्लिका = वटपत्रो । ५ लता = प्रियङ्गुः, स्रोतोऽअनं पर्णसानद्यां सिन्धुनदे वा समुद्भूतम् । तच्च- “ वल्मी · कशिखराकारं रूपे नीलोत्पलद्युवि । स्रोतोऽञ्जनं प्रशंसन्ति तच्च प्रत्यञ्जने हितम् ॥ ” इत्युक्तलक्षणम् ॥ ६ नैपाली = मनःशिला, रक्षोघ्नाः - सर्जरसगुग्गुलश्वेतसर्षपा · दयः । ७ अस्मिन् वर्गे == पुराणसर्पिरित्यादिके रक्तपित्तनखादिपर्यन्ते । ८ श्रव. पीडे = नस्यप्रभेदे, गुटिकीकृतं वर्तीकृतम् । ९ उदूधुलने = अवचूर्णने, चूर्यावघ ये इत्यर्थः । १० आदिशब्दात् स्वेदवमन विरेकादिकं बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1403

सुश्रुत संहिता चौखम्बा, पृष्ठ 1403 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६१ ] Digitized by Arya Samabad Chennai and eGangotri १२४५ न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ॥ ५४ ॥

ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् ।

वैद्यतुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ॥ ५५ ॥

हिताहितीये यच्चोक्तं नित्यमेव समाचरेत् ।

ततः प्राप्स्यति सिद्धिञ्च यशश्च विपुलं भिषक् ॥ ५३ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रति-षेधो नाम ( प्रथमोऽध्यायः, आदितः ) षष्टितमोऽध्यायः ॥ ६० ॥

एकषष्टितमोऽध्यायः ।

अथातोऽपस्मार प्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने ।

अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरर्न्तकृत् ॥ ३ ॥

१ देवग्रहे श्रचौक्षप्रयोगं निषेधति - नेति 1 । श्रचौक्षम् = अपवित्रम्, ' चोक्षः सुन्दरगीतयोः । शुचौ ' इति हेमचन्द्रः । २ प्रतिकूलं = निषिद्धम् । ३ पिशाचा. दन्यत्र निषिद्धाचरणे यद् भवति, तद्दर्शयति- वैद्येति I । ते देवादिग्रहा ध्रुवं प्रति-कूलाचरणात् कुद्धाः सन्तो वैधातुरौ निहन्युरित्यर्थः । ४ ग्रहजुष्टे हिताद्दारादिसेव-नार्थमुपदिशति - हितेति । ५ ग्रहमुक्तिलक्षणसिद्धिं प्राप्स्यति, ' श्रातुर ' इति शेषः । भिषक् विपुलं यशश्च प्राप्स्यति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतभूतविद्यातन्त्रे सुधाऽख्यटिप्पन्यां षष्टितमोऽध्यायः । एकषष्टितमोऽध्यायः । ६ श्रमानुषोपसर्गप्रतिषेवानन्तरं चित्तविकृतिजनकत्व साधर्म्यादपस्मार प्रतिषेधम-विकरोति -- अथात इति । श्रपगतः स्मारः स्मरणं यस्मिन् रोगे सोऽपस्मारः, तस्य प्रतिषेधश्चिकित्सितम् । ७ अपस्मारशब्दं निर्वक्ति - स्मृतिरिति । ८ श्रन्तकृत् = विनाशकृदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1404

सुश्रुत संहिता चौखम्बा, पृष्ठ 1404 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४६ by Arya Samaj Fo सुश्रुतसंहितायां | eGangotri

मिथ्याऽतियोगेन्द्रियार्थं कर्मणामभिसेवनात् ।

विरुद्धमलिनाहारविहारकुपितैलैः ॥ ४ ॥

वेगनिग्रहशीलानामहिताशुचिभोजिनाम् ।

रजस्तमोऽभिभूतानां गच्छताञ्च रजस्वलाम् ॥ ५ ॥

तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् ।

चेतस्यभिहते पुंसामपस्मारोऽभिजायते ॥ ६ ॥

हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता ।

निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ॥ ७ ॥

संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः ।

रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ॥ ८ ॥

विक्षिपन् हस्तपादं च विजिह्मभ्रविलोचनः । [ अ ० ६१ दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत क्षितौ ॥ ९ ॥

