सुश्रुत संहिता चौखम्बा — पृष्ठ 321–330
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 321–330
पृष्ठ 321
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] १ ॥ १६३
सूत्रस्थानम् ।
यथोवाच भगवान धन्वन्तरिः ॥ २ ॥
CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri
श्योवा लोहितिका नीला पीतिका वाऽपि मानवम् ।
अभिद्रवन्ति यं छायाः स परासुरसंशयम् ॥ ३ ॥
हीरपक्रमते यस्य प्रभावृर्तिस्मृतिश्रियः ।
अकस्माद्यं भजन्ते वा स परासुरसंशयम् ॥ ४ ॥
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः ।
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ॥ ५ ॥
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा ।
खञ्जंनप्रतिमा वाऽपि तं गतायुषमादिशेत् ॥ ६ ॥
कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूनां च यस्य वै ।
कर्कशा वा भवेद् यस्य सोऽचिराद्विजहात्यसून् ॥ ७ ॥
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका ।
अर्व॑स्फूर्जति मग्ना वा न स जीवति मानवः ॥ ८ ॥
सङ्क्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने । कृत्य कृतोऽध्यायस्तम् । आदिशब्दाद् हीश्रीतुष्ट्यादिविप्रतिपत्तीनां ग्रहणम् । चरकः-“ छाया वर्णप्रभाऽऽश्रया ” इति । श्रनयोर्भेदोऽष्टाङ्गसङ्ग्रहे – छाया वर्णमाक्रामत्या-सन्ना च लक्ष्यते पञ्चभूतात्मिका च । प्रभा तु वर्णं प्रकाशयति विप्रकृष्टाल्लक्ष्यते तेजः प्रभवैव च । ” इति । चरकेण – नाभसी निर्मला नीला सस्नेहा सप्रभेव च । " इत्या-दिना पञ्चविधाश्छायाः, “ रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता । " इत्या-दिना सप्तविधाः प्रभाः, “ कृष्णः कृष्णश्यामः श्यामावदात अवदातश्च ” इत्यादिना • चतुर्विधा वर्णाश्च प्रदर्शिताः । १ रिष्टभूताश्छाया दर्शयति - श्यावेति । २ अभिद्रवन्ति = उपसर्पन्तीत्यर्थः । चरकोऽध्युक्तवान् —– छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः । ” इत्यादिना । ३ शीलविकृतेररिष्टत्वमाह — होरिति । अपक्रमते = अपसरति । ४ चरकः- “ धृतिर्हि नियमात्मिका ” । “ आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः । ” इति । ५ श्रोष्ठाद्यवयवविकृतेररिष्टत्वं प्रतिपादयति - यस्येति । ६ जाम्बवाभासौ -पक्कजम्बूफलसदृशावित्यर्थः = खञ्जरीटकण्ठवन्नीलाः मर्दना-। ७ खञ्जनप्रतिमाः दिभिरगारधूमानुरचितमुपस्तरणं खञ्जनमुच्यते, यं खरजिमित्याद्दुर्मृदङ्गवादका इति । ढल्हणः । ८ शूना = श्वयथुयुक्तेत्यर्थः । ९ अवस्फूर्जति = दृढं शब्दायते
पृष्ठ 322
पाठ पढ़ें पाठ छिपाएँ
१६४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० ३१ स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ॥ ९ ॥
केशाः सीमन्तिनो यस्य सङ्क्षिप्ते विनते भ्रुवौ ।
लुर्नन्ति चाक्षिपक्ष्माणि सोऽचिराद् याति मृत्यवे ॥ १० ।
नाह॑रत्यन्नमाम्यस्थं न धारयति यः शिरः ।
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ॥ ११ ॥
बलवान् दुर्बलो वाऽपि सम्मोहं योऽधिगच्छति ।
उत्थाप्यमानो बहुशस्तं पक्कं भिषगादिशेत् ॥ १२ ॥
उत्तानः सर्वदा शेते पादौ विकुरुते च यः ।
विप्रसारणशीलो वा न स जीवति मानवः ॥ १३ ॥
शीत पादकरोच्छ् वा संश्छिन्नोच्छ्वासश्च यो भवेत् ।
कौकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् ॥ १४ ॥
निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा ।
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ॥ १५ ॥
उत्तरौष्ठञ्च यो लिह्यादुत्कारांश्च करोति यः ।
प्रेतैर्वा भाषते सार्द्धं प्रेतरूपं तमादिशेत् ॥
खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते । १६ ॥
पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् वार्ताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी ॥ १७ ॥
। रुजाऽन्नविद्वेषकरी स परासुरसंशयम् अनन्योर्पंद्रवकृतः शोफः पादसमुत्थितः ॥ १८ ॥
। १ लुनन्ति = अनवरतं चलन्तीत्यर्थः । एतदरिष्टं त्रिरात्रान्मरणाय भवति । स्वस्थस्य षड्रात्रात्, आतुरस्य च २ रिष्टभूतां कायावयवक्रियाविप्रतिपत्तिमधिकृत्य गिलतीत्यर्थः । ३ विकुरुते - वारं वारं तत्प्रसारणाकुञ्चने कथयति — नाहरतीति । न सारणशीलः = पादसङ्कोचनशीलः । एतदरिष्टं सद्योमृत्युकारकम् करोतीत्यर्थः । ४ विप्र-काकत्रद्व्यात्तमुखत्वेनोच्छ्वासनशीलः । ६ उत्कारान् । ५ काकोच्छ्वासः -= उद्गारानित्यर्थः । ७ खेभ्यः = ऊर्ध्वाधःसर्वविद्रेभ्यः, चरकेऽप्युक्तम् कूपेभ्य एव च । वर्तते तामसंख्येयां गतिं तस्याद्दुरन्तिकीम् – “ यदा तु सर्वछिद्रेभ्यो रोम-ठोला ग्रन्थिः, न तु वातव्याधिपठिता वाताष्ठीला । ॥ ” इति वातस्या-९ अनन्योपद्रवकृतः = नान्योप-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 323
पाठ पढ़ें पाठ छिपाएँ
अ ० ३१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम् ॥ १ ९ ॥
अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता । १६ ९ श्वासिनः कासिनो वाऽपि यस्य तं क्षीणमादिशेत् ॥ २० ॥
स्वेदो दाहश्च बलवान् हिक्का श्वासश्व मानवम् ।
बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः ॥ २१ ॥
श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति ।
मुखञ्च जायते पूति यस्य तं परिवर्जयेत् ॥ २२ ॥
वक्त्रमापूर्यतेऽश्रुभिः स्विद्यतञ्चरणावुभौ ।
चक्षुवाकुलतां याति यमराष्ट्रं गमिष्यतः ॥ २३ ॥
अतिमात्रं लघूनि स्युर्गात्राणि गुरुकारिण वा ।
यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् ॥ २४ ॥
' पङ्कमत्स्य वसा तैलघृतगन्धांश्च ये नराः ।
मृष्टगैन्धांश्च ये यान्ति गन्तारस्ते यमालयम् ॥ २५ ॥
यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः ।
येषां वाऽपि रतिर्नास्ति यातारस्ते यमालयम् ॥ ६६ ॥
ज्वरातिसारशोफाः स्युर्थस्यान्योन्यावसादिनः ।
प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम ॥ २७ ॥
क्षीरणस्य यस्य क्षत्तष्णे हृद्यैर्मिष्ठैर्हितैस्तथा ।
न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥ २८ ॥
प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् ।
पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥ २ ९ ॥
