सुश्रुत संहिता चौखम्बा — पृष्ठ 291–300
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 291–300
पृष्ठ 291
पाठ पढ़ें पाठ छिपाएँ
श्र ० २५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १३३
पञ्चविंशतितमोऽध्यायः ।
अथातोऽष्टविधर्शस्त्रकर्मीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः ।
व्रणवमर्वदान्यर्श धर्म कीलोऽस्थिमांसगम् ॥ ३ ॥
शल्यं जंतुमणिर्मांससङ्घातो गलशुण्डिका ।
स्नायुमांससिराकोथो वल्मीकं शतपोर्नकः ॥ ४ ॥
अपश्चोपदेशाश्च मांसकन्द्यधिमांसकः ।
भेद्या विद्रधयोऽन्यत्र सर्वजाद् ग्रन्थयस्त्रयः ॥ ५ ॥
आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः ।
प्रमेह पिडकाशोफस्तनरोगावमन्थकाः ॥ ६ ॥
कुम्भीकानुशयीनाड्यो वृन्दौ पुष्करिकाऽलजी ।
प्रायशः क्षुद्ररोगाश्च पुष्पुटौ तालुदन्तजौ ॥ ७ ॥
तुण्डिकेरी " गिलायुश्च पूर्वं ये च प्रपाकिणः ।
बस्तिस्तथाऽश्मरीहेतोर्भेदोजा ये च केचन ॥ ८ ॥
लेख्याश्चतस्रो " रोहिण्यः किलासमुपजिह्निका ।
मेदोजो दन्तवैदर्भी ग्रन्थिर्वत्माधिजिह्निका १२ ॥ ९ ॥
पञ्चविंशतितमोऽध्यायः । १ कर्मणि साधवः कर्मण्याः, अष्टविधशस्त्रकर्मान् व्याधीनधिकृत्य कृतोऽध्यायोऽ-ष्टविधशस्त्रकर्मण्यस्तम् । २ तिलकालकः - क्षुद्ररोगपठितः । ३ चर्मकीलः = गुद-पार्श्ववत्तीं मांसाङ्कुरोऽशभेदः । ४ जतुमणिः - क्षुद्ररोगविशेषः । ५ कोथः = पूती -भावः । ६ शतपोनकः = मेढसमन्तादणुमुखच्छिद्रव्याप्तो वातशोणितजः शूकरोग-विशेषः । ७ अश्रुषः = तालुगतमुखरोगः । ८ वृन्दौ = एकवृन्दो वृन्दश्च, कण्ठगतरोगौ । ९ पुप्पुटौ = तालुपुप्पुटो दन्तपुष्पुटश्च । १० गिलायुः = एतन्नामा गलरोगः । ११ च-तस्रः = वातपित्तश्लेष्मसन्निपातोत्थाः वातपित्तकफशोणितजा वा, रोहिण्यः = गलरोगाः; “ पित्तवत्साधयेद् वैद्यो रोहिणीं रक्तसम्भवाम् ” इति स्मरणाद् रक्तजायाः रोहिण्या एका-न्तासाध्यत्वेन वर्त्म = व्रण-व्याचिख्यासिताया अपीह परिगणनं नानुपपन्नम् । १२ वर्त्यं नैत्रवर्त्म च । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 292
पाठ पढ़ें पाठ छिपाएँ
१३४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० २५
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा ।
वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् ॥ १० ॥
एष्यौ नाड्यः सशल्याश्च व्रणा उन्मार्गिणञ्च ये ।
आहार्य्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ॥ ११ ॥
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे ।
त्रांव्या विद्रधयः पञ्च भवेयुः सर्वजादृते ॥ १२ ॥
कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः ।
पाल्यामयाः श्लीपदानि विषजुष्टञ्च शोणितम् ॥। १३ ॥
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितस्तु ये ।
त्र्यस्त्र्यश्चोपदंशाः स्तनरोगा विर्दारिका ॥ १४ ॥
सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः ।
