सुश्रुत संहिता चौखम्बा — पृष्ठ 1421–1430

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1421–1430

पृष्ठ 1421

सुश्रुत संहिता चौखम्बा, पृष्ठ 1421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६४ ] Foundation Digitized by Arya उसरतभ् Chennai and eGangotri १२६३ सरःस्वाप्लवनचैव कमलोत्पलशालिषु ॥ १५ ॥

प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम् ।

तिक्तस्यै सर्पिषः पानैरसृक्स्रावैश्च युक्तितः ॥ १६ ॥

वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः ।

नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम् ॥ १७ ॥

रात्री जागरणचैव मैथुनं चापि वर्जयेत् ।

( स्वादुशीतजलं मेध्यं शुचिस्फटिकनिमलम् ॥ १८ ॥

शरच्चन्द्रांशु निधौतम गस्त्योदय निर्विषम् ।

प्रसन्नत्वाच्च सलिलं सर्वमेव तदा हितम् ॥ १ ९ ॥

सचन्दनं सकर्पूरं वासश्चामलिनं लघु ।

भजेच्च शारदं माल्यं सीधोः पानश्च युक्तितः ॥ २० ॥।

पित्तप्रशमनं यच्च तच्च सर्व समाचरेत् । ) ( हेमन्तः शीतलो रूक्षो मन्दसूर्योऽनिलाकुल: ॥ २१ ॥

ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति ।

कोष्ठस्थः शीतसंस्पर्शादन्तः पिण्डीकृतोऽनलः ॥ २२ ॥

रसमुच्छोपयत्याशु तस्मात् स्निग्धं तदा हितम् । ) हेमन्ते लवणक्षारतिकाम्लकटुकोत्कटम् ॥ २३ ॥

ससर्पिस्तैलमहिममशनं हितमुच्यते ।

तीक्ष्णान्यपि च पानानि पिवेदगुरुभूषितः ॥ २४ ॥

१ तिक्तस्य सर्पिषः = कुष्ठचिकित्सितेऽभिहितस्य तिक्तकस्य महातिक्तस्य घृत. स्येत्यर्थः । युक्तितः = योगतः, श्रातुरबलबलामभिसमीक्ष्येत्यर्थः । २ सेव्यमुपदिश्य वर्ज्यमुपदिशति – नोपेयादिति । नोपेयात् - न सेवेत, स्वप्नं दिवा = दिवास्वापम् । ३ शुचिस्फटिकवद् विशुद्धस्फटिकवन्निर्मलम् । ४ अगस्त्यस्य श्राकाशे नक्षत्ररू • पस्या गस्त्यमुनैरुदयेन निर्विषं निर्मलमित्यर्थः । ५ युक्तितः = योगतः, श्रातुर. बलादिकं विचार्येत्यर्थः । ६ हेमन्तचर्यामाख्याति – हेमन्त इति । ७ पिण्डीकृतः = संहत इति तात्पर्यम् । ८ हेमन्ते सेव्यासेव्यव्यवस्थामाइ - हेमन्त इति । ९ मद्यादीनि पानानीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1422

सुश्रुत संहिता चौखम्बा, पृष्ठ 1422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" सुश्रुतसंहितायां = Digitized by Arya Samaj Found Chennai and eGangotri १२६४ [ अ ० ६४

तैलाक्तस्य सुखोष्णे च वौरिकोष्ठेऽवगाहनम् ।

साङ्गारे याने महति कौशेयास्तरणास्तृते ॥ २ ९ ॥

शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे ।

स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः ॥ २६ ॥

प्रकामञ्च निषेवेत मैथुनं तर्पितो नृपः ।

( मधुरं तिक्तकटुकमम्लं लवणमेव च ॥ २७ ॥

अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च ।

तथेक्षुविकृती: शालीन सुगन्धांश्च नवानपि ॥ २८ ॥

प्रसहानूपमांसानि कन्याद बिलशायिनाम् ।

श्रदकानां प्लवानाञ्च पादिनाञ्चोपसेवैयेत् ॥। २ ९ ॥

मद्यानि च प्रसन्नानि यच्च किञ्चिद् बलप्रदम् ।

कामतस्तन्निषेवेत पुष्टिभिच्छन् हिमागमे ॥ ३० ॥।

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः । ) एष एव विधिः कार्य्यः शिशिरे समुदाहृतः ॥ ३१ ॥