द्रवकृत इत्यर्थः; श्वासपिपासाऽऽदिशोफोपद्रवैरेव कृत इति निष्कर्षः । शोफोपद्रवा वक्ष्यन्ते– “ श्वासः पिपासा दौर्बल्यं ज्वरश्छर्दिररोचकः । हिक्काऽतिसारकासाश्च शोथिनं क्षपयन्ति हि काष्ठानाम् ' इतिव-॥ ” इति । १ अश्रणामिति पाठे ' नाग्निस्तृप्यति त्करणे षष्ठी बोध्या पूर्णां याति । ३ मृष्ट-। २ आकुलताम् = श्रोदनमण्डादिनैव गन्धान् = शोभनगन्धान्, मरिचगन्धानिति सुश्रुतार्थसन्दीपनभाष्यम् । ४ अन्यो--|| न्यावसादिनः = परस्परोपद्रविण इत्यर्थः । श्रात्रेयः - ' ' ज्वरातिसारौ शोफान्ते श्वय-युर्वा तयोः क्षये । दुर्बलस्य विशेषेण नरस्यान्ताय जायते ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 324
पाठ पढ़ें पाठ छिपाएँ
१६६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ३२
विषमेणोपचारेण कर्म्मभिश्च पुराकृतैः ।
अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ॥ ३० ॥
प्रेतो भूताः पिशाचाश्च रक्षांसि विविधानि च ।
मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥ ३१ ॥
तानि भेषजवीर्य्याणि प्रतिघ्नन्ति जिघांसया ।
तस्मान्मोघौः क्रियाः सर्वा भवन्त्येव गतायुषाम् ॥ ३२ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिनामै कत्रिंशत्तमोऽध्यायः ॥३१ ॥
द्वात्रिंशत्तमोऽध्यायः ।
अथातः स्वभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
स्वभावप्रसिद्धानां शरीरैकदेशानामन्य भावित्वं मरणाय तंद्यथा— शुक्लानां कृष्णत्वं, कृष्णानां शुक्लता, रक्तानामन्यवर्णत्वं, । स्थिराणां मृदुत्वं, मृदूनां स्थिरता, चलानामचलत्वम् अचलानां चलता, १ अरिष्टोद्भवहेतुत्रयमभिधत्ते - विषमेणेति । उपचारः = = आहारविहारादि-व्यवहारः, प्रकृतेर्बलादीन् भावानुपेक्ष्य कृत उपचारो विषमोपचारः; अवेक्ष्य उपचारः समोपचारः । २ गतायुषां चिकित्साया निष्फलत्वे हेतुमाह – प्रेता कृत ३ जिघांसया = हन्तुमिच्छया । ४ मोघाः = निष्फला भवन्तीत्यर्थः । इति । इति सुश्रुतसंहितायाः सुधाऽऽख्य टिप्पन्यामेकत्रिंशत्तमोऽध्यायः । द्वात्रिंशत्तमोऽध्यायः । ५ स्वभावस्य प्रकृतेर्विप्रतिपत्तिर्विपरीतावबोधस्तदधिकृत्य कृतोऽध्यायः प्रतिपत्तिस्तम् । ६ अन्य भावित्वं = गुणकर्मभ्यामन्यथाभावित्वमित्यर्थः स्वभाववि-रैकदेशानामन्यथात्वमुपदर्शयति - तद्यथेति ॥ ७ शरी-शुक्लानां = नयनशुक्लमण्डलदन्तादी-नाम्, कृष्णानां = केशश्मश्रूवादीनाम्, रक्तानाम् = श्रोष्ठजिह्वाऽऽदीनाम् = कठिनानामस्थ्यादीनाम्, मृदूनां = त्वङ्मांसादीनाम्, चलानां, स्थिराणां ‘ अचलानां = मेदोऽस्थिनाभ्यादीनाम्, पृथूनां = महतां शिपेललाटोरःप्रभृतीनाम् - सन्धिजिह्वाऽऽदीनाम्, , सङ्क्षि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 325
पाठ पढ़ें पाठ छिपाएँ
२ अ ० ३२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् १६७ सङ्क्षिप्तानां पृथुता, दीर्घाणां ह्रस्वत्वं, हा पृथूनां सङ्क्षिप्तत्वं, पतनधम्मित्वं, पतनधर्मिणामपतनध-दीर्घता, पतनधरिणां ममत्वः अकस्माच्च शैत्यौष्ण्यस्नैग्ध्य रौक्ष्य प्रस्तम्भवैवर्ण्या व सादनञ्चा-ङ्गानाम् ॥ ३ ॥
स्वेभ्यः स्थानेभ्यः शरीरैकदेशी नाम वस्त्रस्तोत्क्षिप्त भ्रान्तावक्षि-प्तपतितविमुक्तनिर्गतान्तर्गतगुरुलघुत्वानि, प्रवालवर्णव्यङ्गप्रादुर्भावो वा पिडैको-वाऽप्यकस्मात्, सिराणाञ्च दर्शनं ललाटे, नासावंशे त्पत्तिः, ललाटे प्रभातकाले स्वेदः, नेत्ररोगाद्विना वाऽश्रुप्रवृत्तिः, गोमय चूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलेयनं वा कपो-तककाकप्रभृतीनां मूत्रपुरी पवृद्धिरभुञ्जानानां तत्प्रणाशो भुञ्जा-नानां