१ अपस्मारनिदानं निर्दिशति - मिथ्येति । मिथ्यायोगायोगातियो गैरिन्द्रियार्थानां स्पर्शादीनां, कर्मणां कायवाङ्मानसानामिति मिथ्याऽतियोगेन्द्रियार्थकर्मणाम् । शब्दा · दीनां मिथ्यायोगादयो दर्शिता वाचस्पतिना - परुषेष्टविनाशादिश्रवणं मिथ्यायोगः, पट. हादीनामतिशब्दश्रवणमतियोगः सर्वशोऽश्रवणमयोगः । श्रभिघातभूताशुचिसंस्पर्शो मिथ्यायोगः, अतिमात्रशीतोष्णादीनां स्पृश्यानां स्नानाभ्यङ्गादीनां चातिसेवनमतियोगः, तथा सर्वशोऽसेवनमयोगः । तथाऽतितेजसामतिदर्शनमतियोगः, सर्वथाऽनवलोकनमयो · गः, सूक्ष्मादिदर्शनं मिथ्यायोगः । रसानामत्यादानमतियोगः, अनादानमयोगः, तथाऽ. योग्यरसानामादानं मिथ्यायोगः । तथा पूत्याद्यान्त्राणं मिथ्यायोगः, अतितीक्ष्गादिग. न्धाघ्राणमतियोगः, सर्वशोऽघ्राणमयोगः । तथा कायिकर्मणो व्यायामादेर्निषिद्धकालादिषु सेवनं मिथ्यायोगः, अतिसेवनमतियोगः, सर्वशोऽसेवनमयोगः । तथा वाचिककर्मणः परुषानृतादिवचनं मिथ्यायोगः, प्रतिवचनादिकश्चातियोगः, सर्वशो मौनमयोगः । तथा मानसकर्मणः शोकादिचिन्तनं मिथ्यायोगः, अतिमात्र चिन्तनादिकमतियोगः, सर्वशोऽ • चिन्तनमयोग इति । २ मलिनाहारः = पूतिद्विष्टामेध्यपर्युषिताहारः । अभिहते = ३ दूषिते इत्यर्थः । ४ अपस्मारस्य पूर्वरूपं निरूपयति - हृत्कम्प इति । शुन्यता = हृदयस्यैव, ध्यानं विस्मापनम्, मूर्च्छा = मनोमोहः, प्रमूढता = इन्द्रियमोहः । ५ अपस्मारस्य सामा-न्यलक्षणमाख्याति — संज्ञेति । दोषव्याप्तेषु = वातादिदोषाभिभूतेषु । ६ विजिह्मा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1405

सुश्रुत संहिता चौखम्बा, पृष्ठ 1405 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६१ ] Digitized by Arya Samahennai and eGangotri

अल्पकालान्तरञ्चापि पुनः संज्ञां लभेत सः ।

सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुविधः ॥ १० ॥

वातपित्तकफैर्नृणाञ्चतुर्थः सन्निपाततः ।

वेपेमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ॥। ११ ॥

यो ब्रूयाद्विकृतं संवं कृष्णं मामनुधावति । १२४७ ततो मे चित्तनाश: स्यात्सोऽपस्मारोऽनिलात्मकः ॥ १२ ॥

