सुश्रुत संहिता चौखम्बा — पृष्ठ 1411–1420

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1411–1420

पृष्ठ 1411

सुश्रुत संहिता चौखम्बा, पृष्ठ 1411 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६२ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri निद्रापरोऽल्पकथनोऽल्पभुगुण सेवी रात्रौ भृशं भवति चापि कफप्रकोपात् ॥ १० ॥

सर्वात्मके पवनपित्तकफा यथास्वं संहर्षिता इव च लिङ्गमुदीरयन्ति ॥ ११ ॥

३ चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यै-वित्रासितस्य धनबान्धवसङ्क्षयाद्वा ।

गाढं ते मनसि च प्रियया रिरंसो-जयेत चोत्कटतरो मनसो विकारः ॥ १२ ॥

चित्रं स जल्पति मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति मूढसंज्ञः । रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेऽथ भवेत् परासुः ॥ १३ ॥

स्निग्धं स्विन्नन्तु मनुजमुन्मादाविशोधयेत् ।

तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः ॥ १४ ॥

विविधैर व पीडैश्च सर्वपस्नेहसंयुतैः । १२५३ मतिप्रचारः == अल्पबुद्धिरत्पगतिश्चेत्यर्थः । १ भृशम् = प्रधिकम् अपिशब्दान्नखादीनां शौक्त्यादिकम् । तदुक्तमन्यत्र - ' वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽति-निद्रा । छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्त्थं च कफात्मके स्यात् ॥ ” इति । २ सान्निपातिकोन्मादलक्षणं निर्दिशति - सर्वात्मक इति । संहर्षिता इव = स्पर्धा. वन्त इवेत्यर्थः । ३ विकारोत्पत्तिसहितान् मनतो दुःखकरान् हेतूनभिघत्ते – चौररिति । नरेन्द्र-पुरुषैः = नृपाधिकारिभिः, अरिभिः = शत्रुभिः, अन्यैः = सिंहगजादिभिः । ४ च ते = पीडिते, रिरंसोः = ख्तुमिच्छो:, कामुकस्येत्यर्थः । मनसो विकारः = मानस उन्मादः । ५ मनोदुःखजमुन्मादं लक्षयति- चित्रमिति । चित्रं = विविधम्, मनोऽनुगतं गोप्य -मपि, बिसन्ज्ञ: = विपरीतज्ञानः । ६ विषजमुन्मादं लक्षयति- रक्तेक्षण इति । इतं बलमिन्द्रियाणि भाश्च यस्य स इतबलेन्द्रियभाः, भा दीप्तिः । ७ उन्मादस्य सामान्यचिकित्सामभिदधाति — स्निग्धमिति । ८ तीक्ष्णैः = विषाणिकाब्राह्मीकारवेल्लकादिभिः, उभयतोभागैः-वमन विरेचनैः, शिरसो विरेचनं विडङ्गतण्डुलादिभिर्बोध्यम् । ९ अवपीडैः । = नस्य-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1412

सुश्रुत संहिता चौखम्बा, पृष्ठ 1412 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२५४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६२ योजयित्वा तु तच्चूर्ण घ्राणे तस्य प्रयोजयेत् ॥ १५ ॥

सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः ।

सर्षपानाञ्च तैलेन नस्याभ्यङ्गौ हितो सदा ॥ १६ ॥

दर्शयेदभुतान्यस्यै वदेन्नाशं प्रियस्य वा ।

भी माकार नर नागदन्तैर्व्यालैश्च निर्विषैः ॥ १७ ॥

भीषयेत्संयतं पाशैः कशाभिर्वाऽथ ताडयेत् ।

यन्त्रयित्वा सुगुप्तं वा त्रासयेत्तं तृणाग्निना ॥ १८ ॥

जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत् । बलवांश्चापि संरक्षेज्जलेऽन्तः परिवासयेत् ।