वा, स्तनमूलहृदयोरःसु च शूलोत्पत्तयः, मध्ये शू तत्वमन्तेषु परिम्लीयत्वं विपर्ययो वा तथाऽर्द्धाने श्वयथुः शोषोऽङ्गप-क्षयोर्वा, नष्टहीनविकलविकृतस्वरता वा, विवर्णपुष्पप्रादुर्भाव वा दन्तमुखनखशरीरेषु । यस्य वाऽप्सु कफपुरीषरेतांसि निमज्जन्ति, यस्य वा दृष्टिमण्डले भिन्नविकृतानि रूपाण्यालोक्यन्ते, स्नेहाभ्यक्तकेशाङ्ग इव यो भाति, तत्वं = सङ्कुचितत्वम्, सङ्क्षिप्तानां = दृष्टिमण्डलादीनाम्, दीर्घाणां = जङ्घाऽऽदीनाम्, हस्वानां = ग्रीवाऽऽदीनाम्, अपतनधर्मिणां = नखकेशादीनाम्, पतनधर्मिणां = स्वे-दमूत्रपुरीषादीनाम् । १ एकदेशानाम् = ओष्ठश्रूपक्ष्मणाम्, अवस्रस्तत्वम् = अधःप्रलम्बित्वम्, उत्क्षि-सत्वम् = ऊर्ध्वगतित्वम्, भ्रान्तत्वं - चञ्चलत्वम्, अत्रक्षिप्तत्वं = तिर्यक्क्षिप्तत्वम्, • पतितत्वं = न विभक्तिशिरोग्रीवमिति चरकोक्त्या शिरोग्रीवाऽऽदीनामेवावधार्यमाण-त्वम्, विमुक्तत्वं = सन्धीनां मोक्षः, निर्गतत्वं = जिह्वानेत्रादीनां वहिर्निःसरणम्, अन्त-र्गतत्वं = तेषामेवान्तः नीरुजं तनुकं श्यावं प्रवेशः । २ प्रवालस्य वर्ण इव व्यङ्गः । " मुखे वर्णाभा व्यङ्गम् ” इति वक्ष्यमाणलक्षणः क्षुद्ररोगस्तस्य प्रादुर्भावः । ३ “ बिम्बोविद्रुम-शक्रगोपप्रभाऽपि वा । नासावंशे भवेद् यस्य पिटका न स सिद्धति ॥ ” इति । ४ चरकः– “ यस्य गोमयचूर्णाभं चूर्णं मूर्द्धनि जायते । सस्नेहे भ्रश्यते चैव मासान्तं तस्य जीवितम् । ६ परि-. म्लायित्वं = शुष्कता ॥ ” इति । ५ निलयनं = पतनम्, उपवेशनमिति यावत् ॥ ७ विवर्णपुष्पप्रादुर्भावः = अनुज्ज्वलवर्णचिह्नोत्पत्तिरित्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 326
पाठ पढ़ें पाठ छिपाएँ
१६८ अ ० ३२ Digitized by Arya Samaj ‡ सुश्रुतसंहितायां and eGangotri [ यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां पीड्यते, कासमानश्च तृष्णाऽभि-भूतः, क्षीणश्छदिभक्तद्वेपयुक्तः, सफेनपूय रुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः, शूनकरचरणवदनः क्षीणोऽन्नद्वेषी स्रस्त-पिण्डिकांसपाणिपादो ज्वरकासाभिभूतः, यस्तु पूर्वाह्णे भुक्तमपराह्ने छर्दयत्यविदग्धमतिसार्य्यते वा ज्वरकासाभिभूतः स श्वासान्प्रियते । बस्तेवद्विलपन् यश्च भूमौ पतति स्रस्तंमुष्कः, स्तब्धमेढ़ो भग्नग्रीवः प्रनष्टमेर्हेनश्च मनुष्यः, प्राग्विशुष्यमारणहृदय आर्द्रशरीरः, यश्व लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन, तृणानि वा छिनत्ति, अधरोष्ठं दशति, उत्तरोष्ठं वा, लेढि आलुवति वा कर्णौ केशांच, देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि, यस्य वक्रानुवक्रगा ग्रहा गर्हितस्था-नगताः पीडयन्ति, जन्म वा यस्योल्काऽशनिभ्यामभिहन्यते होरा वा, गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हित लक्षण-निमित्तप्रादुर्भादो वेति ॥ ४ ॥
भवन्ति चात्र । चिकित्स्यमानः सम्यक् च विकारो योऽभिवर्धते1 १ वस्तवद् = व्यापाद्यमानछगलकवदित्यर्थः । २ स्रस्तमुष्कः = स्थानाच्च्युता-ण्डकोशः ॥ ३ प्रनष्टमेहनः = प्रनष्टमूत्रः । ' मेहनं मूत्र शिश्नयो: ' इति ४ नखैश्छिनत्तीत्यर्थः । ५ श्रलुञ्चति = उत्पाटयति । ६ समाक्रान्तं मेदिनी । पुनः पूर्वमेव भुक्तराशिं नक्षत्रं वा याति सा ग्रहाणां वक्रगतिः । अनुगत राशि एवोत्तरस्थान- मुक्त्वा-मनुप्राप्ता गतिरनुवक्रः । सूर्यसिद्धान्ते - ' वक्रानुवक्रा कुटिला तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ॥ ' इति । मन्दा मन्दतरा समा । ३ पुत्रो रिपुस्तथा । भार्या च निधनं धर्मः कर्म चायो व्ययस्तथा ७ ' लग्नं धनं सोदरं च बन्धुः नैष्वनुपचयराशिलक्षणं गर्हितस्थानम् । अनुपचयश्च राशयः " ॥ इत्युक्तेषु द्वादशस्था-द्वितीयचतुर्थपञ्चमसप्तमाष्टमनवमद्वादशराशय स्वजन्मनक्षत्रराशेः प्रथम-कविंशतितमं नक्षत्रमुल्का. अशनिस्तु त्रयोविंशम् । उक्तं च इतीन्दुः । ८ सूर्याधिष्ठितान्नक्षत्रादे-द्वाविंशतितमं कल्पं त्रयोविंशं च वज्रकम् । निर्घातं - ' उल्का स्यादेकविंशतिः । होरा = जन्मराशिः, अभिहन्यते च चतुर्विंशमुक्ता ह्यष्टावुपग्रहाः ' ॥ तन्निमित्तरतत्कारणः प्रादुर्भावोऽरिष्टस्योत्पत्तिरित्यर्थः = सर्वतोभद्रवेधक्रमेण विध्यते । ९ गर्हितलक्षणान दिकं, दाराणां पश्वादिप्रसवनमित्यादिकं गहिंतलक्षणं । यथा महाभारतीयभीष्मविराटपर्वत- गृहस्य गृध्रोपवेशना-श्चानुसन्धेयम् । CC - 0. Gurukul Kangri Collection, Haridwar इति
पृष्ठ 327
पाठ पढ़ें पाठ छिपाएँ
1 7.. 1 ः । ८२ 7. रः अ ० ३३ ] Sam Digitized by Ary संस्थाम a on Chennai and eGangotri १६ ९ प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ॥ ५ ॥
निवर्तते महाव्याधिः सहसा यस्य देहिनः ।
न चाहारफलं यस्य दृश्यते स विनश्यति ॥ ६ ॥
एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक् ।
साध्यासाध्यपरीक्षायां स राज्ञः सम्मतो भवेत् ॥ ७ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिपत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥
त्रयस्त्रिंशत्तमोऽध्यायः ।
अथातोऽवारणीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवाय्र्यताम् ।
रसायनाद्विना वत्स! तान् शृण्वेकमना मम ॥ ३ ॥
वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम् ।
अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ॥ ४ ॥
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः ।
प्राणमांसक्षयश्वासतृष्णाशोपवमीज्वरैः ॥ ५ ॥
१ निवर्तते = कारणं विनैव निवृत्तो भवतीत्यर्थः । २ चरकः - ‘ आहारमुपयु-ञ्जानो भिषजा सूपकल्पितम् । यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ॥ ” इति । ३।श्ररिष्टज्ञानफलं दर्शयति - एतानीति । ४ सम्मतः = पूज्यो भवतीत्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां द्वात्रिंशत्तमोऽध्यायः । त्रयस्त्रिंशत्तमोऽध्यायः । ५ उपद्रव विशेषजुष्टतया न विद्यते वारणं येषां तेऽवारणा व्याधयस्तानधिकृत्य कृतोऽध्यायोऽवारणीयरतम् उपद्रवाः ॥ ६ मूलव्याध्युत्पत्त्यनन्तरं जायमाना व्याधय यथाऽऽह रोगात्पश्चाज्जायत चरकः– “ उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽपुर्वा इत्युपद्रव संज्ञः । " इति । ७ रसायनाद्विना = रसायनतपोजपादिकं विनेत्यर्थः । रसायनादिभिरत्वसाध्यो व्याधिरपि साध्यत इति निष्कर्षः । ८दुश्चिकित्स्यान् मूलव्याधीन् दर्शयति – वातॆति । ९ वातव्याध्यादीनाम-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 328
पाठ पढ़ें पाठ छिपाएँ