तृत परवेदमूर्च्छार्त्ता धुन्वन्नङ्गानि विह्वलः ।

यो ब्रूयाद्विकृतं सत्त्वं पी ' मामनुधावति ॥ १३ ॥

ततो मे चित्तनाश: स्यात्स पित्तभव उच्यते ।

शी हृल्लासनिद्रार्त्तः पतन् भूमौ वमन् कफम् ॥ १४ ॥

यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति ।

ततो मे चित्तनाश: स्यात्सोऽपस्मारः कफात्मकः ॥ १२ ॥

हृदि तोदस्मृडुक्लेदस्त्रिष्वप्येतेषु ६ सङ्ख्यया ।

प्रलापः कूजनं क्लेशः प्रत्येकन्तु भवेदिह ॥ १६ ॥

२ वलिङ्गसमवायः सर्वदोषप्रकोपजे ।

अनिर्मित्तागमाद् व्याधेर्गमनादकृतेऽपि च ॥ १७ ॥

आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् । कुटिला सूर्यस्य स विजिह्मभ्रूः विलोचनः = विकृतनयन: । १ अपस्मारस्य संख्या-माचष्टे - स चेति । चतुर्विध इति संख्याकरणं द्वन्द्वजप्रतिषेधार्थम्, द्वन्द्वजाभावस्तु व्याधिस्वभावात् । २ वातजापस्मारस्य लक्षणमभिधत्ते - वेपमान इति । वेपमानः = कम्पमानः । ३ विकृतं सवं = विकृतरूपं सत्त्वम् । ४ पित्तजापस्मारलक्षणमभिदधाति -तृडिति । तृट् == पिपासा, तापः = सन्तापः, धुन्वन् = विक्षिपन् श्रङ्गानि = इस्तपादादीनि, वि. ह्वल: = विकल इत्यर्थः । ५ श्लैष्मिकापस्मारलक्षणं वक्ति - शीतेति । हृल्लासः = थूत्कारः । ६ एतेषु = वातादिजापस्मारेषु । ७ सान्निपातिकापस्मारलक्षणमाह-सवेंति । सर्वलिङ्गसमवायः = वातादिलक्षण समावेशः । ८ एकीयमतेन अपस्मारस्यागन्तुकत्वं निरूपयति-- अनिमित्तेति । श्रनिमित्ता-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1406

सुश्रुत संहिता चौखम्बा, पृष्ठ 1406 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-8igitized by Arya Samaj Foundation Chennai and eGangotri क्रेमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च ॥ १८ ॥

आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः । [ अ ० ६१ देवे ' वर्षत्यपि यथा भूमौ बीजानि कानिचित् ॥ १ ९ ॥

शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः ।

स्थायिनः केचिदल्पेन कालेनाभिप्रवर्द्धिताः ॥ २० ॥

दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः ।

अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु ॥ २१ ॥

तस्य कार्यो विधि: सर्वो य उन्मादेषु वक्ष्यते ।

पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः ॥ २२ ॥

उपयोगो होतानां योगानान्तु विशेषतः ।

ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत ।

शिप्रकट्वङ्गकिणिहीनिम्बत्वप्रससाधितम् ॥ २३ ॥

चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् ।

गोधान कुलनागानां पृषतर्क्षगवामपि ॥ २४ ॥

गमात् = श्रकारणोत्पादनात्, गमनादकृतेऽपि ' प्रतीकारे ' इति शेषः ।. १ स्वमतेऽप स्मारस्य हेतुचतुष्टयेन दोषजत्वं प्रतिपादयति-- क्रमेति । क्रमोपयोगात् = सञ्चयादि • क्रमेण विकारोत्पन्नकारकयोगात् । २ श्रागमात् = शास्त्रात, यतः शास्त्रे वातिक-पैत्तिक - श्लैष्मिक - सान्निपातिकाश्चत्वारोऽपस्मारा अभिहिताः, वैश्वरूप्यात् — विश्वेषां सर्वेषां वातपित्तश्लेष्मणां मनोदोषयो रजस्तमसोइच रूपं नानाप्रकारं लिङ्गं यस्याप • स्मारस्य सः, तस्य भावस्तस्मात् । ३ यदि दोषाणां सञ्चयादिक्रमेणोपयोगस्तदा कथमल्पेनैव कालेन तद्विकारोद्गमः स्यादिति दृष्टान्तेन दर्शयति-- देव इति । " अधिशेते यथा भूमिं बीजं कालेऽवरोहति । अधिशेते तथा धातून् दोष: कालेऽव कुप्यति ॥ " इत्यात्रेयः । ४ स्थायिनः = स्थिति-शीला वातादयः । ५ विश्वरूपान् = नानारूपान् । अपस्मारप्रकोप कालमाइ तन्त्रा-न्तरे— “ पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः । अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ॥ ” इति । ६ श्रथापस्मारचिकित्सां निर्दिशति -- तख्येति पदेन स्कन्दग्रहादयो देवग्रहादयश्च बोधपाः । अपामार्गः । ‘ किण्वाहि - किण्वंहि ' इति पाठश्चिन्त्यः । भेदः, ऋक्षः = भल्लूकः ॥ तस्य = अपस्मारस्य । ७ ग्रह • ८ कटूवङ्गः = श्योनाकः, किणिही ९ पृषतः - शुभविन्दुमान् मृग-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1407