प्रतुदारया चैनं मर्माघातं विवर्जयेत् ।

वेश्मनोऽन्तः प्रविश्यैनं रक्षस्तद्वेश्म दीपयेत् ॥। १ ९ ॥

सापिधाने जरत्कृपे सततं वा निवासयेत् ।

त्र्यहात्र्यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् ॥ २० ॥

केवलानम्बुयुक्तान् वा कुल्माषान वा बहुश्रुतः ।

हृद्यं यद्दीपनीयञ्च तत्पथ्यं तस्य भोजयेत् ॥ २१ ॥

( " विडङ्गत्रिफला मुस्त मञ्जिष्ठादाडिमोत्पलैः ।

श्यामैलवालुकै लाभिश्चन्दनामरदारुभिः ॥ २२ ॥

बहिष्ट रजनीकुष्ठ ५ पणिनीसारिवाद्वयैः ।

हरेणुकात्रिवृद्दन्तीव चातालीश केशरैः ॥ २३ ॥

प्रभेदः । १ सुपूतिभिः = सुष्ठुशटितैः । २ अस्य == उन्मादातँस्य, प्रियस्य = प्रिय-वस्तुनः । ३ निर्विषैः = विषरहितै गनसादिभिः । ४ भोषयेत् = त्रासयेत्, कशा-भिः = अश्वादिताडनीभिः । ५ प्रतुदेत् = व्यथयेत, आरया = तीक्ष्णाग्रया शलाक • येत्यर्थः। ६ दीपयेत् = प्रज्ज्वालयेत् । ७ कूपे = गर्ते, “ वद्धं श्वभ्रे विनिक्षिपेत् ” इति वाग्भटः । ८ उन्मादे श्राहारविधिमभिधत्ते - त्र्यहादिति । तर्पणान् = 1 सक्तून्, केवलान् ' अम्बुयुक्तान् प्रदापयेदिति सम्बन्धः । ९ कुल्माषान् = यवादिपिष्टमयान् भक्ष्यान् । १० महाकल्याणघृतं वक्ति - विडङ्गेति । एतत् कल्याणघृतं ज्वरप्रतिषेधे पाठभेदेन पठितम् । ११ पर्णिनी = पृष्ठपर्णीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1413

सुश्रुत संहिता चौखम्बा, पृष्ठ 1413 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६२ ] उत्तरतन्त्रम् । १२५५ Digitized by Arya Samaj Foundation Chennai and eGangotri

द्विक्षीरं साधितं सर्पिर्मालती कुसुमैः सह ।

गुल्मका सज्वरश्वासक्षयोन्मादनिवारणम् ॥ २४ ॥

एतदेव हि सम्पक्वं जीवनीयोपसम्भृतम् ।

चतुर्गुणेन दुग्धेन महाकल्याणमुच्यते ॥ २५ ॥

अपस्मारं ग्रहं शोषं क्लैब्यं कामबीजंताम् ।

घृतमेतन्निहन्त्याशु ये चादौ गदिता गदाः ॥ २६ ॥

बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैला निशाह्वयैः ।

तगरत्रिफलाहिङ्गुवाजिगन्धाऽमरद्रुमैः ॥ २७ ॥

वचाऽजमोदाकाकोली मेदामधुकपद्मकैः ।

सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ॥ २८ ॥

बालानां ग्रहजुष्टानां पुंसां दुष्टात्परेतसाम् । ख्यातं फलघृतं स्त्रीणां वन्ध्यानाञ्चाशु गर्भदम् ॥ २ ९ ॥ )

ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जटाम् ।

विषघ्नीं लैशुनं रास्नां विशल्यां सुरसां वचाम् ॥ ३० ॥

ज्योतिष्मतीं नागरं च अनन्तामभयान्तथा ।

सौराष्ट्रश्च समांशानि गजमूत्रेण पेषयेत् ॥ ३१ ॥

छायाविशुष्कास्तद्वर्त्तीर्योजयेद्विधिकोविदः ।

अवपीडेऽञ्जनेऽभ्यङ्गे नश्ये धूमे प्रलेपने ॥ ३२ ॥

उरोऽपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत् ।

अपस्मारक्रियाञ्चापि होद्दिष्टाञ्च कारयेत् ॥ ३३ ॥

१ अबीजतां = नपुसकाम् । २ फलघृतमभिदधाति – बर्हिष्ठेति । बर्दिष्ठं = ३ वाजिगन्धा = ' असगन्ध ' इति ख्याता । श्रम-' नेत्रबाला ' इति ख्यातम् । रद्रुमः = देवदारु । ४ उन्मादे ब्राह्मघादियोगं निर्दिशति - ब्राह्मीमिति । ऐन्द्री = इन्द्रवारुणी । ५ लशति भिनत्ति रोगानिति लशुनम्, विशल्या = गुडूची, सुरसा तुलसी । ६ ज्योतिष्मती = ' मालकांगनी ' इति ख्याता | नागरं = शुण्ठी, अत्र ' मागविन्नाम् ' इति पाठे इन्द्रवारुणीभेदः । श्रनन्ता = उत्पलसारिवा । ७ सौराष्ट्री = ' फिटकिरी ' इति प्रथते । ८ उन्मादे सिराव्यधमुपदिशति - उरोपाङ्गेति । अपाङ्गः = शङ्खः । ९ ग्र CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1414

सुश्रुत संहिता चौखम्बा, पृष्ठ 1414 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-१२५६ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६३ शान्तदोषं विशुद्धञ्च स्नेहवस्तिभिराचरेत् ।

उन्मादेषु च सर्वेषु कुर्य्याच्चित्तप्रसादनम् ।

मृदुपूर्वा मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत् ॥ ३४ ॥

शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक् ।

विषजे मृदुपूर्वाञ्च विषघ्नीं कारयेत् क्रियाम् ॥ ३५ ॥

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम ( तृतीयोऽध्यायः, आदितः ) द्विषष्टितमोऽध्यायः ॥ ६२ ॥

त्रिषष्टितमोऽध्यायः ।

अथातो रसभेदविकल्नमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

दोषाणां पञ्चदशधा प्रसरोऽभिहित तु यः ।

त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ॥ ३ ॥

विदग्धा विदग्धाच भिद्यन्ते ते त्रिषष्टिधा । होद्दिष्टां = स्कन्दग्रहादिप्रतिषेधोक्ताम् न्चेत्यर्थः । अमानुषोपसर्गप्रतिषेधोपरिष्टदेवग्रहाद्युक्ता १ उन्मादे चित्तप्रसादनादिकमुपदिशति उन्मादेष्विति । २ पच मे - मनोदुःखजे । ३ विषघ्न क्रियां कल्पस्थाने उपदिष्टवान् । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतभूतविधातन्त्रे सुधाऽऽख्यटिप्पन्यां द्विषष्टितमोऽध्यायः । त्रिषष्टितमोऽध्यायः । ( अथ तन्त्रभूषणम् । ) ४ अथ भूतविद्याऽनन्तरमौपदविकाध्याये तन्त्रभूषणत्वेनाभिहितेषु चतुर्ष्वध्यायेषु क्रमानुसारेण रसभेदविकल्पमध्यायमधिकरोति - अथात इति । रसानां मधुरादीनां भेदेन द्वित्रिकादिभेदेन विकल्पो विभजनं यस्मिन्नध्याये स तम् अथवा रसभेदानां विकल्पो दोषभेदवशादवचारणं यस्मिन् स तं रसभेदविकल्पम् । ५ रसभेदकथने G प्रयोजन दर्शयति - दोषाणामिति । श्रभिहितः ' व्रणप्रश्नाध्याये ' इति शेषः । ६ यादृशानां रसानां त्रिषष्टिभेदा भवन्ति, तान्निर्दिशति - अविदग्धा इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1415

सुश्रुत संहिता चौखम्बा, पृष्ठ 1415 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६३ ] उत्तरतन्त्रम् । Digitized by Arya Samaj Foundation Chennai and eGangotri रसभेदत्रिषष्टिन्तु वीक्ष्य वीक्ष्यावचारयेत् ॥ ४ ॥