[ अ ० ३३ १७० Digitized by Arya Sama सुश्रुतसंहिताय farand eGangotri
मूर्च्छाऽतिसारहिकाभिः पुनश्चैतैरुपद्रुताः ।
वर्जनीया विशेषेण भिषजा सिद्धिमिच्छता ॥ ६ ॥
शूनं सुप्तत्वेचं भग्नं कम्पाध्माननिपीडितम् ।
नरं रुजार्त्तमन्तश्च वातव्याधिर्विनाशयेत् ॥ ७ ॥
यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा ।
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ॥ ८ ॥।
प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम् ।
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥ ९ ॥
तृष्णारोचकशूलार्तमतिप्रस्स्रुतशोणितम् ।
शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् ॥ १० ॥
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च ।
भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥ ११ ॥
प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् ।
अश्मरी क्षपयत्याशु सिकता शर्कराऽन्विता ॥ १२ ॥
गर्भकोर्षपरासङ्गो मक्कल्लो योनिसंवृतिः ।
हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ॥
पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् १३ ॥
विरिक्तं पूर्य्यमाणञ्च वर्जयेदुदरार्दितम् ॥ । १४ ॥
साध्यताहेतूनुपद्रवानभिदधाति — प्राणेति । १ सुप्तत्वचं = स्पर्शानभिज्ञत्वचमित्यर्थः २ अष्टाङ्गसङ्ग्रहे– “ अविपाकोऽरुचिश्छर्दिनिंद्रा कासः सपीनसः । मेहानां कफजन्मनाम् ॥ बस्तिमेहनयोस्तोदो मुष्काबदरणं । उपद्रवाः प्रजायन्ते मूर्च्छा विड्भेदः पित्तजन्मनाम् ॥ वातिकानामुदावर्तकण्ठहृद्ग्रहलो ज्वरः । दाहस्तृष्णाम्लको द्रता शोषः कासः श्वासश्च जायते ॥ ” लताः । शूलमुन्नि-राविकाचा दश पिडकास्ताभिः पीडितम् इति । ४ । श्रतिप्रस्रुतं पञ्चमधात्त्रस्थिस्थितं = मूत्रातिस्राबिणम् । ३ शू-संशोधनसंशमनाभ्यङ्गगुग्गुलुशिलाजतुप्रभृतीनि कुष्ठं, तत्र कर्माणि ५ शर्कराऽन्विता सिकता तेषां गुणाः फलानि तेभ्योऽतीतम् । कोषस्य गर्भाशयस्य परोऽत्यर्थमासङ्गः सम्बद्धता: । ६ गर्भकोषपरासङ्गः च क्षपयतीति सम्बन्ध -- गर्भ-मक्कल्लसंज्ञितम् । ढल्हणः – तथा गर्भाशयाच्च्युतगर्भाया , मक्कल्लः = योनिद्वारसक्तगर्भायाश्च सूताया हृच्छिरोवस्तिशूल ६ रक्तं CC - 0. Gurukul Kangri Collection, Haridwar I
पृष्ठ 329
पाठ पढ़ें पाठ छिपाएँ
३३ अ ० ३३ ] यन्ते नको नि-श-... तं Digitized by Arya Samai Foundation Chennai and eGangotri सूत्रस्थानम्
यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा ।
शीतोदितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ॥ १५ ॥
यो हृष्टरोमा रक्तातो हृदि सङ्घातशूलवान् । १७१ नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ॥ १६ ॥
हिक्काश्वासपिपासाऽऽ मूढं विभ्रान्तलोचनम् ।
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥ १७ ॥
आविलक्षं प्रताम्यन्तं निद्रायुक्तमतीव च ।
क्षीणशोणितमांसञ्च नरं नाशयति ज्वरः ॥ १८ ॥
श्वासशूलपिपासाऽऽर्त्तं क्षीणं ज्जरनिपीडितम् ।
विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥ १ ९ ॥
शुक्लाक्षमन्नद्वेप्रारमूर्ध्वश्वासनिपीडितम् ।
कृच्छ्रेण बहु मेहन्त यक्ष्मा हन्तीह मानवम् ॥ २० ॥
श्वासशूलपिपासाऽन्नविद्वेषयन्थिमूढताः ।
भवन्ति दुर्बलत्वच गुल्मिनो मृत्युमेध्यतः ॥ २१ ॥
