सुश्रुत संहिता चौखम्बा — पृष्ठ 161–170
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 161–170
पृष्ठ 161
पाठ पढ़ें पाठ छिपाएँ
२ अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । भगवन्! ' शारीरमानसागन्तुव्याधिभिर्विविधवेदनाऽभिघातो-पद्रुतान् ` सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभि-समीक्ष्य मनसि नः पीडा भवति । तेषां सुखैषिणां रोगोपशमार्थमा-त्मनश्च प्राणयात्राऽर्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोप-दिश्यमानम् । अत्रायत्तमैहिकमामुष्मिकञ्च श्रेयः । तद्भगवन्तमुप-पन्नाः स्मः शिष्यत्वेनेति ॥ ४ ॥
8 तानुवाच भगवान् — स्वागतं वः; सर्व एवामीमांस्या " अध्या-प्याश्च भवन्तो वत्साः! ॥ ५ ॥
इह खल्वायुर्वेदो नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोक-शतसहस्रमध्यायसहस्रञ्च कृतवान् स्वयम्भूः । ततोऽल्पायुष्ट्र-मल्पमेधस्त्वञ्चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ॥ ६ ॥
६ तद्यथा— शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमार-( १ ) शारीराः = वातादिवैषम्यनिमित्ताः, मानसाः = रजस्तमः सम्भूताः कामादयः, आगन्तवः = व्याघ्रादिकृताः शस्त्रादिकृताश्च । विविधं दुःखमादधतीति व्याधयः । यद्वा, पुरुषस्य येषु यैः येभ्यो वा दुःखं जायते ते व्याधयः, “ उपसर्गे घोः किः ” इति किप्र-त्ययः । शारीरादिव्याधीनां विशेषव्याख्यानमग्रे स्वयमेव करिष्यति । ( २ ) सनाथानपि = मित्रादिसहितानपि । एतेन आयुर्वेदं विना मित्रादयोऽप्यन-र्थका इति निष्कर्षः । ( ३ ) प्राणयात्रार्थं = स्वास्थ्यरक्षणार्थम् । ( ४ ) “ कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः । अध्याप्या धर्मतः साधुशक्ताप्त-ज्ञानवित्तदाः ॥ ” इति याज्ञवल्क्यः । ( ५ ) अष्टाङ्गसङ्ग्रहे त्वष्टौ विभागा अग्निवेशादिभिः कृता उक्ताः – “ आयुर्वेदः इलोकलक्षेण पूर्वं ब्राह्मस्त्वासीदग्निवेशादयस्तु । कृच्छ्राज्ज्ञेयप्राप्तपाराः सुतन्त्रास्तस्यैकैकं नैकधाऽङ्गानि तेनुः ॥ ” इति । ( ६ ) शल्यं शल्याहर णप्रधानं शल्यतन्त्रमित्यर्थः । शल्यं न केवलं तृणकाष्ठादि, किन्तु— “ अतिप्रवृद्धं मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम् । यत्किञ्चिदाबाधकरं शरीरे तत्सर्वमेव प्रवदन्ति शल्यम् ॥ " इत्यपि बोध्यम् । शलाकायाः कर्म शालाक्यम्, तत्प्रधानं तन्त्रं शालाक्यतन्त्रमित्यर्थः । कायोऽग्निर्देहो वा तस्य चिकित्सा । तदुक्तम्-“ जाठरः प्राणिनामग्निः काय इत्यभिधीयते " । देवासुरगन्धर्वयक्षरक्षः पितृनागपिशाच-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 162
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-अ ० १ भृत्यम्, अगदतन्त्रं, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ॥ ७ ॥
अथास्य प्रत्यङ्गलक्षणसमासः - तत्र, शल्यं नाम विविधतृरण-काष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्राव दुष्टत्रणान्तर्गर्भशल्यो-द्धरणार्थं, यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थञ्च । शालाक्यं नामोर्ध्वजत्रगतानां तानां व्याधीनामुपशमनार्थम् । श्रवणनयनवदनघ्राणादिसंश्रि-कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्त-शोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् । भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युप-सृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् । कौमारभृत्यं नाम कुमारभरणधात्रीतीरदोषसंशोधनार्थं दुष्टस्त-न्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् । अगदतन्त्रं नाम सर्पकीटलूतामूषिकादिदष्टविषव्यञ्जनार्थं ' वि-विधविषसंयोगोपशमनार्थं च । रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधावलकर रोगापहरणस मर्थञ्च । ग्रहात्मकानि भूतानि वेत्ति अनयेति, भूतावेशनिराकरणार्थ विद्येति वा भूतविद्या । कु-माराणां भृतिर्धारणं पोषणं चेति कुमारभृतिः, कुमारभृतेरिदं कौमारभृत्यम् । दुष्टस्त-न्येन शारीराः, दुष्टग्रहेण चागन्तवो व्याधयो बोद्धव्याः । अगदो विषप्रतीकारः, तदर्थं त-न्त्रमगदतन्त्रम् । रसानां रसरक्तादीनामयनमाप्यायनम्, अथवा रसानां रसवीर्यविपाका-दीनामायुरादिकारणानामयनं विशिष्टलाभोपायः रसायनम्; तदर्थं तन्त्रं रसायनतन्त्रम् । स्त्रीषु विषये नरो वाजीव शक्तिं प्राप्नोतीति तद् वाजीकरणम्; वजनं वाजः शुक्रस्य वेगः, स विद्यते येषां ते वाजिनः, अवाजिन वाजिनः क्रियन्तेऽनेनेति वा वाजीकरणम्; तदर्थं तन्त्रं वाजीकरणतन्त्रम् । ( १ ) जत्रु = ग्रीवामूलम्, वक्षोंऽससन्धिरित्यन्ये । तस्योर्ध्वमूर्ध्वजत्रु, राजदन्तादिः । ( २ ) विविधानां विषाणां स्थावरजङ्गमात्मकानां संयोगः सङ्गमः । ' विविधविषसं-योगविषोपहतोपशमनार्थम् ' इति पाठे संयोगविषं समानमधुघृतादि । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 163
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । वाजीकरणतन्त्रं नामाल्पदुष्टक्षी विशुष्क क्षीणरेतसामाप्याय-नप्रसादोपचयजनननिमित्तं प्रहर्षे जननाथञ्च ॥ ८ ॥
एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्र कस्मै किमुच्यतामिति ॥९ ॥
त ऊचुः —– अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ॥ १० ॥
स उवाचैवमस्त्विति ॥ ११ ॥
त ऊचुर्भूयोऽपि भगवन्तम् - अस्माकमेकमतीनां मतमभिस-मीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति, अस्मै चोपदिश्यमानं वयमध्युप-धारयिष्यामः ॥ १२ ॥
स होवाचैवमस्त्विति ॥ १३ ॥
वत्स सुश्रुत! इह खल्वायुर्वेदप्रयोजन —– व्याध्युपसृष्टानां व्या-धिपरिमोक्षः स्वस्थस्य रक्षणञ्च ॥ १४ ॥
१ आयुरस्मिन् विद्यतेऽनेन वा आयुर्विन्दतीत्यायुर्वेदः ' ॥ १५ ॥
तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुप-धारय ॥ १६ ॥
एतद्ध्यङ्गं प्रथमम् । ’ प्रागभिघातव्रणसंरोहात् यज्ञशिरःसन्धा-नाच्च । श्रूयते हि, यथा— : - " ' रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवा अश्विनावभिगम्योचुः - भगवन्तौ! नः श्रेष्ठतमौ युवां भवि-ष्यथः, भवद्भयां यज्ञस्य शिरः सन्धातव्यमिति । तावूचतुरेवम-स्त्विति । अथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् । ताभ्यां यज्ञस्य शिरः संहितम् ” इति ॥ १७ ॥
अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आमाशुक्रि: याकरणात्, यन्त्रशंस्त्रक्षाराग्निप्रणिधानात्, सर्वतन्त्रसामान्याच्च ॥१८ ॥
( १ ) चरके स्पष्टमाह-- “ शरीरेन्द्रिय सत्त्वात्मसंयोगो धारिजीवितम् । नित्यगश्चा-नुबन्धश्च पर्यायैरायुरुच्यते ” । “ यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्य-तोऽप्यायुर्वेदः ” । ( २ ) शारीरव्याधीनां प्रागेव देवासुरसङ्ग्रामेऽसुरैः कृताऽभिघातव्रणोत्पत्तिस्तत्सं-रोहात्प्रतीकारादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 164
पाठ पढ़ें पाठ छिपाएँ