एकैकेनोनुगमनं भागशो यदुदीरितम् ।

दोषाणां तत्र मतिमात् त्रिषष्टिं तु प्रयोजयेत् ॥ ५ ॥

यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः ।

पञ्चानुक्रमते योगानम्लश्चतुर एव च ॥ ६ ॥

त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् । १२५७ तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ॥ ७ ॥

तद्यथा - मधुराम्ल: १, मधुरलवणः २, मधुरकटुकः ३, मधु-रतिक्तः ४, मधुरकषायः ५, एते पञ्चानुक्रान्ता मधुरेण । अम्लल-वणः १, अम्लकटुकः २, अम्लतिक्तः ३, अम्लकषायः ४, एते चत्वारोऽनुक्रान्ता अम्लेन । लवणकटुकः १, लवणतिक्तः २, लव • श्रविदग्धाः - अन्येन श्रसंयुक्ताः, धातूनामनेकार्थकत्वेन श्रत्र विदग्धशब्दस्य संयुक्ता-थं कत्वात्; विदग्धाः = संयुक्ताः, भिद्यन्ते = एकैकेन सहानुगमनाद् भेदं यान्ति, ते = रसाः । २ वीच्य वीक्ष्य = दोषभेदविकल्पे वच्यमाणं तं तं दोषभेदं पौनः • पुन्येन विमृश्य, रसभेदत्रिषष्टिं = त्रिषष्टिधा भिन्नं तं तं रसम् श्रवचारयेत् = प्रयो • जयेदित्यर्थः । २ दोषभेदे रसभेदोपयोगं प्रतिपादयति - एकैकेनेति । भागशऽशांशतया रसा-नामेकैकेन मधुरादिनाऽनुगमनं प्रवर्तनं यदुदीरितमनन्तरेऽस्मिन्नैवाध्यायेऽभिहितम्, मतिमान् ऊहापोहकुशलो वैद्यः तत्र दोषभेदेषु तां रसभेदत्रिषष्टिं प्रयोजयेदित्यर्थः । 3 तत्र संयुक्तेषु पञ्चदशद्विरस संयोगान् प्रदर्शयति - यथेति । यथाक्रमप्रवृत्तानां = मधुरादिक्रमप्रवृत्तानाम्, द्विकेषु = द्विकसंयोगेषु । ४ अनुक्रमते = अनुगतो भवति । ५ पञ्चदशसंख्याकानां द्विकसंयोगानामनुगमन प्रकारमाह – तद्यथेति । मधुरा-म्लौ विद्येते यस्मिन् संयोगे स मधुराम्लः, एवं मधुरलवणादावपि बोध्यम् । मधुरा-म्लः = बदरकपित्थफलादिः १, मधुरलवणः = उष्टीक्षीरादिः २, मधुरकटुकः == कुक्कुरश्शृगालमांसादिः ३, मधुरतिक्तः = श्रीवास सर्जरसादिः ४, मधुरकषायः == तैलधन्वनफलादिः ५, अम्ललवण: = एडकादिः, ऊषकादिः ६, अम्लकटु: = चुक्रादिः ७, अम्लतिक्तः = सुरादिः ८, अम्लकषायः = इस्तिनीदधिशुकमांसादिः ९, लवणकटुकः = गोमूत्रस्वर्जिकादिः १०, लवणतिक्तः - त्रपुसीतादिः ११, लवण-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1416

सुश्रुत संहिता चौखम्बा, पृष्ठ 1416 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२५८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६३ कषायः ३, एते त्रयोऽनुक्रान्ता लवणेन । कटुतिक्तः १, कटुक-षायः २, द्वावेतावनुक्रान्तौ कटुकेन । तिक्तकषायः १, एक एवा-नुक्रान्तस्तिक्ते । एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ॥ ८ ॥

