सुश्रुत संहिता चौखम्बा — पृष्ठ 381–390

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 381–390

पृष्ठ 381

सुश्रुत संहिता चौखम्बा, पृष्ठ 381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४४ ] ३ 1. सूत्रस्थानम् । २२१ चतुश्चत्वारिंशत्तमोऽध्यायः ।

चतुश्चत्वारिंशत्तमोऽध्यायः ।

- प्रस्थे = अष्टविंशत्युत्तरशततोलके ॥

९ कुडवप्रमाणं = षोडशतोलक प्रमाणमित्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri पेयलेह्याद्यभोज्येषु ' वमनान्युपकल्पयेत् ॥ ११ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्रव्यविकल्पविज्ञानीयो नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥

अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अरुणाभ त्रिवृन्मूलं श्रेष्ठं मूलविरेचने ।

प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ॥ ३ ॥

तैलेब्वेरण्डजं तैलं स्वरसे कारवेल्लिका ।

सुधापयः पयःसूक्तमिति प्राधान्यसङ्ग्रहः ।

तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ॥ ४ ॥

वैरेचनद्रव्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम् ।

चूर्णीकृतं सैन्धवनागराढ्यमम्लैः पिवेन्मारुतरोगजुष्टः ॥ ५ ॥

इतोर्विकारैरसैस्तत् पैत्ते गदे क्षीरयुतं पिवेच ।

गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ॥ ६ ॥

त्रिवर्णकत्र्यूषणयुक्तमेतद् गुडेन लिह्यादनवेन चूर्णम् ।

प्रस्थे च तन्मूलरसस्य दत्त्वा तन्मूलकल्कं कुर्डवप्रमाणम् ॥७ ॥

न्युपकल्पयेत् ' इति परेणान्वयः । १ भोज्यपदेन मोदकशष्कुल्यादीनां ग्रहणम् । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां त्रिचत्वारिंशत्तमोऽध्यायः । २ विरेचनद्रव्याणां विकल्पो विविधो योगस्तस्य विज्ञानमधिकृत्येत्यादि पूर्ववत् । ३ मूलत्वग्फलतैलस्वरसदुग्धेषु प्रधानानि विरेचनद्रव्याणि दर्शयति- अरुणाभमिति । मूलमित्यर्थः । ६ मधुरैः = ४ अनुपीतम् = अनुभावितम् । ५ कृभ्यादिदोषरहितं काकोल्यादिभिः, रसैः = क्काथैः, तद् = ईपल्लोहितं त्रिवृन्मूलम् । ७ त्रिवर्णकत्र्यू-पणयुक्तं = त्रिजातकत्रिकटुसहितमित्यर्थः । ८ तन्मूलरसस्य = त्रिवृन्मूलक्वाथस्य ।

पृष्ठ 382

सुश्रुत संहिता चौखम्बा, पृष्ठ 382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chennai and eGangotri ' सुश्रुतसंहिताया- her Digitized by Arya Samaj, २२२ [ अ ० ४४ *

कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात् ।

तत्कल्कभागः समहौषधार्द्धः ससैन्धवो मूत्रयुतश्च पेयः ॥ ८ ॥

समास्त्रिवृन्नागरकाऽभयाः स्युर्भागार्द्धकं पूगफलं सुपकम् ।

दिडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ॥ ९ ॥

विरेचनद्रव्यभवन्तु चूर्णं रसेन तेषां भिषजा विमृद्य ।

तन्मूलसिद्धेन च सर्पिषाऽऽक्तं सेव्यं तदाज्ये गुटिकीकृतञ्च ॥ १० ॥

गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य ।

शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः ॥। ११ ॥

वैरेकी द्रव्यचूर्णस्य भागं सिद्धं सार्द्धं काथभागैश्चतुर्भिः ।

आमृद्गीयात सर्पिषा तच्छ्रुतेन तत्काथोष्मम्वेदितं सौमित ॥ १२ ॥

पार्कप्राप्ते फाणिते चूर्णितं तत्क्षिप्तं पक्कं चावताय्य प्रयत्नात् ।

शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् ॥१३ ॥

रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः ।

वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च ॥ १४ ॥

भित्त्वा द्विधेत्तुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा ।

पक्कञ्च सम्यक् पुटपार्कयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ॥१५ ॥