दन्तवेष्टः सोपकुशः “ शीतादो दन्तपुष्पुटः ॥ १५ ॥
पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्ररोगाश्च भूयशः ।
सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः ॥ १६ ॥
सद्योव्रणाश्च ' ये चैव चलसन्धिव्यपाश्रिताः ।
र्न े क्षाराग्निविषैर्जुष्टा न च " मारुतवाहिनः ॥ १७ ॥
नान्तर्लोहितशल्याश्च १४ तेषु सम्यग्विशोधनम् । १ मण्डलं = दद्रुपुण्डरीकादीनां मण्डलमित्यर्थः । २ मांसोन्नतिः = व्रणेषु दुष्टमां-साभिवृद्धिः । ३ एष्याः = लोहादिशलाकयाऽन्तरन्वेषणीयाः । ४ उन्मार्गिणः = ऊर्ध्वाधस्तिर्यग्गतिमन्तः । ५ मूत्रशर्करा, पादशर्करा, दन्तशर्करा चेति तिस्रः शर्करा आहार्यां आकर्षणीया इत्यर्थः । ६ वर्चः - विष्ठा, ' वर्चो नपुंसके रूपे तेजसि ' इति मेदिनी । ७ स्राव्याः = चूषणेन निर्हरणीयाः । विष्ठायामपि क्षुद्ररोगमुखरोगोक्तयोर्द्वयोरेव विदारिकयोः परिग्रहः; समक्रियत्वादाकृतिसाम्याद्वा ८ विदारिकाशब्देनेह । ९ सुषिरः = दन्तमूलगतरोगः । १० शोतादः = दन्तवेष्टगतरोगः । ११ त्तथाविधा मांसादिसमुत्था श्रपि सीव्याः । श्रष्टाङ्गहृदये विशेष: - “ सद्यः चकारा-सीव्येद् विवृत्तानभिघातजान् । मेदोजान् विवृतान् ग्रन्थीन् ह्रस्वाः पालिश्च सद्योव्रणान् शिरोऽक्षिकूटनासौष्ठगण्डकर्णोरुबाहुषु । ग्रीवाललाटमुष्कस्फिङ मेढपायूदरादिषु कर्णयोः ॥ रेषु प्रदेशेषु मांसलेष्वचलेषु च । ” इति । १२ अवस्थाविशेषण पूर्वोक्तानां ॥ गम्भी-षेधयति - नेत्यादिना । १३ फुप्फुसादिगता मारुतवाहिन. इत्यर्थः । १४. सेवनं अन्तर्दुष्टशो- प्रति-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 293
पाठ पढ़ें पाठ छिपाएँ
अ ० २५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
' पांशुरोमनखादीनि चलमस्थि भवेच्च यत् ॥ १८ ॥
हृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम् । १३५ रुजश्च विविधाः कुर्य्यस्तस्मादेतान् विशोधयेत् ॥ १ ९ ॥
ततो ब्ररणं समुन्नम्य स्थापयित्वा यथास्थितम् ।
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा ॥ २० ॥
शराज क्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः ।
मूर्वागुडूचीतानैर्वा सीच्येद्वेल्लितकं शनैः ॥ २१ ॥
सीव्येोणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम् ।
ऋजुर्ग्रन्थिमथो वाऽपि यथायोगमथापि वा ॥ २२ ॥
देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङ्गुलद्वयम् ।
आयता त्र्यङ्गुला " त्र्यस्त्रा मांसले वाऽपि पूजिता ॥ २३ ॥
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि ।
इत्येतास्त्रिविधाः सूचीस्तीक्ष्णायाः सुसमाहिताः ॥ २४ ॥