त्रिकौन् वक्ष्यामः—

आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति ।

षडम्लो लवणस्तस्मादर्द्धमेकं तथा कटुः ॥ ९ ॥

तद्यथा - मधुराम्ललवणः १, मधुराम्लमटुकः, २ मधुराम्लति • क्तः ३, मधुराम्लकषायः ४, मधुरलवणकटुकः ५, मधुरलवणतिक्तः ६, मधुरलवणकषायः ७, मधुरकटुकतिक्तः ८, मधुरकटुकषायः ९, मधुरतिक्तकषायः १०, एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते । अम्ललवणकटुकः १, अम्ललवणतिक्तः २, अम्ललवणकः षाय: ३, अम्लकटुतिक्तः ४, अम्लकटुकषायः ५, अम्लतिक्तकषायः ६, एवमेषां षण्णामादावम्ल: प्रयुज्यते । लवणकटुतिक्तः १, लवणकटु-कषायः = समुद्रफेनादिः १२, कटुतिक्तः = कर्पूरजातीफलादि: १३, कटुकषायः = लवलीफलइस्तिनीघृतादिः १४, तिक्तकषायः = भल्लातकमज्जाहरितालादिः १५, एवं पञ्चदशधा द्विरससंयोगाः प्रदर्शिताः । विंशतिस्त्रिरस संयोगान् दर्शयति — त्रिका-निति । २ दश = दश योगान् । ३ अर्ध = त्रीन् योगानित्य ': । ४ विंशति संख्याकानां त्रिरस संयोगानामनुगमन प्रकारमाख्याति - तद्यथेति । मधुराम्ललवणा बिद्यन्ते यत्र संयोगे स मधुराम्ललवणः एवं मधुराम्लकटुकादावपि बोद्धव्यम् । मधुराम्ललवण: = हस्तिमांसादिः १, मधुराम्ल कटुकः = शल्यकमांसादि: २, मधुराम्लतिक्तः = गोधूमोत्थसुरादिः ३, मधुराम्लकषायः = मस्तुतक्रादिः ४, मधुर • लवणकटुकः = कपोतमांसादिः अपूपादिश्च ५, मधुरलवणतिक्तः शम्बूकादिमांसः ६, मधुरलवणकषायः = पद्मकन्दादिर्गुडसंयुक्तः ताप्यकासीसादिश्च ७, मधुरकटुतिक्तः = कटुकाम्लभक्तादिः तृणशून्या फलशुष्ककुस्तुम्बर्यादिश्च ८, मधुरकटुकषायः = गोधामां-सैरण्डतैलादिः९, मधुरतिक्तकषायः - गुडूचीशाखामृगामिषतुवरकतैलादिः १०, अम्ललवणकटुकः = रौप्य शिलाजत्वादिः ११, अम्ललवणतिक्तः = इस्तिमृगमूषादिः १२, अम्ललवणकषायः = हस्तिनीदध्यादिः १३, अम्लकटुतिक्तः = मरिच संस्कृतसुरादिः १४, अम्लकटुकषायः = अम्लवेतसादिः १५, अम्लतिक्तकषायः = कीर मांसयुतसुरादिः १६, लवणकटुतिक्तः = श्रविमूत्रादिकः १७, लवणकटुकषायः प्ररुष्करः सरोमकः १८० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1417

सुश्रुत संहिता चौखम्बा, पृष्ठ 1417 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६३ ] Digitized by Arya Samaj nai and eGangotri १२५ ९ कषायः २, लवणतिक्तषाय: ३, एवमेषां त्रयाणामादौ लवणः प्रयु-ज्यते । कटुतिक्तकषायः १, एवमेकस्यादौ कटुकः प्रयुज्यते । एवमेते त्रिसंयोगा विंशतिर्व्याख्याताः ॥ १० ॥