सितीजगन्धात्वक्क्षीरी विदारीत्रिवृतः समाः ।

लिह्यान्मधुघृताभ्यान्तु तृड्दाहज्वरशान्तये ॥ १६ ॥

१ विटङ्गसारः = विढङ्गबीजानि । २ मोदकभक्ष्यरूपं त्रिवृत्कल्पमुपदिशति - वैरेकीयेति । ३ सामितं = समिता एव सामितं, गोधूमचूर्णमित्यर्थः । तदाह राजनिघण्टौ– “ गोधूमा धवला धौताः कुट्टिताः शोधितास्ततः । प्रोक्षिताश्च विनिस्पृष्टाश्चालिताः समिताः स्मृताः ॥ ” इति । ४ पाकप्राप्ते = आसन्नपाकमागते, फाणिते = मोदकसाधनत्वाच्चूर्णादुद्विगुणीभूतेक्षुरसे । तदुक्तम्– “ इक्षो रसस्तु यः पक्कः किञ्चिद्गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥ ” इति । ५ यूषरूपं त्रिवृत्कल्पं निर्दिशति - रसेनेति । ६ पुटपा-करूपं त्रिवृत्कल्पं दर्शयति – भित्त्वेति । ७ त्रिभण्डी = शुक्ला त्रिवृत्तज्जातैस्त्रिभण्डि • जातैः । ‘ ङथापोः संज्ञाच्छन्दसोर्बहुलम्' इति हस्वः । ५ पुटपाकयुक्त्या = काश्मर्या-दिपत्राच्छादनकुशपरिवेष्टनमृदावलेपनज्वलदङ्गारादिस्थापनविधिना । ९ वैरचनलेहा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 383

सुश्रुत संहिता चौखम्बा, पृष्ठ 383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

1 T: TE नः 1. I । 1 ३ || ऋ ० ४४ ] Digitized by Arya Sama Foundation Chennai and eGangotri

शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् ।

रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥ १७ ॥

पचेल्लेहं सिताक्षौद्र पलार्धंकुडवान्वितम् ।

त्रिवृच्चूर्णयुतं शीतं पित्तन्नं तद्विरेचनम् ॥ १८ ॥ ।

त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीमधुनाऽऽप्नुयात् सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् ॥ १ ९ ॥

