सुश्रुत संहिता चौखम्बा — पृष्ठ 161–170

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 161–170

पृष्ठ 161

सुश्रुत संहिता चौखम्बा, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । भगवन्! ' शारीरमानसागन्तुव्याधिभिर्विविधवेदनाऽभिघातो-पद्रुतान् ` सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभि-समीक्ष्य मनसि नः पीडा भवति । तेषां सुखैषिणां रोगोपशमार्थमा-त्मनश्च प्राणयात्राऽर्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोप-दिश्यमानम् । अत्रायत्तमैहिकमामुष्मिकञ्च श्रेयः । तद्भगवन्तमुप-पन्नाः स्मः शिष्यत्वेनेति ॥ ४ ॥

8 तानुवाच भगवान् — स्वागतं वः; सर्व एवामीमांस्या " अध्या-प्याश्च भवन्तो वत्साः! ॥ ५ ॥

इह खल्वायुर्वेदो नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोक-शतसहस्रमध्यायसहस्रञ्च कृतवान् स्वयम्भूः । ततोऽल्पायुष्ट्र-मल्पमेधस्त्वञ्चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ॥ ६ ॥

६ तद्यथा— शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमार-( १ ) शारीराः = वातादिवैषम्यनिमित्ताः, मानसाः = रजस्तमः सम्भूताः कामादयः, आगन्तवः = व्याघ्रादिकृताः शस्त्रादिकृताश्च । विविधं दुःखमादधतीति व्याधयः । यद्वा, पुरुषस्य येषु यैः येभ्यो वा दुःखं जायते ते व्याधयः, “ उपसर्गे घोः किः ” इति किप्र-त्ययः । शारीरादिव्याधीनां विशेषव्याख्यानमग्रे स्वयमेव करिष्यति । ( २ ) सनाथानपि = मित्रादिसहितानपि । एतेन आयुर्वेदं विना मित्रादयोऽप्यन-र्थका इति निष्कर्षः । ( ३ ) प्राणयात्रार्थं = स्वास्थ्यरक्षणार्थम् । ( ४ ) “ कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः । अध्याप्या धर्मतः साधुशक्ताप्त-ज्ञानवित्तदाः ॥ ” इति याज्ञवल्क्यः । ( ५ ) अष्टाङ्गसङ्ग्रहे त्वष्टौ विभागा अग्निवेशादिभिः कृता उक्ताः – “ आयुर्वेदः इलोकलक्षेण पूर्वं ब्राह्मस्त्वासीदग्निवेशादयस्तु । कृच्छ्राज्ज्ञेयप्राप्तपाराः सुतन्त्रास्तस्यैकैकं नैकधाऽङ्गानि तेनुः ॥ ” इति । ( ६ ) शल्यं शल्याहर णप्रधानं शल्यतन्त्रमित्यर्थः । शल्यं न केवलं तृणकाष्ठादि, किन्तु— “ अतिप्रवृद्धं मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम् । यत्किञ्चिदाबाधकरं शरीरे तत्सर्वमेव प्रवदन्ति शल्यम् ॥ " इत्यपि बोध्यम् । शलाकायाः कर्म शालाक्यम्, तत्प्रधानं तन्त्रं शालाक्यतन्त्रमित्यर्थः । कायोऽग्निर्देहो वा तस्य चिकित्सा । तदुक्तम्-“ जाठरः प्राणिनामग्निः काय इत्यभिधीयते " । देवासुरगन्धर्वयक्षरक्षः पितृनागपिशाच-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 162

सुश्रुत संहिता चौखम्बा, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-अ ० १ भृत्यम्, अगदतन्त्रं, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ॥ ७ ॥