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् ।
रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥ २२ ॥
पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः ।
पाण्डुर्संङ्घातदर्शी च पाण्डुरोगी विनश्यति ॥ २३ ॥
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः ।
रक्तानाञ्च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥ २४ ॥
अवाङमुखस्तून्मुखो वा क्षीणमांसबलो नरः ।
जागरिष्णुरसन्देहमुन्मादेन विनश्यति ॥ २५ ॥
स्रुतमन्तःस्थितं पच्यमानं मक्कल्लसंज्ञितं भवतीति ज्ञेयमिति । १ ताम्यति मुह्यति, मुहुर्मुहुर्मूर्च्छां प्राप्नोतीति यावत् । २ बहिःशीतार्दित इत्यर्थः1 ३ हृष्टरोमाः = रोमाञ्चितदेहः । ४ विभ्रान्तलो-# चनं शश्वदितस्ततो । घूर्णितनेत्रम् । ५ आविलाक्षम् = श्रोदनमण्डनवदश्रुपूर्णनयनम् ६ रात्रिन्दिवमित्यर्थः । ८ बद्धनिष्यन्दं = बद्धमूत्रम् ॥ ७ ग्रन्थिमूढता = ग्रन्थिरूपस्य गुल्मस्याकस्याल्लीनता ९ पाण्डुसङ्घातदर्शी = श्वेतसमूहदशीं । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 330
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहिताया १७२ बहुशोऽपस्मरन्तन्तु प्रक्षीणं चलितभ्रुवम् । चतुस्त्रिंशत्तमोऽध्यायः । चतुस्त्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० ३४ श्र पर I कि Digitized by Arya Samaj Foundation Chennai and eGangotri नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत् ॥ २६ ॥
इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३ ॥
अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
युक्तसेनस्य नृपतेः परानभिजिगीषतः ।
भिषजा रक्षणं कार्य्यं यथा तदुपदेक्ष्यते ॥ ३ ॥
विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः ।
रक्षितव्यो विशेषेण विषादेव नराधिपः ॥ ४ ॥
पन्थानमुदकं छायां भक्तं यवसमिन्धनम् ।
दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ।
तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते ॥ ५ ॥
एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ।
तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः ॥ ६ ॥
१ विकुर्वाणम् = तिर्यक् क्षेपणादिरूपां विक्रियां कुव णमित्यर्थः ॥
इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां त्रयस्त्रिंशत्तमोऽध्यायः । २ युक्ता युद्धार्थं नियुक्ता सेना यस्य स युक्तसेनो राजा, तमधिकृत्य कृतोऽध्या-यो युक्तसेनीयस्तम् । ३ साधारणतया सर्वेभ्य श्रागन्तुमृत्युभ्यो रक्षणीयः, विशेषतस्तु स्थावरजङ्गमकृत्रिमात्मकविषाद् रक्षितव्यः । ४ विषेण दूषितो मार्गोऽश्वादिखुरोत्था-पितधूल्या रोमनासिकाच्छिद्रादिष्वन्तः प्रविशन् विकरोति । ५ मृत्युशतम् = एकाधिकं शतं मृत्युरित्यर्थः । कारणानामसंख्येयश्त्राच्छतशब्दोऽत्र इयत्ताबोधको न, किन्तु संख्यावाचकः । ६ कालेन संयुक्तः कालमृत्युरित्यर्थः । काल-संज्ञ इति पाठान्तरम् । शॆषाः = शतम्, श्रागन्तवः = विषमाभ्यवहारादितोऽभिचारादित-श्चागमनशीला अपमृत्यवः, अकालमृत्यव इत्यर्थः । “ जलमग्निर्विषं शस्त्रं स्त्रियो राजकु-लानि च । अकालमृत्यवो ह्येते तेभ्यो विभ्यति पण्डिताः ॥ " इत्याद्यवसेयम् ।