चतुष्कान् वक्ष्यामः-चतुष्करससंयोगान्मधुरो दर्श गच्छति ।

चतुरोऽम्लोऽनुगच्छे व लवणस्त्वेकमेव तु ॥ ११ ॥

मधुराम्ललवणकटुकः १, मधुराम्ललवणतिक्तः २, मधुराम्ललव-णकषायः ३, मधुराम्लकटुकतिक्तः ४, मधुराम्ल कटुकषायः ५, मधुरा-म्लतिक्तकषायः ६, मधुरलवणकटुतिक्तः, मधुरलवणकटुकषायः ८, मधुरलवणतिक्तकषायः ९, मधुरकटुतिक्तकषाय: १०, एवमेषां दशा-नामादौ मधुरः प्रयुज्यते । अम्ललवणकटुतिक्तः १, अम्ललवणकटु-कषायः २, अम्ललवणतिक्तकषायः ३, अम्लकटुतिक्तकषायः ४, एवमे षां चतुर्णामादावम्लः । लवणकटुतिक्तकषायः १, एवमे कस्यादौ ल-लवणतिक्तकषायः = समुद्रफेनाविकः १ ९, कटुतिक्तकषायः = कृष्णागरु सुरदारु स्नेहा • दिकः २०, एवं विंशतिविधास्त्रिरससंयोगाः प्रदर्शिताः । १ पञ्चदशचतुष्करस संयोगान्निर्दिशति - चतुष्कानिति । २ दशयोगानि. त्यर्थः । ३ पञ्चदशसंख्याकानां चतुष्करससंयोगानामनुगमनप्रकारं दर्शयति— मधुरेति । मधुराम्ललवणकटुका विद्यन्ते यत्र संयोगे स मधुराम्ललवणकटुकः, एवं शेषेष्वपि व्याख्यॆयम् । मधुराम्ललवणकटुकः = गोमूत्रान्वितशिलाजत्वादिः १, मधुरा. म्ललवणतिक्तः = गोमूत्र कशफक्षीरादिः २, मधुराम्ललवणकषायः = = सैन्धवान्वितत • क्रादिः ३, मधुराम्लकटुकतिक्तः - लशुनान्वितसुरादिः ४, मधुराम्लकटुकषायः = काञ्जिकान्वितैरण्डतैलादि: ५, मधुराम्लतिक्तकषायः = उदुम्बरान्वितयवास शर्करादिः ६, ७, मधुरलवणकटुकषायः == = गोमूत्रान्वि-मधुरलवणकटुकतिक्तः = वार्ताकफलादिकः ततैलादिः ८, मधुरलवणतिक्तकषायः = समुद्रफेनशर्करा चित्र कान्वितवदरादिः ९, मधुरकटुतिक्तकषायः = तिलगुग्गुल्वादिः १०, श्रम्ललवणकटुतिक्तः == सुवर्चलान्वि-तहस्तिनीदध्यादिकृतमुरादिकः ११, अम्ललवणकटुकषायः = • सौवर्चलान्वित हस्ति--नोदध्यादिः १२, अम्ललवणतिक्तकषायः = प्रौद्भिदलवणान्वितशुकर्मासादिः १३, अम्लकटुतिक्तकषायः- बालमूलकइस्तिनीदध्यादिः १४, लवणकटुतिक्तकषायः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1418

सुश्रुत संहिता चौखम्बा, पृष्ठ 1418 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६० Digitized by Arya Samaj Fourja Henhhal and eGangotri [ अ ० ६३ वणः । एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः ॥ १२ ॥

पञ्चकान् वक्ष्यामः-पञ्चकोन् पञ्च मधुर एवम लस्तु गच्छति ॥। १३ ॥ मधुराम्ललवणकटुतिक्तः १, मधुराम्ललवणकटुकषायः २, मधु-राम्ललवणतिक्तकषायः ’, मधुराम्लकटुतिक्तकषायः, मधुरलवण-कटुतिक्तकषाय: ५, एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते । अम्लल-वरणकटुतिक्तकषायः २, एवमेकस्यादावम्लः । एवमेते षट् पञ्चकसं-योगा व्याख्याताः ॥ १४ ॥