( हेमन्ते निचित: श्लेष्मा शैत्याच्छीतशरीरिणाम् । १ वारिकोष्ठे = ' टब ' इति समाख्ये काष्ठपाषाणादिकृत नौकाकारे जलपात्रे । २ साङ्गारयाने = अङ्गारघानिकायुक्ते, ' साङ्गारधाने इति हाराणचन्द्रसम्मतपाठः । ‘ अङ्गारधानिकाऽङ्गारशकट्यपि हसन्त्यपि ' इत्यमरः । साङ्गारयान इति पदं ' गर्भ गृहो -दरे ' इत्यत्र अन्वेति । गर्भगृहोदरे - गर्भागारमध्ये, " गर्भागारं वासगृहम् ' इत्यमरः । ६ रिलट्ठा: = श्रालिङ्घयेत्यर्थः । ४ ' मूलपत्र करीर । ग्रफल काण्डाधिरूढकम् । त्वक् पुष्पं कवकं चैव शाकं दशविध स्मृतम् ॥ ' इति । मूलं मूलकविशादेः १, पत्रं वास्तुकादेः २ करीरं वंशाङ्कुरादेः ३, श्रग्रं वेत्रादेः ४, फलं कूष्माण्डवार्ताक्यादः ५, काण्डं कमलादेर्नालम् ६, अधिरूढकं = तालबीजाङ्कुरास्थिमज्जादि ७, स्वक् मातुलुङ्गादेः ८, पुष्पं तिन्तिडीकोविदारादेः ९, कवकं छत्राकम् १० । ‘ पत्रं पुष्पं फलं नालं कण्डं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥ ' इति मतान्तरोक्तानि च शाकानि बोध्यानि । ५ ‘ मांसम् ’ इति शेषः । ६ मद्यस्य उपरितनो यः स्वच्छो भागः सा प्रसन्ना कथिता । " सुरामण्डः प्रसन्ना स्यात् ” इति शार्ङ्गधरः । ७ दिमागमे = हेमन्तर्तौ । ८ वसन्तचर्यामभिदधाति-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1423

सुश्रुत संहिता चौखम्बा, पृष्ठ 1423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६४ ] Digitized by Arya samanaon Chennai and eGangotri १२६५ औष्णचाद्वसन्ते कुपितः कुरुते च गदान् बहून् ॥ ३२ ॥

ततोऽम्लमधुरस्निग्धलवणानि गुरूणि च ।

वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत् ॥ ३३ ॥

पष्टिकान्नं यवाञ्छीतान् मुद्रान् नीवारकोद्रवान् ।

लावादिविष्किररसैर्दद्याद् यूषैश्च युक्तितः ॥ ३४ ॥

पटोलनिम्बवार्त्ताकतिक्तकैश्च हिमात्यये ।

सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान् ॥ ३५ ॥

व्यायाममञ्जनं धूमं तीक्ष्णञ्च कवलग्रहम् । सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे ॥ ३६ ॥ )

तीक्ष्णरूक्ष कटुतारकषायं कोष्णमद्रवम् ।

यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ॥ ३७ ॥

व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः ।

उत्सादनं तथा स्नानं वनिताः काननानि च ॥ ३८ ॥

सेवेत निहँरेच्चापि हेमन्तोपचितं कफम् ।

शिरोविरेचकत्रमननिरूह कवलादिभिः ॥ ३ ९ ॥

वर्जयेन्मधुरस्निग्ध दिवास्वप्नगुरुद्रवान् ।

व्यायाममुष्णमायासं मैथुनं परिशोषि च ॥ ४० ॥

रसांश्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् ।

सरांसि सरितो वापीर्वनानि रुचिराणि च ॥ ४१ ॥

" हेमन्त इति । निचितः = सञ्चित इत्यर्थः । १ हिमात्यये = वसन्ते । शासत्रो माधवः । ३ कोष्णं - किचिदुष्णम्, श्रद्रवंद्रवरहितम् । २ मधुकृत ४ मियुद्धं = बाहुयुद्धम्, ' नियुद्धं बाहुयुद्धे स्यात् ' इत्यमरः । श्रध्वा - • मार्गगम-नम्, शिलानिर्घातः = शिलया गात्राभिहननम् । ५ उत्सादनम् = उद्वर्तनम् । ६ “ हरेद् वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् ” इति सूत्रस्थानेऽप्युक्तम् । ७ ग्रीष्मचर्यामुपदिशति - व्यायाममिति । व्यायामं = शरीरायासकरकर्म, आयासः– व्यायामापेक्षयाऽल्पश्रमकरं कर्म, परिशोषि = शोषणशीलम् । अग्नि-९ ग्रीष्मे सेव्यकर्म निर्दिशति - सरांसीति । गुणोद्रिक्तान् = कटुकाम्ललवणान् । सरांसि = देवखातानि जलाधाराणि, सरितः = गङ्गादिनदीः, वापी: दीर्घिकाः, ' पाषा-८० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1424