६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० १ तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरञ्चेति ' ॥१ ९ ॥ * ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे, तस्मादश्विनौ, अश्वि-भ्यामिन्द्रः, इन्द्रादहं, मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ॥२० ॥
भवति चात्र ।
अहं हि धन्वन्तरिरादिदेवो ३ जरारुजामृत्युहरोऽमराणाम् ।
शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि ' गां भूय इहोपदेष्टुम् ॥ २१ ॥
अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते । तस्मिन् ' क्रिया, सोऽधिष्ठानम् । कस्मात्? लोकस्य द्वैविध्यात् । लोको हि द्विविधः - स्थावरो जङ्गमश्च । द्विविधात्मक एवाग्नेयः I सौम्यश्च, तद्भूयस्त्वात्; ' पञ्चात्मको वा । तत्र चतुर्विधो ' भूतग्रामः; " संस्वे-दजरायुजाण्डजोद्भिज्जसंज्ञः । तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत् तस्मात् पुरुषोऽधिष्ठानम् ॥ २२ ॥ ।
तदुःखसंयोगा व्याधय उच्यन्ते ॥ २३ ॥
( १ ) अष्टाङ्गसङ्ग्रहे विशेष: - " क्वचिद्धर्मः क्वचिन्मित्रं क्वचिदर्थः कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला । " ये तु केवलं वृत्तिबुद्धया क्वचिद्यशः । त्सन्ति तेषां कृते निन्दामाह चरकः – “ कुर्वते ये तु वृत्त्यर्थं चिकित्सा चिकि-ते हित्वा काञ्चनं राशिं पांसुराशिमुपासते ॥ ” इति । पण्यविक्रयम् । ( २ ) गुरुपरम्परां दर्शयति — ब्रह्मेति । ( ३ ) आदिदेवः = विष्णोरशांशसम्भव इत्यर्थः । ( ४ ) गां = भूमिम्, ‘ गौ स्वर्गे च बलीवर्दे रश्मौ च कुलिशे यीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च ॥ ' इति मेदिनी । पुमान् । स्त्री सौरभे-( ५ ) क्रिया = भेषजशस्त्रक्षाराग्निनिर्वर्त्य स्वास्थ्यवृत्तिकरं च कर्म । ( ६ ) आग्नेयम् = अग्निभूताधिदैवतस्वभावम्, सौम्यं वम् · तदुक्तं मार्कण्डेयपुराणे – “ अग्नीषोममयं विश्वम् । " इति = । सोमभूताधिदैवतस्वभा-( ७ ) पञ्चात्मकः = पञ्चभूतात्मकः, यदुक्तम् — “ सर्वे खल्विदं पाञ्चभौतिकम् ( ८ ) भूतग्राम: - प्राणिसमूहः । ” । ( ९ ) मह्याः शरीरस्य च संस्वेदादूष्मणो जाताः संस्वेदजा:, जरायोर्गर्भाशयाज्जाताः जरायुजाः, ऋण्डं प्राण्याधारो वर्तुलं तस्माज्जाता अण्डजाः, भुवमुद्भिद्य जाता उद्भिज्जाः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 165
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
ते चतुर्विधाः – आगन्तवः, शारीराः, मानसाः, स्वाभावि-काश्चेति ॥ २४ ॥
तेषामागन्तवोऽभिघातनिमित्ताः । शारीरास्त्वन्नपानमूला वात-पित्तकफशोणितसन्निपातवैषम्यनिमित्ताः । मानसास्तु क्रोधशोकभ-यहर्षविषादेर्ष्याऽभ्यसूयादैन्यमात्सर्य्यकामलोभप्रभृतय इच्छाद्वेपभे-दैर्भवन्ति । स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृतयः ॥२५ ॥
त एते मनःशरीराधिष्ठानाः ॥ २६ ॥
तेषां ' संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहे-तवः ॥ २७ ॥
प्राणिनां पुनर्मूलमाहारो वलवर्णौजसाञ्च " स षट्सु रसेष्वा-यत्तः, रसाः पुनर्द्रव्याश्रयाः, द्रव्याणि पुनरोषधयः । तास्तु द्विविधाः-स्थावरा जङ्गमाश्च ॥ २८ ॥
तासां स्थावराश्चतुर्विधाः - वनस्पतयः, वृक्षा, वीरुध, ओषधय
इति । तासु, अपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः ।
प्रतानवत्यः स्तम्बिन्यश्च वीरुधः । फलपाकनिष्ठा ओषधय इति ॥ २ ९ ॥
जङ्गमाः खल्वपि चतुर्विधाः – जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगसर्पसरीसृपप्रभृतयोऽण्ड-जाः । कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः । ` इन्द्रगोपमण्डूकप्रभृ-तय उद्भिज्जाः ॥ ३० ॥
तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः ( १ ) बहिराश्र॑यत्वेन आभ्यन्तराश्रयत्वेन संशोधनं द्विविधम् । तत्र बहिराश्रयं-शस्त्रक्षाराग्निप्रलेपादयः । आभ्यन्तराश्रयं चतुर्विधम् - वमनं, विरेचनम्, आस्थापनं, शोणितमोक्षणं च । संशमनमपि द्विविधम्- बाह्यमाभ्यन्तरं च । पेयलेह्याद्यभक्ष्यभेदा-दाहारश्चतुर्विधः । पुनस्त्रिविधः – दोषप्रशमनः, व्याधिप्रशमनः, स्वस्थवृत्तिकरश्च । आ-चाराः - कायवाङमानसं कर्म । ( २ ) इन्द्रगोपः = ' वीरबहुटी ' इति ख्यातः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 166
पाठ पढ़ें पाठ छिपाएँ
८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० १ प्रयोजनवन्तः, जङ्गमेभ्यञ्चर्म्मनखरोमरुधिरादयः ॥ ३१ ॥
पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालाद्यः ॥ ३२ ॥
कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्ण वर्षा-होरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ॥ ३३ ॥
त एते स्वभावत एव दोषाणां ' सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ॥ ३४ ॥
भवन्ति चात्र श्लोकाः ।
शारीराणां विकाराणामेष वर्गश्चतुर्विधः ।
प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ॥ ३५ ॥
आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि ।
मनस्यन्ये शरीरेऽन्ये तेषान्तु द्विविधा क्रिया ॥ ३६ ॥
शरीरपतितानां तु शारीरवदुपक्रमः ।
मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ॥ ३७ ॥
एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समा-सेन व्याख्यातम् । तत्र पुरुषग्रहणात् तत्सम्भवद्रव्यसमूहो भू-तादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः । व्याधिग्रहणाद् वातपित्तकफशोणितसन्निपात वैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः औषधग्रहणाद् द्रव्यरसगुण-वीर्यविपाकानामादेशः । क्रियाग्रहणाच्छेद्यादीनि स्नेहादीनि च कर्मा-णि व्याख्यातानि । कालग्रहणात् सर्वक्रियाकालानामादेशः ॥ ३८ ॥
( १ ) आदिग्रहणाद् मधुगोरसादीनां परिग्रहः । यदुक्तं चरके— “ मूलत्वक्सार-निर्यासनालस्वरसपल्लवाः । क्षाराः क्षीरं फलं पुप्पं भस्म तैलानि कण्टकाः ॥ पत्रा-णि शुङ्गाः कन्दाश्च प्ररोहाश्चद्भिदो गणः । मधूनि गोरसाः पित्तं वसा मज्जासृगामि-षम् ॥ विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः । जङ्गमेभ्यः प्रयुज्यन्ते केशलोमानि रोचनाः ॥ ” इति । ( २ ) सञ्चय: = स्थानवृद्धिः, प्रकोपाः = प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदाः पञ्च ” प्रशमः = स्वयमुपशमः, प्रतीकारः = हेतुव्याधिविपरीतं कर्म । 1. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 167
पाठ पढ़ें पाठ छिपाएँ
१ अ ० २ ] । Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । भवति चात्र । I
बीजं चिकित्सितस्यैतत्समासेन प्रकीर्त्तितम् ।
सविंशमध्यायशतमस्य व्याख्या भविष्यति ॥ ३ ९ ॥
तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु सूत्रनिदानशारीरचिकि-त्सितकल्पेष्वर्थवशात् संविभज्य, उत्तरे तन्त्रे शेषानर्थान् व्याख्या-स्यामः ॥ ४० । भवति चात्र ।
' स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् ।
स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ॥ ४१ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ।
अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
' ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयः शीलशौर्य्यशौचाचा-रविनयशक्तिबलमेधा'धृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ता-( १ ) एतच्छास्त्राध्ययनप्रशंसामाह – स्वयम्भुवेति । ब्रह्मणोपदिष्टस्यै तच्छास्त्र-स्य परिशीलनात्पुरुषो भुवि भूमिपैः, स्वर्गे च देवैः पूजितो भवेदित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । द्वितीयोऽध्यायः । ( २ ) अथशब्दोऽत्र अध्यायानन्तर्यपरः, वेदोत्पत्त्यध्यायानन्तरमित्यर्थः । शिष्य-स्योपनयनं दीक्षा तदधिकृत्य कृतोऽध्यायः शिष्योपनयनीयस्तम् । प्रागुपनीता अपि ब्राह्मणादय आयुर्वेदाध्ययनारम्भे पुनरुपनेयाः । ( ३ ) उपनयनार्हशिष्यगुणसम्पदमभिदधाति ब्राह्मणेति । ( ४ ) मेधा = धारणावती बुद्धि:, धृतिः = नियमात्मिका बुद्धिः धैर्य वा, " धृतिर्हि CC - 0. Gurukul Kangri Collection, Haridwar र-T-न-न च
पृष्ठ 168
पाठ पढ़ें पाठ छिपाएँ
१० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० २ ग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहच भिषक् शिष्य-मुपनयेत् । अतो विपरीतगुणं नोपनयेत् ॥ ३ ॥
' उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु प्रश-स्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्र स्थण्डिलमुपलिप्य गो-मयेन दर्भैः संस्तीर्य्य, पुष्पैर्लाजभक्त रत्नैश्च देवताः पूजयित्वा वि-प्रान् भिषजश्च, तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयि-त्वाऽग्निमुपसमाधाय, खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां न्यग्रोधोदुम्बराश्वत्थमधूकानां दधिमधुघृताक्ताभि दहौमिकेन विधिना स्रुवेणाज्याहुतीर्जुहुयात् सप्रणवाभिर्महा-व्याहृतिभिः । ततः ` प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात्, शिष्यमपि कारयेत् ॥ ४ ॥
ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वय-स्य, वैश्यो वैश्यस्यैवेति । शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्जमनुप-नीतमध्यापयेदित्येके ॥ ५ ॥
ततोऽग्निं त्रिःपरिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् — ' कामक्रोध-लोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालग्यायशस्यानि हित्वा, ' नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्य्याभिवाद-नतत्परेणावश्यं भवितव्यम् । मदनुमतस्थानगमनशयनासनभोजना-ध्ययनपरेण भूत्वा, मत्प्रियहितेषु वर्तितव्यम् । अतोऽन्यथा ते वर्त्त-मानस्याधर्मो भवति, अफला च विद्या, न च प्राकाश्यं प्राप्नोति ॥६ ॥
नियमात्मिका ” इति चरकः । स्मृतिः = दृष्टश्रुतानुभूतस्मरणम्, तदुक्तं चरके— “ दृष्ट-श्रुतानुभूतानां स्मरणात्स्मृतिरुच्यते । ” इति । प्रतिपत्तिः - अर्थावबोधप्रागल्भ्यमनु-ठानं वा । ( १ ) उपनयनविधिं प्रतिपादयति — उपनयेति । ( २ ) प्रतिदैवतमृषींश्च = प्रतिदैवतं प्रतिऋषीनित्यर्थः । ( ३ ) श्रात्मविषये शिष्यप्रवृत्ति नियमयन् वक्ति - कामेति । ( ४ ) क्लृप्तत्वान्नीचं नखादि यस्य स नीचनखरोमा तेन । मनुः - “ क्लृप्त-केशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः " इति ।..: CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 169
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ११ ' अहं वा त्वयि सम्यग्वर्त्तमाने यद्यन्यथादर्शी स्याम्, ऐनो-भाग्भवेयम्, अफलविद्यश्च ॥ ७ ॥
* द्विजगुरुदरिद्रमित्रप्रत्रजितोपनतसाध्वनाथाभ्युपगतानां चात्म-बान्धवानामिव स्वभैषजैः प्रतिकर्त्तव्यमेवं साधु भवति । ' व्याधशा-कुनिकपतितपापकारिणां च न प्रतिकर्त्तव्यम् । एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ॥ ८ ॥
भवतश्चात्र ।
" कृष्णेऽष्टमी तन्निधनेऽहनी द्वे. शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् ।
कालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथा ॥ ९ ॥
श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु ।
नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् ॥१० ॥
इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनायो नाम द्वितीयोऽध्यायः ॥२ ॥
( १ ) शिष्यविषये आत्मप्रवृत्तिं नियमयन् ब्रवीति - अहमिति । ( २ ) उपचरणीयानाह - द्विजेति । ( ३ ) अभ्युपगतानाम् = दूरादायातानाम् । ( ४ ) अनुपचरणीयानाह - व्याधेति । व्याधादिष्वर्थलाभे सत्यपि न प्रतिकर्त-च्य मित्यर्थः । ( ५ ) अध्ययननिषिद्धकालमाख्याति - कृष्ण इति । तन्निधाने - कृष्णपक्षावसा-ने, अहनी द्वे = चतुर्दश्यमावास्ये, । स्तनयित्नुः = मेघः, स्तनयतीति विग्रहे ‘ स्तनगदी देवशब्दे ' इति धातोः “ स्तनिहृषि ” इत्यौणादिक इत्नुच् । स्वतन्त्रराष्ट्रक्षितिपव्यथासु = आत्मीयलोकदेशभूपतिपीढासु, अद्यतनं = वधस्थानम्, महोत्सवाः = शक्रोत्सवादयः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां द्वितीयोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 170
पाठ पढ़ें पाठ छिपाएँ
१२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -तृतीयोऽध्यायः । [ अ ० ३ ' अथातोऽध्ययनसम्प्रदानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु । तत्र सूत्रस्थान-मध्यायाः षट्चत्वारिंशत्, पोडशनिदानानि दश शारीराणि, च-त्वारिंशच्चिकित्सितानि, अष्टौ कल्पाः, तदुत्तरं षट्षष्टिः ॥ ३ ॥
ग्वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः ।
प्रभाषणाग्रहरणावृतुचर्य्याऽथ यान्त्रिकः ॥ ४ ॥
शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् ।
अग्निकर्मजलौकाऽऽख्यावध्यायौ रक्तवर्णनम् ॥ ५ ॥
दोषधातुमलाद्यानां विज्ञानाध्याय एव च ।
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ॥ ६ ॥
हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् ।
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ॥ ७ ॥
विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा ।
शल्योद्धृतिर्ब्रणज्ञानं दूतश्वननिदर्शनम् ॥ ८ ॥
पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा ।
वारणो युक्तसेनीय आतुरक्रमभूमिकौ ॥ ९ ॥
मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः ।
द्रव्यादीनाञ्च विज्ञानं विशेषो द्रव्यगोऽपरः ॥ १० ॥
रसज्ञानं वमनार्थमध्यायो रेचनाय च ।
द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा ॥ ११ ॥
तृतीयोऽध्यायः । ( १ ) अधीयत इत्यध्ययनं शास्त्रम्, सम्यक् प्रविभज्य दानं सम्प्रदानम्, तद-धिकृत्य कृतोऽध्यायोऽध्ययनसम्प्रदानीयस्तम् । ( २ ) सूत्रस्थानोक्तषट्चत्वारिंशदध्यायानां नामानि निर्दिशति - वेदोत्पत्तिरिति । CC - 0. Gurukul Kangri Collection, Haridwar