सुश्रुत संहिता चौखम्बा, पृष्ठ 1407 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्र ० ६१ ] Digitized by Arya Sam यु तर मत्र hypnai and eGangotri १२४ ९

पित्तेषु सिद्धं तैलञ्च पानाभ्यङ्गेषु पूजितम् ।

' तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् ॥ २५ ॥

पूजां रुद्रस्य कुर्वीत तद्गणानाञ्च नित्यशः ।

वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः ॥ २६ ॥

कफजं वमनैर्धीमानपरमारमुपाचरेत् ।

कुलत्थय को ठानि शबोजं पलङ्कम् ॥ २७ ॥

जटिलौं पञ्चमूल्यौ द्वे पथ्याञ्चोत्क्वाथ्य यत्नतः ।

बस्तसूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् ॥ २८ ॥

काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे ।

पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ॥ २ ९ ॥

कृष्णौ वचामुस्तकाद्यैर्यक्तमारग्वधादिके ।

पक्वं च सूत्रवर्गेषु श्लेष्मापस्मारिणे हितम् ॥ ३० ॥

सुरद्रुमवचाकुष्ठ सिद्धार्थ व्योषहिङ्गुभिः ।

मजिठारजंनीयुग्म समङ्गात्रिफलाऽम्बुदैः ॥ ३१ ॥

करञ्जबीज शैरीषगिरिकर्णीहुताशनैः ।

सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ॥ ३२ ॥

कृमिकुष्ठर्गरश्वासबलासविषमज्वरान् । १ तीक्ष्णैः = विषाणिकाब्राह्मोकारवेल्लकादिभिः, उभयतोभागः = वमनविरेचनैरि-त्यर्थः। २ वातिकापस्मारचिकित्सामा ख्याति - कुलत्थेति । कोलं = बदरम्, पल-दुषा = गुग्गुलुः । ३ जटिला = जटामांसी, पञ्चमूल्यौ द्वे - शालिपर्ण्यादिवित्वादिश्च । ४ पैत्तिकापस्मारचिकित्सामाचष्टे - काकोल्यादीति । काकोश्यादिप्रतीवापं = काको -ल्यादिकल्कम्, प्रथमे गणे = विदारिगन्धादिक्काथे । ५ इलैष्मिकापस्मारचिकित्सामभिषत्ते - कृष्णेति । कृष्णा = पिप्पली, श्रादिश-उदस्य कृष्णादिभिः सह प्रत्येकं सम्बन्धः । पिप्पल्यादिवचादिमुस्तकादीनां काथैः, आरग्वधादीनां कल्कैः सूत्रवर्गे घृतं साधनीयम् । ६ सिद्धार्थ कघृतमभिदधाति--सुरद्रुमेति । सुरद्रुमः = देवदारु, सिद्धार्थः = दवे सर्षपः, व्योषं = निकटु । ७ रजनी · द्वयं = हरिद्रा दारुहरिद्रा च, समङ्गा = लज्जालुः, श्रम्बुदः = मुस्ता । = शैरीषं = शिरीषबीजम्, गिरिकर्णी = अपराजिताभेदः, हुताशनः = चित्रकः । ९ गरः = संयोग ' विषमित्यर्थः । ७ ९ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1408

सुश्रुत संहिता चौखम्बा, पृष्ठ 1408 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सश्रुतसंहितायां Gangotri १२५० Digitized by Arya Samaj Fouldharon Chemical and eGangotri [ अ ० ६१ सर्वभूतग्र होन्मादानपस्मारांश्च नाशयेत् ॥ ३३ ॥