सुश्रुत संहिता चौखम्बा, पृष्ठ 1424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-१२६६ Digitized by Arya Samaj Boundation Chennai and eGangotri [ अ ० ६४

चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः ।

तोलवृन्तानिलाहारांस्तथा शीतगृहाणि च ॥ ४२ ॥

धर्मकाले निषेवेत वासांसि सुलघूनि च ।

शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ॥ ४३ ॥

पानकानि च सेवेत मन्थांश्चापि सशर्करान् ।

भोजनं च हितं शीतं सघृतं मधुरेंद्रवम् ॥ ४४ ॥

शृतेन पयसा रात्रौ शर्करामधुरेण च ।

प्रत्यकुसुमाकीर्णे शयने हर्म्य संस्थिते ॥ ४५ ॥

शयीत चन्दनार्द्राङ्गः स्पृश्य मानोऽनिलैः सुखैः ।

तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ॥ ४६ ॥

पयो मांसरसाः कोष्णास्तैलानि च घृतानि च ।

बृंहणञ्चापि यत्किञ्चिदभिष्यन्दि तथैव च ॥ ४७ ॥

निर्दाघोपचितञ्चैव प्रकुप्यन्तं समीरणम् ।

निहन्यादनिलघ्नेन विधिना " विधिकोविदः ॥ ४८ ॥

णैरिष्टिकाभिर्वा बद्धकूपा बृहत्तरा । ससोपाना भवेद् वापी प्राहुः शास्त्रविशारदाः ॥ ' इति । १ परार्ध्यानि = श्रेष्ठानीत्यर्थः । २ तालवृन्तं तालपत्ररचितव्यजनम् । ३ दिग्धानि = युक्तानि । सुगन्धीनि = कर्पूराद्यधिवासितानि । ४ मन्थान् = जलघृताक्तसक्तून् । ५ मधुरद्रवो रसालपानकादिविद्यते यत्र भोजने तन्मधुरद्रवम् । " दिवा पानानि शीतानि हितं रात्रौ च भोजनम् । ससर्पिःश • र्करं शीतं शृतेन पयसा युतम् ॥ ” इति तन्त्रान्तराद्रात्रौ भोजनं दिवा मन्यादिपान-मित्युन्नेयम् । ६ प्रत्यग्रकुसुमाकीर्णे == नवपुष्पास्तृते, हर्म्यसंस्थिते = काष्टेष्टकादि • कृतधवलगृहोपरिसंस्थिते, रात्रौ हर्योपरि दिवा शीतगृहे शयीत । तथा च तन्त्रा-न्तरम् — “ दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले । भजेच्चन्दनदिग्धाङ्गः प्रवाते . हर्म्यमस्तके ॥ ” इति । ७ प्रावृट्चर्यां निरूपयति- तापात्यय इति । उापात्यये = वर्षतौं, गुरवस्त्रयः = मधुराम्ललवणाः । ८ " पच्छिल्याद् गौरवाद् द्रव्यं रुद्धवा रसवहाः सिराः । धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि ॥ ” इति । ९ निदाघोपचितं = ग्रीष्मकालस; चितम् ॥ १० स्नेहस्वेदादिविधिनेत्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1425

सुश्रुत संहिता चौखम्बा, पृष्ठ 1425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६४ ] Digitized by Arya sama स्त Chennai and eGangotri

नदीजलं रूक्ष मुष्णमुदमन्थं तथाऽऽतपम् ।

१२६७-व्यायामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्जयेत् ॥ ४ ९ ॥

नवान्नरुतशीताम्बु सक्तंश्चापि विवर्जयेत् ।

यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ॥ ५० ॥

हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तेराम् ।

सविषप्राणिविण्मत्रलालादिष्ठीवनादिभिः ॥ ५१ ॥

समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम् ।

वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ॥ ५२ ॥

द्धि सर्वोपयोगेषु तस्मिन् काले विवजयेत् ।

अरिष्टासव मैरेयान् सोर्पदंशांस्तु युक्तितः ॥ ५३ ॥

पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत् ।

निरूहैर्बस्तिभिश्चान्यैस्तथाऽन्यै मारुताप हैः ॥ ५४ ॥

कुपितं शमयेद्वायं वार्षिकं चाचरेद्विधिम् ऋतावृतौ य एतेन विधिना वर्त्तते नरः ॥ ५५ ॥

घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन । अंत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः । तत्र शीतोष्ण-स्निग्धरूक्षद्रवशुष्कै ककालिकद्विकालिकौषधयुक्तमात्रा हीनदोषप्रशम-नवृत्त्यर्थाः ॥ ५६ ॥

१ व्यवायं = मैथुनम् 1 । २ मृदूत्तरां = मृद्वाच्छादनाम् । ३ वर्षाजल निषेधमाह— सविषेति । ४ विषदुष्टेन = शालपुष्पादिविषौषधि पुष्पगन्धादिदोषयुक्तेन, प्रावृ. षेण्येन = प्रावृषि भवेन, ' प्रावृष एण्यः ' इत्येण्यः! ५ तत् = श्रन्तरीक्षं तोयम् । ६ उप • दंशो मद्यरोचकद्रव्यं, तेन सहितान् सोपदंशान् । ७ वार्षिकं = वर्षाकालिकम् । वर्षा - शीत - ग्रीष्मसमये श्रानन्ददायकानि - " पीताम्बरं पयःपानं पादुका पूर्णमन्दिरम् । परान्नं पद्मपत्राक्षी वृष्टौ सप्तसुखावहाः ॥ तैलतापन-ताम्बूलं तूलिका तप्तभोजनम् । तप्ताम्बु तरुणी नारी शीते सप्त सुखावद्दाः ॥ चन्दनं च चतुर्द्वारं चामरं चीरचन्द्रमाः । चम्पकं चतुरा नारी ग्रीष्मे सप्तसुखावहाः ॥ ” इति । ८ श्रार्तवविधिसेवनफलमभिधत्ते - ऋताविति । एतेन विधिना = पूर्वोक्तेन विधानेनेत्यर्थः । ९ द्वादशाशनप्रविभागानाह - अत इति । १० तत्र - द्वादशा-शनप्रविभागेषु मध्ये । श्रशनप्रविचारानिति पाठे श्रशनस्य भोजनस्य प्रकृष्टान् CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1426

सुश्रुत संहिता चौखम्बा, पृष्ठ 1426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -[ अ ० ६४ १२६८ Digitized by Arya SamapFoundation Chennai and eGangotri

तृष्णोष्णमददाहार्त्तान् रक्तपित्तविषातुरान् ।

मूर्च्छा ss र्त्तान् स्त्रीषु च क्षीणान् ' शीतैरन्नैरुपाचरेत् ॥ ५७ ॥

कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः ।

अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ॥ ५८ ॥

वातिकौन रूक्षदेहांश्च व्यवायोपहतांस्तथा ।

व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ॥ ५ ९ ॥

मेसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि ।

कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ॥ ६० ॥

शुष्क देहान् पिपासाऽऽर्त्तान् दुर्बलानपि च द्रवैः ।

प्रैक्लिन्नकायान् प्रणिनः शुष्कैर्मेहिन एव च ॥ ६१ ॥

एककालं भवेद्देयो दुर्बलाग्निविवृद्धये ।

समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ॥ ६२ ॥

औषधद्वेषिणे " देयस्तथौषधसमायुतः ।

मन्दाग्नये रोगिणे च " मात्राहीनः प्रशस्यते ॥ ६३ ॥

१ * यथर्त्तदत्तस्त्वाहारो दोषप्रशमनः स्मृतः ।

अतः परन्तु स्वस्थानां " वृत्त्यर्थं सर्व एव च ।

प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ॥ ६४ ॥

५४ विचारणान् अवचारणरूपान् १ शीताहारविषयं दर्शयति - तृष्णेति । शी-। २ तैः = शीतवीर्यैरित्यर्थः । ३ उष्णाहारविषयमभिधत्ते –कफेति । कफवातामयावि · ष्टान् = कफवातरोगग्रसितान् । ४ श्रक्लिन्नकायान् = क्लेदरहितदेहान् । ५ स्निग्धाहारविषयमभिदधाति - वातिकानिति । वातिकान् = वातप्रकृतीन् । ६ रूक्षभोजनविषयं निर्दिशति - मेदसेति । मेदसाऽभिपरीतान् मेदोव्याप्तदेहान्, स्निग्धान् = स्निग्धशरीरान् । ७ द्रवभोजन विषयमाह - शुष्केति । द्रवैः = द्रवब-हुलैरन्नैरित्यर्थः । ८ शुकभोजनविषयं निरूपयति - प्रक्लिन्नेति । प्रक्लिन्नका-यान् = कुष्ठिप्रभृतीन् कुथितशरीरान् " व्रणिनः = क्लिन्नव्रणयुक्तान् । ९ एककालो. भयकालभोजन विषयमभिदधाति - एकेति । एककालं होनमात्रमेव भोजनं देयम् । १० औषधयुक्तमात्राहीन भोजनविषयमभिधत्ते - औषधेति 1.११ मात्राद्दीनः ' आहार ' इति शेषः । १२ यथर्तुदत्ताहारफलं बक्ति - यथेति ।.१३_वृत्यर्थे = स्वा • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1427

सुश्रुत संहिता चौखम्बा, पृष्ठ 1427 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६४ ] Digitized by Arya Simon Chennai and eGangotri १२६ ९ ऊर्ध्वं दशौषध कालान् वक्ष्यामः । तत्राभक्तं प्राग्भ • क्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्यासं ग्रासान्तरञ्चेति दशौ धकालाः ॥ ६५ ॥

तंत्राभक्तं तु यत् केवल मे वौषधमुपयुज्यते ॥ ६६ ॥

वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैव । तद्बालवृद्धवनितामृवस्तु पीरवा ग्लानिं परां समुपयान्ति बलक्षयञ्च ॥ ६७ ॥

प्राग्भक्तं नाम - यत् प्राग्भक्तस्योपयुज्यते ॥ ६८ ॥

शीघ्रं विपाकमुपयाति बलं न हिंस्या-दन्नावृतं न च मुहुर्वदनान्निरेति । प्राग्भक्त सेवितमथौषध देव दद्याच्च वृद्धशिशु भीरुकृशाङ्गनाभ्यः ॥ ६ ९ ॥ अधोभक्तं नाम - यदधो भक्तस्येति ॥ ७० ॥

मध्येभक्तं नाम - यन्मध्ये भक्तस्य पीयते ॥ ७१ ॥

पीतं यदन्नमुपयुज्य तदूर्ध्व काये हन्यादान् बहुविधांश्च बलं ददाति । मध्ये तु पीतमपहन्त्य विसारिभावाद् ये मध्यदेहमभिभूय भवन्ति रोगाः ॥ ७२ ॥

अन्तराभक्तं नाम - यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ॥ ७३ ॥

स्थ्यरक्षणार्थं मित्यर्थः । १ दशौषधकालान् दर्शयति — अत इति । २ श्रभक्त. कालं निरूपयति - तत्रेति । केवलम् - अन्नरहितमित्यर्थः । ३ एतेन वालादीनामभ-कौषधनिषेधो बोध्यः । ४ प्राग्भक्तकालमभिदधाति - प्रागिति । प्राग्भक्तं - भक्त • स्यादौ । ५ प्राग्भक्ताख्यमौषधमित्यर्थः । ६ अधोभक्तमध्यभक्तयोर्लक्षणमाइ - अधोभक्तमिति । श्रधोभक्तं = भोजनान्ते इत्यर्थः । अर्ध भोजननान्तरं यदौषधमुपयुज्यते, तन्मध्येभक्तम् । ७ श्रविसारि • भावात् = श्रविप्रसरणस्वभावात्, मध्यदेहं == कोष्ठमित्यथः । ८ अन्तराभक्तसभक्त-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1428

सुश्रुत संहिता चौखम्बा, पृष्ठ 1428 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२७० Digitized by Arya San सुश्रुतसंहितायां and eGangotri [ अ ० ६४ संभकं मान - यत् सह भक्तेन ॥ ७४ ॥

पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्वेषिणामपि तथा शिशुवृद्धयोश्च ।

हृद्यं मनोबलकरन्त्वथ दीपनं च ।

पथ्यं सदा भवति चान्तरभक्तकं यत् ॥ ७५ ॥

सामुद्गं नाम - यद्भक्तस्यादावन्ते च पीयते ॥ ७६ ॥

दोषे द्विधा प्रतिसृते तु समुद्गसंज्ञ-माद्यन्तयोर्यदर्शनस्य निषेव्यते तु ॥ ७७ ॥

मुहुर्मुहुर्नाम - सभक्तमभक्त वा यदौषधं मुहुर्मुहुरुपयुज्यते ॥ ७८ ॥

श्वासे मुहुर्मुहुरतिप्रसृते च कासे हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ॥ ७ ९ ॥ ग्रासं तु यत्पिण्डव्यामिश्रम् ॥ ८० ॥

ग्रासान्तरं तु - यद्ग्रासान्तरेषु ॥ ८१ ॥

ग्रासेषु चूर्णमर्बलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत ।

ग्रासान्तरेषु वितरेद्वर्मनीयधूमान् ।

श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ॥ ८२ ॥

एवमेते दशौषध कालाः ॥ ८३ ॥

कालं ब्रवीति — अन्तरेति । अन्तराभक्तं = यत् पूर्वापरयोर्भक्तयोरन्तरा मध्ये पीयते, पूर्वापरयोः = प्रातः सायङ्कालिकयोः । १ सभक्तं = भक्तयुक्तम् । २ तद्वेषिण भेषजद्वेषिणामित्यर्थं । ३ सामुद्गकालं निरूपयति - सामुद्गमिति । समुद्रस्य सम्पुटस्येदं सामुद्गं, सम्पुटितमन्नमिति तात्पर्यम् । ४ द्विधा प्रविसृते = ऊर्ध्वाधो देहे प्रसृते । ५ मुहुर्मु · हुः कालं दर्शयति - मुहुरिति । मुहुर्मुहुर्वारं वारं यदौषधमुपयुज्यते तन्मुहुर्मुहुरित्यर्थः । ६ ग्रास - ग्रासान्तरकालमाह – ग्रासमिति । अन्नेन सह ग्रस्यते यत्तद् ग्रासम्, पिण्डव्यामिश्रं = कवलव्यामिश्रम् । ७ ग्रासयोरन्तरं मध्यमिति ग्रासान्तरम्, ग्रासा-न्तरेषु = कवलान्तरेषु । ८ अबलाग्निषु = दुर्बलाग्निव्वित्यर्थः । ९ वमनीयधू-न्मा = स्नायुचर्मखुरश्शृङ्गकर्कट का स्थिशुष्कमत्स्य वल्लूर क्रिमिप्रभृतिभिर्वामनीयैः कृतान् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1429

सुश्रुत संहिता चौखम्बा, पृष्ठ 1429 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६५ ] Digitized by Arya गुप्तरतन्त्र Chennai and eGangotri १२७१ विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति । तथाऽन्नश्रद्धायां क्कमपरिगमे कुक्षौ च शिथिले प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ॥ ८४ ॥

-इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्थवृत्ताध्यायो नाम ( द्वितीयोऽध्यायः, आदितः ) चतुःषष्टितमोऽध्यायः ॥ ६४ ॥

पञ्चषष्टितमोऽध्यायः ।

अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे । तद्यथा - अधिकरणं १, योग: २, पदार्थ: ३, हेत्वर्थ: ४, उद्देशः ", निर्देशः ६, उपदेशः ७, अप-देश: ८, प्रदेशः ९, अतिदेशः १०, अपवर्गः ११, वाक्यशेष: १२, अर्थाप-त्ति: १३, विपर्ययः १४, प्रसङ्गः १५, एकान्त: १६, अनेकान्तः १७, पूर्व-पक्ष: १८, निर्णय: १ ९, अनुमतं २०, विधानम् २१, अनागतावे क्षणम् २२, १ औषधकालान् प्रदर्श्य आहारकालं निरूपयति - विसृष्ट इति । विशदानि करणानि इन्द्रियाणि यस्मिन् देहे स तस्मिन् विशदकरणे । २ विशुद्धे - मधुराम्ल -- भूमगन्धिवियुक्ते, वाते सरति = अधोवाते निःसरति सतीत्यर्थः । ३ श्रन्नश्रद्धायां = भक्ताकाङ्क्षायाम्, क्लमपरिगमे = श्रनायासश्रमरहिते, शिथिले = स्तब्धतारहिते इत्यर्थः । इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गत स्वस्थवृत्ताध्याये सुधाऽख्यटिप्पन्यां चतुःषष्टितमोऽध्यायः । -पञ्चषष्टितमोऽध्यायः । ४ स्वस्थवृत्तानन्तरं दुर्विज्ञेयानामर्थानां प्रसाधनार्थं युक्तीरभिधातुं तन्त्रयुक्त्यध्या-यमधिकरोति – अथात इति । त्रायते शरीरमनेनेति तन्त्रं शास्त्रं चिकित्सा च तस्य - युक्तीः योजना अधिकृत्य कृतोऽध्यायस्तं तन्त्रयुक्तिम् । तद्धितप्रत्ययस्य लोपः । ५ द्वात्रिंशत्तन्त्रयुक्तीनां नामानि निर्दिशति - द्वात्रिंशदिति । एतेषां व्याख्यानमग्रे द्रष्टव्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1430

सुश्रुत संहिता चौखम्बा, पृष्ठ 1430 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२७२ Digitized by Arya सुश्रुतसहिताया nai and eGangotri [ अ ० ६५ अतिकान्तावेक्षणं २३, संशय: २४, व्याख्यानं २५, स्वसंज्ञा २६, निर्व-चनं २७, निदर्शनं २८, वियोग: २ ९, विकल्पः ३०, समुच्चयः ३१, ऊ-ह्यम् ३२, इति ॥ ३ ॥

अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम्? उच्यते- वाक्ययोजनमर्थ-योजनश्च ॥ ४ ॥

भवन्ति चात्र श्लोकाः ।

असद्वादिययुक्तानां वाक्यानां प्रतिषेधनम् ।

स्ववाक्यसिद्धिरपि च क्रियते उन्त्रयुक्तितः ॥ ५ ॥

व्यक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः ।

शोक्ता ये च केचित्स्युस्तेषाञ्चापि प्रसाधनम् ॥ ६ ॥

यथाऽम्बुज वनस्यार्कः प्रदीपो वेश्मनो यथा ।

प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ॥ ७ ॥

तत्रयमर्थमधिकृत्योच्यते तदधिकरणम् । यथा - रसं दोषं वा ॥८ ॥

येर्न वाक्यं युज्यते स योगः । यथा-' तैलं " पिबेच्चामृतवल्लिनिम्बहिंस्राऽभयावृक्षक पिप्पलीभिः । सिद्धं बलाभ्याञ्च सदेवदारु हिताय नित्यं गलगण्डरोगे ' ॥ इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमि. ति प्रयुक्तम्, एवं दूरस्थानामपि पदानामेकीकरणं योगः ॥ ९ ॥

१ तन्त्रयुक्तीनां प्रयोजनं दर्शयति - अत्रेति । अत्र = चिकित्साशास्त्रे, वाक्य • योजनम् = श्रसम्बद्धवाक्यस्य सम्बन्धनम्, अर्थंयोजनं = लीनस्य असङ्गतस्य चार्थस्य सङ्गतीकरणम् । २ श्रसद्वादिप्रयुक्तानां = प्रतिरसपाकादिप्रतिपक्षवादिकथितानाम्, प्रतिषेधनं अपदेशादितन्त्र युक्तिभिः परपक्षदूषणम् । ३ स्ववाक्यसिद्धिः = स्ववाक्य. स्थापनम्, तन्त्रयुक्तितः = निर्णय [ ख्यतन्त्र युक्त्येत्यर्थः । ४ लीनाः = असम्यग्द-शिवाः। ५ प्रसाधनं = योगाख्यादितन्त्र युक्तिभिः समाधानं क्रियत इति शेषः । ६ श्रम्बुजवनस्य = कमलवनस्य । ७ प्रबोधस्य = यथार्थज्ञानस्येत्यर्थः । ८ अथ अधिकरणलक्षणं दर्शयति - तन्त्रेति । तत्र = - द्वात्रिंशत्तन्त्रयुक्तिषु मध्ये, यमर्थमधिकृत्य अन्योऽर्थः उच्यते तदधिकरणम् । ९ योगलक्षणमुपदिशति - येनेति । येन विपर्ययेणोक्तानां सन्निकृष्टविप्रकृष्टानां पदानामेकीकरणं स योग इत्यर्थः । १० तैलं CC - 0. Gurukul Kangri Collection, Haridwar