बीजाढ्य पथ्याकाश्मर्यधात्रीदाडिमकोलजान् ।

तैलभृष्टान् रसानम्लफलैरावाप्य सौधयेत् ॥ २० ॥

घनीभूतं त्रिसौगन्ध्यं त्रिवृत्क्षौद्रसमन्वितम् ।

तत्प्रायैः सुकुमारैर्विरेचनम् ॥ २१ ॥

नीलोतुल्यं त्वगेलञ्च तैत्रिवृत्स सितोपला ।

चूर्णं सन्तर्पणं क्षौद्रफलाम्लं सन्निपातनुत् ॥ २२ ॥

त्रिवृच्छ्यामासिता कृष्णात्रिफला माक्षिकैः समैः ।

मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः ॥ २३ ॥

त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा ।

क्षारकृष्णाविडङ्गानि सञ्चूर्ण्य मधुसर्पिषा ॥ २४ ॥

लिह्याद् गुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत् ।

कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् ॥ २५ ॥

हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् ।

चूर्णं श्यामात्रिवृन्नीली कट्वी मुस्ता दुरालभा ॥ २६ ॥

नभिदधाति - सितेति । = लेहार्थं मिश्रीकुर्यादित्यर्थः । १ आप्नुयात् ढ्यपथ्या = सुपक्वहरीतकी, काश्मर्यं = गाम्भारीफलम् । २२३ २ बीजा-३ साधयेत् = विपचेत्, ‘ बीजाढ्यपथ्यादीनां रसप्रस्थमग्निसन्तप्ते एरण्डतैलपलचतु- पाकेन ष्टये निक्षिप्य श्रम्लफलादीनां यथालाभं दाडिमादीनां चतुःपलं कल्कं दत्त्वा शीते घनीभूते चूर्णितं त्रिवृन्मूलं चतुःपलं स्वगेलापत्रचूर्णं च कर्षमितं प्रक्षिप्यावतार्यं । लोके ' नील ' मधुपलद्वयं देयमित्युपदेशः = नीलिनीफलतुल्यमित्यर्थः । ४ नीलीतुल्यं इति । ५ वैरेचनिकमोदकमाचष्टे – त्रिवृदिति । ६ लेहगुटिकयोः प्रयोगमाख्याति– । त्रिवृदिति त्रयो भागा बोद्धव्याः । ८ निरपायम् = उपद्रवरहितम् । ७ एषामपि CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 384

सुश्रुत संहिता चौखम्बा, पृष्ठ 384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chennai and eGangotri २२४ Digitized by Arya San सुश्रुतसंहितायां [ अ ० ४४

चव्येन्द्रबीजं त्रिफला सर्पिर्मांसरसाम्बुभिः ।

पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते ॥ २७ ॥

वैरेचनिकनिःक्काथभागाः शीतास्त्रयो मताः ।

द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् ॥ २८ ॥

तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत् ।

कलसे कृतसंस्कारे विभज्यतू हिमाहिमौ ॥ २ ९ ॥

मासादूर्ध्वं जातरसं मधुगन्धं वरासवम् ।

पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ॥ ३० ॥

वैरेचनिकमूलानां काथे माषान् सुभावितान् ।

सुधौतांस्तत्कषायेण शालीनाञ्चापि तण्डुलान् ॥ ३१ ॥

अक्षयैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् ।

शालितण्डुलचूर्णश्च तत्कषायोष्मसाधितम् ॥ ३२ ॥

तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् ।

मण्डोदकार्थे क्वाथञ्च दद्यात्तत्सर्वमेकतः ॥ ३३ ॥

निदध्यात्कलसे तान्तु सुरां जातरसां पिबेत् ।

एष एव सुराकल्पो वमनेष्वपि कीर्त्तितः ॥ ३४ ॥

मूलौनि त्रिवृदादीनां प्रथमस्य गणस्य च ।

महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ॥ ३५ ॥

१ वैरेचनिकगौढमासवमाह - वैरेचनिकेति । २ अधिश्रयेत् = विपचेत् । ३ कृतसंस्कारे = घृतपिप्पल्याद्यालेपनैनागुर्वादिधूपनेन च संस्कृते । विभज्यतूं हिमाहि-मौ = हिमे शीते मासं धान्यराशौ स्थापनीयम्, अहिमे ग्रीष्मे पक्षं चेति तात्पर्यम् । ४ वैरेचनीं पैष्टीं सुरां निर्दिशति — वैरेचनिकेति । वैरेचनिकमूलानां त्रिवृदादि-मूलानां काथे सुभावितान् भावनाविधिना सप्तरात्रं वासितान् । भावनाविधिस्तु– “ दिवा दिवाऽऽतपे शुष्कं रात्रौ रात्रौ निवासयेत् । शुष्कं चूर्णीकृतं द्रव्यं सप्ताहं भावनाविधिः ॥ ` द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् । द्रवप्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ ॥ भाव्यद्रव्यसमं क्वाथ्यं क्वाथ्यादष्टगुणं जलम् । श्रष्टांशशोषितः क्काथो भाव्यानां तेन भावना ||" इति । ५ अवक्षुद्य= उलूखले सङ्कटय । ६ वैरेचनं सौवीरकमाह - मूला-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 385

सुश्रुत संहिता चौखम्बा, पृष्ठ 385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४ अ ० ४४ ] । वा 6 = = E न Digitized by Arya Samaj Foundation Chennai and eGangotri " सूत्रस्थानम् The

सुधां हैमवतीं चैव त्रिफलाऽतिविषे वचाम् ।

संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ॥ ३६ ॥

कुर्यान्निःक्काथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु । २२५ क्षुण्णांस्तस्मिंस्तु निःक्काथे भावयेद् बहुशो यवान् ॥ ३७ ॥

शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः ।

चतुर्थं भागमा वाप्य चूर्णानामनुकीर्तितम् ॥ ३८ ॥

प्रक्षिप्य कल से सम्यक् समस्तं तदनन्तरम् ।

तेषामेव कपायेण शीतलेन सुयोजितम् ॥ ३ ९ ॥

पूर्ववत्सन्निध्यात्तु ज्ञेयं सौवीरकं हि तत् ।

पूवोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ॥ ४० ॥

भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रैयेत् ।

अजशृङ्गयाः कषायेण तमभ्यासिच्य साधयेत् ॥ ४१ ॥

सुसिद्धांश्चावताय्यैतानौषधिभ्यो विवेचयेत् ॥

विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ॥ ४२ ॥

पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत् ॥

तेनैव सह यूषेण कलसे पूर्ववत्क्षिपेत् ॥ ४३ ॥

ज्ञात्वा जातरसञ्चापि तत्तुषोदकमादिशेत् ।

तुषाम्बुसौवीरकयोर्विधिरेषः प्रकीत्तितः ॥ ४४ ॥

षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीत्तिते ।

वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ॥ ४५ ॥

दन्तीद्रवन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे ।

पिप्पलीक्षौद्रयुक्तानि स्विन्नान्युद्धृत्य शोषयेत् ॥ ४६ ॥

नीति । प्रथमस्य गणस्य = विदारिगन्धाऽऽदेः । १ हैमवतीं श्वेतवचाम्, ‘ उसारेरेवन्द ’ इत्यन्ये । २ पूर्ववत्सन्निदध्यात् = आसवत्कृतसंस्कारे कलसे सन्निदध्यादित्यर्थः । ३ वैरेचनिकं तुषोदककल्पं निर्दिशति – पूर्वोक्तमिति । दित्यर्थः । ५ साधयेत् = रन्धयेत् । ६ विवेचयेत् = पृथक्कुर्यात् । ४ अधिश्रयेत् = स्थापये-७ दन्तीद्रवन्त्योर्विशिष्टकल्पमुपदिशति — दन्तोति । दन्तीद्रवन्त्योर्मूलान्युदुष्ट-८ स्विन्नानि = पुटपाकविधिना पक्कानि । त्य शोषयेदिति सम्बन्धः । १५ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 386

सुश्रुत संहिता चौखम्बा, पृष्ठ 386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२६ Digitized by Arya Sar कुतसंहितायां ennai and eGangotri [ अ ० ४४

ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः ।

तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ॥ ४७ ॥

सर्पिश्च पक्कं वीस कक्षौदाहालजीर्जयेत् ।

मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ॥ ४८ ॥

चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः ।

' न्तीद्रवन्तीमरिचकनकाह्व ्यवासकैः ॥ ४ ९ ॥

विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम् ।

सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ॥ ५० ॥

जीर्णे सन्तर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् ।

अजीर्णपार्श्वरुकृपाण्डुप्लीहोदरनिवर्हणम् ॥ ५१ ॥

गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम् ।

दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ॥ ५२ ॥

कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि ।

ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ॥ ५३ ॥

दोषघ्ना ग्रहणीपाण्डुरोगार्शः कुष्ठनाशनाः ।

व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥

नवैतानि समांशानि त्रिवृष्टर्दष्टगुणानि वै । ५४ ॥

श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ॥ ५५

सर्वाणि चूर्णितानीह गालितानि विमिश्रयेत् ॥।

१ त्रिवृद्विधानॆन = श्लेष्मणि गुडूच्यरिष्टेत्यादिप्रागुक्तविधिना, पित्ते इक्षोर्विकारैरि-त्यादिप्रागुक्तविधिना चेत्यर्थः । २ चक्रतैलं = चक्रपीडितं तिलतैलमित्यर्थः । ' चक्रं तैलयन्त्रम् ' इत्यमरटीकायां क्षीरस्वामी । ३ यज्ञोपवीतप्रतिमाः प्रभूताः लाल्लाजनिभास्तु कक्षाः । ४ दन्त्यादिचूर्णंमाह — दन्तीति । ५ दन्त्यादिमोदकं पित्तानि-निर्दिशति — गुडस्येति । ६ मोदकान् = मोदकाकारान् दशभागान् दशमे दशमेऽहनि खादेदिति सम्बन्धः । कृत्वा, एकं मोदकं रहिताः, पथ्यरहिता इति यावत् । ८ व्योषादिशींतविरेचनं ७ निर्यन्त्रणाः = वातातपादिप्रतिषेधनियम- त्रिवृदष्टकं निर्दिशति-व्योषमिति । १ ९ त्रिवृदष्टगुणेो येषु तानि त्रिवृदष्टगुणानि १० गालितानि = वस्त्रेण गालितानीत्यर्थः ॥ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 387

सुश्रुत संहिता चौखम्बा, पृष्ठ 387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४४ ] ३४ इत्यमरः । सूत्रस्थानम् । २२७ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri षडभिश्च शर्कराभागैरी पैत्सैन्धवमाक्षिकैः ॥ ५६ ॥

पिण्डितं भक्षयित्वा तु ततः शीताम्बु पाययेत् ।

बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ॥ ५७ ॥

निर्यन्त्रणमिदं सर्व विषघ्नन्तु विरेचनम् ।

त्रिवृदष्टकसंज्ञोऽयं प्रशस्तः पित्तरोगिणाम् ॥ ५८ ॥

भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः ।

भैक्ष्यरूपसधर्मत्वादाढयेष्वेव विधीयते ॥ ५ ९ ॥

तिल्वैकस्य त्वचं बाह्यामन्तर्वल्क विवर्जिताम् ।

चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गौलयेत् ॥ ६० ॥

तृतीयं भावितं तेन भागं शुष्कन्तु भावितम् ।

दशमूलीकषायेण त्रिवृद्वत्सम्प्रयोजयेत् ॥ ६१ ॥

विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते ।

हरीतक्याः फलं त्वस्थिवियुक्तं दोषवर्जितम् ॥ ६२ ॥

योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम् ।

रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ॥ ६३ ॥

हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् ।

मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥ ६४ ॥

हरीतकी भद्रदारु कुष्ठं पूगफलं तथा ।

सैन्धवं शृङ्गवेरञ्च गोमूत्रेण विरेचनम् ॥ ६५ ॥

नीलिनी फलचूर्णश्च नागराभययोस्तथा ।

लिह्याद् गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ॥ ६६ ॥

१ अत्र चतुर्थांशवाचकस्य ईषच्छब्दस्य सैन्धवशब्देन सहान्वयः । पिण्डित-मिति विशेषणाद् माक्षिकन्तु पिण्डितत्वसम्पादनयोग्यमेव देयम् । २ भक्ष्यरूपसधर्म-त्वात् - अपूपमोदकादिभक्ष्यरूपतुल्यत्वात्, आढ्येषु = धनिषु, ' ईभ्य आढ्यो धनी स्वामी ’ ३ त्वक्प्रसाधनकतिल्वककल्पमुपदिशति - तिल्वकस्येति । तिल्वकः = रोधाकारो बृहत्पत्रो रक्तवैरेचनिकवृक्षः । ४ तिल्वकमूलक्वाथेन गालयेदित्यर्थः । गालनं पुनरिहैकविंशतिवारान् पारम्पर्यादिति डल्हणः । ५ फलप्रधानहरीतकी-- कल्पं निर्दिशति – फलानामिति । ६ “ यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् । ”

पृष्ठ 388

सुश्रुत संहिता चौखम्बा, पृष्ठ 388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२८ Digitized by Arya Sam सुश्रुतसंहितायां ai and Gangotri [ अ ० ४४