षट्कमेकं वक्ष्यामः-एकस्तु पट्कसंयोगः -- मधुराम्ललवणकटुतिक्तकषायः । एष एक एव षट्संयोगः ॥ १५ ॥

एकैकश्च षड्रसा भवन्ति - मधुरः १, अम्ल: २, लवणः ३, कटुकः ४, तिक्तः ५, कषायः ६, इति ॥ १६ ॥

भवति चात्र । एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः सरोमकबाल बिल्वादिः १५, एवं पञ्चदशधाश्चतुष्करससयोगाः प्रदर्शिताः । १ अतः परं षट् पञ्चरस संयोगानाचष्टे - पञ्चकानिति । २ पञ्चकान् = पचर. ससंयोगान्, पञ्च = = पञ्च संख्याकान् = योगानित्यर्थः । ३ षट्संख्याकानां पञ्चरस-संयोगानामनुगम्नप्रकारं प्रतिपादर्यात - मधुरेति । व्याख्या पूर्ववत् कार्या । मधु. राम्ललवणकटुतिक्तः = म्रकर मर्दान्वित भ्रष्टवृत्ताकफलादिः १, मधुराम्ललवण-कटुकषायः = त्रिकटुयवश्चारान्विततक्रादिः २, मधुराम्ललवणतिक्तकषाय: = श्रौद्धि • दान्विततक्रादिः ३, मधुराम्लकटुतिक्तकषायः - हरीतकीधात्री फलादिः ४, मधुर • लवणकटुतिक्तकषायः = रसोनादिकः ५, अम्ललवणकटुतिक्तकषायः । = भल्लातक-रौप्य शिलाजतुमिश्रितनिम्बादिः: ६, एवं षट् पञ्चरससंयोगाः प्रदशिताः । ४ अतः परमेकं षड्ररूसंयोगं दर्शयति - षट्कमिति । मधुराम्ललवणकटुति-क्तकषायः = एणमांसादिकः १, एवमेक एव षड्ससंयोगोऽभिहितः । ५ संयु. क्तान् षड्रसानभिधत्ते – एकैकश्चेति । मधुरः = सन्तानि कागोदुग्धादिः १, अ. म्ल: • श्राम्रकरमर्दादिः २, लवणः = - रोमकादिकः ३, कटुकः चव्यादिकः ४, तिक्तः = निम्बपर्पटादिः ५, कषायः = पद्मन्यग्रोधाद्यङ्कुर।दिः ६, एवम संयुक्ताः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1419

सुश्रुत संहिता चौखम्बा, पृष्ठ 1419 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

प्र ० ६४ ] Digitized by Arya Samaj त सतन्त्र enai and eGangotri दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः ॥ १७ ॥

१२६१ इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम ( प्रथमः, आदितः ) त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

चतुःषष्टितमोऽध्यायः ।

अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः ।

तस्य यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम् ॥ ३ ।

तग्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितैः ।

तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ॥ ४ ॥

न् यस्मिन्नृनौये ये दोषाः कुप्यन्ति देहिनाम् ।

तेषु तेषु प्रदातव्य रास्ते ते विजानता ॥ ५ ॥

9 षड्रसाः प्रदर्शिताः । १ दो भेदष्टियां दोषभेदविकल्पाध्याये वच्यमाणायाम्, दोषभेदविकल्पाध्याये ये द्विष्टिर्दोषभेदा वक्ष्यन्ते तेष्वेव स्वास्थ्यमादाय त्रिषष्टिया भिन्ना रसाः प्रयोक्तव्या इत्यर्थः । तदुक्तम् – “ द्विषष्टिर्दोषभेदाः स्यू रसभेदास्त्रिष • ` ष्टिधा । स्वास्थ्यं त्रिषष्टं विज्ञेयं तत्र षड्सयोजनम् ॥ ” इति । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गतान्त्रभूषणे सुधाऽऽख्यटिप्पयां त्रिषष्टितमोऽध्यायः । चतुःषष्टितमोऽध्यायः । २ रसभेदविकल्पानन्तरमौ निकाध्यायो कक्रमप्राप्तं स्वस्थवृत्तमध्यायमविकरोति-अथात इति | संस्थस्य वृत्तमाचारः । ३ समुद्दिष्टः = " समदोषः समाग्निश्च सम-धातुमलकियः । प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥ ” इति दोषधातुमलक्षय-बुद्धिविज्ञानीयेऽभिहितः । ४ श्रदिन: = अगिताबाधचिकित्सिते । ५ वक्ष्यते ' स्वस्थवृत्तम् ' इति शेषः । ६ ऋत्वाश्रयं स्वस्थवृत्तमभिधत्ते - यस्मिन्निति । ७ रसाः = रसवन्ति द्रव्याणीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1420

