सुश्रुत संहिता चौखम्बा — पृष्ठ 301–310
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 301–310
पृष्ठ 301
पाठ पढ़ें पाठ छिपाएँ
७ अ ० २७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् १४३ तत्रं समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून वक्ष्यामः । तद्यथा— स्वभावः, पाचनं, भेदनं, दारणं, पीडनं, प्रमार्जनं, निर्मा-पन, वमनं, विरेचनं, प्रक्षालनं, प्रतिमर्शः, प्रवाहणम्, आचूपणम्, ॥ अयस्कान्तः, हर्षश्चेति ॥ ४ तत्र, अश्रुक्षवथूद्वारकासमूत्रपुरीषानिलैः स्वभाववलप्रवृतैर्नयना- प्रको-दिभ्यः पतति । मांसावगाढं शल्यमविदह्यमानं पाचयित्वा पात तस्य पूयशोणितवेगाद् गौरवाद् वा पतति । पक्कमभिद्यमानं भेदयेद्दारयेद् वा । भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणि-भिर्वा । अन्य शल्यानि परिषेचनाधमापनैर्वालवस्त्रपाणिभिः प्रमा-जयेत् | आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनै-निर्धमेत् " । " अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः । विरेचनैः पक्वाशयगतानि । व्रणदोषाशयगतानि प्रक्षालनैः । वातमूत्रपुरीषग वतीवासक्तमिति सुश्रुतार्थसन्दीपनभाष्यम् । १ अत्रानवबद्धं नाम शल्यं सुखमपनी-यत इति सूचीकटाहन्यायेन तावत् तत्परिहरणोपायानुपदिशन्नाह - तत्रेति । २ हे तून् = साधनानि उपायान् वा । ३ स्वभावः = प्रकृतिः, श्रुतसीकुष्ठादिपाचनद्रव्यैर-पक्कशल्यस्य पाकविधानम्, वृद्धिपत्रादिशस्त्रविदारणम्, चिरबिल्वादिमिश्रकोक्तैरौ -षर्यैः स्फोटनम्, शाल्मल्यादिमिश्रकोक्तद्रव्यैः शल्यनिःसारणम्, बालवस्त्रपाणिभिः प्रोब्छनम्, पिप्पलीकट्फलादिचूर्णस्य नाड्या नासिकाऽन्तःप्रापणम् । ४ अङ्गु-ल्यादिनाऽवघर्षणम्, निकुन्थनम्, मुखशृङ्गादिश्चूषणम्, लौहाकर्षको मणिभेदः । ५ स्वभावादिपञ्चदशसाधनानां विषयमभिधत्ते – तत्रेत्यादिना । ६ अविदा-मानम् = अपच्यमानम् । ७ अक्षशल्यानि = इन्द्रियगतशल्यानि । पक्षिषु मुख-मारुतस्य प्रापणमाध्मापनम् । श्रीहाराणचन्द्रः - श्रध्यापनन्त्वत्र वायोर्निरोधेनोदरपरि-पूरणम्, एतत्तु कर्णस्रोतःप्रविष्टानां पिपीलिकाऽऽदीनामाहरणार्थमुपदिश्यत इत्याह । ९ भुञ्जानस्य नासाऽन्तरादिस्थितमन्नमाहारशेषः, हीनानां पतितानां भ्रष्टानां शल्याना-मल्पावयवा हीनारणुशल्यान्युच्यन्ते । सुश्रुतार्थसन्दोपनभाष्ये तु – लवमात्रेण कण्ठादावास-क्तानि श्लेष्मणाऽरुषितान्यन्नादीनि ताम्बूलादीनि वा आहारश्लेष्महोनाणुशल्यानि । अत्र श्लेष्महीनैति विशेषणं तत्सम्पृक्तानां पैच्छिल्येन अनालम्बित्वादित्यनुसन्धेयमिति । १० निर्धमेत् = श्वसनादिभिर्वेगविशेषे निष्कासयेदित्यर्थः । ११ आमाशयेऽवस्थितानि शल्यान्यन्नशल्यानि । १२ पक्वाशयगतानि = ग्रहणीमारभ्य गुदपर्यन्तं महास्रोतस्यव-स्थितानि शल्यानीत्यर्थः। १३ व्रणदोषः पूयः स एव शल्यमाशये गतानि, व्रणान्तरव-CC - 0. Gurukul Kangri Collection; Haridwar
पृष्ठ 302
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां— १४४ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० २७ ति शेत स्ता य ती शर अ शा द च ७ त Digitized by Arya Samaj Foundation Chennai and eGangotri सङ्गेषु प्रवाहणमुक्तम् । मारुतोदकसविपरुधिरदुष्टस्तन्येष्वाचूषण-मास्येन विषाणैर्वा । अनुलोममनवबद्धम कर्णमनल्पव्रणमुखमय-स्कान्तेन । हृद्यवस्थितमनेक कारणोत्पन्नं शोकशल्यं हर्षेणेति ॥ ५ ॥
सर्वशल्यानान्तु महतामणूनां वा द्वावेवाहरणहेतू भवतः ।
प्रति॑िलोमोऽनुलोमश्च ॥ ६ ॥
तत्रं प्रतिलोममर्वाचीनमानयेत्, अनुलोमं पराचीनम् ॥ ७ ॥
उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ॥ ८ ॥
छेदनीयमुखान्यपि कुक्षिवक्षः कक्षावङ्क्षणपर्शुकान्तर पतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्त्तुं प्रयतेत ॥ ९ ॥
स्थितानि पूयरूपशल्यानि जलादिप्रक्षाल नैर्निस्सारयेदित्यर्थः । १ मारुतोऽत्र पाणिमन्थेन दारितेऽस्थनि निरुद्धो वायुः । " निरुद्धेऽस्थनि वा वायौ पाणिमन्थेन दारिते । नाडीं दत्त्वाऽस्थनि भिषक् चूषयेत्पवनं वली ॥ " उदकं च कर्ण -स्रोऩोगतम् । तथा चाष्टाङ्गहृदये – “ कर्णेऽम्बुपूर्णे हस्तेन मथित्वा तेलवारिणि । क्षिपे-दधोमुखं कर्णं हन्याद्वा चूषयेत वा ॥ ” इति । २ अनुलोमम् = ऋजुस्थितम् । तथा-चेणमर्थमनुवदता वाग्भटेनाप्युक्तम्- “ अयस्कान्तेन निष्कर्णं विवृतास्यमृजुस्थितम् । ” इति । ३ शल्यानामनुलोमप्रतिलोमभेदेन द्विविधमाहरणोपायं दर्शयति — सर्वेति । · ४ तत्प्रवेशमार्गेणैवाहरणं प्रतिलोमः । प्रवेशमार्गमन्तरा मार्गान्तरं विधाय तदाहरणम-नुलोमः । ५ प्रतिलोमानुलोमयोर्विषयमाह – तत्रेति । श्रवन्तमवरमञ्चतीति ‘ विभा-षाञ्चेरदिक् स्त्रियाम् ' इति स्वार्थे खः । अर्वाचीनं = नातिदूरप्रविष्टं, प्रतिलोममानये-दित्यर्थः । परा बहुलमञ्चतीति पराचीनं दूरप्रविष्टम्, अनुलोममानयेदित्यर्थः । ६ ऊर्ध्वं निःसरन्मुखमिवोत्तुण्डितम्, निर्घातयेत् = हस्तेन मुद्गरादिना वेतस्ततश्चा-लयेत्, छेदनीयमुखं = छेदनार्हमुखम्, कण्टकखर्जूरीपत्रप्रभृतिकम् । एतेनोत्तुण्डितं छेदनीयमुखं परान्निर्गतमुखं छेद्यप्रदेश जटिलं च शल्यं पराचीनानुलोमाहरणविषय क्तं भवतीति डल्हणः । अत्र श्रीहाराणचन्द्रस्तु उत्तुण्डितमुद्गतकण्टकाचितमुखं इत्यु-द्यतेऽनेनेति कृत्यल्युटोर्बाहुल्याच्छेदनीयं धारामुखे यस्येति छेदनीयमुखम्, तात्पर्याद- , छि-र्वाचीनं शल्यं छित्त्वा निर्घातयेदानुलोम्येनाहरणार्थं पराचीनं कर्तुमिति छित्त्वेति शल्यदैर्घ्यपरिणाहसंघर्षकृतोपतापशङ्काजिहासार्थमिदं छेदनं तावत्यंशै शेषः । कर्तव्यं अत्र यावत्यंशे छिन्ने सुखं शल्यं पराचीनं भवितुमर्हतीति सुधियो मन्यन्ते इति व्याख्या-तवान् । किन्त्वर्थद्वये विशेषमन्तरं नाभातीति विभावयन्तु ॥ ७ छेदनीयमुखानि -
पृष्ठ 303
पाठ पढ़ें पाठ छिपाएँ
अ ० २७ / Digitized by Ary सत्रस्थ नि ation Chennai and eGangotri १४५ सूत्रस्थ frajion विशस्य शस्त्रेण यन्त्रेणापहरेत् ॥ १० ॥
हस्तेनापहर्तुमशक्यं भवति चात्र ।
शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् ।
संरक्षेदस्य मर्माणि मुहुराश्वासयेच तम् ॥ ११ ॥
ततः शल्यमुद्धृत्य निर्दोहितं व्रणं कृत्वा स्वेदाहमग्निघृतप्रभृ-तिभिः संस्वेद्यं विदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽऽचारिकमुपदि-शेत् । सिरीस्नायु विलग्नं शलाकादिभिर्विमोच्यापनयेत् । श्वयथु- ॥ १२ ॥
स्तवारङ्गं समवपीड्य श्वयथुं; दुर्बलवारङ्गं कुशादिभिर्वद्ध्वा हृदयमभितो वर्त्तमानं शल्यं शीतजलादिभिरुद्वे जितस्यापहरेद् यथमार्गम् । दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धेरत् ॥ १३ ॥
" अस्थिविवरप्रविष्टमस्थिविदष्टं २ वाऽवगृह्य पादाभ्यां यन्त्रे-' गापहरेदशक्यं मेवं वा वलवद्भिः सुपरिगृहोतस्य यन्त्रेण ग्राहयि-वा शल्यवारङ्गं प्रविभुज्य " धनुर्गुणैर्वद्वैकतश्चास्य १४ पञ्चाङ्गधामुप-II तीक्ष्णधारामुखानि । १ विशस्य = शस्त्रेण छित्वा । यन्त्रप्रवेशनिरोधकं प्रदेशं शस्त्रे ण छित्त्वेति चक्रः । २ अष्टाङ्गहृदये— “ दृश्यं सिंहाहिमकर - वर्मिकर्ककाननैः । अदृश्यव्रणसंस्थानाद् ग्रहीतुं शक्यते यतः ॥ कङ्कभृङ्गाह्वकुररशरारीवाय साननैः । सन्दं-शाभ्यां त्वगादिस्थं तालाभ्यां सुषिरं हरेत् ॥ सुपिरस्थं तु नलकैः शेषं शेषैर्यथायथ-म् । ” इति । ३ एनं = शल्यातुरमित्यर्थः । ४ संस्वेद्य = प्रतिनिस्सृतलोहित मवेदनं व्रणं सुखोष्णेन घृतेन तदितरमग्निना सं-स्वेद्येत्यर्थः । भोजोऽत्र विशेषयति- " अग्निकृत्या व्रणा ये तु तेष्वग्निमवचारयेत् । स्वेदयेत्सतुपिण्डीभिः स्वेदकृत्यान् समन्ततः ॥ ” इति । विदह्य = अग्निकृत्यान् व्रणान् दग्ध्वा; प्रदह्य = अस्वेद्यमतिस्रुतलोहितं च लेपयित्वा । ५ णितोपासनीयोक्तमा-चारिकमित्यर्थः । ६ प्रतिपत्तिसौकर्य्याय कांश्चिदपनयनप्रकारान् दर्शयति- सिरेति । ७ श्वयथुग्रस्तवारङ्गं == शोथग्रसितबाणमित्यर्थः । ८ हृदयमभितः = हृदयसमीपावस्थि-तम् । ९ यथामार्गं = येन मार्गेण प्रविष्टं तेनैव मार्गेण, प्रतिलोमविधिनाऽपहरेदित्यर्थः । १० श्रपवाध्यमानं = मर्मपीडाकारिशल्यमित्यर्थः । पाटयित्वा = स्थानान्तरे किञ्चिद्दार · यित्वा । ११ अवबद्धशल्यस्य निर्हरणोपायं निर्दिशति - अस्थीति । १२ अस्थिवि-|| दष्टम् = अतिसंसक्तमित्यर्थः पादानां । १३ प्रविभुज्य = वक्रीकृत्य । १४ पञ्चानामङ्गानां चतुर्णी मुखसमाहितानां समाहारःपञ्चाङ्गी बन्धविशेषस्तत्रोपसंयतस्य बद्धस्य । १० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 304
पाठ पढ़ें पाठ छिपाएँ
१४६ Digitized by Arya Samaj Foundation ennai and eGangotri सुश्रुतसंहितायां ennai a [ अ ० २७ संयतस्याश्वस्य वक्त्रकविके बध्नीयात् । अथैनं कशया ताडयेद्यथो-न्नामयन् शिरोवेगेन शल्यमुद्धरति । दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद् बद्ध्वोद्धरेत् ॥ १४ ॥
अदेशोत्तुण्डितमष्टीलाऽश्ममुद्गराणामन्यतमस्य प्रहारेण विचा-ल्य यथामार्गमेव यन्त्रेण ॥ १५ ॥
यन्त्रेण विमृदितकर्णानि कर्णवन्त्यनाबाधकर देशोत् ण्डितानि पुरस्तादेव ॥ १६ ॥
जीतुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्ताञ्च शलाकां तया-ऽवगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतामुद्धरेत् ॥ १७ ॥
अजातुषं जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पनेत्येके ॥१८ ॥
अस्थिंशल्यमन्यद्वा तिर्य्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैक-सूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात्; पूर्वकोष्ठं च " वामयेत् । वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत्; मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्तः । क्षतकण्ठाय च मधुस-पिंपी लेढुं प्रयच्छेत्रिफला चूर्णं वा मधुशर्कराविमिश्रम् ॥ १ ९ ॥ १ एनम् = अश्वमित्यर्थः । २ कुक्ष्याद्यच्छेदनीयप्रदेशावस्थितोद्गत कर्णिकम्, अष्ठी-लाश्म = व= वर्तुलाकारपाषाणखण्डम् । ३ यथामार्ग = प्रतिलोमविधिना । ४ विमृ-दितकर्णानि == सङ्कुचितकर्णिकं कृत्वा, कर्णवन्ति = कर्णवच्छल्यानि । ५ पुरस्तात् = श्रग्रतः प्रदेशे एव, प्रतिलोममेवेत्यर्थः । आकर्षयेदिति शेषः । ६ जातुषशल्यस्याह-रणविधानमभिदधाति – जातुष इति । जातुषे = लाक्षामये । जतोर्विकारो जातुषम्, अण्प्रत्ययः षुगागमश्च । ७ नाडीं = कण्ठशल्यावलोकिनीं ताम्रादिरचितनलिकाम् । पुरा बालका लाक्षामयशल्यैः क्रीडन्तिस्म । तेषां प्रमादान्निर्मिलिते सत्ययं विधिरिति बोध्यम् । ८ • स्थिरीभूतां - शीतजलावसेकेन दृढीभूतामित्यर्थः । ९ अस्थ्यादिशल्यस्यात्यन्तं कण्ठासक्तस्याहरणविधिमाह – अस्थिशल्यमिति । भोजनावसरे भोज्यपदार्थेषु मत्स्यादिप्राणिनामस्थिखण्डमस्थिशल्यमिति १० केशोण्डुकम् = उण्डुकसदृशबालरचितगेन्दु कम् । उण्डुकं परिणामिमलाश्रयः भावः । क्षुद्रान्त्रयोरन्तरालस्थो गोलः, तथा च केशोऽयमुण्डुकमिवेति केशोण्डुकम् । वक्ष्यति- स्थूल-“ उण्डुकस्थं विभजते मलं मलधराकला । ” इति । ११ वामयेत् = वमनं कारयेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar ह
पृष्ठ 305
पाठ पढ़ें पाठ छिपाएँ
1 T , 1 ते t 1 न ७. अ ० २७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १४७ उदर्कपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वा मयेद्वा भस्मराशौ वा निखनेदामुखात् ॥। २० ॥ य श्रीसशल्ये तु कण्ठासक्ते निःशङ्कमनबुद्धं स्कन्धे मुष्टिनाभि-२१ ॥ हन्यात्; स्नेहं मद्यं पानीयं वा पाययेत् ॥ बौहुरज्जुलता पाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोप-यित्वा स्रोतो निरुणद्धि लालासावं फेनागमनं संज्ञानाशं चापादय-ति । तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं दद्याद्रसञ्च वातन्नं विदध्यादिति ॥ २२ ॥
भवन्ति चात्र ।
शैल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् ।
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् ॥ २३ ॥
कर्णवन्ति तु शल्यानि दुःखाहाय्याणि यानि च ।
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः ॥ २४ ॥
एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि ।
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् ॥ २५ ॥
शोथंपाकौ रुजश्चयाः कुर्याच्छल्यमनिर्हृतम् ।
वैकल्यं मरणं चापि तस्माद् यत्नाद्विनिर्हरेत् ॥ २६ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने शत्यापनयनीयो नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥
१ उदरान्तर्निविष्टजलाहरणोपायमाह - उदकेति । २ धुनीयात् = दोलयेत् । अरु-णदत्तः – ‘ उदकपूर्णस्य चक्राद्यारोपणेनोदकनिस्सारः कार्य ' इति । ३ ग्रासः शल्यमि-वेति ग्रासशल्यं तस्मिन् । ४ अनवबुद्धं = स्कन्धे मामयं हनिष्यतीति बुद्धिविषयमति-क्रान्तम्; सहसेत्यर्थः । ५ बाहुरज्जुलताऽऽदिपाशपीडितकण्ठप्रकुपितवायुश्लेष्मापहर-गोपायमुपपादयति स्वयमूहनार्थ-— बाह्विति । ६ शल्याकृतीनामानन्त्यादनुक्तोपायं मुपदिशति — शल्येति । ७ अनिर्हृतशल्यदोषानाह - शोथेति । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां सप्तविंशतितमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 306
पाठ पढ़ें पाठ छिपाएँ
१४८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— अष्टाविंशतितमोऽध्यायः । [ अ ० २८ अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
फेलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा ।
ख्यापयन्ति भविष्यन्त्वं तथा रिष्टानि पञ्चताम् ॥ ३ ॥
तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशुव्यतिक्रमात् ।
गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसम्भवात् ॥ ४ ॥
ध्रुवन्तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः ।
रसायनतपोजप्यतत्परैर्वा निवार्य्यते ॥ ५ ॥
नक्षत्रपीडा बहुधा यथा कालं विपच्यते । अष्टाविंशतितमोऽध्यायः । १ विपरीता विकृता विपरीताः प्राकृताश्च ते व्रणास्तेषां विज्ञानमधिकृत्य कृतोऽ-ध्यायो विपरीताविपरीतव्रणविज्ञानीयस्तम् । २ अरिष्टानां मरणसूचकत्वं निदर्शयति-फलेति । यथा पुष्पादयो फलादीनां भविष्यत्त्वं सूचयति, तथैव रिष्टानीति भावः । रिष्टमायुष्यसूचकलिङ्गम् । तदाह – “ क्रियापथमतिक्रान्ताः केवलं देहमाश्रिताः । दोषाः कुर्वन्ति यल्लिङ्गं तदरिष्टं निरुच्यते ॥ ” इति । रिष्टमेवारिष्टम् । तदाह भावप्रकाशे— “ रोगिणो मरणं यस्मादवश्यंभावि लक्ष्यते । तल्लक्षणमरिष्टं स्याद्रिष्टं चापि तदुच्यते ॥ ” इति । ३ आशुव्यतिक्रमात् = श्रश्वेवान्यथाभावात्; यदैवारिष्टमुत्पन्नं तदैव मरणादि-त्यर्थः । ४ उद्गतानि = उपस्थितान्यपि तानि रिष्टानि । ५ “ अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत् । फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् ॥ न त्वरिष्टस्य जा-तस्य नाशोऽस्ति मरणादृते । मरणं चापि तन्नास्ति यन्नारिष्टपुरस्सरम् ॥ ” इत्यात्रेयः । ६ आगमप्रामाण्यमङ्गीकुर्वन् महर्षिसुश्रुतो लौकिकेन वैदिकेन च कर्मविशेषेण रिष्टेऽपि मृत्योर्व्यभिचारं दर्शयति- ब्राह्मणैरिति । ७ अमलैः = रागद्वेषादिमानस-दोषरहितैः, रजस्तमोवर्जितैरिति यावत् । ८ कालान्तरेऽरिष्टपीडां निदर्शयति - नक्ष-त्रेति । नक्षत्रविशेषे ग्रहावस्थानजन्या पीढा नक्षत्रपीडेत्यर्थः । ९ कालं पञ्चविंश-वर्षादौ । कालादिति पाठे कालविशेषमाश्रित्येत्यर्थः । विपच्यते = फलति पराशरेण— “ होरायां नवमे सूर्यः सप्तमे च शनैश्चरः । एकादशे गुरुः शुक्रो । उक्तं च न जीवति ॥ अशुभे लग्नसम्प्राप्ते षष्ठाष्टमे निशाकरः । शनैश्चरस्तु बन्धुस्थो मासमेकं द्विमासे मृत्युमृच्छति ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 307