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः । णितशरादिशल्या इत्यर्थः 1 १ निर्हरणीयानुपदिशति - पांश्विति । तस्मादे-तान् शल्यविशेषान् निर्हृत्य विशोधयेदाश्वेवेति भावः । ३ समुन्नम्य = = किञ्चिदुन्नतं कृत्वा, स्थापयित्वा = श्रेष्ठे नौष्ठं संयुज्येत्यर्थः । ४ अश्मन्तकस्य = अम्लोटकस-दृशवृक्षस्य । ५ तानैः = तन्तुभिः । ६ वेल्लितकं = कुटिलं तिर्यक् प्रणिहितया सूच्या सूत्रेणैकेनावेष्टथ सम्पादि-तम् । उक्तं च — ‘ “ अल्पान्तरन्तु कुटिलं सीव्यते बहुवेष्टनम् । यत्तद् वेल्लितकं नाम शाखाऽऽदौ = गोफणाकारा शलाकोपहिता युज्यते बुधैः ॥ ” इति । ७ गोफणिका सेवनी । उक्तञ्च— “ पाटितं योनिगुदयोरन्तरं वा तथाविधम् । देशं स्यूत्वा यथायोगं पुनस्तच्छेदशङ्कया ॥ नास्तिस्थूले नातिसूक्ष्मे शलाके द्वे निपात्य च । तदासक्तेन सूत्रेण संवेष्टय सेवनी कृता । नाम्ना गोफणिका प्रोक्ता दुष्करा मन्दबुद्धिभिः ॥ ” इति । ८ तुन्नसेवनी = यथा पाटितं वस्त्रं तन्तुवायकाः सन्दधति तद्वत्सेवनी । तथा च— “ पृथक् पृथक् तु सञ्च्छिन्नं सव्न्नसेवनी । या योज्या पक्ष्मकोपादौ ” इति । ९ ऋजुग्रन्थिः = प्रायेणौष्ठसन्धानार्थं यत्र सेवन्यां सृक्कतः सुक्कपर्यन्तम् ऋजुसूचीं निपात्य तदप्रमूलासक्तेन सूत्रेणाकृष्य सन्धेयभागं संयुज्य ग्रन्धिः क्रियते सा । उक्तं च— “ पाश्र्वात्पाश्र्वान्तरं यावदृजुसूचीं निपात्य च । संवेष्टयाकृष्य सूत्रेण ग्रन्थिर्यः सन्धिहेतवे । क्रियते १० व्यस्रा = त्रिधा-स ऋजुग्रन्थिरोष्ठादिषु विधीयते ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 294
पाठ पढ़ें पाठ छिपाएँ
१३६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० २५ नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् ॥ २५ ॥
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुश्च॑नम् ॥ २६ ॥
अर्थं क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसौरयेत् ।
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णैः समन्ततः ॥ २७ ॥
• शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुनः ।
ततो व्रणं यथायोगं बद्ध्वाऽऽचौरिकमादिशेत् ॥ २८ ॥।
एतदष्टविधं कर्म समासेन प्रकीर्तितम् ।
चिकित्सितेषु कात्स्नर्येन विस्तरस्तस्य वक्ष्यते ॥ २ ९ ॥
हीनतिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः ।
एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः ॥ ३० ॥
अज्ञानलोभ । हितर्वाक्ययोगभयप्रमो हैरपरैश्च भावैः । यदा प्रयुञ्जीत भिषक् कुस्त्रं तदा स शेषान् कुरुते विकारान् तं " क्षारशस्त्राग्निभिरौषधैश्च भूयोऽभियुञ्जानमयुक्तियुक्तम् ॥३१ ॥
जिजीविषुर्दूरत एव वैद्यं विवर्जयेदुग्रविषाहितुल्यम् ॥ । तदेव ' युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि ३२ ॥
मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा " कथञ्चित् चैव ।
भ्रमः " प्रलापः पतनं प्रमोहो विचेष्टनं १४ संलयनोष्णते च ॥ । ३३ ॥
१३ स्रस्ताङ्गता मूर्च्छनमूर्ध्व १५ वातस्तीत्रा रुजो वातकृताश्च तास्ताः॥३४ ॥
रेत्यर्थः । १ अवलुञ्चनं = त्रुटनमित्यर्थः । | २ अथ = सीवनानन्तरम् । ३ प्रति-सारयेत् = अवचूर्णयेत् । ४ क्षौमध्यामेन = अतसीभववस्त्रभस्मना र्णेन वा । ५ व्रणितोपासनीयोक्तमाचारं कथयेदित्यर्थः, अतसीबीजचू-६ अष्टविधशस्त्रकर्मणां व्यापदं । दर्शयति – अज्ञानेति कथयति - हीनेत्यादिना । ७ व्यापदो हेतून् I ८ शत्रुवाक्यमित्यर्थः । ९ ईषदर्थोऽयं कुशब्दः णम्; शस्त्रमीषन्मात्रं प्रयुञ्जीतेत्यर्थः । १० तं = क्रियाविशेष-रिक्तशस्त्रव्यापदं दर्शयति- तदेवेति । १२ वियुब्ज्यात् तथाविधं भिषक्छद्मचरम् । ११ अति-येत् । १३ मर्मसन्धिसिरास्नाय्वस्थिपञ्चसु छिन्नेषु यानि = प्राणैः सह वियोगं कार-न्येन दर्शयति - भ्रम इत्यादिना । १४ सुषुप्तावस्थस्येव लिङ्गानि भवन्ति तानि सामा-नम् ' इति पाठे रहसि भाषणमित्यर्थो बोध्यः । १५ ऊर्ध्ववातशब्देनात्र चित्तस्याकर्मण्यता । ' संलप-श्वासोऽभिप्रेतो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 295
पाठ पढ़ें पाठ छिपाएँ
अ ० २५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् T १३७ । मांसोदकाभं रुधिरञ्च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव मर्मसु लिङ्गमुक्तम् ॥ ३५ ॥
दशार्द्धसङ्ख्येष्वपि हि क्षतेषु सामान्यतो वायुः । सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च करोति रोगान् विविधान् यथोक्तांरिछन्नासु भिन्नास्वथवा रुजश्च सिरासु । || ३६ || कौब्ज्य ' शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला ॥ ३७ ॥
चिराद् व्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् । शोफातिवृद्धिस्तुमुला रुजश्च बलक्षयः पर्वसु भेदशोफौ || क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् । ॥ ३८ घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति ॥३ ९ ॥ तृष्णाऽङ्गसादौ श्वयथुश्च रुक्षः तमस्थिविद्धं मनुजं व्यवस्येत्
यथास्वमेतानि विभावयेयलिङ्गानि मर्मस्वभिताडितेषु ।
स्पर्शं न जानाति विपाण्डुवण यो मांसमर्मण्यभिताडितः स्यात् ॥४० ॥
" आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन् ।
तमात्मवानात्मनं कुवैद्यं विवर्जयेदायुरभीप्समानः ॥। ४१ ॥
तिर्यक्प्ररिहिते शस्त्रे दोषाः " पूर्वमुदाहृताः । II. तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ॥ ४२ ॥
मातरं पितरं पुत्रान् बान्धवानपि चातुरः ।
अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ॥ ४३ ॥
" विसृजत्यात्मनाऽऽत्मानं न चैनं परिशङ्कते । न तु रोगविशेषः । 1 १ दशार्धसंख्येषु = पञ्चसंख्येषु मर्मादिष्वित्यर्थः । २ श्रमर्मविद्धसिराऽऽदिलिङ्गमाह – सुरेन्द्रेति । सुरेन्द्रगोपप्रतिमम् = इन्द्रगोप-कीटसन्निभम् । ३ कौब्ज्यं = यत्राङ्गे स्नायुवेधस्तस्य वक्रता । ४ क्रियासु = उत्क्षेप-णावक्षेपणप्रसारणाकुञ्चनलक्षणासु । ५ व्यवस्येत् = जानीयात् । ६ पर्वसु = सन्धिषु । ७ वक्ष्यति— “ शाखासु हन्वोः कट्यां च चेष्टावन्तश्च सन्धयः । शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिराबुधैः ॥ ” इति । ८ सन्धिकर्मणां यथाक्रममुन्नमनविनमनादीनां चालनापवर्तनादीनां चोपरतिर्विरतिः । ९ अनुक्तस्य मांसमर्मणो विद्धलक्षणमाह - स्पर्शमिति । १० आत्मानमेव = स्वाङ्गमेव । ११ पूर्वम् = अग्रोपहरणीयाध्याये । १२ विसृजति = स्वदेहमर्पयति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 296
पाठ पढ़ें पाठ छिपाएँ
१३८७ Digitized by Arya Samaj Foundat ' ' सुश्रुतसंहिताया and eGangotri [ अ ० २६ तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ॥ ४४ ॥
धर्मार्थौ कीर्तिमत्यर्थं सतां ग्रहणमुत्तमम् ।
प्राप्नुयात् स्वर्गवासञ्च हितमारभ्य कर्मणा ॥ ४५ ॥
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा ।
विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ॥ ४३ ॥
इति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्रकर्मण्यो नाम पञ्चविंशोऽध्यायः ॥२५ ॥
षड्विंशतितमोऽध्यायः ।
अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
' शल ' ' श्वल ' आशुगमने धातुः । तस्य शल्यमिति रूपम् ॥ ३ ॥
तद्द्द्विविधं - शारीरमागन्तुकञ्च ॥ ४ ॥
सर्वशरीराबाधकरं शल्यं, तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् तत्र शारीरं रोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः ॥५ ॥
न्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावौ दुःखमुत्पादयन्ति । आग-अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु तत्रापि विशे- ॥६ ॥
षतो लोहमयेष्वेव, विशंसनार्थोपपन्नत्वाल्लोहस्य, लोहानामपि दुर्वा --१ साध्यव्याधेरप्यनैककर्मसाध्यत्वमभिधत्ते – कर्मणेति । कर्मणा -दिकेन वा कर्मणेत्यर्थः । छेद्यादिकेन स्नेहा-इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां पञ्चविंशतितमोऽध्य षड्विंशतितमोऽध्यायः । ' ऽध्यायः । २ शरीरान्तःप्रविष्टत्वेन द्रष्टुमयोग्यानां शल्यानामुपस्थितिविज्ञानमधिकृत्य कृतोऽ-ध्यायः प्रनष्टशल्यविज्ञानीयस्तम् । तीति शल्यम् । ‘ शलेर्यत् ' इत्यौणादिको यत्प्रत्ययः नुप्रवेशि सत् सर्वशरीरं बाधते तच्छल्यमित्यर्थः ॥ लोष्टप्रभृतिपदार्थाः । ६ शल्येषु शरस्य प्राधान्यं दर्शयति - अधिकारइति । ३ शलत्याशु गच्छति वेगेनान्तःशरोरमनुप्रविश-४ यत्किञ्चिद् वस्तुजातमाश्व-५ भावाः = तृणकाष्ठपाषाण लोह-७ वि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 297
पाठ पढ़ें पाठ छिपाएँ
w अ ० २६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १३ ९ स द्विवि-रत्वदणुमुखत्वाद् दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः । प्रकरणाँ । ऋक्ष्णश्च प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो ॥ ७ ॥
व्याख्याता व्यालमृगपक्षिवक्त्रसदृशाश्च सर्वशल्यानान्तु महतामणूनां वा पञ्चविधो गतिविशेष ऊर्ध्व-मधोर्वाचीनस्तिर्य्यगृजुरिति ॥ ८ ॥
तौनि वेगक्षयात् प्रतिघाताद्वा त्वगादिषु ब्रणवस्तुष्ववतिष्ठन्ते ।
॥४ धमनीस्रोतोऽस्थिवि रपेशीप्रभृतिषु वा शरीरप्रदेशेषु ॥ ९ ॥
तत्रं शल्यलक्षणमुच्यमानमुपधारय । तत्तु द्विविधं — सामान्यं वैशेषिकञ्च । श्यावं पिडकाऽऽचितं शोफवेदनावन्तं मुहुर्मुहुः शोणि-स्राविणं बुद्बुदवदुन्नतं मृदुमांसञ्च व्रणं जानीयात् सशल्योऽय-मिति । सामान्यमेतल्लक्षणमुक्तम् । वैशेषिकन्तु - त्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च । मांसगते शोफाभिवृद्धिः शल्य मार्गानु-पसंरोहः पीडनासहिष्णुता चोषपाकौ च । पेश्यन्तरस्थे ऽप्येतदेव चोषशोफवर्जम् । सिरागते सिराऽऽध्मानं सिराशूलं सिराशोफश्च । स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोमा रुक् च । स्रोतोगते स्रोतसां स्वकर्मगुणहानिः । धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गमर्दः पिपासा हृल्लासश्च । अस्थिगते विवि-धवेदनाप्रादुर्भावः शोफश्च । अस्थिविवरगतेऽस्थिपूर्णताऽस्थि-तोदः संहर्षो वलवांश्च । सन्धिगतेऽस्थिवच्चेष्टो परमश्च ' कोष्ठगत - शसनार्थोपपन्नत्वात् = हिंसाऽर्थोपयोगित्वादित्यर्थः । १ दुर्वारत्वात् = अप्रतिबन्धेना-श्वन्तःशरीरप्रवेशित्वात् । २ दूरप्रयोजनकरत्वात् दूरादपि हिंसाकार्य सम्पादकत्वात् । ३ कर्णी = कर्णयुक्तः, वढिशवत्कण्टकाचितमुख इति यावत् । श्लक्ष्णः = अकर्णः । ४ श्रधस्तादागतस्य शरस्योर्ध्वगतिविशेषः । उपरिष्टादागतस्य शरस्याधोगतिविशेषः । पश्चादागतस्य शरस्यार्वाचीनगतिविशेषः । पार्श्वाभ्यामागतस्य शरस्य तिर्यग्गतिविशेषः, श्रग्रदेशादागतस्य शरस्य ऋजुगतिविशेषः । ५ शल्यानि शरीरे कथं स्थितिं कुर्वन्तीति प्रतिपादयति - तानीति । ६ विवरशब्दस्य धमन्यादिभिस्त्रिभिः सम्बन्धः । पेशी = मां-सखण्डः । ७ त्वगादिगतशल्यानां लक्षणान्याचष्टे – तत्रेति । ८ स्नायुजालोत्क्षेपणं = स्नायुसमूहोन्नमनमित्यर्थः । ९ संरम्भः = श्वयथुः । १० हृल्लासः = हृदयोत्क्लेदः; अस-• कृत्ष्ठीवनमिति चे-यावत् । ११ संहर्षः = मारुतोपद्रवो रोमाञ्चप्रायो वेदनाविशेषः । १२ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 298
पाठ पढ़ें पाठ छिपाएँ
१४ by Arya Samaj, Foursसहित tai an ai and eGangotri [ अ ० २६ आटोपानाही मूत्रपुरीषाहारदर्शनञ्च व्रणमुखात् । मर्मंगते मर्मविद्वेव-श्चेष्टते । सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति || १० || महान्त्यल्पानि वा शुद्धदेहानामनुलोमसैन्निविष्ठानि रोह-न्ति । विशेषतः कण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषु । दोषप्रकोप-व्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्वार्धन्ते ॥ ११ ॥
तत्र, त्वक्प्रनष्टे स्निग्धविन्नायां मृन्मापयवगोधूमगोमयमृदि तायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानी-यात् । स्त्यानघृतमृच्चन्दनकल्कैर्वा प्रदिग्धायां शल्योष्मणाऽऽशु विर्सरति घृतमुपशुष्यति वा लेपो यत्र तत्र शल्यं विजानीयात् । मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत् । कर्शितस्य तु शिथिलीभूतमनवबद्धं " क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात् । कोष्ठास्थिसन्धिपेशीविवरेष्वव-स्थितमेवमेव परीक्षेत | सिराधमनीस्रोतः स्नायुप्रनष्टे " खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु " विषमेऽध्वनि यायाद् यत्र संरम्भो वेदना वा भवति तत्र शल्यं जानीयात् । अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्य-स्थीनि बन्धनपीडनाभ्यां भृशमुपाचरेद्यत्र संरम्भो वेदना वा भवति तत्र शल्यं जानीयात् । अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि नपीडनाभ्यां भृशमुपाचरेद्यत्र संरम्भो वेदना बन्ध-विजानीयात् । सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् वा भवति तत्र शल्यं प्रसरणाकुञ्च-ष्टोपरमः = प्रसारणाकुञ्चनादीनांविरतिः । १ आनाहः = वातमूत्रमलाद्यवरोधः । २ अस्य सामान्यलक्षणं सङ्ग्रहे- “ देहप्रसुप्तिर्गुरुता सम्मोहः वमिः श्वासो मर्मंविद्धस्य लक्षणम् ॥ ” इति । शीतकामिता । स्वेदो मूर्च्छा भवन्तीत्याह – महान्तीति । ४ अनुलोमसन्निविष्टानि ३ किं सर्वाण्येव शल्यान्येवमावाधकराणि त्वेन स्वल्पाबाधं सन्निविष्टानि । ५ अतोऽवश्यं तान्यप्याहरणार्थं = सिराऽऽदेर्नातितरामुपघाति-६ त्वगादिप्रविष्टशल्यानां विज्ञानोपायं विज्ञानीयानीति भावः । दर्शयति - तत्रेति । ७ संरम्भः = रागशोथाभि-सम्भवः । ८ विसरति = द्रवीभावाद् विसर्पति । ९ वमनविरेचनादि विशेषैरित्यर्थः । १० क्षुभ्यमाणम् = श्राकुञ्चनप्रसारणयानारोहणव्यायामप्रतरणमर्दना- संशोधनात्मक क्रिया-दिक्रियाविशेषैःः स्पन्द्यमानम् । ११ खण्डचक्रसंयुक्ते = भग्नचक्रसमन्विते याने रथे ।१२ वि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 299
पाठ पढ़ें पाठ छिपाएँ
६ अ ० २६ ] २ || Digitized by Arya Samaj Foundation Chennai and eGangotri " सूत्रस्थानम् १४१ , यत्र संरम्भो वेदना वा भवति तत्र नबन्धनपीडनैर्भृशमुपाचरेत् मूल्यं विजानीयात् । मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति ॥ १२ ॥
सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वतद्रुमा रोहणधनु-यामद्रुतयाननियुद्धाध्वगमनलङ्घनप्र तर प्लवनव्यायामैर्जुम्भोद्गा-रकासक्षवथुष्ठीवनहसनप्राणायामैर्वातमूत्रपुरीपशुक्रो सँगैर्वा यत्र सं-रम्भो वेदना वा भवति तत्र शल्यं जानीयात् ॥ १३ ॥
भवन्ति चात्र ।
यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च ।
बहुशो यत्र यते तुद्यतेऽपि च ॥ १४ ॥
आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति ।
संवार्ह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् ॥ १५ ॥
अल्पाबाधम शूनञ्च नीरुजं निरुपद्रवम् ।
प्रसन्नं मृदुपर्य्यन्तं निराघट्टमनुन्नतम् ॥ १६ ॥
या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः ।
प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् ॥ १७ ॥
अस्थ्यात्मकं " भज्यते तु शल्यमन्तश्च " शीर्य्यते ।
प्रायो " निर्भुज्यते शार्ङ्गमायसञ्चेति निश्चयः ॥ १८ ॥
षमेऽध्वनि = निम्नोन्नतमार्गे । १ धनुराकर्षणजनितश्रमो धनुर्व्यायामः । २ नियु-द्धं = बाहुयुद्धम् । ‘ नियुद्धं बाहुयुद्धे स्यात् ' इत्यमरः । ३ प्लवनम् = उत्पतनम् । ४ उत्सर्गशब्दस्य वातादिचतुर्भिः सह सम्बन्धः । ५ घट्टते = चालयति । ' घट्टिते ' इति पाठे चालिते सतीत्यर्थो बोध्यः । ६ संवाह्यमान = स्थानात्स्थानान्तरं नीयमानः, मृद्यमानोवा । ७ निःशल्यस्य लक्षणं दर्शयति - अल्पाबाधमि-ति । श्रल्पाबाधम् = अल्पदुःखमित्यर्थः । ८ नीरुजं - निर्गतशूलादिवेदनमित्यर्थः । ९ एषण्या - एतन्नामिकया लोहशलाकया । १० आहरणोपयोगिन्यन्तःशल्यावस्थां निर्दिशति - अस्थ्यात्मकमिति । अस्थीन्येवात्मा स्वरूपं यस्य तत् । भज्यते = खण्डशः स्फुट्यते । ११ शीर्यते ॥. १२ निर्भुज्यते = कुटलीभवति । - कणशः स्फुट्यते CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 300
पाठ पढ़ें पाठ छिपाएँ
१४२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-वार्त्तवैवतानि निर्ह्रियन्ते तु नो यदि । [ अ ० २७ पचन्ति रक्तं मांसञ्च क्षिप्रमेतानि देहिनाम् ॥ १ ९ ॥
कार्नकं राजतं ताम्रं रैतिकं त्रपुसीसकम् ।
. चिरस्थानाद्विलीयन्ते पित्ततेजः प्रतापनात् ॥ २० ॥
स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः ।
द्रवीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुभिः ॥ २१ ॥।
विषौणदन्तकेशास्थिवेणुदारूपलानि तु ।
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ॥। २२ ॥
द्विविधं पञ्चगतिमत्त्वगादित्ररणवस्तुषु ।
विश्लैिष्ठं वेत्ति यः शल्यं स राज्ञः कर्तुमर्हति ॥ २३ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्य विज्ञानीयो नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥
सप्तविंशतितमोऽध्यायः ।
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
शल्यं द्विविधम् - अवबद्धमनवबद्धञ्च ॥ ३ ॥
१ वार्त्तादिशल्यान्यनिर्हृतानि रक्तं मांसं च पचन्तीति कथयति - वाक्षैति । २ सौवर्णादीनि शल्यान्यनिर्हृतानि कालान्तराद् विलीयन्त इति प्रतिपादयति– कानकमिति । ३ शृङ्गादीनि शल्यानि शरीरे न विशीर्यन्त इति वक्ति - विषाणेति । ४ वैद्यस्तुतिमाह — द्विविधमिति । द्विविधं कर्णी श्लक्ष्णश्चेति त्यर्थः । पञ्चगतिमत् = ऊर्ध्वाधोऽर्वाचीन तिर्य्यगृजुगतिकम् । ५ विश्लिष्टं द्विप्रकारमि- = विविध-प्रकारेण स्थितम् । ६ कर्तुं = प्रतिकर्तुम्, चिकित्सितुमिति इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां षट्विंशतितमोऽध्यायः यावत् ॥ सप्तविंशतितमोऽध्यायः । ७ प्रनष्टशल्यानि विज्ञाय कथमपनेयानीति शल्यापनयनीयं नामाध्यायमधिक--रोति । शल्यानामपनयनं निर्हरणप्रकारमधिकृत्य कृतोऽध्यायः शल्यापनयनीयस्तम् ८ विशेषेणास क्तमववद्धम् । शिथिलरूपेणावस्थितमनवबद्धम् । अवबद्धमस्थ्यादा- । CC - 0. Gurukul Kangri Collection, Haridwar