सुश्रुत संहिता चौखम्बा, पृष्ठ 1420 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६२ Digitized by Arya Samaj सुश्रुतसंहिता inteGangotri [ अ ० ६४

प्रक्लिन्नेत्वाच्छरीराणां वर्षासु भिषजा खलु ।

मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ॥ ६ ॥

तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च ।

कषायतिक्तकटुकै रसैर्यक्तमपद्रवम् ॥ ७ ॥

नातिस्निग्धं नातिरुक्षमुष्णं दीपनमेव च ।

देयमन्नं नृपतये यज्जलं चोक्तमादितः ॥ ८ ॥

तप्तावरतमम्भो वा पिवेन्मधुसमायुतम् ।

अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ॥ ९ ॥

तरुणत्वाद्विदोहञ्च गच्छन्त्योषधयस्तदा ।

मतिमांस्तन्निमित्तञ्च नातिव्यायाममाचरेत् ॥ १० ॥

अत्यम्बुपानावश्यायग्राम्यर्धमतिपांस्त्यजेत् ।

भूबाष्पपरिहारार्थं शयीत च विहार्यंसि ॥ ११ ॥

शीते साग्नौ निवाते च गुरुप्रावरणे गृहे ।

यायान्नागवधूभिश्च १० प्रशस्तागुरुभूषितः ॥ १२ ॥

दिवास्वप्नमजीर्णञ्च ' ' वर्जयेत्तत्र यत्नतः ।

सेव्याः " शरदि यत्नेन कषायस्वादुतिक्तकाः ॥ १३ ॥

क्षीरेक्षुविकृति क्षौद्रशालिमुद्गादिजाङ्गलाः १३

" " ।

श्वेतस्रजश्चन्द्रपादाः ' ' प्रदोषे लघु चाम्बरम् ॥ १४ ॥

सलिलञ्च प्रसन्नत्वात् सर्वमेव तदा हितम् । १ वर्षाचर्या प्रतिपादयति - प्रक्लिन्नत्वादिति । प्रक्लिन्नत्वात् = अत्यार्द्र-, भिषजेति पदस्य देयमन्नमित्यत्र सम्बन्धः । २ तन्त्रान्तरेऽपि " शमप्रकोपौ त्वात् दोषाणां सर्वेषामग्निसंश्रितौ ” इति । ३ अपद्रवं = द्रवहीनमित्यर्थः । ४ द्रवद्रव्य-विधौ पानीयवर्गे “ वर्षास्वान्तरीक्षमौद्भिदं वा सेवेत " इत्यादिना कथितम् । ५ तप्ता वरतं B शृतशीतम् । ६ विदाहम् = अम्लपाकम् । ७ तन्निमित्तं = विदाहनिमि • त्तम् । ८ ग्राम्यधर्मः- मैथुनम् । ९ विहायसि = अट्टाद्युपरिभागे । १० नाग-वधूभिः = हस्तिनीभिः | ११ चकारात्पूर्ववातादिकं समुच्चीयते । तत्र = वर्षास्वित्यर्थः । १२ शरच्चर्यं ब्रवीति — सेव्या इति । १३ जाङ्गलम् = एणादीनां लावादीनां -च मांसम् । १४ चन्द्रपादाः = = चन्द्रांशव इत्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar