सुश्रुत संहिता चौखम्बा — पृष्ठ 311–320
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
९ अ ० २ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः ।
गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः ॥ २० ॥
त एव कफरोगेषु कर्म्मसिद्धिकराः स्मृताः ।
एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् ॥ २१ ॥
रक्तपित्तातिसारेषु प्रमेहेषु तथैव च ।
प्रशस्तो जलरोधेषु दूतवैद्यसमागमः ॥ २२ ॥
विज्ञायैवं विभागं तु शेषं ' बुध्येत पण्डितः ।
' क्लवासाः शुचिगौरः श्यामो वा प्रियदर्शनः ॥ २३ ॥
स्वस्यां जातौ स्वगोत्रो वा दूतः कार्य्यकरः स्मृतः ।
गोयांनेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः ॥ २४ ॥
स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान् ।
अलङ्कृतो मङ्गलवान् दूतः कार्य्यकरः स्मृतः ॥ २५ ॥
स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम् ।
उपसर्पति यो वैद्यं स च कार्य्यकरः स्मृतः ॥ २६ ॥
मसोदकुम्भात पत्रविप्रवारणगोवृषाः । १५३ १ विशिष्टरोगेषु विशिष्टवेलादि दर्शयन् दूतवैद्यसमागमस्याप्रशस्तमाख्याति - स्विन्नेति । २ अष्टाङ्गसङ्ग्रहे- “ वृतोदकादिद्रवसमीपस्थमतिशीतस्तम्भः प्रत्युषसि इलेष्मामयेऽ-शुभः पित्तमये तु शुभः । ” इति । अरुणदत्तः - " वातरोगे परुषरूक्षसिकतापाषाणशर्क-रादिविशिष्टे दॆशॆ काले साहाह्ने दूतोऽशुभः, विपरीतस्तु शुभः । ” इति । ३ दूतवैद्यसः मागमस्य प्राशस्त्यं प्रस्तूयते — रक्तेति । ४ जलरोधेषु = जलनिरोधयुक्तप्रदेशेषु । अष्टाङ्गसङ्ग्रहे— “ तथा सेतुबन्धे छर्दिमेहातिसारादिष्वशुभः, सेतुबन्धे तु शुभः शेषं बुध्येत । ” इति। ५ शेषम् = उदावर्तमूत्रकृच्छ्रादौ जलवेगदर्शनादिकस्य प्राशस्त्यं जानीयादित्यर्थः । ६ प्रशस्तदूतदर्शनं निर्दिशति — शुक्लेति । ७ वृषभवाह्यश-कटेन, न तु गौरेव यानं तेन; " गवां तु यानं पृष्ठेन सर्वथैव विगर्हितम् ” इति मनूक्तेः । ८ कथम्भूतं वैद्यमुपसर्पन् दूतः कार्यसिद्धिकरो भवतीत्याह – स्वस्थमिति । ९ शुभाशुभशकुनान् दर्शयति - मांसोदेति । उदकुम्भशब्देन पूर्णो रिक्तश्च घटो ग्राह्यः वाध्ययनार्थिनः । उक्तं च - “ “ लानां पूर्णकुम्भानाम् ” इति, तथा - " ' चिकित्सकस्य चौरस्य तथै-। प्रशस्तमाहुभिषजो जलार्थे रिक्तकं घटम् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
१५४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० २ ९ शुक्लवर्णाश्च पूज्यन्ते प्रस्थान दर्शनं गताः ॥ २७ ॥
स्त्री पुत्रिणी सवत्सा गौर्वर्धमाना स्वलङ्कृता ।
कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि ॥॥ २८ ॥
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः ।
अप्रशान्तोऽनलो वाजी हंसश्चाषः शिखी तथा ॥ २ ९ ॥
ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः ।
सिंहगोवृषनादाश्च हेषितं गजबृंहितम् ॥ ३० ॥
शस्तं हंसरुतं नृणां कौशिकं चैव वामतः ।
प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ॥ ३१
पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान् ॥।
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ॥ ३२ ॥
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः ।
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ॥ ३३ ॥
शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके ।
वृक्षेऽथवाऽश्मभस्मास्थिविट् तुषाङ्गारपांशुषु ॥
चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः । ३४ ॥
पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ॥ ३५ ॥
१ शुक्लवर्णाः पदार्थाः कार्पासास्थितक्रभस्मक्षार । दिव्यतिरिक्ताः क्तिकादय इति ढल्हणः । २ वर्धमाना = अङ्कुरितयौत्रना सुमनोदध्यक्षतमौ-मानानां वद्धस्यैकपशोस्तथा । ” इति । वर्धमानमलङ्कृतेति । चरकः– “ कन्यानां वर्ध-ढल्हणः । तत्र ‘ वर्धमानः प्रश्नभेदे शरावैरण्डविष्णुषु पाठे ' वर्धमानः शरावः ' इति मानशब्दस्यैव शरावोऽर्थः । केचित्- ' वर्धमाना इति । ” इति मेदिन्यादिकोशे पुंस्त्त्रवधं-आलेपनादिना मण्डिताः ' इति श्रन्ये त्वङ्कारोपितं कुमारं कुमारीं शरावाः, ते च स्वलङ्कृता इति ३ स्वस्ति शुभाय यत्तत् स्वस्तिकं वा वर्धमानमाहुरिति चक्रः । मुक्तादामविशेषः, तण्डुलपिष्टं " स्वस्तिकं प्राङ्मुखं यत्स्यादलिन्दानुगतं भवेत् वा, वैद्यस्य शोभनमानसमित्यर्थः । ' सुमना ” इत्याद्युक्तलक्षणं मण्डलं वा । ४ सुमन: -' इति पाठान्तरम् लितः । ६ कौशिकस्येदं कौशिकम्, उलूकरुतं वामभागे । ५ अप्रशान्तः = प्रज्व-लूलूकव्यालग्राहिषु कौशिकः ' इत्यमरः । इत्यर्थः । ‘ महेन्द्रगुग्गु-७ अशुभशकुनान्याह — शुष्क इति । ८ वल्लीनद्धे = लतोद्ग्रथितइत्यथः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । पुन्नामानः खगा वामाः स्त्रीसंज्ञा दक्षिणाः । शुभाः । दक्षिणाद्वासगमनं प्रशस्तं श्वशृगालयोः वामं नकुलचाषाणां नोभयं शशसर्पयोः ॥ ३६ ॥
भोसकौशिकयोश्चैव न प्रशस्तं किलोभयम् ।
दर्शनं वा रुतं चापि न गोधाकृकलासयोः ॥ ३७ ॥
दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम् ।
कुलत्थतिलकार्पासतुपपाषाणभस्मनाम् ॥ ३८ ॥
पात्रं नेष्टं तथाऽङ्गारतैलकर्दम पूरितम् ।
प्रसन्नेतरमद्यानां पूण वा रक्तसर्षपैः ॥ ३२ ॥
शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः ।
नेष्यन्ते पतितान्तस्थ दीनान्धरिपवस्तथा ॥ ४० ॥
मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः ।
खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ॥ ४१ ॥
न्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः ।
विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ॥ ४२ ॥
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते ।
एवं व्याधिविशेषेण निमित्तमुपधारयेत् ॥ ४३ ॥
तथैवाकुष्टहाकष्ट माक्रन्द रुदितस्वनाः ।
छद्य वातपुरीषाणां शब्दो वै गर्दभोष्ट्रोः ॥ ४४ ॥
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् ।
दौर्मनस्यञ्च वैद्य य यात्रायां न प्रशस्यते ॥ ४५ ॥
' वल्ली तु व्रततिर्लता ' इत्यमरः । १५५ १ भासः = गृध्रः, ' भासो गृधे! कुक्कुटे च ' इति विश्वः २ अन्तस्थाः = चाण्डालाः । ३ शुभाशुभवायुमाह - मृदुरिति । ४ प्रति-लोमः = अभिमुख इत्यर्थः । व्याधिभेदेन ५ वैद्यस्य यात्रायां रोगविशेषे शुभशब्दान्निर्दिशति – ग्रन्थीति | ६ शर्करादि-निमित्तम् आहरणादिशब्दशुभाशुभम् । ७ सामान्यं शब्दनिमित्तमुप-, दिशति - तथवेति । ८ यात्रायां वैद्यस्याप्यशस्तं वागादिचेष्टितं वक्ति – प्रतिषि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
१५६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० २ ९ अ
प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽऽतुरे ।
प्रतिद्वारं गृहे वाऽस्य पुनरेतन्न गण्यते ॥ ४६ ॥
केशैभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः ।
खैट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ॥ ४७ ॥
नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः ।
प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ॥ ४८ ॥
भाण्डानां सङ्करस्थानां स्थानात् सञ्चरणं तथा ।
निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ॥ ४ ९ ॥
वैद्यासनावसादो वा रोगी वा स्यादधोमुखः ।
वैद्यं सम्भाषमाणोऽङ्गं कुड्यमास्तरणानि वा ॥ ५० ॥
प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा ।
हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ॥ ५१ ॥
यो वैद्यमुन्मुखः पृच्छेदुन्माष्टि स्वाङ्गमातुरः ।
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ॥ ५२ ।
भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति ।
शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ॥ ५३ ॥
आतुरस्य ध्रुवं तस्माद् दूतादीन् लक्षयेद्भिषक् ।
स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च॥ ५४ ॥
द्धमिति । १ श्रातुरगृहे प्रथमप्रवेशे वैद्ययात्राविधिमतिदिशति - प्रवेश इति २ यात्रोन्मुखस्यातुरगृहगतस्य च वैद्यस्य विपरीतं निमित्तं दर्शयति- । ३ ‘ “ अष्टाभिः काष्ठखण्डैश्च कृता खट्वेति कथ्यते ” इत्युक्तलक्षणा केशेत्यादिना । चेत् । ऊर्ध्वपादः शरभाख्यो गजाकृतिः पशुभेद शय्या सा ऊर्ध्वपादा मुण्डितशिरसः । इति श्रीहाराणचन्द्रः । ४ मुण्डाः = . ५ सङ्कीर्यन्ते भाण्डान्यत्रेति सङ्करो भाण्डाधारस्तत्र नमित्यर्थः । तथा चोक्तं चरके – “ आतुरस्य गृहे स्थानां भाण्डानां सञ्चरणं, पत-मात्रममत्राणि दुर्लभं तस्य जीवितम् यरय भिद्यन्ते वा पतन्ति वा । अति-७ निर्गमः = पूर्णकुम्भादिमाङ्गलिकवस्तूनां ॥ ” गृहाभ्यन्तरतो इति । ६ निखातः = शूभ्यादेः खननम् । निमित्ताधिकारे चरकः– “ प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम् गमनम् । तथा च विपरीत-म्नदॆवतानां विनिर्गतिम् ॥ ” इति । ८ स्वप्नैः शुभाशुभज्ञानमुपदिशति । - स्वप्नानिति वृषब्राह्मणरत्ना-। CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
३ ९ अ ० २ ९ ] 1 दा 3 D -Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १५७
सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा ।
स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ॥ ५५ ॥
वराहैर्महिषैर्वापि यो यायादक्षिणामुखः ।
रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्द्धजा ॥ ५६ ॥
यं वा कर्षति वृद्धा स्त्रो नृत्यन्तो दक्षिणामुखम् ।
अन्तौवसायिभिर्यो वाऽऽकृष्यते दक्षिणामुखः ॥ ५७ ॥
परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजितास्तथा ।
मुहुराम्रायते यस्तु श्वापदैर्विकृताननैः ॥ ५८ ॥
पिवेन्मधु च तै यो वा पङ्केऽवसीदति ।
पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ॥ ५ ९ ॥
निरम्वरश्च यो रक्तां धारयेच्छिरसि स्रजम् ।
यस्य वंशो नलो वाऽपि तालो वोरसि जायते ॥ ६० ॥
यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः ।
पर्वताग्रात् पतेद् यो वा श्वभ्रे वा तमसाऽऽवृते ॥ ६१ ॥
ह्रियते स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् ।
पराजीयेत वध्येत काकाद्यैर्वाऽभिभूयते ॥ ६२ ॥
पतनं तारकादीनां प्रणाशं दीपचक्षुषोः ।
यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ॥ ६३ ॥
यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा ।
शाल्मलीं किंशुकं यूपं वल्मीकं पारिभद्रकम् ॥ ६४ ॥
पुष्पाढचं कोविदारं वा चितां वा योऽधिरोहति ।
कार्पासतैलपिण्याकलोहानि लवणं तिलान् ॥ ६५ ॥
लभेताश्नीत वा पक्कमन्नं यश्च पिबेत् सुराम् ।
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥ ६६ ॥
११ मनुः– “ निषादस्त्री तु चाण्डालात्पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्याना-मपि गर्हितम् ॥ ” इति । २ स्वप्नेपङ्कावसादनं सद्योमृत्युकरं भवति । ३ प्रविशेत् = मातुरुदरं प्रविशतीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहिताया--१५८ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० २ ९ ऋ हारिद्रं = हरि-Digitized by Arya Samaj Foundation Chennai and eGangotri
यथास्वं प्रकृतिस्वप्नो विस्मृतो वितस्तथा ।
चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ॥ ६७ ॥
ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् ।
उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ॥ ६८ ॥
मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् ।
गुल्मेषु स्थावरोत्पत्तिः कोष्ठे, माध्न शिरोरुजि ॥ ६ ९ ॥
शष्कुली भक्षणं छर्धामध्वा श्वासपिपासयोः ।
हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिण: ॥ ७० ॥
रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति ।
स्वप्ननेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ॥ ७१ ॥।
दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा । १ विफलान् स्वप्नान्निर्दिशति - यथास्वमिति । स्वां वातादिप्रकृतिमनतिक्र-म्येति यथारखं प्रकृतिरवप्नः । यथा वातप्रकृतेः – “ वियदपि गच्छति सम्भ्रमेण इति, पित्तप्रकृतेः– “ सुप्तः सन् कनकपलाशकर्णिकारान् संपश्येदपि च हुताशविद्यु- सुप्तः " दुल्काः ” इति, कफप्रकृतेः- “ सुप्तः सन् सकमलहंसचक्रवाकान् संपश्येदपि शयान् मनोज्ञान् ” इति च लक्षणं वक्ष्यति । २ विहतः = पश्चाद् दृष्टेन विशिष्टस्व- च जला--प्नेन प्राग् दृष्टोऽशुभस्वप्नः पराहतः । चरकोऽप्याह – “ अकल्याणमपि तत्रैव यः पुनः । पश्येत् सौम्यं शुभाकारं तस्य विद्यात स्वप्नं दृष्ट्वा पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः । ” इति । शुभं फलम् ॥ न स्वपेद्यः च प्रार्थितं कल्पितं तथा । भाविकं दोषजं चैव स्वप्नं ३ चिन्ताकृतशब्देन— सप्तविधं विदुः “ दृष्टं श्रुतानुभूतं क्तसप्तविध स्वप्नैषु दृष्टश्रुतानुभूतप्रार्थित कल्पितसमाख्यपञ्चविधस्वप्नानां ॥ ” इति चरको -४ तुशब्दश्चकारार्थकः, तेन “ दिवास्वप्नमतिह्रस्वमतिदीर्घं तथैव ग्रहणम् । यः स्वप्नः सोऽप्यफलो भवेत् ॥ ” इति चरकोक्तः प्रथमयामदृष्टः च । दृष्टः प्रथमयामे दीर्घश्च समुच्चीयते । स्वप्नोऽतिह्रस्वोऽति-५ रोगविशेषे विशिष्टस्वप्नदर्शनारिष्टमाचष्टे दिषु प्रवर्तनमित्यर्थः । “ नृत्यॆद्रक्षोगणैः - ज्वरितानामिति । ६ नर्तना-वंशलताऽऽदीनामुत्पत्तिरित्यर्थः । चरकः सार्द्धम् - " ” लता इति कण्टिकिनी स्मरणात् । ७ स्थावरोत्पत्तिः-जायते । स्वप्ने गुल्मस्तमन्ताय क्रूरो यस्य दारुणा हृदि द्रारक्तभोजनलक्षणमित्यर्थः । ९ श्रशुभस्वप्नदर्शनशान्तिमुपदिशति विशति मानवम् ॥ ” इति । – स्वप्नानिति ।
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
२ ९ अ ० २ ९ ] क्र : " -ला-नूतं फो.. ति-दि --Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ॥ ७२ ॥
दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् ।
जपेद्वाऽन्यतमं देवं ब्रह्मचारी समाहितः ॥ ७३ ॥
चाचीत कस्मैचिद् दृष्ट्रा स्वप्नमशोभनम् । देवताऽऽयतने चैव वसेद्रात्रित्रयं तथा । १५ ९ विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ॥ ७४ ॥
अंत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् ।
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान् ॥ ७५ ॥
समिद्धमग्निं विप्रांश्च निर्मलानि जलानि च ।
पश्येत् कल्याणलाभाय व्याधेरपगमाय च ॥ ७६ ॥।
मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च ।
लभन्ते धनलाभाय व्याधेरपगमाय च ॥ ७७ ॥
महाप्रासादसफलवृक्षवारणपर्वतान् ।
आरोहेद द्रव्यलाभाय व्याधेरपगमाय च ॥ ७८ ॥
दीनदसमुद्रांश्चक्षुभितान् कलुषोदकान् ।
तरेत् कल्याणलाभाय व्याधेरपगमाय च ॥ ७ ९ ॥
उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत् ।
आरोग्यं निर्दिशेत्तस्य धनलाभञ्च बुद्धिमान् ॥ ८० ॥
एवंरूपान् शुभान् स्वप्नान् यः पश्येद् व्याधितो नरः ।
स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ॥ ८१ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्नदर्शनीयो नाम एकोनत्रिंशत्तमोऽध्यायः ॥ २ ९ ॥ १ प्रशस्तान् स्वप्नान्निर्दिशति — अत इति । २ अपगमाय = निवृत्तये । ३ गङ्गाद्या नद्यः । शोणभद्रादयो नदाः । ४ कलुषोदकान् = अप्रशस्तजलानित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यामेकोनत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
Anai and eGangotri [ अ ० २४ " सुश्रुतसंहिता Dai Digitized by Arya Samaj Founda १६०
त्रिंशत्तमोऽध्यायः ।
अथातः पञ्चेन्द्र॑यार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ।
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ॥ ३ ॥
शृणोति ' विविधान् शब्दान् यो दिव्यानामभावतः ।
समुद्रपुरमेघानामसम्पत्तौ च निःस्वनान् ॥ ४ ॥
तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् ।
ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोति च ॥५ ॥
द्विषच्छब्देषु रमते सुहृच्छन्देषु कुप्यति ।
न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥ ६ ॥
यस्तूष्णमिव गृह्णाति शीतमुष्णञ्च शीतवत् ।
सञ्जातशी पिडको यश्च दाहेन पीड्यते ॥ ७ ॥
त्रिंशत्तमोऽध्यायः । १ मनःपुरस्सराणि चेन्द्रियाण्यर्थं सङ्ग्रहसमर्थानि भवन्तीति चरकोक्त्या पन्चेन्द्रि-याणां मनःपुरस्सराणां श्रोत्र - स्पर्शन - चक्षू - रसन - प्राणानामर्थाः शब्द - स्पर्श गन्धास्तेषां विप्रतिपत्तिहीँनातियोगेन रिष्टाख्यो विपरीतावबोधो विद्यतेऽस्मिन्निति - रूप - रस-न्द्रियार्थविप्रतिपत्तिस्तम् । पञ्चे -२ शरीरशीलप्रकृतीनां भावानां विकृतिर्वैपरीत्यं यद् भवेत्तदरिष्टं मरणलक्षणमि · त्यर्थः । प्रकृतिः = सप्तसङ्ख्याका; " सप्त प्रकृतयो दोषैः -न्ति । दोषवच्च गुणैरपि सत्त्वादिभिः सप्तप्रकृतयो भवन्ति पृथक् । तथा संसर्गेण साम्येन च भव • कुलदेशकालवयोबलप्रत्यात्मसंश्रयाः । दृश्यन्ते हि पुरुषाणां पुनः सप्तप्रकृतयो जाति-विशेषाः । ” इत्यष्टाङ्गसङ्ग्रहः जात्यादिनियतास्ते भाव-। ३ विस्तरतो विकृतिं दर्शयन् प्रागातुरग्राह्यविरुद्धशब्दविप्रतिपत्तिं शृणोतीति । ४ दिव्यानां = दिवि स्थितानां निर्दिशति— ५ असम्पत्तौ = श्रविद्यमानेऽपि । ६ रामायगे–, “ परान्तकाले सिद्ध किन्नर गन्धर्वादीनामित्यर्थं: । न गृह्णन्ति सुहृद्भिरीरितम् । ” इति । हि गतायुषो नरा हित ७ श्रातुरग्राह्यविरुद्धस्पर्शविप्रतिपत्तिं निर्दिशति कफजाः; अतस्तत्र जाड्यादयो वेदनाविशेषाः प्राकृताः य इति ॥ CC - 0. Gurukul Kangri Collection, Haridwar ८ शीतपिडकाः
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
२४ अ ० ३० ] 211 7-न-व-१ । तं T: Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १६१
उष्ण गात्रोऽतिमात्रञ्च यः शीतेन प्रवेपते ।
प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ॥ ८ ॥
पशुने वावकीर्णानि यश्च गात्राणि मन्यते ।
वर्णान्यता वा रोज्यो वा यस्य गात्रे भवन्ति हि ॥ ९ ॥
स्नौतानुलिप्तं यञ्चापि भजन्ते नीलमक्षिकाः ।
सुर्गंन्धिर्वाऽति योऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥ १० ॥
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् ।
उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ॥ ११ ॥
यस्य दोषाग्निसाम्यञ्च कुर्य्यर्मिथ्योपयोजिता ।
यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते ॥ १२ ॥।
सुर्गन्धं वेत्ति दुर्गन्ध दुर्गन्धस्य सुगन्धिताम् ।
गृह्णीते वाऽन्यथा गन्धं शान्ते दीपे च नीरुजः ॥ १३ ॥
यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् ।
द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा ॥ १४ ॥
विपरीतेन गृह्णाति भावानन्यांश्च यो नरः ।
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ॥ १५ ॥
66 = नीललो-१ श्रातुरगतग्रायविरुद्धरूपविप्रतिपत्तिमाह - पांशुनेति । २ राज्यः = हितादयो लेखा इत्यर्थः । श्रातुरगतग्राह्यविरुद्धरसविप्रतिपत्ति दर्शयति- स्नातेति । अत्र विशेषमाह चरकः- “ अत्यर्थं रसिकं कायं कालपक्कस्य मक्षिकाः । अपि स्नातानु-लिप्तस्य भृशमायान्ति सर्वतः ॥ ” इति । एतदरिष्टं वार्षिकमिति बोध्यम् । ४ आतुरगत-ग्राह्यविरुद्धगन्धविप्रतिपत्तिमभिधत्ते – सुगन्धिरिति । अत्रेत्त्वमाषम् । एतदप्य-रिष्टं वर्षावधि बोध्यम् । ५ श्रतुरग्राह्यरसविप्रतिपत्तिमाह – विपेति । मधुरोऽम्लः, अम्लो मधुर इति विपरीतेन । इदमरिष्टं मासिकमित्यवसेयम् । ६ आतुरग्राह्यगन्धवि-प्रतिपत्तिं दर्शयति - सुगन्धमिति । ७ विजातीयत्वेन । यथा मालतीयस्य केतकी-यत्वेन, केतकीयस्य मालतीयत्वेन । ८ आतुरग्राह्यस्पर्शविप्रतिपत्तिं वक्ति – द्वन्द्वा-नीति । प्रभातस्य सायङ्कालत्वेन, सायङ्कालस्य प्रभातत्वेनेति कालवैपरीत्यम् । एवमव-स्थाया दिशश्च वैपरीत्यं बोध्यम् । एतेन मानसः स्पर्श उक्तो भवति । “ स्पर्शनेन्द्रियसं-स्पर्शः स्पर्शो मानस एव च ” इति द्विविधः स्पर्शस्तन्त्रान्तरे । त्रैमासिकमरिष्टमेतत् । ९ श्रातुरग्राह्यरूपविप्रतिपत्ति दर्शयति = दिवेति । ११ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
१६२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया [ अ ० ३१
रात्रौ सूर्य्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् ।
अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् ॥ १६ ॥
तडित्त्वतोऽसितान् यो वा निम्मले गगने घनान् ।
विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् ॥ १७ ॥
यश्चानिलं मूर्त्तिमन्तमन्तरिक्षञ्च पश्यति ।
धूमनीहारवासोभिरावृतामिव मेदिनीम् ॥ १८ ॥
प्रदीप्तमिव लोकञ्च यो वा प्लुतमिवाम्भसा ।
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ॥ १ ९ ॥
न पश्यति सनक्षत्रां यश्च दे॒वीमरुन्धतीम् ।
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ॥ २० ॥
•
ज्योत्स्नादर्शोष्ण तो येषु छायां यश्च न पश्यति ।
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् ॥ २१ ॥
श्वकाककेङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् ।
पिशाचोरगनागानां भूतानां विकृतामपि ॥ २२ ॥
यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते ।
आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ॥ २३ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रियार्थविप्रतिपत्तिर्नाम त्रिंशोऽध्यायः ॥३० ॥
एकत्रिंशत्तमोऽध्यायः ।
अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥ १॥
१ चरकः– “ सप्तर्षीणां समीपरथां यो न पश्यत्यरुन्धतीम् । संवत्सरान्ते जन्तुः स पश्यतीति महत्तमः ॥ ” इति । २ श्रस्य लक्षणम् – “ कङ्कः स्यात्कङ्कमल्लाख्यो बाणपक्षार्हपक्षकः लोहपृष्ठो दीर्घपादः पक्षाधः पाण्डुवर्णभाक् ॥ ” इति । ३ मयूरकण्ठाभं — मयूरकण्ठ- । स्याभा इवाभा यस्य तं, नीलवर्णमित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां त्रिंशत्तमोऽध्यायः । एकत्रिंशत्तमोऽध्यायः । ४ छायाशब्दानन्तरमादिशब्दस्य लोपनिर्देशाच्छायाऽऽदीनां CC - 0. Gurukul Kangri Collection, Haridwar विप्रतिपत्तिमधि-