सुश्रुत संहिता चौखम्बा — पृष्ठ 391–400
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 391–400
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] ४४ = III मि. -। द. च " सूत्रस्थानम् । २३१ पञ्चचत्वारिंशत्तमोऽध्यायः । पञ्चचत्वारिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वा-सजननं श्रमक्लैमपिपासामदमूर्च्छा तन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमञ्च ॥ ३ ॥
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदस-रस्तडागवापीकूपचुंण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादिषु स्थाने-ष्ववस्थितमिति ॥ ४ ॥
तत्र, लोहितकपिल पाण्डुपी तनीलशुक् लेष्ववनिप्रदेशेषु मधुरा-म्ललवणकटुतिक्तकषायाणि यथासङ्गमुदकानि सम्भवन्तीत्येके ' भाषन्ते ॥ ५ ॥
तत्तु न सम्यक् । तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलि-लरसो भवत्युत्कर्षापकर्षेण । तत्र, स्वलक्षणभूयिष्ठायां भूमावम्लं १ द्रवद्रव्याणां पानीयक्षीरादीनां रसगुणवीर्यविपाकतो विधिर्विधानमधिकृत्य कृतोऽध्यायो द्रवद्रव्यविधिस्तम् । छस्य लुक् । २ आन्तरीक्षोदकगुणान् दर्शयति— पानीयमिति । अन्तरीक्षादाकाशादागतमान्तरीक्षम्, मधुरादिभेदेन निर्देशानह रसोऽत्रेत्यनिर्देश्यरसम्, अप्रकटरसमित्यर्थः । ३ अस्य लक्षणम् — “ योऽनायासः इति । श्रमो देहे प्रवृद्धः श्वासवर्जितः । कुमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ॥ ” ४ तन्द्राया लक्षणमुक्तं माधवनिदाने – “ इन्द्रियार्थेष्वसम्प्राप्तिगौरवं जृम्भणं क्रुमः । निद्राऽऽर्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ ” इति । ५ एकान्ततः पथ्यम् = अति-शयेन हितम् । ६ अबद्धकूपश्चुण्टी, प्रस्रवणोद्भिदः – जलमुद्भिद्यतेऽत्रेत्युद्भिदः, उद्व-मज्जलकुण्डादिरित्यर्थः । वालुकाद्युत्क्षेपणेन विकीर्यते जलमत्रेति विकिरं, गयास्थ-फल्गुनद्यादिः । ७ अष्टाङ्गसङ्ग्रहेऽन्यथा दृश्यते— “ श्वेते कषायं भवति पाण्डुरे चैव तिक्तकम् ॥ कपिले क्षारसंसृष्टमूषरे लवणान्वितम् । कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके ॥ ” इति ८ अन्योन्यानुप्रवेशकृतः = पृथिव्यादिपञ्चमहाभूतपञ्चीकरणजनित इत्यर्थः । ९ उत्कर्षाप-
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Sami am सुश्रुतसंहितायां २३२ marand eGangotri [ अ ० ४५ लवणञ्च । अम्बुगुणभूयिष्ठायां मधुरम् । तेजोगुणभूयिष्ठायां कटुकं तिक्तं च । वायुगुणभूयिष्ठायां कपायम् । आकाशगुणभूयिष्ठायामञ्य-क्तर॒सम्, अव्यक्तं ह्याकाशमित्यतः; तत् प्रधानमव्यक्तरसत्वात् । तत्पेयमान्तरीक्षालाभे ॥ ६ ॥
तत्रान्तरीक्षं चतुर्विधम् । तद्यथा - धौरं, कार, तौपारं, हैम-मिति । तेषां धारं प्रधानं, लघुत्वात् । तत् पुनर्द्विविधं - गाङ्ग, सामुद्रं चेति । तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति 1 । तयोर्द्वयोरपि परी -क्षणं कुर्वीत - शाल्योदनपिण्डम कुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि मुहूर्त्त स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यम्; वर्णान्यत्वे सिक्थं प्रक्लेदे च सामुद्र-मिति विद्यात्, तन्नोपादेयम् । सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति । गाङ्गं पुनः प्रधानं, तदुपाददी नाश्वयुजे मासि शुक्लविततपटैकदेशच्युतमथवा हर्म्यतल परिभ्रष्टमन्यैर्वा । शुचि-जनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् शुचिभिर्भा _पयुञ्जीत, तस्यालाभे भौमम् । तच्चाकाशगुणबहुलम् । तत्सर्वकालमु-विधम् । तद्यथा - कौपं, नादेयं । तत् पुनः सप्त-औद्भिदं चौण्ट्यमिति ॥ ७ ॥, सारसं, ताडागं, प्रास्रवणम्,
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागुणत्वात् । · शरदि कर्षेण = पाकवशाद् व्यक्ताव्यक्तविभागेनेत्यर्थः । १ रसेनान्तरीक्षजलसाम्यादव्यक्तरस-त्वमिति भावः । २ धाराभिः पततीति धारम् । उक्तं च – “ धाराभिः पतितं ससा । शिलायां वसुधायां वा धौतायां पतितं च यत् तोयं गृहीतं स्फीतवा-टिके काचनिर्मिते । भाजने मृन्मये वाऽपि स्थापितं ॥ सौवर्णे राजते ताम्रे स्फा-वर्षोंपलोद्भवम् । ‘ करो वर्षोंपले ” इति मेदिनी । तौषारम् धारमुच्यते ॥ ” इति । कारं = हैमं = स्फटिकशिलाशकलसदृशहिमोद्भवम् = आन्तरीक्षजलनिचयजातम् ' । ३ अकुथितं = पूतीभावमनापन्नम्, अविदग्धम् = अविवर्णंम् । ४ सिक्थप्रक्लेदे = विभक्तत्वेन सिक्थकोथे । जाते इत्यर्थः । ५ हर्म्यंमिष्टकादिरचितं धवलगृहमित्यरुणदत्तः । तथा च शादधः पतद् गृहीतमित्यर्थः । - धवलगृहोपरिभूमेः सका-६ वर्षाशब्दो वर्षाऽन्ते श्राश्वयुजे वर्तते न तु भाद्रपदे; तत्रान्तरिक्षजलस्य निषि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
अ ०.४५ ] ४५ न् । " T-. 1 २३३ सूत्रस्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri
सर्वं, प्रसन्नत्वात् । हेमन्ते सारसं ताडागं वा; वसन्ते कौपं प्रास्र- ॥
वरणं वा; ग्रीष्मेऽप्येवम्; प्रावृषि चौण्ट्यमनभिवृष्टं सर्वश्चेति ॥ ८
कीटमूत्रपुरीषाण्डशवको प्रदूषितम् ।
तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ॥ ९ ॥
योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम् ।
स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात्प्रमेव तु ॥ १०
तत्र यत् पङ्कशैवाल तृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिसू-र्यकिरणानिलैर्नाभिंजुष्टं गन्धवर्णरसोपसृष्टञ्च तद्वयापन्नमिति वि-द्यात् । तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति । तत्र, खरता पैच्छिल्यमीष्णचं " दन्तग्राहिता च स्पर्शदोषः; पङ्कसि-कताशैवालबहुवर्णंता रूपदोषः; व्यक्तरसता रसदोषः; " अनिष्टग-न्धता गन्धदोषः; यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः; यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपा-कदोष इति । त एते आन्तरिक्षे न सन्ति ॥ ११ ॥
व्यापन्नस्य १३ चाग्निक्कथनं सूर्यातपप्रतापनं तप्तायः पिण्डसिकता-लोष्ट्राणां वा " निर्वापणं प्रसादनञ्च कर्त्तव्यं नागचम्पकोत्पलपाटला-पुष्पप्रभृतिभिश्चाधिवासनमिति ॥ १२ ॥
द्धत्वात् । तदुक्तम् — “ बलाहकाद्याः समदाः कीटा लूताश्च खेचराः । तद्विषोत्सर्गसंस-र्गादग्राह्यं तत्तदा जलम् ॥ ” इति ढल्हणः । १ नवोदकस्य वाह्याभ्यन्तरप्रयोगे दोषा-न्निर्दिशति — कीटेति । कीटाः = वृश्चिकादयः । तत्र कोथशब्दस्य कीटादिभिः सह - प्रत्येकं सम्बन्धः । कोथः = पूतीभावः । २ तृणपर्णानामुत्करः समूहस्तेन युतं तृणपर्णो-त्कर्युतम् । ३ स्थावरजङ्गम विषयुक्तमित्यर्थः । ४ कण्डूकुष्ठादिकान् बाह्यरोगान्, कफ-गुल्मोदरामयाद्याभ्यन्तररोगान् । तदुक्तम् — “ स्नानेन त्वग्भवान् रोगान् कण्डूकुष्टवि-सर्पकृत् । पानेन कफगुल्मानां कृमीणां वरसम्भवान् । करोति विविधान् रोगान् ” इति । ५ व्यापन्नजललक्षणं वक्ति – तन्त्रेति । ६ हटतृणं = जलकुम्भिका । ७ ना-भिजुष्टम् = अनभिस्पृष्टमित्यर्थः । ८ उपसृष्टम् = उपेतम् । ९ तत्र = तेषु ११ षढ्दो- अनि-षेषु । १० दन्तान् ग्रहीतुं शीलमस्येति दन्तग्राहिता, अतिशीततेत्यर्थः । · ष्टगन्धता = विस्रादिगन्धतेत्यर्थः । १२ विष्टम्भयति = गुडगुडशब्दं करोति । १३ दूषि-• तजलस्य विशोधनोपायंदर्शयति- व्यापन्नस्येति । १४ निर्वापणं = जले निक्षेप-
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
२३४ Digitized by Arya at Samajn maj सुतसंहित and eGangotri [ अ ० ४५
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा ।
पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ॥ १३ ॥
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् ।
दोषसञ्जननं ह्येतन्नाददीताहितन्तु तत् ॥ १४ ॥
व्यापन्नं सलिलं यस्तु पिबतीहाप्रसाधितम् ।
श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाकताम् ॥ १५ ॥
श्वासकासप्रतिश्यायशूलगुल्मोदराणि च ।
अन्यान् वा विषमन् रोगान् प्राप्नुयादचिरेण सः ॥ १६ ॥
तत्र सप्त कंलुषस्य प्रसादनानि भवन्ति । तद्यथा - कतकगो-मेदैकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ॥ १७
पञ्च निक्षेपर्णानि भवन्ति । तद्यथा - फलकं, त्र्यकं, ॥
उदकमचिका, शिक्यञ्चेति ॥ १८ ॥ मुञ्जवलयः,
सप्तशीतीकरणानि भवन्ति - प्रवातस्थापनम् उदकप्रक्षेपणं, * ष्टिकाभ्रामणं, व्यजनं, वस्त्रोद्धरणं, वालुकाप्रक्षेपणं, शिक्यावलम्ब-नश्चेति ॥ १ ९ ॥ निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् अच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते ॥ । २० ॥ तत्र नद्यः पश्चिमाभिमुखाः पथ्याः, लघूदकत्वात् खास्तु न प्रशस्यन्ते, गुरूदकत्वात् । दक्षिणाभिमुखा नाऽतिदोषलाः । पूर्वाभिमु-, णमित्यर्थः । १ पुष्पावतंसं = पुष्पाधिवासितम् नाद्यसंस्कृतमित्यर्थः । २ प्रसाधितं = पूर्वोक्ताग्निक्कथ-1 ३ विषमान् = अनियतकालस्थायिनः निर्मलीकरणानि ॥ ४ प्रसादनानि = ५ गोमेदकः = पीताभो मणिः ६ निक्षिप्यन्ते स्थाप्यन्तेऽत्रेति निक्षेपणानि श्रासनानि । तपट्टकं फलकम्, त्र्यष्टमष्टास्रदण्डत्रयसंयोगस्यष्टकम्, वलयाकारेण । शाल्मल्यादिकाष्ठविरचि-गोलो मुब्जवलयः, आकाशान्तराले निरन्तरनिहितवेत्रवैणवादिविरचिता मुञ्जादिविरचितो ञ्चिका, रज्ज्वादिनिर्मितं दोलायन्त्रं उदकम-शिक्यम् । ७ यष्टिकाभ्रामणं = दण्डा-दिनाऽऽलोडनम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] • ४५ ६ ॥ गो-यः, ui., 9 ब-मु-थ. चि. -२३५ सूत्रस्थानम् CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri साधारणत्वात् । तत्र संह्यप्रभवाः कुष्टं जनयन्ति, विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगञ्च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोद्-राणि, हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपद्गलगण्डान्, प्राच्यावन्त्या अपरावन्त्याञ्चाशस्युपजनयन्ति, पारियात्रप्रभवाः पथ्या बलारोग्यकर्यं इति ॥॥ २१ ॥
नद्यः शीघ्रवहा लव्यः प्रोक्ता याचामलोदकाः ।
गुर्व्यः शैवालसंच्छन्नाः कलुषा मन्द्गाश्च याः ॥ २२ ॥
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः ।
लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ॥ २३ ॥
तत्र सर्वेषां भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यञ्चा-धिकं भवति, स एव चापां परो गुण इति ॥ २४ ॥
दिवार्ककिरणैर्जष्टं निशायामिन्दुरश्मिभिः ।
अरूक्षमनभिष्यँन्दि तत्तुल्यं गगनाम्बुना ॥ २५ ॥
गगनाम्बु त्रिदोषन्नं गृहीतं यत् सुभाजने ।
बल्यं रसायनं ' मेध्यं पात्रापेक्षि ततः परम् ॥ २६ ॥
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ।
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ॥ २७ ॥
मूर्च्छापतोष्णदाहेषु विषे रक्ते मदात्यये ।
भ्रमक्लमपरीतेषु तमके वमथौ तथा ॥ २८ ॥
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ।
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥ २ ९ ॥
१ ‘ पूना ' इति देशसमीपस्थः पर्वतविशेषः सह्यः । २ अवन्ती उज्जयिनी तयो-पुलक्षितो देशस्तस्य पूर्वस्यां जाताः प्राच्यावन्त्याः पश्चिमस्यां जाता अपरावन्त्याः शैलास्तेषुया नद्य इति डल्हणः । ३ मरुषु = = मरुदेशेषु । ४ दोषान् व्याधीन्.. झटिति यदभिष्यन्दते उत्पादयति तदभिष्यन्दि, तदभिन्नमनभिष्यन्दि । चरके— “ वैशद्यात्कफहन्तृत्वात् तान्येव विवृणोति यत् । तदुक्तमनभिष्यन्दि द्रव्यं द्रव्यविशा · रदैः ॥ ” इति । ५ मेधायै हितं मेध्यं धारणाशक्तिवर्द्धकम् । ६ रक्षोघ्नं = राक्षस-भयहारीत्यर्थः । ७ तमके = श्वासे मोहे वा, वमथौ = वमने छर्धा वा । ‘ वमथुर्वमने
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
२३६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-' [ अ ० ४५
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे ।
हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ॥ ३० ॥
नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ।
तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ॥ ३१ ॥
तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु ।
ताडागं वातलं स्वादु कषायं कटु पौकि च ॥ ३२ ॥
वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् ।
सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ॥ ३३ ॥
चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च ।
कफघ्न्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ॥ ३४ ॥
मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् ।
वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ॥ ३५ ॥
कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् ।
तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ॥ ३६ ॥
सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् ।
अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ॥ ३७ ॥
एभिर्दोषैरसंयुक्तं निरवद्यन्तु जाङ्गलम् ।
पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्द्धनम् ॥ ३८ ॥
दीपनं स्वादु शीतञ्च तोयं साधारणं लघु ।
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ॥ ३ ९ ॥
श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा ।
यत् क्वाथ्यमानं निर्वेगं निष्फेन निर्मलं लघु ॥। ४० ॥
चतुर्भागावशेषन्तु तत्तोयं गुणवत् स्मृतम् ।
न च पर्यषितं देयं कदाचिद्वारि जानता ॥। ४१ ॥
कासे ' इति हेमचन्द्रः । १ स्तिमिते - श्रामकोष्ठे = स्नेहपा-इत्यर्थः । २ स्नेहपीते नानन्तरमित्यर्थः । ३ लेखनं = शरीरकृशकरम् । ४ बल्यं = बलकरम् । ५ कटु-पाकि = विपाके कटिवत्यर्थः । ६ निरवद्यं = दोषरहितम् । ७ क्वाथ्यमानं - प-च्यमानम्, · निर्वेगम् = अनुगामित्वेन निश्चलम् । ८ पर्युषितं = रात्र्युषितम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 397
पाठ पढ़ें पाठ छिपाएँ
} अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
अम्लीभूतं कफोत्ल्लेशि न हितं तत् पिपासवे ।
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ॥ ४२ ॥
सन्निपातसमुत्थे च श्रुतशीतं प्रशस्यते ।
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ॥ ४३ ॥
वृष्यं पित्तपिपासाघ्नं नारिकेलोदकं गुरु ।
दाहातीसार पित्तासृङ्मूर्च्छामद्यविपार्त्तिषु ॥ ४४ ॥
श्रुतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च ।
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥ ४५ ॥
मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा ।
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ ४६ ॥
इति जलवर्गः । अथ क्षीरवर्गः ।
गव्यमाजं तथा चौमाविकं माहिषञ्च यत् ।
अश्वायाश्चैव नार्याश्च करेणूनाञ्च यत्पयः ॥ ४७ ॥
तत्त्वने कौषधिरसप्रसादं प्राणदं गुरु । २३७
मधुरं पिच्छिलं शीतं स्निग्धं ऋक्ष्णं सरं मृदु ।
सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ॥ ४८ ॥
तंत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् । वात-१ मन्दपानीयार्हरोगान् दर्शयति- अरोचक इति । २ यावत्प्रतिषेधयितुमशक्यं तावदाचरणं मन्दः । इति जलवर्गः । अथ क्षीरवर्ग: -३ क्षीराणां गव्यादीनामष्टभेदान्निर्दिशति - गव्यमिति । चकारत्रयमनुक्तसमा-` नजातीयक्षीराणां समुच्चयार्थम् । तेनाश्वतरीखरीमृगीस्वङ्गिनीक्षीराणामपि ग्रहणमिति ढल्हणः । ४ सर्वक्षीराणां दशविधगुणान् दर्शयति - तत्त्विति । अनेकौषधिरसप्र-→ सादं = मधुरादिसर्वखाद्यद्रव्यसारभागप्रसादम्; “ द्रव्याणि पुनरोषधयः ” इति प्राग् भगवता सुश्रुतेनैवोक्तत्वात् । ५ सर्वक्षीराणां सामान्यगुणकर्माणि निर्दिशति— तत्रेति । ६ जातिसात्म्यात् = जन्मनः शीलितत्वादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 398
पाठ पढ़ें पाठ छिपाएँ
२३८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ४५ पित्तशोणितमानसेष्वपि विकारेष्वविरुद्धम् । जीर्णज्वरकासश्वास-शोषक्षयगुल्मोन्मादोद्रमूर्च्छाभ्रमम ददाहू पिपासास्तिदोपपाण्डु-रोगग्रहणीदोषार्शःशूलोदावर्त्तातिसारप्रवाहिकायो निरोगगर्भास्रावर-क्तपित्तश्रमक्लमहरं पाप्मोपह बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं सन्धौनमास्थापनं वयःस्थापनमायुष्यं जीवनं बृंहणं वमन विरेचना-स्थापनं तुल्यगुणत्वाच्चौजसो वर्द्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्य-वायव्यायामकर्शितानाञ्च पथ्यतमम् ॥ ४ ९ ॥
अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् ।
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥ ५० ॥
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् ।
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ॥ ५१ ॥
दीपनं लघु सङ्ग्राहि श्वासकासास्रपित्तनुत् ।
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ॥ ५२ ॥
नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः ।
रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ॥ ५३ ॥
शोफगुल्मोदरार्शोघ्नं कृमिकुष्टविषापहम् ।
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ॥ ५४ ॥
पथ्यं केवलवातेषु कासे चानिलसम्भवे महाभिष्यंन्दि मधुरं माहिषं वह्निनाशनम् ॥ ५५ ॥
निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु । १ जीर्णज्वरलक्षणमाह- “ त्रि सप्ताहव्यतीतस्तु ज्वरो यस्तनुतां गतः । प्लीहाग्नि-सादं कुरुते स जीर्णंज्वर उच्यते ॥ ” इति । २ पाप्मापहं = कार्पासजाद्यपहरणजन्य-पापक्षयकरम् । तथा चैकादशाध्याये मनुः- “ कार्पासकीटजोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ ” इति । ३ सन्धानं = भग्नसंयोजकम्, श्रास्थापनं = निरूहृबस्त्युपयोगि । ४ वमनं = वमनद्रव्यसंयोगीति ढल्हणः, विरेचनं मृदुकोष्ठस्य पित्तप्रकृतेश्च । तथा च वक्ष्यति - “ बहुपित्तो मृदुः स दुग्धेनापि विरच्यते " इति । यावन्तो गुणा = राज--श्रजसस्तावन्तः क्षीरस्येति तुल्यगुणत्वात् । ५ शोषिणां यक्ष्मरोगिणामित्यर्थः । ६ व्याधिः = वातादिदोषः । ७ | महाभिष्यन्दि = दोषधातुम-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 399
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] $ । " .. सूत्रस्थानम् । २३ ९ तयोर्नस्याश्च्योतनयोः । इति क्षीरवर्गः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri उष्णमैर्कशफं बल्यं शाखावोतहरं पयः ॥ ५६ ॥
मधुराम्लरसं रूक्षं लवणानुरसं लघु नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ॥ ५७ ॥
नस्यौश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ।
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ॥ ५८ ॥
स्निग्धं स्थैर्यकरं शीतं चक्षुष्य बलवर्द्धनम् ।
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ॥ ५ ९ ॥
रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा ।
दिवाकराभितप्तानां व्यायामानिलसेवनात् ॥ ६० ॥
वातानुलोमि श्रान्तिघ्नं चक्षुष्यं चापराह्निकम् ।
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्त्तितम् ॥ ६१ ॥
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ।
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥ ६२ ॥
धारोष्णं गुणवंत् क्षीरं विपरीतमतोऽन्यथा ।
तदेवातिशृतं शीतं गुरु बृंहणंमुच्यते ॥ ६३ ॥
अनिष्टगन्धमम्लञ्च विवण विरसञ्च यत् ।
वर्ज्य सलवणं क्षीरं यच्च विग्रथितं भवेत् ॥ ६४ ॥
इति क्षीरवर्ग: । लस्रोतसामधिकक्लेदप्राप्तिकारणम् । १ एकः शफः खुरो यस्याः सा एकशफा अश्वा-२ शाखा द्वौ बाहू द्वे सक्थिनी च तद्गतो वातः शाखा-दयः, तत्सम्बन्धि दुग्धम् । वातः । ३ नस्यं नासाग्राह्यम्, आश्च्योतनमक्षिपूरणं “ नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम् ” स्त्रीस्तन्यमाममनावर्तितमेव हितमिति । सम्बन्धः । ४ शरीरस्थैर्यकरमित्यर्थः । ५ तत् ६ गुणवत् = बहुगुणम्, अतिशा-यने वतुप् । ७ बृंहणं = शरीरवर्द्धकम् । ८ विकृत्या गुम्फितमिव विग्रथितम्, अम्ला-CO • दिद्रव्य संयोगेन विनष्टमित्यर्थः ।
पृष्ठ 400
पाठ पढ़ें पाठ छिपाएँ
२४० Digitized by Arya Samaj Foundation Cher and eGangotri ' सुश्रुतसंहिताया-अथ दधिवर्गः— [ अ ० ४५ धि तु मधुरमम्लमत्यम्लश्चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्यापह वृष्यं प्राण मङ्गल्यश्च ॥ ६५ ॥
महाभिष्यन्दि मधुरं कफमेदोविवर्द्धनम् ।
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ॥ ६६ ॥
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् ।
स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ॥ ६७ ॥
वातापहं पवित्रञ्च दधि गव्यं रुचिप्रदम् ।
दध्यार्ज कफपित्तघ्नं लघु वातक्षयापहम् ॥ ६८ ॥
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ।
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ॥ ६ ९ ॥
बलासंवर्द्धनं स्निग्धं विशेषाद्दधि माहिषम् ।
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ॥ ७० ॥
वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च ।
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ॥ ७१ ॥
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् ।
दीपनीयमचक्षुष्य वाड़वं दधि वातलम् ॥ ७२ ॥
रूक्षमुष्णं कषायञ्च कफमूत्रापहञ्च तत् ।
स्निग्ध विपाके मधुरं बल्यं सन्तर्पणं गुरु ॥ ७३ ॥
चक्षुष्यमचं दोषघ्नं दधि नार्या गुणोत्तरम् ।
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनार्सनम् ॥ ७४ ॥
अथ दधिवर्ग: -१ दधिभेदान् सामान्यतो गुणांश्चाह – दधीति । २ “ यः स्यादनियतात् कालात् शीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमः स ज्वरो विषमः स्मृतः ॥ ” इति । ३ वृष्यं = शुक्रवर्द्धकम् । ४ न सम्यग् दधिभावमापन्नं मन्दजातम् । ‘ दुर्नाम क्लीबमर्शसि ' इति मेदिनी । क्षुम्नादित्वाण्णत्वाभावः । ५ कफवृद्धिकरम् । दुर्नाम = अर्शः । ६ बलासवर्द्धनं = ७ गुणोत्तरं = गुणश्रेष्ठम् । ८ पक्तिनाशनं = पाचनशक्तिहरम् । CC - 0. Gurukul Kangri Collection, Haridwar