पाठ पढ़ें पाठ छिपाएँ
अ ० २८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् " pn तथैवारिष्टपार्क ' च ब्रुवते बहूबो जनाः ॥ ६ ॥
असिद्धिमाप्नुयाल्लोके प्रति कुर्वन गतायुषः ।
अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ॥ ७ ॥
गन्धवर्णरसादीनां विशेषाणां स्वभावतः ।
वैकृतं यत् तदाचष्टे ब्रणिनः पक्वलक्षणम् ॥ ८ ॥
कंटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः ।
लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ॥ ९ ॥
लाजात सीतैलसमाः किञ्चिद्विस्राश्च गन्धतः ।
ज्ञेयाः प्रकृतिगन्धाः स्युर्रतोऽन्यद्गन्धवैकृतम् ॥ १० ॥
मद्यागुर्वाज्यसुमनः पद्मचन्दनचम्पकैः ।
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ॥ ११ ॥
श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूर मत्कुणैः ।
सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः ॥ १२ ॥
यामकुङ्कुम कङ्कष्टसवर्णाः पित्तकोपतः । १४ ९ न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ॥ १३ ॥
कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः ।
दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् ॥ १४ ॥
कृष्णास्तु ये तनुखावा वातजा मर्मतापिनः ।
स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ॥ १५ ॥
क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये ब्रणाः । १ पाकं = भोगम्, फलमित्यर्थः । तथा च पातञ्जलसूत्रम् - " सति मूले तद्वि-पाको जात्यायुर्भोगाः " इति । २ अरिष्टापरिज्ञानदोषं दर्शयति - असिद्धिमिति । धर्मार्थकामादीनां हानिरसिद्धिः । गन्धेति । ३ प्रकृतमनुसन्धाय व्रणस्यारिष्टान्याह -४ स्वभावतः = दोषाणां प्रकृतितः । ५ पक्वलक्षणं = पातलक्षणम्, विनाशोन्मुखताया लक्षणमित्यर्थः । ‘ स्याद्विनाशोन्मुखं पक्कम् ' इत्यमरः । यथा पक्कं फलं पतत्येव, तथा-ऽसावपि व्रणी । ७ लाजाल-पतत्येवेति भावः । ६ प्राकृतव्रणगन्धं वर्णयति - कटुरिति सीतैलसमास्त्रयो गन्धाः क्रमेण वातपैत्तिक- वातश्लैष्मिक - पित्तश्लैष्मिका द्वन्द्व जा ज्ञेयाः । ८ वैकृतव्रणगन्धान् दर्शयति - अत इति । ९ विकृतवर्णानभिधत्ते - ध्यामेति । ईषत्कृष्णो ध्यामः । १० शब्दवैकृतमाह — क्ष्वेडन्तीति । क्ष्वेडन्ति = खटखटाशब्दं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 308
पाठ पढ़ें पाठ छिपाएँ
१५० Digitized by Arya Sa सुश्रुतसंहितार्थी hennai and eGangotri |[ अ ० २ ९ त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये ॥ १६ ॥
ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः ।
दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः ॥ १७ ॥
दह्यन्ते बहिरत्यथ भवन्त्यन्तश्च शीतलाः ।
शक्तिध्वजरथा कुन्तवाजिवारणगोवृषाः ॥ १८ ॥
येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा ।
चूर्णावकीर्णा इव ये भान्ति वा न च चूर्णिताः ॥ १ ९ ॥
प्रौणमांसक्षयश्वासकासारोचकपीडिताः ।
प्रवृद्धपूयरुधिरा ब्ररणा येषौं च मर्मसु ॥ २० ॥
क्रियौभिः सम्यगारब्धा न सिध्यन्ति च ये । वरणाः ।
वर्जयेत्तान् भिषक् प्राज्ञः संरक्षन्नात्मनो यशः ॥ २१ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतत्र गविज्ञानीयो नाम अष्टाविंशतितमोऽध्यायः ॥ २८ ॥
एकोनत्रिंशत्तमोऽध्यायः । अथातो विपरीताविपरीतस्वप्रनिदर्शनीयमध्यायं स्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
व्याख्या-कुर्वन्तीत्यर्थः । ‘ वंशशल्ये सिंहनादे वेढा ना श I कृतमभिदधाति - दह्यन्त इति । २ श्राकृतिवैकृतमाचष्टे— तु ध्वनौ विषे । ' इति रुद्रः । १ स्प-ङ्गतो व्रणानामुपद्रवविशेषैरसाध्यत्वं प्रतिपादयति- प्राणेति शक्तीति । ३ प्रस-प्राणक्षयः । उपचयलक्षणवलक्षयो मांसक्षयः । ४ येषां व्रणानां । मर्मस्ववस्थितिस्तेऽ- शक्तिलक्षणबलक्षयः साध्या इत्यर्थः । ५ अनुक्तमप्यशेषारिष्टमुपसंहरति - क्रियाभिरिति वर्ज-येत् = परित्यजेत् । श्रन्यथा शरीरावस्थितधातूनां शक्तिक्षये ६ भिषजोऽयश एवेति । भेषजादिभिश्चिकित्सितेऽपि इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्या मष्टा विंशतितमोऽध्यायः । एकोनत्रिंशत्तमोऽध्यायः । ६ विपरीतानामनिष्टाशंसित्वेनाशस्तानाम्, श्रविपरीतानामिष्टाशंसित्वेनप्रशस्तानां CC - 0. Gurukul Kangri Collection, Haridwar ३
पृष्ठ 309
पाठ पढ़ें पाठ छिपाएँ
२ अ ० २ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
दूर्तदर्शनसम्भाषा वेषाश्चेष्टितमेव च ।
ऋतं वेला तिथिश्चैव निर्मित्तं शकुनोऽनिलः ॥ ३ ॥
देशो वैद्यस्य वाग्देहमनसाञ्च विचेष्टितम् ।
कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ॥ ४ ॥
पाखण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये ।
त एव विपरीताः स्युर्दूताः कर्मविपत्तये ॥ ५ ॥
नपुंसकं स्त्री बहवो नैककार्यासूकाः ।
गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ॥ ६ ॥
वैद्यं यं उपसर्पन्ति दूतास्ते चापि गर्हिताः ।
पाशदण्डायुधधराः पाण्डुरेतरवाससः ॥ ७ ॥
आर्द्रजी पव्यैकमलिनोध्वस्तवाससः ।
न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः ॥ ८ ॥
" रूक्षनिष्ठुरवादाच्चाप्यमाङ्गल्याभिधायिनः ।
" छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ॥। ९ ॥
१५१ स्वप्नानां निदर्शनमुदाहरणमनुक्तार्थज्ञानायैकदेशेन कथनं, तदधिकृत्य कृतोऽध्यायो विपरीताविपरीतस्व प्ननिदर्शनीयस्तम् । स्वप्नशब्दानन्तरं लुप्तादिशब्दनिर्देशान्नक्षत्रवेला-तिथिनिमित्तशकुनानिलदेशवैद्यवाग्देहमनश्चेष्टा अपि गृह्यन्ते । तथा च स्वप्नादीनां निदर्शनमधिकृत्येत्याद्यवसेयम् । १ निर्देश्यदूतादीन् दर्शयति- दूतेति । दूतस्य दर्श-नसम्भाषणवेशचेष्टितानीति बोध्यम् । २ आर्द्रादिनक्षत्राणीत्यर्थः । ३ निमित्तम् = उदककुम्भसर्पादिदर्शनम् । ४ तत्रादौ दूतदर्शनमधिकृत्य वक्ति - पाखण्डेति । पाखण्डाः = वेदवाह्या बौद्धकापालिकाः । आश्रमाः सन्त्येषामित्यचि श्राश्रमाः, आश्र-मस्था ब्रह्मचारिगृहस्थवानप्रस्थयतयः । वर्णा ब्राह्मणादयः । सपक्षाः - समानः पक्षो येषां ते सपक्षाः । यथा पाखण्डानां पाखण्डाः, ब्रह्मचारिणां ब्रह्मचारिण इत्येवमादयः । ५ नैककार्याः = नैकस्मिन् दौत्यादिकार्ये एव नियुक्ता इत्यर्थः । परम्पराः = पङ्किं ६ कृत्वा, प्राप्ता वा स्युः = श्रागता वा भवेयुः । असूयकाः = गुणेष्वपि दोषारोपकारकाः । ७ ये = दूताः, उपसर्पन्ति = वैद्यसमीपमागच्छन्ति । ८ दूतवेषविषयेऽभिधत्ते- पारोति । ९ शुक्लेतरकृष्णपीतादिवस्त्रा इत्यर्थः । ‘ शुक्रुशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः ” इत्यमरः । १० श्रपसव्यं = प्राचीनावीताकृतिना-ss श्रितमुत्तरीयम् । ११ दूतसम्भाषणविषये ब्रवीति - रूक्षेति । १२ दूतचेष्टितसम्बन्धे-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 310
पाठ पढ़ें पाठ छिपाएँ
१५२ Digitized by Arya Samaj Foundation Chennai and eGangotri
सुश्रुतसंहिताया-वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः ।
स्रोतोऽवरोधहृद्रण्डमूर्धोरः कुक्षिपाणयः ॥ १० ॥
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये । [ अ ० २ ९ विलिखन्तो महीं किञ्चिन्मुञ्चन्तो लोष्ठ॑भेदिन् ॥ ११ ॥
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः ।
फलं पक्कमसारं वा गृहीत्वाऽन्यच्च तद्विधम् ॥। १२ ॥
नखैर्नखान्तरं वाऽपि करेण चरणं तथा ।
उपानञ्चर्म्महस्ता वा विकृतव्याधिपीडिताः ॥ १३ ॥
वौमाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः ।
याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः ॥ १४ ॥
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ।
दर्क्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् ।
ज्वलयन्तं पचन्तं वा क्रूरकर्म्मणि चोद्यतम् ॥ १५ ॥
नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् ।
प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव च ॥ १६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥
वैद्यस्य पैत्र्ये दैवे वा कार्य्ये चोत्पातदर्शने ।
मध्याह्ने चार्द्धरात्रे वा सन्ध्योः कृत्तिकासु ॥ १७ ॥
आर्द्राऽश्लेषामघामूलपूर्वासु भरणीषु च ॥ च ।
चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु १८ ॥
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः च ।
॥ १ ९ ॥
ऽभिदधाति - छिन्दत इति । १ लोष्टभेदिनः दिमद्दिनम् ” इति तन्त्रान्तरीयस्मरणात् । २ = वामाचाराः काष्ठलेोष्टादिमष्द्दनशीलाः, “ काष्ठलोष्टा-३ एकपदे स्थिताः = एकस्मिन् स्थाने दण्डायमाना = अधमव्यवहारा इत्यर्थः । ‘ चेष्टितमेव च ' इति चकारेण भिषक्चेष्टितादि निर्दिशति इत्यर्थः । ४ दूतागमनकालेऽनुक्तमपि धादिक्रूरकर्मणीत्यर्थः । – दक्षिणेति । ५ पशुव-६ वेलामधिकृत्य कथयति कम्पादयो दृश्यन्तेऽत्रेत्युत्पातदर्शनं तस्मिन्, - वैद्यस्येति । ७ उत्पाता भूमि-नक्षत्रमधिकृत्य वक्ति — कृत्तिकास्विति । ९ भूमिकम्पाद्युपलक्षितकाले तिथिविषयेऽभिदधाति इत्यर्थः । - चतुर्थ्यामिति । CC - 0. Gurukul Kangri Collection, Haridwar ८