अथास्य प्रत्यङ्गलक्षणसमासः - तत्र, शल्यं नाम विविधतृरण-काष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्राव दुष्टत्रणान्तर्गर्भशल्यो-द्धरणार्थं, यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थञ्च । शालाक्यं नामोर्ध्वजत्रगतानां तानां व्याधीनामुपशमनार्थम् । श्रवणनयनवदनघ्राणादिसंश्रि-कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्त-शोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् । भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युप-सृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् । कौमारभृत्यं नाम कुमारभरणधात्रीतीरदोषसंशोधनार्थं दुष्टस्त-न्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् । अगदतन्त्रं नाम सर्पकीटलूतामूषिकादिदष्टविषव्यञ्जनार्थं ' वि-विधविषसंयोगोपशमनार्थं च । रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधावलकर रोगापहरणस मर्थञ्च । ग्रहात्मकानि भूतानि वेत्ति अनयेति, भूतावेशनिराकरणार्थ विद्येति वा भूतविद्या । कु-माराणां भृतिर्धारणं पोषणं चेति कुमारभृतिः, कुमारभृतेरिदं कौमारभृत्यम् । दुष्टस्त-न्येन शारीराः, दुष्टग्रहेण चागन्तवो व्याधयो बोद्धव्याः । अगदो विषप्रतीकारः, तदर्थं त-न्त्रमगदतन्त्रम् । रसानां रसरक्तादीनामयनमाप्यायनम्, अथवा रसानां रसवीर्यविपाका-दीनामायुरादिकारणानामयनं विशिष्टलाभोपायः रसायनम्; तदर्थं तन्त्रं रसायनतन्त्रम् । स्त्रीषु विषये नरो वाजीव शक्तिं प्राप्नोतीति तद् वाजीकरणम्; वजनं वाजः शुक्रस्य वेगः, स विद्यते येषां ते वाजिनः, अवाजिन वाजिनः क्रियन्तेऽनेनेति वा वाजीकरणम्; तदर्थं तन्त्रं वाजीकरणतन्त्रम् । ( १ ) जत्रु = ग्रीवामूलम्, वक्षोंऽससन्धिरित्यन्ये । तस्योर्ध्वमूर्ध्वजत्रु, राजदन्तादिः । ( २ ) विविधानां विषाणां स्थावरजङ्गमात्मकानां संयोगः सङ्गमः । ' विविधविषसं-योगविषोपहतोपशमनार्थम् ' इति पाठे संयोगविषं समानमधुघृतादि । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 163

सुश्रुत संहिता चौखम्बा, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । वाजीकरणतन्त्रं नामाल्पदुष्टक्षी विशुष्क क्षीणरेतसामाप्याय-नप्रसादोपचयजनननिमित्तं प्रहर्षे जननाथञ्च ॥ ८ ॥

एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्र कस्मै किमुच्यतामिति ॥९ ॥

त ऊचुः —– अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ॥ १० ॥

स उवाचैवमस्त्विति ॥ ११ ॥

त ऊचुर्भूयोऽपि भगवन्तम् - अस्माकमेकमतीनां मतमभिस-मीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति, अस्मै चोपदिश्यमानं वयमध्युप-धारयिष्यामः ॥ १२ ॥

स होवाचैवमस्त्विति ॥ १३ ॥

वत्स सुश्रुत! इह खल्वायुर्वेदप्रयोजन —– व्याध्युपसृष्टानां व्या-धिपरिमोक्षः स्वस्थस्य रक्षणञ्च ॥ १४ ॥

१ आयुरस्मिन् विद्यतेऽनेन वा आयुर्विन्दतीत्यायुर्वेदः ' ॥ १५ ॥

तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुप-धारय ॥ १६ ॥

एतद्ध्यङ्गं प्रथमम् । ’ प्रागभिघातव्रणसंरोहात् यज्ञशिरःसन्धा-नाच्च । श्रूयते हि, यथा— : - " ' रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवा अश्विनावभिगम्योचुः - भगवन्तौ! नः श्रेष्ठतमौ युवां भवि-ष्यथः, भवद्भयां यज्ञस्य शिरः सन्धातव्यमिति । तावूचतुरेवम-स्त्विति । अथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् । ताभ्यां यज्ञस्य शिरः संहितम् ” इति ॥ १७ ॥

अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आमाशुक्रि: याकरणात्, यन्त्रशंस्त्रक्षाराग्निप्रणिधानात्, सर्वतन्त्रसामान्याच्च ॥१८ ॥