दर्श मूलेन्द्रवृक्षत्वङ्मूर्वा भार्गीफलत्रिकैः ।

शम्पाकश्रेयसी सप्तपर्णापामार्ग फल्गुभिः ॥ ३४ ॥

तैः कल्कैश्च भूनिम्बपूतीकव्योपचित्रकैः ।

त्रिवृत्पाठानिशौयुग्म सारिवाद्वयपौष्करैः ॥ ३५ ॥

कटुकायासदन्त्युप्रानीलिनीक्रिमिशत्रुभिः ।

सर्पिरेभिश्च गोक्षीरदधिमन्त्रशकृद्रसैः ॥ ३६ ॥

साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् ।

चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ॥ ३७ ॥

भार्गीते पचेत् क्षीरे शालितण्डुलपायसम् ।

त्र्यहं शुद्धायं तं भोक्तुं वराहायोपकल्पयेत् ॥ ३८ ॥

ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत् ।

त्रीन् भागांस्तस्यै चूर्णस्य किण्वभागेन संसृजेत् ॥ ३ ९ ॥

मण्डोदकार्थे " देयश्च भार्गीक्वाथः सुशीतलः ।

शुद्धे " कुम्भे निदध्याच्च सम्भारं तं सुरां ततः ॥ ४० ॥

१ पञ्चगव्याख्यघृतमभिदधाति -- दशेति । इन्द्रवृक्षः = कुटजः, मूर्वा = ' मरोर-फली ' इति ख्याता । फलत्रिकं = त्रिफला । -२ शम्पाकः = आरग्वधः, श्रेयसी गजपिप्पली, फल्गुः = ‘ कठूमर ' इति प्रथते । ३ भूनिम्बः = ' चिरायता ' इति, पूतीकः = ' कंजा ' इति । ४ निशायुग्मं = हरिद्राद्वयम् सारिवाद्वयं = सारिवा उत्पलसारिवा च पौष्करं = पुष्करमूलम् । ५ यासः = ' जवासा ' इति, दन्ती = ' दतैयः ' इति, उग्रा = वचा, नीलिनी = ' नील ' इति, " क्रिमिशत्रुः = विडङ्गम् । ' कटुका मदयन्त्युग्रा ' इति पाठे मदयन्ती वनमल्लिका बोध्या । अत्र दशमूलादि फल्गुपर्यन्तानां क्काप:, भूनिम्बा. दिक्रिमिशत्रुपर्यन्तानां कल्कः, गोक्षीरादयः प्रत्येकं स्नेहसमाः । ६ भाग्र्ग्यादिसुरां दर्शयति- भार्गीति । क्षीरे चतुर्थांशं भाग कल्कं चतुर्गुणं जलं च दत्त्वा क्षीरं साधनीयम्. । ७ शुद्धाय = अभुक्ताय, वराहाय = शूकराय, उपक · ल्पयेत् = दद्यात्, चतुर्थंदिने इति भावः । ८ मधुरीभूतं = श्रामाशये पाकमप्राप्तम् । विषीभूतमित्यन्ये, मधुरशब्दस्य विषार्थकत्वात् । विशस्य = इत्वेत्यर्थः । ९ तस्य = उद्घृतस्यान्नस्य, किण्वभागेन = सुराबीजैकभागेन, १० मण्डोदकार्थे = सन्धानार्थे । ११ शुद्धे = लोघ्रादिविलिप्तत्वेन कृत संस्कारे, कुम्भे = घृतकुम्भे इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1409

सुश्रुत संहिता चौखम्बा, पृष्ठ 1409 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६२ ] Digitized by Arya Sadh त एतच्चम् hennai and eGangotri १२५१

जातगन्धां जातरसां पाययेदातुरं भिषक् ।

सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ॥ ४१ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम ( द्वितीयोऽध्यायः, आदितः ) एकषष्टितमोऽध्यायः ॥ ६१ ॥

