सुश्रुत संहिता चौखम्बा — पृष्ठ 1431–1440

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 1431–1440

पृष्ठ 1431

सुश्रुत संहिता चौखम्बा, पृष्ठ 1431 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६५ ] Digitized by Arya Sama of Chennai and eGangotri १२७३ ' योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः, पदस्य पदयोः प दानां वाऽर्थः पदार्थः; अपरिमिताश्च पदार्थाः । यथा - स्नेहस्वेदा-ञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते, तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः । यथा - वेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धि: - कतमस्य वेदस्योत्पत्तिं वक्ष्य-तीति यतः ऋग्वेदादयस्तु वेदा:; विदु विचारणे विदुल लाभे, इत्ये तयोश्च धात्वोरनेकार्थयोः प्रयोगात्, तत्र पूर्वापरयोगमुपलभ्य प्रति-पत्तिर्भवति - आयुर्वेदोत्पत्तिम विवक्षुरिति एष पदार्थः ॥ १० ॥

यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः । यथा - मृत्पिण्डोऽ-द्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्ब्रणः प्रक्लिद्यत इति ॥ ११ ॥

समासवचनमुद्देशः । यथा - शल्यमिति ॥ १२ ॥

विस्तरवचनं निर्देशः यथा— शारीरमागन्तुकं चेति ॥ १३ ॥

एवं मित्युपदेशः । यथा - ' तथा न जागृयाद्रात्रौ दिवास्वप्नञ्च वर्जयेत् ' इति ॥ १४ ॥

अनेन कारणेनेत्यपदेशः । यथाऽपदिश्यते - मधुरः श्लेष्माणम-भिवर्द्धयतीति ॥ १५ ॥

प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः । यथा - देवदत्तस्यानेन पिबेदिति गलगण्डचिकित्सितोक्त पद्यम् । १ पदार्थलक्षणमभिधत्त - योऽथं इति । -२ यथा स्नेहशब्देन गुणप्रेमसर्पिषां त्रयाणामर्थानामुपपत्तिर्दृश्यते, स्वेदशब्देन साग्निनिरग्निकयोरूष्मणोरुपपत्तिः, एवमञ्जनशब्देनापि नयनाञ्जनाभ्यङ्गयोरुपपत्तिः । ३ हेत्वर्थलक्षणमभिदधाति - यदन्यदिति । श्रन्यदुक्तं यदनुक्तमन्यार्थं साधयति सहेत्वर्थः । ४ उद्देशलक्षणं प्रतिपादयति - समासेति । समासवचनं = सङ्क्षेपेण कथनमित्यर्थः । अत्र सङ्क्षेपेण शल्यं सर्वमेवाबाधजननमुच्यते, शारीरागन्तुभेदेनात्र प्रपञ्चो नास्ति । ५ निर्देशलक्षणं वक्ति - विस्तरेति । विस्तरेण कथनं निर्देश इत्यर्थः । शारीरमागन्तुकं च शल्यं द्विविधमित्यर्थः । ६ उपदॆशलक्षणं ब्रवीति- एवमिति । एवं कुर्यादित्युपदेश इत्यर्थः । ७ अप-देशलक्षणं निरूपयति — अनेनेति । कार्यं प्रति हेतुकथनमपदेश इत्यर्थः । प्रदे • शस्य लक्षणमाह - - प्रकृतस्येति । प्रकृतस्य प्रस्तुतस्य श्रतिक्रान्तेन साधनं प्रदेशः । उदाहरणे यज्ञदत्तस्य शल्योद्धरणं प्रस्तुतं, तस्य श्रतिक्रान्तेन श्रतीतेन देवदत्तसम्बन्धि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1432

सुश्रुत संहिता चौखम्बा, पृष्ठ 1432 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२७४ Digitized by Ary, सुश्रुतसंहितायां hennai and eGangotri [ अ ० ६५ शल्यमुद्धृतं तथा यज्ञदत्तस्याप्यमुद्धरिष्यतीति ॥ १६ ॥

प्रकृतस्यानागतस्य साधनमतिदेशः । यथा - यतोऽस्य वायुरू-र्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति ॥ १७ ॥

अभिव्येाप्यापकर्षणमपवर्ग: । यथा - अवेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति ॥ १८ ॥

येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः । यथा-शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गर्ज्यंते पुरुषस्येति ॥ १ ९ ॥ यदकीर्त्तितमर्थादापद्यते साऽर्थापत्तिः, यथा श्रोदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति - नायं पिपासुर्यवागूमिति ॥ २० ॥

यद्यंत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः । यथा- कृशाल्पप्रा. भीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचि-कित्स्या इति ॥ २१ ॥

प्रकरणान्तरेण समापनं प्रसङ्गः । यद्वा, प्रकरणान्तरितो योऽ-र्थोऽसकृदुक्तः समाप्यते सप्रसङ्गः । यथा - महाभूतशरीरिसम वायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतचिन्तायां पुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरिसमवायः पुरुष इति, स खल्वेष कर्मपुरुषश्चिकित्साऽधिकृत इति ॥ २२ ॥

शल्योद्धरणकर्तृत्वेन साधनम् । १ अतिदेश लक्षणं प्रतिपादयति – प्रकृतस्येति । अनागतस्य = भविष्यतः । उदा द्दरणे वायोरूर्ध्वमुत्थानं प्रस्तुतं, तेन भविष्यदुदावर्तित्वं साध्यते । " इतरत्र विहितस्य विधेरितरत्र प्रयोगायोपदेशोऽतिदेशः । यथा - एष एव विधिः कार्यः शिशिरे समुदा-हृतः ” इति हाराणचन्द्र सम्मतः साधुः पाठः । २ श्रपवर्गलक्षणमाख्याति - अभिव्या-व्येति । श्रभिव्याप्य साकल्येन सम्बध्य अपकर्षणं पृथक्करणमपवर्गं इत्यर्थः । ३ वाक्यशेषलक्षणमाचष्टे - येनेति । ४ गम्यते = ज्ञायते । ५ श्रर्थापत्तिल. क्षणमाह- - यदिति । ६ पिपासुः = पातुमिच्छुरित्यर्थः । ७ विपर्ययलक्षणं दर्श. यति — यद्यन्नेति । प्रातिलोम्यं = विपरीतम् । ८ प्रसङ्गलक्षणमभिधत्ते - प्रकरणेति । प्रकरणान्तरेण = प्रकरणान्तरोक्तेनार्थेनेत्यर्थः । ९ असकृदुक्तः = पुनः पुनः प्रतिपा • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1433

सुश्रुत संहिता चौखम्बा, पृष्ठ 1433 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६५ ] Digitized by Arya S युप्त रस Chennai and eGangotri १२७५ सर्वत्र यदवधारणेनोच्यते स एकान्तः । यथा - त्रिवृद्विरेचयति, मदनफलं वामयति ॥ २३ ॥

क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः । यथा- - केचि-दाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्य्यं, केचिद्वि-पाकमिति ॥ २४ ॥

आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः । यथा - कथं वातनिमित्ताश्च-स्वारः प्रमेहा असाध्या भवन्तीति ॥ २५ ॥

तस्योत्तरं निर्णयः । यथा - शरीरं प्रपीड्य पश्चादधो गत्वा वसा-4 मेदोमज्जानुविद्धं मूत्रं विसृजति वातः, एवम साध्या वातजी इति ॥२६ ॥

तथा चोक्तम्-कृत्स्नं शरीरं निष्पीडय मेदोमज्जावसायुतः ।

अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः ॥ २७ ॥

परमतमप्रतिषिद्धमनुमतम् । यथाऽन्यो ब्रूयात् - सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते कथञ्चिदिति ॥ २८ ॥

प्रकरणानुपूर्व्याऽभिहितं विधानम् । यथा - सक्थिमर्माण्येका-दशप्रकरणानुपूर्व्याऽभिहितानि ॥ २ ९ ॥ एवं वक्ष्यतीत्यनागतावेक्षणम् । यथा श्लोकस्थाने ब्रूयात्- चि • कित्सतेषु वक्ष्यामीति ॥ ३० ॥

यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् । यथा चिकित्वतेषु दितः । २ श्रनैकान्तलक्षणमभिदधाति - क्वचिदिति । . तजाः प्रमेहा इत्यर्थः । १ एकान्तलक्षणं निर्दिशति - सर्वत्रेति । श्रवधारणेन - श्रविकल्पेन । ३ तस्य = पूर्वपक्षस्य । ४ वा. ५ अनुमतलक्षणमभिधत्ते - परमतमिति । श्रप्रतिषिद्धम् श्रनिराकृतम् । ६ अप्रतिषेधात् = अनिराकरणात् कथञ्चित् = केनापि प्रकारेण | ७ विधानल. क्षणं ब्रवीति — प्रकरणेति । प्रकरणानुपूर्व्याऽभिहितं 1 यथाक्रममुक्तम्, सक्थिम • -र्माणि = क्षिप्ततलहृदयादीनि । ८ अनागतावेक्षणलक्षणमाख्याति - एवमिति । अनागतस्य भविष्यतोऽवेक्षणं कार्यार्थमवलोकनम् । ९ श्रतिक्रान्तावेक्षणलक्षणं प्रति-पादयति — यत्पूर्वमिति । श्रतिक्रान्तस्य श्रतीतस्य कार्यार्थमवेक्षणमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1434

सुश्रुत संहिता चौखम्बा, पृष्ठ 1434 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२७६ Digitized by Arya सुश्रुत सहिताया and Gangotri [ अ ० ६५ ब्रूयात् - श्लोकस्थाने यदीरितमिति ॥ ३१ ॥

उभंयहेतुदर्शनं संशयः । यथा - तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनमप्राणहरमिति ॥ ३२ ॥

-तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् । यथा – इह् पञ्चविंशतिकः पुरुषो व्याख्यायते, अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ॥ ३३ ॥

अन्यँशास्त्रासामान्या स्वसंज्ञा । यथा - मिथुनमिति मधुसांपषो-ग्रहणम्, लोकप्रसिद्धमुदाहरणं वा ॥ ३४ ॥

निश्चितं वचनं निर्वचनम् । यथा - आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ॥ ३५ ॥

दृष्टान्त व्यक्तिर्निदर्शनम् । यथा - अग्निर्वायुना सहितः कक्षे वृद्धि-ङ्गच्छति तथा वातपित्तकफदुष्टो ब्रण इति ॥ ३६ ॥

इदमेव कर्त्तव्यमिति नियोगः । यथा- पथ्यमेव भोक्तव्यमिति ॥ ३७ ॥

इदञ्चेदञ्चेति समुच्चयः । यथा -- मांसवर्गे एहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति ॥ ३८ ॥

१ संशयलक्षणमाइ – उभयेति । उदाहरणे तलहृदयं पाणिपादाश्रितम्, अत्रा श्रयघातेन आश्रितोपघातात् पाणौ पादे वा छिन्ने सति तलहृदयस्याप्याहतत्वमिति प्राणहरणमप्राणहरणं वा भवत्विति संशयः । अत्र हारायचन्द्रसम्मतपाठः “ उभय-थादर्शनं संशयः । यथा - किं पित्तव्यतिरेकादन्योऽग्निराहोस्वित् पित्तमेवाग्निरिति ” । २ व्याख्यानस्य लक्षणमाख्याति - तन्त्र इति । श्रतिशयोपवर्णनम् = अधिका · र्थस्य कथनम्, इह = अस्मिन् तन्त्रे । पुरुषस्य पञ्चविंशतिकत्वं तु - - ' अष्टौ प्रकृतयः, षोडश विकाराः, पुरुषः पञ्चविंशतितम इति बोध्यम् । ३ एतेन भूतादिमहङ्कारमा • रभ्य चिन्ता, न त्वव्यक्तमारभ्येत्युन्नेयम् । ४ स्वसंज्ञाल क्षणमभिदधाति - अन्येति । अन्येषु शास्त्रेषु व्याकरणादिषु असा-मान्या असाधारणा । ५ मिथुनसंज्ञया मधुसर्पिषोर्ग्रहणं व्यवहारे न दृश्यत इत्य-रुच्या उदाहरणान्तरं दर्शयति - लोकेति । लोकप्रसिद्धमुदाहरणं वा स्वसंज्ञया ग्राह्यमित्यर्थः । यथा घृततैलवसामज्जसु चतुर्षु स्नेहेषु महास्नेहसंज्ञा । ६ निर्वच • नलक्षणमभिधत्ते — निश्चितमिति । निर्वचनं - निरुक्तिः । ७ निदर्शनलक्षणमाचष्टे – दृष्टान्तेति । दृष्टान्तेन व्यक्तिर्यस्मिन् वाक्ये तत्तथा । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1435

सुश्रुत संहिता चौखम्बा, पृष्ठ 1435 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri Sa उत्तरतन्त्रम् Ten १२७७

इदं वेदं वेति विकल्पः । यथा - रसौदनः सघृता यवागूर्वा ॥ ३ ९ ॥

यदनिर्दिष्टं बुद्धयाऽवगम्यते तदूह्यम् । यथा - अभिहितमन्नपान-विधौ चतुर्विधञ्चान्नमुपदिश्यते - भक्ष्यं भोज्यं लेां पेयमिति, एवञ्च -तुर्विधे वक्तव्ये द्विविधमभिहितम् । इदमत्रोद्यम् - अन्नपाने विशिष्टे यो-योर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति चतुविधचाहारः प्रविरलः, प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति ॥ किञ्चा-न्यत् - अन्नेन भक्ष्यमवरुद्ध, घनसाधर्म्यात्; पेयेन लेह्यं, द्रव-साधर्म्यात् ॥ ४० ॥

भवन्ति चात्र ।

सामान्यदर्शनेनासां व्यवस्था सम्प्रदर्शिता ।

विशेषस्तु यथायोगमुपधार्यो विपश्चिता ॥। ४१ ॥

द्वात्रिंशद्युक्तास्तन्सारगवेषणे ।

मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ॥ ४२ ॥

यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान् ।

स पूजार्हो भिषक् श्रेष्ठ इति धन्वन्तरेमे॑तम् ॥ ४३ ॥।

इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिनाम ( तृतीयोऽध्यायः, आदितः ) पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥

१ ऊरुक्षणं दर्श-२ विशिष्टयोः = श्रभ्यवहार्ययोरित्यर्थः । ' दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनम् ' इति पाठान्तरम् । यति - यदिति 1 । अनिर्दिष्टं = साक्षात् । ३ प्रधानेन व्यपदेशा भवन्तीति न्यायादिति भावः । रक इत्यर्थः । ४ प्रविरलः = काचि-५ अध्यायमुपसंहरति— सामान्येति । आस = तन्त्रयुक्तीनाम् । ६ विनि हिताः = वर्णिताः, ‘ शब्दार्थन्यायसंयुताः ' इत्यत्र ' शब्दन्यायार्थसंयुताः ' इति पाठे शब्दस्य न्यायसङ्गतोऽर्थः शब्दन्यायार्थ: तेन संयुताः शब्दन्यायार्थसंयुता इत्यर्थो बोध्यः ॥ इति सुश्रुतसंहिताया उत्तरतन्त्रान्तर्गततन्त्र युक्त्यध्याये सुधाऽख्यटिप्पन्यां पञ्चषष्टितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1436

सुश्रुत संहिता चौखम्बा, पृष्ठ 1436 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२७८ Digitized by Arya Sam सुश्रुतसंहिताय arand eGangotri षट्षष्टितमोऽध्यायः । [ अ ० ६६ अथातो दोषभेदविकल्पनामाध्यायं व्याख्यास्यामः ॥ १ । यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अष्टावेदविद्वांसं दिवोदासं महौजसम् ।

छिन्नशास्त्रार्थसन्देहं सूक्ष्मगाधागमोदधिम् ॥ ३ ॥

विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति ।

द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्त्तिताः ॥ ४ ॥

कैति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः ।

तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ॥ ५ ॥

प्रीतात्मा नृपशार्दूलः सुश्रुतायाह् तत्त्वतः ।

यो दोषा धातवश्च पुरीषं मूत्रमेव च ॥ ६ ॥

देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैहितैः ।

पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ॥ ७ ॥

षट्षष्टितमोऽध्यायः । १ तन्त्रयुक्त्यध्यायानन्तरं पारिशेष्याद् दोषभेदविकल्पाध्यायमधिकरोति -- अथात इति । दोषाणां वातादीनां पृथक् संसर्गसन्निपात भेदेन भेदः, तस्य विकल्पनमेकैकाद्य-नुगमनेन नानात्वकरणं दोषभेदविकल्पः, तमधिकृत्य कृतोऽध्यायस्तम् । २ सूक्ष्मा लीनार्थाः, श्रगाधा दुरवगाहा ये श्रागमाः, ते एव उदधयः । ते विद्यन्तेऽस्मिन् स तं सूक्ष्मागाधागमोदधिम् । ३ श्रीमान् = राज्यश्रीयुक्तः, ब्रह्मश्रींयुक्तो वाऽर्थः । ४ दोषभेदविषये सुश्रुतस्य प्रश्नं निर्दिशति - द्विषष्टिरिति । पुरस्तात् = रसभे • दविकल्पाध्याये | ५ “ एकशः षट् द्विशस्त्वेकविंशतिश्चतुरन्विता । त्रिशो द्वात्रिंशदि • त्येवं त्रयो दोषास्त्रिषष्टिधा ॥ ” इति । ६ दोषादीनां देहधारकत्व माख्याति -त्रय इति । त्रयो दोषाः = वातादित्रयः, धातवः = रसादयः सप्त । ७ श्रव्यापन्नाः = श्रविकृतिं गताः, रसैः = मधुरादिभिः, द्वितैः = पथ्यैः । ८ तन्त्रोक्तविषयमुपसंहरति — पुरुष इति । षोडशकलः । षोडशगुणः, गुणाः सर्वभूतचिन्ताशारीरोक्ताः । तद्यथा – “ सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेष-निमेषौ बुद्धिर्मनः सङ्कल्पो विचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च " इति । प्राणाः = श्रग्निः सोमो वायुः सत्त्वं रजस्तमः पन्चेन्द्रियाणि भूतात्मेत्येकादश । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1437

सुश्रुत संहिता चौखम्बा, पृष्ठ 1437 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

my त्तरतन्त्र nai अ ० ६६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri १२७ ९

रोगीणान्तु सहस्रं यच्छतं विंशतिरेव च ।

शतञ्च पञ्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम् ॥ ८ ॥

व्यासतः कीर्त्तितं तद्धि, भिन्नौ दोषास्त्रयो गुणाः ।

द्विषष्टिधा भवन्त्येते भूयिष्ठमिति निश्चयः ॥ ९ ॥

त्रय एव पृथक दोषा द्विशो नव समाधिकैः ।

त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः ॥ १० ॥।

१ रोगाणां विंशत्यधिकानि एकादशशतानीत्यर्थः । २ भेषजद्रव्याणां त्रिसप्तत्यधि कानि पञ्चशतानीत्यर्थः । ३ द्विषष्टिदोषभेदान्निरूपयति - भिन्ना इति I । भिन्नाः = भेदं गताः, = दोषास्त्रयः वातादयः, गुणाः = गुणमयाः, सत्त्वरजस्तमोमया इत्यर्थः । द्विषष्टिवा भवन्तीति सम्ब न्धः । ४ पृथगेव प्रवृद्धा दोषास्त्रयः । तथथा - प्रवृद्धो वातः स्वस्थौ पित्तश्लेष्माणौ २, प्रवृद्धं पित्तं स्वस्थ वातश्लेष्माणौ २, प्रवृद्धः श्लेष्मा स्वस्थ वातपित्ते ३; इति । द्विशो नव समाधिकैः - द्वाभ्यां द्वाभ्यां निष्पद्यन्ते इति द्विशः, प्रवृद्धदोषद्वितयाभि · निवृत्त नवभेदाः समाधिकैरेव भवन्ति, अर्थात् समवृद्धाभ्यां द्वाभ्यां द्वाभ्यां दोषाभ्यां त्रयो भेदाः, अन्यतराधिकवृद्धाभ्यां द्वाभ्यां द्वाभ्यां दोषाभ्यां षट्; इत्येवं प्रकारेण नव । तद्यथा - वातपित्ते समं वृद्धे स्वस्थः श्लेष्मा १, वातश्लेष्माणौ समं वृद्धौ स्वस्थं पित्तं २, पित्तश्लेष्माणौ समं वृद्धौ स्वस्थो वातः ३; इति त्रयः । अन्यतराधिकवृद्धाभ्यां षड् यथा - वातपित्तयोर्वद्धयोर्वातोऽधिकवृद्धः स्वस्थः इले-मा १, वातपित्तयोवृद्धयो: पित्तमधिकवृद्धं स्वस्थः श्लेष्मा २, वातश्लेष्मणोवृद्धयोर्वा-तोऽधिकवृद्धः स्वस्थं पित्तं ३, वातश्लेष्मणोर्वृद्धयोः इलेष्माऽधिकवृद्धः स्वस्थं पित्तं ४, पित्तश्लेष्मणोवृद्धयोः पित्तमधिकवृद्धं स्वस्थो वातः ५, पित्तश्लेष्मणोर्वृद्धयोः श्लेष्माऽ. धिकवृद्धः स्वस्थो वातः ६; इत्येवं षट् । ५ त्रिशस्तु त्रयोदश, अधिकवृद्धै कद्विसममध्योल्बणैर्भवन्तीति योजनीयम् 1 । अ. , दोषैः र्थाद् एकाधिकवृद्धैस्त्रिभिर्दोषैस्त्रयः, द्वयधिकवृद्धैस्त्रिभिर्दोषैस्त्रयः षट्, समवृद्धैस्त्रिभिर्दोषैरेकः । “ द्वथुल्बणै कोल्बणैः षट् स्युहीँनमध्याधिकैश्च षट् । समै-श्चैको विकारास्ते सन्निपातास्त्रयोदश ॥ ” इति चरकः । तत्रैकाधिकवृद्धेस्त्रिभिर्दोषैस्त्रयः-वातपित्तश्लेष्मणां वृद्धानां वातोऽधिकवृद्धः १, वातपित्तश्लेष्मणां वृद्धानां पित्तमधिकवृ. द्धम् २, वातपित्तश्लेष्मणां वृद्धानां श्लेष्माऽधिकवृद्धः ३; इत्येकाधिकवृद्वास्त्रयो दोषभेदाः । द्वथधिकवृद्धैस्त्रिभिर्दोषैम्नयो यथा - वातपित्तश्लेष्मणां वृद्धानां वातपित्ते अधिक-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1438

सुश्रुत संहिता चौखम्बा, पृष्ठ 1438 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८० Digitized by Arya SaसुतसंहितायांThai and eGangotri [ अ ० ६६ पञ्चाशदेवन्तु सह भवन्ति क्षयमागतैः । वृद्धे १, वातपित्तश्लेष्मणां वृद्धानां वातश्लेष्माणौ श्रधिकवृद्धौ २, वातपित्तश्ले-ष्मणां वृद्धानां पित्तश्लेष्माणावधिकवृद्धौ ३, इति द्विदोषाधिकवृद्धास्त्रयो दोषभेदाः । होनमध्याविकैश्च षड् यथा - हीनवृद्धो वातः, मध्यवृद्धं पित्तम्, अधिकवृद्धः श्लेष्मा १, मध्यवृद्धो वात:, होनवृद्धं पित्तम् 9 अधिकवृद्धः श्लेष्मा २, अधिकवृद्धो वातः, मध्यवृद्धं पित्तं, होनबृद्ध: श्लेष्मा ३, हीनवृद्धो वातः, अधिकवृद्धं पित्तं, मध्य-वृद्धः श्लेष्मा ४, अधिकवृद्धो वातः, हीनवृद्धं पित्तं, मध्यवृद्धः श्लेष्मा ५, मध्य-वृद्धो वातः, अधिकवृद्धं पित्तं, हीणवृद्धः श्लेष्मा ६, इति होनमध्याधिकैश्च दोषैः षट् । समं वृद्धा वातपित्तश्लेष्माण: १, इति सर्वदोषैः समवृद्धैरेकः । १ एवं पूर्वोक्तप्रकारेण क्षयमागतैः पञ्चविंशतिदोषभेदैः सह पञ्चाशद् भवन्ती-त्यर्थः । “ यथ । वृद्धैस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः " इति चरकः । तत्र क्षीर्णैस्त्रयो-भेदा यथा - क्षीणो वातः स्वस्थौ पित्तश्लेष्माणौ १, क्षीणं पित्तं स्वस्थौ वातश्लेष्मा -णौ २, क्षीणः श्लेष्मा स्वस्थे वातपित्ते ३, एवं पृथक् त्रय एव । क्षीणैः द्विशो नव समाधिकैर्यथा - वातपित्ते समं क्षीणे स्वस्थः श्लेष्मा १, वात-श्लेष्माणौ समं क्षीणौ स्वस्थं पित्तं २, पित्तश्लेष्मायौ समं क्षीणौ स्वस्थो वातः ३; इति । अधिकक्षीणाः षड् यथा – वातपित्तयोः क्षीणयोः वातोऽधिकक्षीणः स्वस्थः श्ले-ष्मा १, वातपित्तयोः क्षीणयोः पित्तमधिकक्षीणं स्वस्थः श्लेष्मा २, वातश्लेष्मणोः क्षीणयोर्वातोऽधिकक्षोगः स्वस्थं पित्तम् ३, वातश्लेष्मणोः क्षीणयोः श्लेष्माऽधिकक्षीणः स्वस्थं पित्तम् ४, पित्तश्लेष्मणोः क्षीणयोः पित्तमधिकक्षीणं स्वस्थो वातः ५, पित्त • श्लेष्मणोः क्षीणयोः श्लेष्माऽधिकक्षीणः स्वस्थो वातः ६; इति । श्रथ क्षीणदोषत्रयभेदास्त्रयोदश कथ्यन्ते । तत्र त्रिशस्त्वेकाधिकक्षीणैस्त्रयो यथा-वातपित्तश्लेष्मणां क्षीणानां वातोऽधिकक्षीणः १, वातपित्तश्लेष्मणां क्षीणानां पित्तमधिकक्षीणम् २, वातपित्तश्लेष्मणां क्षीणानां श्लेष्माऽधिकक्षीण: ३; इति । द्वय-धिकक्षीणैस्त्रयो यथा - वातपित्तश्लेष्मणां क्षीणानां वातपित्ते अधिकक्षीणे १, वातपित्त-श्लेष्मणां क्षीणानां वातश्लेष्माणावधिकक्षीणौ २, वातपित्तश्लेष्मयां क्षीणानां पित्तश्ले. माणावधिकक्षीणौ ३; इति । क्षीणैद्दीन मध्याधिकैश्च षड् यथा - हीनक्षीणो वातः, मध्यक्षीणं पित्तं, अधिक • क्षीणः श्लेष्मा १, मध्यक्षीणो बातः, हीनक्षीणं पित्तं, अधिकक्षाणः श्लेष्मा २, अधि • कक्षीणो वातः, मध्यक्षीयं पित्तं, हीनक्षीणः श्लेष्मा ३, हीनक्षीखोवातः, अधिकक्षीणं पित्तं मध्यक्षीणः श्लेष्मा ४, अधिकक्षीणो वातः, हीनक्षीणं पित्तं, मध्यक्षोणः श्लेष्मा ५, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1439

सुश्रुत संहिता चौखम्बा, पृष्ठ 1439 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

उत्तरतन्त्रम् ।

क्षीर्णमध्याधिक क्षीण क्षीणवृद्धैस्तथाऽपरैः ॥ ११ ॥

द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा ।

मिश्रा धातुमलैर्दोषा यान्त्यसंख्येयतां पुनः ॥ १२ ॥

तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः ।

रोगं विदित्वोपचरेद्रसभेदैर्यथेरितैः ॥ १३ ॥

भिषक् कर्त्ताऽथ करणं रसा दोषास्तु कारणम् ।

कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा ॥ १४ ॥

अध्यायानान्तु षट्षष्ट्या प्रथितार्थ पदक्रमम् ।

एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् ॥ १५ ॥

१२८१ मध्यक्षणो वातः, अधिकक्षीयं पित्तं, दीनक्षीणः श्लेष्मा ६; इति । समं क्षीणा वातपि तश्लेष्माणः १, इति सर्वदोषैः समक्षोणैरेकः । १ क्षीणमध्याधिकैः द्वितीयैकवृद्वैस्तथा अपरैः द्विवृद्धे कक्षीयैश्च द्वादश भेदा अवन्ति, एवं त्रयो दोषा द्विषष्टिघा समाख्याताः कथिता इत्यर्थः । अत्र मध्यशब्देन स्वस्थो बोध्यः, श्रधिकशब्देन च वृद्धः । तत्र क्षीणमध्याधिकभेदेन पड् यथा - क्षीणो वातः, स्वस्थं पित्तं, वृद्धः श्लेष्मा १, क्षीणो वातः, वृद्धं पित्तं, स्वस्थः श्लेष्मा २, स्वस्थो वातः, क्षीणं पित्तं, वृद्धः श्लेष्मा ३, वृद्धो वातः, क्षीणं पित्तं, स्वस्थः श्लेम्मा ४, स्वस्थो वातः, वृद्धं पित्तं क्षीण: श्लेष्मा ५, वृद्धो वातः, स्वस्थं पित्तं क्षीणः श्लेष्मा ६; इति । अथ द्विक्षीणैकवृद्धास्त्रयो यथा - वातपित्ते चीणे, वृद्ध: इलेष्मा १, वातश्लेष्माणौ क्षीणौ, पित्तं वृद्धम् २, पित्तश्लेष्मायौ क्षीणौ, वृद्धो वातः ३; इति । अथ द्विवृद्धैक · क्षीणास्त्रयो यथा - वातपित्ते वृद्धे क्षीणः श्लेष्मा १, वातश्लेष्माणौ वृद्धौ, क्षीणं पित्तं २, पित्तश्लेष्माणौ वृद्धौ क्षीणो बातः ३; इति । २ उक्तविषयमुपसंहरति - मिश्रा इति । धातुभिरसृगादिभिर्मलैश्च मिश्रा वाता-तयो दोषा असंख्येयतां यान्तीत्यर्थः । तत्र धातुमलमिश्रस्य वातस्य लक्षणं वातव्या-धिनिदाने द्रष्टव्यम् । पित्तश्लेष्मयोर्ग्रन्थान्तरेऽवलोकनीयम् । ३ तस्मात् = अपरि-संख्येयत्वात्, प्रसङ्गं = दोषधातुमल संसर्गप्रसक्तिम्, संयम्य = सङ्कुच्येत्यर्थः । ४ श्रवोऽन्यथा = तत्तद्दोषप्रसङ्गसंयमनमन्तरेण, अनारोग्यं = नैवारोग्यं सम्भवेदित्यर्थः । ५ एतत्तन्त्रप्रशंसामाह -- अध्यायानामिति । ग्रथिवोऽथंपदक्रमो यत्र तद् ग्रथि -तार्थंपदक्रमम् । ८१ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 1440

सुश्रुत संहिता चौखम्बा, पृष्ठ 1440 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" सुश्रुतसंहिता Digitized by Arya Samaj FoundationChennai and eGangotri [ अ ० ६६ १२८२

स्पष्ट गूढार्थविज्ञानमगाढ मन्दचेतसाम् ।

यथाविधि यथाप्रश्नं भवतां परिकीर्त्तितम् ॥ १६ ॥

सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन ।

न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्ममतीव सत्यम् ॥ १७ ॥

इति भगवता धन्वन्तरिणोपदिायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेद-विकल्पो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥

समाप्तश्चायं ग्रन्थः । // १ स्पष्टं गूढार्थविज्ञानं यत्र तत् स्पष्टगूढार्थविज्ञानम, एतदुत्तरं तन्त्रमित्यस्य त्रिशेषणम् । प्रगाढमन्दचेतसामिति भवतामित्यस्य विशेषणम् । प्रगाढा न सेविता मन्दचेतसो मूर्खा यैस्ते तेषाम्, पण्डितसेवित्वेन मनस्विनामित्यर्थः । २ एतत्त. न्त्राध्ययनफलमभिधत्ते- सहोत्तरमिति । ब्राह्मं ब्रह्मणा प्रोक्तमित्यर्थः ।

मर्गाद्वजो हेमनमिश्रनामा मान्यो वदान्यः प्रपितामहो मे ।

धनेश्वरस्तत्सुत आर्यवर्यैः स्तुत्योऽभवद्योगपथेन गच्छन् ॥ १ ॥

तदाद्यपुत्रः कपिलादिदेवो विद्वान् यशस्वी प्रथितो मनस्वी ।

तदङ्गजो s हं विवृति सुधा ss ख्यां समाचरं सुश्रुतसंहितायाम् ॥ २ ॥

क्वाहं मन्दमतिः क्वायमायुर्वेदसुधानिधिः ।

किन्तु सूर्यप्रसादेन पारितेयं सुधा मया ॥ ३ ॥

सप्ताङ्काङ्कशशाङ्केऽब्दे वैक्रमे विजयाभिधे ।

विजयादशमीं प्राप्य प्राकाश्यं समनीयत ॥ ४ ॥

इति पण्डितश्रीकपिलदेवमिश्रतनुजन्मना मिश्रोगहृश्री सुदामाशर्मणा निम्मितायां सुश्रुतसंहितायां सुधाऽऽख्य टिप्पन्यामुत्तरतन्त्रे षट्षष्टितमोऽध्यायः । प्राप्तिस्थानम् -जयकृष्णदास - हरिदास गुप्तः-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी । CC - 0. Gurukul Kangri Collection, Haridwar