( १ ) चरके स्पष्टमाह-- “ शरीरेन्द्रिय सत्त्वात्मसंयोगो धारिजीवितम् । नित्यगश्चा-नुबन्धश्च पर्यायैरायुरुच्यते ” । “ यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्य-तोऽप्यायुर्वेदः ” । ( २ ) शारीरव्याधीनां प्रागेव देवासुरसङ्ग्रामेऽसुरैः कृताऽभिघातव्रणोत्पत्तिस्तत्सं-रोहात्प्रतीकारादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 164

सुश्रुत संहिता चौखम्बा, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० १ तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरञ्चेति ' ॥१ ९ ॥ * ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे, तस्मादश्विनौ, अश्वि-भ्यामिन्द्रः, इन्द्रादहं, मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ॥२० ॥

भवति चात्र ।

अहं हि धन्वन्तरिरादिदेवो ३ जरारुजामृत्युहरोऽमराणाम् ।

शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि ' गां भूय इहोपदेष्टुम् ॥ २१ ॥

अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते । तस्मिन् ' क्रिया, सोऽधिष्ठानम् । कस्मात्? लोकस्य द्वैविध्यात् । लोको हि द्विविधः - स्थावरो जङ्गमश्च । द्विविधात्मक एवाग्नेयः I सौम्यश्च, तद्भूयस्त्वात्; ' पञ्चात्मको वा । तत्र चतुर्विधो ' भूतग्रामः; " संस्वे-दजरायुजाण्डजोद्भिज्जसंज्ञः । तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत् तस्मात् पुरुषोऽधिष्ठानम् ॥ २२ ॥ ।

तदुःखसंयोगा व्याधय उच्यन्ते ॥ २३ ॥

( १ ) अष्टाङ्गसङ्ग्रहे विशेष: - " क्वचिद्धर्मः क्वचिन्मित्रं क्वचिदर्थः कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला । " ये तु केवलं वृत्तिबुद्धया क्वचिद्यशः । त्सन्ति तेषां कृते निन्दामाह चरकः – “ कुर्वते ये तु वृत्त्यर्थं चिकित्सा चिकि-ते हित्वा काञ्चनं राशिं पांसुराशिमुपासते ॥ ” इति । पण्यविक्रयम् । ( २ ) गुरुपरम्परां दर्शयति — ब्रह्मेति । ( ३ ) आदिदेवः = विष्णोरशांशसम्भव इत्यर्थः । ( ४ ) गां = भूमिम्, ‘ गौ स्वर्गे च बलीवर्दे रश्मौ च कुलिशे यीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च ॥ ' इति मेदिनी । पुमान् । स्त्री सौरभे-( ५ ) क्रिया = भेषजशस्त्रक्षाराग्निनिर्वर्त्य स्वास्थ्यवृत्तिकरं च कर्म । ( ६ ) आग्नेयम् = अग्निभूताधिदैवतस्वभावम्, सौम्यं वम् · तदुक्तं मार्कण्डेयपुराणे – “ अग्नीषोममयं विश्वम् । " इति = । सोमभूताधिदैवतस्वभा-( ७ ) पञ्चात्मकः = पञ्चभूतात्मकः, यदुक्तम् — “ सर्वे खल्विदं पाञ्चभौतिकम् ( ८ ) भूतग्राम: - प्राणिसमूहः । ” । ( ९ ) मह्याः शरीरस्य च संस्वेदादूष्मणो जाताः संस्वेदजा:, जरायोर्गर्भाशयाज्जाताः जरायुजाः, ऋण्डं प्राण्याधारो वर्तुलं तस्माज्जाता अण्डजाः, भुवमुद्भिद्य जाता उद्भिज्जाः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 165

सुश्रुत संहिता चौखम्बा, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

ते चतुर्विधाः – आगन्तवः, शारीराः, मानसाः, स्वाभावि-काश्चेति ॥ २४ ॥

तेषामागन्तवोऽभिघातनिमित्ताः । शारीरास्त्वन्नपानमूला वात-पित्तकफशोणितसन्निपातवैषम्यनिमित्ताः । मानसास्तु क्रोधशोकभ-यहर्षविषादेर्ष्याऽभ्यसूयादैन्यमात्सर्य्यकामलोभप्रभृतय इच्छाद्वेपभे-दैर्भवन्ति । स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृतयः ॥२५ ॥

त एते मनःशरीराधिष्ठानाः ॥ २६ ॥

तेषां ' संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहे-तवः ॥ २७ ॥

प्राणिनां पुनर्मूलमाहारो वलवर्णौजसाञ्च " स षट्सु रसेष्वा-यत्तः, रसाः पुनर्द्रव्याश्रयाः, द्रव्याणि पुनरोषधयः । तास्तु द्विविधाः-स्थावरा जङ्गमाश्च ॥ २८ ॥

तासां स्थावराश्चतुर्विधाः - वनस्पतयः, वृक्षा, वीरुध, ओषधय

इति । तासु, अपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः ।

प्रतानवत्यः स्तम्बिन्यश्च वीरुधः । फलपाकनिष्ठा ओषधय इति ॥ २ ९ ॥

जङ्गमाः खल्वपि चतुर्विधाः – जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगसर्पसरीसृपप्रभृतयोऽण्ड-जाः । कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः । ` इन्द्रगोपमण्डूकप्रभृ-तय उद्भिज्जाः ॥ ३० ॥

तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः ( १ ) बहिराश्र॑यत्वेन आभ्यन्तराश्रयत्वेन संशोधनं द्विविधम् । तत्र बहिराश्रयं-शस्त्रक्षाराग्निप्रलेपादयः । आभ्यन्तराश्रयं चतुर्विधम् - वमनं, विरेचनम्, आस्थापनं, शोणितमोक्षणं च । संशमनमपि द्विविधम्- बाह्यमाभ्यन्तरं च । पेयलेह्याद्यभक्ष्यभेदा-दाहारश्चतुर्विधः । पुनस्त्रिविधः – दोषप्रशमनः, व्याधिप्रशमनः, स्वस्थवृत्तिकरश्च । आ-चाराः - कायवाङमानसं कर्म । ( २ ) इन्द्रगोपः = ' वीरबहुटी ' इति ख्यातः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 166

सुश्रुत संहिता चौखम्बा, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० १ प्रयोजनवन्तः, जङ्गमेभ्यञ्चर्म्मनखरोमरुधिरादयः ॥ ३१ ॥

पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालाद्यः ॥ ३२ ॥

कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्ण वर्षा-होरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ॥ ३३ ॥

त एते स्वभावत एव दोषाणां ' सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ॥ ३४ ॥

भवन्ति चात्र श्लोकाः ।

शारीराणां विकाराणामेष वर्गश्चतुर्विधः ।

प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ॥ ३५ ॥

आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि ।

मनस्यन्ये शरीरेऽन्ये तेषान्तु द्विविधा क्रिया ॥ ३६ ॥

शरीरपतितानां तु शारीरवदुपक्रमः ।

मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ॥ ३७ ॥

एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समा-सेन व्याख्यातम् । तत्र पुरुषग्रहणात् तत्सम्भवद्रव्यसमूहो भू-तादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः । व्याधिग्रहणाद् वातपित्तकफशोणितसन्निपात वैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः औषधग्रहणाद् द्रव्यरसगुण-वीर्यविपाकानामादेशः । क्रियाग्रहणाच्छेद्यादीनि स्नेहादीनि च कर्मा-णि व्याख्यातानि । कालग्रहणात् सर्वक्रियाकालानामादेशः ॥ ३८ ॥

( १ ) आदिग्रहणाद् मधुगोरसादीनां परिग्रहः । यदुक्तं चरके— “ मूलत्वक्सार-निर्यासनालस्वरसपल्लवाः । क्षाराः क्षीरं फलं पुप्पं भस्म तैलानि कण्टकाः ॥ पत्रा-णि शुङ्गाः कन्दाश्च प्ररोहाश्चद्भिदो गणः । मधूनि गोरसाः पित्तं वसा मज्जासृगामि-षम् ॥ विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः । जङ्गमेभ्यः प्रयुज्यन्ते केशलोमानि रोचनाः ॥ ” इति । ( २ ) सञ्चय: = स्थानवृद्धिः, प्रकोपाः = प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदाः पञ्च ” प्रशमः = स्वयमुपशमः, प्रतीकारः = हेतुव्याधिविपरीतं कर्म । 1. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 167

सुश्रुत संहिता चौखम्बा, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ अ ० २ ] । Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । भवति चात्र । I

बीजं चिकित्सितस्यैतत्समासेन प्रकीर्त्तितम् ।

सविंशमध्यायशतमस्य व्याख्या भविष्यति ॥ ३ ९ ॥

तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु सूत्रनिदानशारीरचिकि-त्सितकल्पेष्वर्थवशात् संविभज्य, उत्तरे तन्त्रे शेषानर्थान् व्याख्या-स्यामः ॥ ४० । भवति चात्र ।

' स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् ।

स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ॥ ४१ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः ।

अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

' ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयः शीलशौर्य्यशौचाचा-रविनयशक्तिबलमेधा'धृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ता-( १ ) एतच्छास्त्राध्ययनप्रशंसामाह – स्वयम्भुवेति । ब्रह्मणोपदिष्टस्यै तच्छास्त्र-स्य परिशीलनात्पुरुषो भुवि भूमिपैः, स्वर्गे च देवैः पूजितो भवेदित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । द्वितीयोऽध्यायः । ( २ ) अथशब्दोऽत्र अध्यायानन्तर्यपरः, वेदोत्पत्त्यध्यायानन्तरमित्यर्थः । शिष्य-स्योपनयनं दीक्षा तदधिकृत्य कृतोऽध्यायः शिष्योपनयनीयस्तम् । प्रागुपनीता अपि ब्राह्मणादय आयुर्वेदाध्ययनारम्भे पुनरुपनेयाः । ( ३ ) उपनयनार्हशिष्यगुणसम्पदमभिदधाति ब्राह्मणेति । ( ४ ) मेधा = धारणावती बुद्धि:, धृतिः = नियमात्मिका बुद्धिः धैर्य वा, " धृतिर्हि CC - 0. Gurukul Kangri Collection, Haridwar र-T-न-न च

पृष्ठ 168

सुश्रुत संहिता चौखम्बा, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० २ ग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहच भिषक् शिष्य-मुपनयेत् । अतो विपरीतगुणं नोपनयेत् ॥ ३ ॥

' उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु प्रश-स्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्र स्थण्डिलमुपलिप्य गो-मयेन दर्भैः संस्तीर्य्य, पुष्पैर्लाजभक्त रत्नैश्च देवताः पूजयित्वा वि-प्रान् भिषजश्च, तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयि-त्वाऽग्निमुपसमाधाय, खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां न्यग्रोधोदुम्बराश्वत्थमधूकानां दधिमधुघृताक्ताभि दहौमिकेन विधिना स्रुवेणाज्याहुतीर्जुहुयात् सप्रणवाभिर्महा-व्याहृतिभिः । ततः ` प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात्, शिष्यमपि कारयेत् ॥ ४ ॥

ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वय-स्य, वैश्यो वैश्यस्यैवेति । शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्जमनुप-नीतमध्यापयेदित्येके ॥ ५ ॥

ततोऽग्निं त्रिःपरिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् — ' कामक्रोध-लोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालग्यायशस्यानि हित्वा, ' नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्य्याभिवाद-नतत्परेणावश्यं भवितव्यम् । मदनुमतस्थानगमनशयनासनभोजना-ध्ययनपरेण भूत्वा, मत्प्रियहितेषु वर्तितव्यम् । अतोऽन्यथा ते वर्त्त-मानस्याधर्मो भवति, अफला च विद्या, न च प्राकाश्यं प्राप्नोति ॥६ ॥

नियमात्मिका ” इति चरकः । स्मृतिः = दृष्टश्रुतानुभूतस्मरणम्, तदुक्तं चरके— “ दृष्ट-श्रुतानुभूतानां स्मरणात्स्मृतिरुच्यते । ” इति । प्रतिपत्तिः - अर्थावबोधप्रागल्भ्यमनु-ठानं वा । ( १ ) उपनयनविधिं प्रतिपादयति — उपनयेति । ( २ ) प्रतिदैवतमृषींश्च = प्रतिदैवतं प्रतिऋषीनित्यर्थः । ( ३ ) श्रात्मविषये शिष्यप्रवृत्ति नियमयन् वक्ति - कामेति । ( ४ ) क्लृप्तत्वान्नीचं नखादि यस्य स नीचनखरोमा तेन । मनुः - “ क्लृप्त-केशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः " इति ।..: CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 169

सुश्रुत संहिता चौखम्बा, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ११ ' अहं वा त्वयि सम्यग्वर्त्तमाने यद्यन्यथादर्शी स्याम्, ऐनो-भाग्भवेयम्, अफलविद्यश्च ॥ ७ ॥

* द्विजगुरुदरिद्रमित्रप्रत्रजितोपनतसाध्वनाथाभ्युपगतानां चात्म-बान्धवानामिव स्वभैषजैः प्रतिकर्त्तव्यमेवं साधु भवति । ' व्याधशा-कुनिकपतितपापकारिणां च न प्रतिकर्त्तव्यम् । एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ॥ ८ ॥

भवतश्चात्र ।

" कृष्णेऽष्टमी तन्निधनेऽहनी द्वे. शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् ।

कालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथा ॥ ९ ॥

श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु ।

नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् ॥१० ॥

इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनायो नाम द्वितीयोऽध्यायः ॥२ ॥

( १ ) शिष्यविषये आत्मप्रवृत्तिं नियमयन् ब्रवीति - अहमिति । ( २ ) उपचरणीयानाह - द्विजेति । ( ३ ) अभ्युपगतानाम् = दूरादायातानाम् । ( ४ ) अनुपचरणीयानाह - व्याधेति । व्याधादिष्वर्थलाभे सत्यपि न प्रतिकर्त-च्य मित्यर्थः । ( ५ ) अध्ययननिषिद्धकालमाख्याति - कृष्ण इति । तन्निधाने - कृष्णपक्षावसा-ने, अहनी द्वे = चतुर्दश्यमावास्ये, । स्तनयित्नुः = मेघः, स्तनयतीति विग्रहे ‘ स्तनगदी देवशब्दे ' इति धातोः “ स्तनिहृषि ” इत्यौणादिक इत्नुच् । स्वतन्त्रराष्ट्रक्षितिपव्यथासु = आत्मीयलोकदेशभूपतिपीढासु, अद्यतनं = वधस्थानम्, महोत्सवाः = शक्रोत्सवादयः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां द्वितीयोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 170

सुश्रुत संहिता चौखम्बा, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -तृतीयोऽध्यायः । [ अ ० ३ ' अथातोऽध्ययनसम्प्रदानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु । तत्र सूत्रस्थान-मध्यायाः षट्चत्वारिंशत्, पोडशनिदानानि दश शारीराणि, च-त्वारिंशच्चिकित्सितानि, अष्टौ कल्पाः, तदुत्तरं षट्षष्टिः ॥ ३ ॥

ग्वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः ।

प्रभाषणाग्रहरणावृतुचर्य्याऽथ यान्त्रिकः ॥ ४ ॥

शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् ।

अग्निकर्मजलौकाऽऽख्यावध्यायौ रक्तवर्णनम् ॥ ५ ॥

दोषधातुमलाद्यानां विज्ञानाध्याय एव च ।

कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ॥ ६ ॥

हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् ।

कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ॥ ७ ॥

विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा ।

शल्योद्धृतिर्ब्रणज्ञानं दूतश्वननिदर्शनम् ॥ ८ ॥

पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा ।

वारणो युक्तसेनीय आतुरक्रमभूमिकौ ॥ ९ ॥

मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः ।

द्रव्यादीनाञ्च विज्ञानं विशेषो द्रव्यगोऽपरः ॥ १० ॥

रसज्ञानं वमनार्थमध्यायो रेचनाय च ।

द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा ॥ ११ ॥

तृतीयोऽध्यायः । ( १ ) अधीयत इत्यध्ययनं शास्त्रम्, सम्यक् प्रविभज्य दानं सम्प्रदानम्, तद-धिकृत्य कृतोऽध्यायोऽध्ययनसम्प्रदानीयस्तम् । ( २ ) सूत्रस्थानोक्तषट्चत्वारिंशदध्यायानां नामानि निर्दिशति - वेदोत्पत्तिरिति । CC - 0. Gurukul Kangri Collection, Haridwar