पिप्पल्यादिकषायेण पिबेत्पष्टां हरीतकीम् ।

सैन्धवोपहितां सद्य एष योगो विरेचयेत् ॥ ६७ ॥

हरीतकी भक्ष्यमाणा नागरेण गुडेन वा ।

सैन्धवोपहिता वाऽपि सोतत्येनाग्निदीपनी ॥ ६८ ॥

वातानुलोमनी वृष्या चेन्द्रियाणां प्रसादनी ।

सन्तर्पणैकृतान् रोगान् प्रायो हन्ति हरीतकी ॥ ६ ९ ॥

शीतमामलकं रूक्षं पित्तमेदःकफापहम् ।

बिभीतकमनुष्णन्तु कफपित्तनिबर्हणम् ॥ ७० ॥

त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च ।

त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ॥ ७१ ॥

वयसः स्थापनं चापि कुर्यात् सन्ततसेविता ।

हरीतकीविधानेन फलान्येवं प्रयोजयेत् ॥ ७२

विरेचनानि सर्वाणि विशेषाच्चतुरङ्गलात् ॥।

फलंकाले समुद्धृत्य सिकतायां निधापयेत् ॥ ७३ ॥

सप्ताहमातपे शुष्कं ततो मज्जानमुद्धरेत् । तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च तस्योपयोगो बालानां यावद्वर्षाणि द्वाद्श ॥ ७४ ॥

लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ।

सुखोदकञ्चानुपिबेदेष योगो विरेचयेत् ॥ । ७५ ॥

एरण तैलं त्रिफलाक्वाथेन त्रिगुणेन युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत् तु ॥ ७६ । ॥ अपि च— “ स्वस्थस्यौजस्करं यत्तु तद् समसैन्धवेन संसृष्टामित्यर्थः । २ सातत्येन वृष्यं = सततोपयोगेनेत्यर्थः तद्रसायनम् ” इति । १ सैन्धवोपहितां = स्निग्धभोजनदिवास्वप्नाद्याहारविहारजनितान् । ३ सन्तर्पणकृतान् = ५ श्रामलकादिषु हरीतकीविधिमतिदिशति । ४ मूच्छिता = मिलिता । मुपदिशति – विशेषादिति । चतुरङ्गुलात् = - हरीतकीति । ६ चतुरङ्गुलकल्प-णमस्य पर्वणस्तद्योगाद् वृक्षोऽपि । ७ काले किरमालादित्यर्थः = परिपक्वावस्थायाम् । चतस्रोऽङ्गुलयः प्रमा-. तैलकल्पमभिधत्ते - एरण्डेति ॥ .८ एरण्ड-९ क्षीररसाभ्यां = दुग्धमांसरसाभ्यामित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 389

सुश्रुत संहिता चौखम्बा, पृष्ठ 389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४४ ] ४४ म. T-ड. २२ ९ सूत्रस्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri बालवृद्धक्षतक्षीणसुकुमारेषु योजितम् ॥ ७७ ॥