द्विषष्टितमोऽध्यायः ।

अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

मदयन्त्युद्धता दोषा यम्मादुन्मार्गमाश्रिता ।

मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः ॥ ३ ॥

एकैकँशः समस्तैश्च दोषैरत्यर्थमूच्छितैः ।

मानसेन च दुःखेन स पञ्चविध उच्यते ॥ ४ ॥

विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् । १ अपस्मारे सिराव्यधमुपदिशति - सिरामिति । उरोपाङ्गललाटजां सिरामित्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतभूतविधातन्त्रे सुधाऽऽख्यटिप्पन्या-मेकषष्टितमोऽध्यायः । द्विषष्टितमोऽध्यायः । २ अपस्मारप्रतिषेधानन्तरं चित्तविकृतिजनकत्व साधर्म्यात् तुल्यचिकित्सितत्वादु · न्मादप्रतिषेधमधिकरोति - अथात इति । उन्मादः = चित्तविभ्रमः । ३ उन्मादनि.. रुक्ति वक्ति - मदयन्तीति । मदयन्ति = मनोविभ्रमं कुर्वन्ति, उद्धताः - उपचिताः, उन्मार्गमाश्रिताः = मनोवइधमनीरनुप्राप्ताः । उन्मादस्य सामान्य हेतुमाह तन्त्रान्तरे-“ विरुद्धदुष्टाशुचिभोजनानि प्रघर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्वी मनोऽ-भिघातो विषमाश्च चेष्टाः ॥ ” इति । श्रस्य सम्प्राप्तिर्यथा – “ तैरल्प सत्त्वस्य मलाः प्रदुष्टा बुद्धेनिंवासं हृदयं प्रदूष्य । स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नर. स्य चेतः ॥ ” इति । ४ उन्मादभेदान् दर्शयति— एकैकश इति । श्रत्यर्थमूच्छितैः = अत्यन्तप्रवृद्धेरि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1410

सुश्रुत संहिता चौखम्बा, पृष्ठ 1410 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२५२ Digitized by Arya Samaj P सुतसंहितायां rangotri २ [ अ ० ६२ स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ॥ ५ ॥

* मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् ।

अत्युत्साहोऽरुचिचान्ने स्वप्ने कलुषभोजनम् ॥ ६ ॥

वायु नोन्मथनञ्चापि भ्रमश्चक्रगतस्य वा ।

यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ॥ ७ ॥

रूक्षच्छविः परुषवाग् धमनीततो वा शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः । आस्फोटयत्यति गायति नृत्यशोलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ॥ ८ ॥

9 स्वेददाहबहुलो बहुभुग्विनिद्र-श्छायाहिमानिरजलान्तविहारसेवी । तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की पित्ताद्दिवा नभसि पश्यति तारकाच ॥ ९ ॥

छैर्द्यग्निसादसदनारुचिकासयुक्तो योपिद्विविक्तरतिरल्पमतिप्रचारः । त्यर्थः अल्प-। १ अप्रवृद्धः = यावद् वृद्धिं न गतः, अल्पलित इत्यर्थः । तरुणः = मात्रः । २ उम्मादस्य पूर्वरूपमाख्याति - मोहेति । अपकर्षणं == दुर्बलीभवनम् । ३ श्रत्युत्साहः = कर्तव्य कार्येष्वत्यनुरागः । कलुषभोजनं = मलयुत भोजनम् । ४ उन्म. थनं = पीडनम्, चक्रगतस्य = कुलालचक्रस्थितस्य, वाइव, भ्रमः त्रभ्रमणम् । ५ वातजमुन्मादं लक्षयति-- रूक्षेति । धमनीततः सिराव्याप्तः, शीतातुरः = शीतपीडितः । ६ श्रास्फोटयति, भाण्डादिकमिति शेषः । श्रटति चलति, विक्रो • शति = रोदिति, भ्रमति = कम्पते । ७ पित्तजोन्मादचिकित्सां ब्रवीति -तृडिति । तृट् = पिपासा, बहुलशब्दस्य तृडादिभिः सह सम्बन्धः । छायां हिमानिलं जलान्तवि-हारभूमिं च सेवितुं शीलमस्येति छायाहिमानिलजलान्तविहारसेवी । हिमाम्बुनि चयेऽपि = शीतलजलराशावपीत्यर्थः । ९ कफजोन्मादचिकित्सामभिदधाति -- छर्दीति । अग्निसादः = अग्निमान्द्यम्, -सदनम् = अङ्गसादः, योषित्सु विविक्ते एकान्ते च रतिर्यस्य स योषिद्विविक्तरतिः, अल्प-CC - 0. Gurukul Kangri Collection, Haridwar