फलानां विधिरुद्दिष्टः क्षीरौणां शृणु सुश्रुत! ।

विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ॥ ७८ ॥

अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्म्मविभ्रमात् ।

विजानता प्रयुक्तन्तु महान्तमपि सञ्चयम् ॥ ७ ९ ॥

भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान् ।

महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ॥ ८० ॥

कषायैः समभागं तु तद॑ङ्गारैर्विशोषितम् ।

अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोऌसम्मितम् ॥ ८१ ॥

महावृक्षपयः पीतैर्यवागृस्तण्डुलैः कृता ।

पीता विरेचयत्याशु गुडेनोत्कारिका कृता ॥ ८२ ॥

लेहो वा साधितः सम्यक् स्नुही क्षीरपयोघृतैः ।

भावितास्तु स्नुहीचीरे पिप्पल्यो लवणान्विताः ॥ ८३ ॥

चूर्णं काम्पिल्लेकं वाऽपि " तत्पीतं गुटिकीकृतम् ।

सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ॥ ८४ ॥

मूत्रेणाप्लाव्य सप्ताहं स्नुहीतीरे ततः परम् ।

कीण तेनैव चूर्णेन माल्यं वसनमेव च ॥ ८५ ॥

आम्रायावृत्यै ' ` वा सम्यङ् मृदुकोष्ठो विरिच्यते ।

क्षीरत्वक् फलमूलानां विधानैः परिकीर्त्तितैः ।

अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ॥ ८६ ॥

त्रिवृच्छारणमितास्तिस्रस्तिस्रश्च त्रिफलात्वचः । १ तीक्ष्णविरेचकद्रव्येषु स्नुहीचीरकल्पं निर्दिशति - क्षीराणामिति । २ ' प्रवरो बहुकण्टकः ” इति चरकोक्त्या बहुकण्टकस्नुहीभवं क्षीरमित्यर्थः । ३ कर्मविभ्रमात् – तत्क-मणोऽविज्ञानादित्यर्थः । ४ एकैकशः = बृहत्योर्लघुस्थूलबृहत्योः । ५ तत् = सप्तमांशं सुह्रीक्षीरम् । ६ कोलसम्मितं बलवत्क्रूरकोष्ठाभिप्रायेणोक्तम्, कर्षप्रमाणमिति तदर्थः । ७ ' महावृक्षपयःपीतैः = स्नुहोक्षीरभावितैः । ८ उत्कारिका = लप्सिका । ९ काम्पिल्ल-कें = ‘ कबीला ' इति लोकोक्तसम्बन्धिचूर्णम् । १० तत्पीतं = स्तुहीक्षीरभावितमित्यर्थः । १२ शाण- । .११ श्रवचूर्णितं माल्यमाघ्राय, श्रवचूर्णितं बसनमावृत्य परिधायेति सम्बन्धः

पृष्ठ 390

सुश्रुत संहिता चौखम्बा, पृष्ठ 390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३० Digitized by Arya Sam सुश्रुतसंहिताय inar and eGangotri [ अ ० ४४ विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ॥ ८७ ॥

लिह्यात् सर्पिर्मधुभ्याञ्च मोदकं वा गुडेन वा ।

भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ॥ ८८ ॥

गुल्मान् प्लीहोदरं कासं हली कमरोचकम् ।

कफवातकृतांश्चान्यान् व्याधानेतद् व्यपोहति ॥ ८ ९ ॥।

घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु ।

भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ॥ ९ ० ॥

क्षीरं ै रसः कल्कमथो कषायः श्रुतश्च शीतश्च तथैव * कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टा

फाण्टम् ।

॥ ९ १ ॥

इति श्रीसुश्रुतसंहितायां सूत्रस्थाने विरेचनद्रव्यविकल्पविज्ञानीयोनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥

` मिताः = कर्षचतुर्थांशपरिमिताः । १ हलीमकः = पाण्डुरोगभेदः प्रधानप्रज्ञः, बुद्धिमानिमित्यर्थः ॥ २ अग्रमतिः = ३ क्षीरं = दुग्धम्, रसः = स्वरसः; अस्य लक्षणम् - " त्क्षुण्णात्समुद्भवः । वस्त्रनिष्पीडितो यः स रसः स्वरस उच्यते आहतात्तत्क्षणा कृष्टाद् द्रव्या-“ कुडवं चूर्णितं द्रव्यं प्रक्षिप्तं द्विगुणे जले । अहोरात्रं स्थितं " ॥ आर्द्रद्रव्याभावे -इति । कल्कः = पिष्टद्रव्यपिण्डः, एतल्लक्षणम् - " द्रव्यमात्रं तस्माद् भवेत्स्वरस उच्यते ॥ ” ' श्रितम् । तदेव सूरिभिः पूर्वैः कल्क इत्यभिधीयते शिलापिष्टं शुष्कं वा जलमि-तकषायभेदेन द्विविधः । द्वयोर्लक्षणम् – “ वह्नौ ॥ कषायः = क्काथः, अयं शृतकषायशी-उपोषितं निशायां तु तोयस्थं शीतमुच्यते ” । तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः । व्यपलं चतुष्पले उष्णतोये क्षिप्त्वा क्षणकालं शरावावृतं फाण्टः कषायभेदः, यथा – कल्कितद्र-. ` फाण्ट इत्युच्यते । अस्यैतल्लक्षणम् – “ चूर्णमुष्णे न संस्थाप्याथ मृदितं वस्त्रपूतं च इति । ४ कल्पाः = प्रकाराः । सम्पृक्तं तत्फाण्टमभिधीयते । ” इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां चतुश्चत्वारिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar