सुश्रुत संहिता चौखम्बा — पृष्ठ 391–400

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 391–400

पृष्ठ 391

सुश्रुत संहिता चौखम्बा, पृष्ठ 391 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] ४४ = III मि. -। द. च " सूत्रस्थानम् । २३१ पञ्चचत्वारिंशत्तमोऽध्यायः । पञ्चचत्वारिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वा-सजननं श्रमक्लैमपिपासामदमूर्च्छा तन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमञ्च ॥ ३ ॥

तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदस-रस्तडागवापीकूपचुंण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादिषु स्थाने-ष्ववस्थितमिति ॥ ४ ॥

तत्र, लोहितकपिल पाण्डुपी तनीलशुक् लेष्ववनिप्रदेशेषु मधुरा-म्ललवणकटुतिक्तकषायाणि यथासङ्गमुदकानि सम्भवन्तीत्येके ' भाषन्ते ॥ ५ ॥

तत्तु न सम्यक् । तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलि-लरसो भवत्युत्कर्षापकर्षेण । तत्र, स्वलक्षणभूयिष्ठायां भूमावम्लं १ द्रवद्रव्याणां पानीयक्षीरादीनां रसगुणवीर्यविपाकतो विधिर्विधानमधिकृत्य कृतोऽध्यायो द्रवद्रव्यविधिस्तम् । छस्य लुक् । २ आन्तरीक्षोदकगुणान् दर्शयति— पानीयमिति । अन्तरीक्षादाकाशादागतमान्तरीक्षम्, मधुरादिभेदेन निर्देशानह रसोऽत्रेत्यनिर्देश्यरसम्, अप्रकटरसमित्यर्थः । ३ अस्य लक्षणम् — “ योऽनायासः इति । श्रमो देहे प्रवृद्धः श्वासवर्जितः । कुमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ॥ ” ४ तन्द्राया लक्षणमुक्तं माधवनिदाने – “ इन्द्रियार्थेष्वसम्प्राप्तिगौरवं जृम्भणं क्रुमः । निद्राऽऽर्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ ” इति । ५ एकान्ततः पथ्यम् = अति-शयेन हितम् । ६ अबद्धकूपश्चुण्टी, प्रस्रवणोद्भिदः – जलमुद्भिद्यतेऽत्रेत्युद्भिदः, उद्व-मज्जलकुण्डादिरित्यर्थः । वालुकाद्युत्क्षेपणेन विकीर्यते जलमत्रेति विकिरं, गयास्थ-फल्गुनद्यादिः । ७ अष्टाङ्गसङ्ग्रहेऽन्यथा दृश्यते— “ श्वेते कषायं भवति पाण्डुरे चैव तिक्तकम् ॥ कपिले क्षारसंसृष्टमूषरे लवणान्वितम् । कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके ॥ ” इति ८ अन्योन्यानुप्रवेशकृतः = पृथिव्यादिपञ्चमहाभूतपञ्चीकरणजनित इत्यर्थः । ९ उत्कर्षाप-

पृष्ठ 392

सुश्रुत संहिता चौखम्बा, पृष्ठ 392 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Sami am सुश्रुतसंहितायां २३२ marand eGangotri [ अ ० ४५ लवणञ्च । अम्बुगुणभूयिष्ठायां मधुरम् । तेजोगुणभूयिष्ठायां कटुकं तिक्तं च । वायुगुणभूयिष्ठायां कपायम् । आकाशगुणभूयिष्ठायामञ्य-क्तर॒सम्, अव्यक्तं ह्याकाशमित्यतः; तत् प्रधानमव्यक्तरसत्वात् । तत्पेयमान्तरीक्षालाभे ॥ ६ ॥

तत्रान्तरीक्षं चतुर्विधम् । तद्यथा - धौरं, कार, तौपारं, हैम-मिति । तेषां धारं प्रधानं, लघुत्वात् । तत् पुनर्द्विविधं - गाङ्ग, सामुद्रं चेति । तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति 1 । तयोर्द्वयोरपि परी -क्षणं कुर्वीत - शाल्योदनपिण्डम कुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि मुहूर्त्त स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यम्; वर्णान्यत्वे सिक्थं प्रक्लेदे च सामुद्र-मिति विद्यात्, तन्नोपादेयम् । सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति । गाङ्गं पुनः प्रधानं, तदुपाददी नाश्वयुजे मासि शुक्लविततपटैकदेशच्युतमथवा हर्म्यतल परिभ्रष्टमन्यैर्वा । शुचि-जनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् शुचिभिर्भा _पयुञ्जीत, तस्यालाभे भौमम् । तच्चाकाशगुणबहुलम् । तत्सर्वकालमु-विधम् । तद्यथा - कौपं, नादेयं । तत् पुनः सप्त-औद्भिदं चौण्ट्यमिति ॥ ७ ॥, सारसं, ताडागं, प्रास्रवणम्,

तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागुणत्वात् । · शरदि कर्षेण = पाकवशाद् व्यक्ताव्यक्तविभागेनेत्यर्थः । १ रसेनान्तरीक्षजलसाम्यादव्यक्तरस-त्वमिति भावः । २ धाराभिः पततीति धारम् । उक्तं च – “ धाराभिः पतितं ससा । शिलायां वसुधायां वा धौतायां पतितं च यत् तोयं गृहीतं स्फीतवा-टिके काचनिर्मिते । भाजने मृन्मये वाऽपि स्थापितं ॥ सौवर्णे राजते ताम्रे स्फा-वर्षोंपलोद्भवम् । ‘ करो वर्षोंपले ” इति मेदिनी । तौषारम् धारमुच्यते ॥ ” इति । कारं = हैमं = स्फटिकशिलाशकलसदृशहिमोद्भवम् = आन्तरीक्षजलनिचयजातम् ' । ३ अकुथितं = पूतीभावमनापन्नम्, अविदग्धम् = अविवर्णंम् । ४ सिक्थप्रक्लेदे = विभक्तत्वेन सिक्थकोथे । जाते इत्यर्थः । ५ हर्म्यंमिष्टकादिरचितं धवलगृहमित्यरुणदत्तः । तथा च शादधः पतद् गृहीतमित्यर्थः । - धवलगृहोपरिभूमेः सका-६ वर्षाशब्दो वर्षाऽन्ते श्राश्वयुजे वर्तते न तु भाद्रपदे; तत्रान्तरिक्षजलस्य निषि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 393

सुश्रुत संहिता चौखम्बा, पृष्ठ 393 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०.४५ ] ४५ न् । " T-. 1 २३३ सूत्रस्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri

सर्वं, प्रसन्नत्वात् । हेमन्ते सारसं ताडागं वा; वसन्ते कौपं प्रास्र- ॥

वरणं वा; ग्रीष्मेऽप्येवम्; प्रावृषि चौण्ट्यमनभिवृष्टं सर्वश्चेति ॥ ८

कीटमूत्रपुरीषाण्डशवको प्रदूषितम् ।

तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ॥ ९ ॥

योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम् ।

स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात्प्रमेव तु ॥ १०

तत्र यत् पङ्कशैवाल तृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिसू-र्यकिरणानिलैर्नाभिंजुष्टं गन्धवर्णरसोपसृष्टञ्च तद्वयापन्नमिति वि-द्यात् । तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति । तत्र, खरता पैच्छिल्यमीष्णचं " दन्तग्राहिता च स्पर्शदोषः; पङ्कसि-कताशैवालबहुवर्णंता रूपदोषः; व्यक्तरसता रसदोषः; " अनिष्टग-न्धता गन्धदोषः; यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः; यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपा-कदोष इति । त एते आन्तरिक्षे न सन्ति ॥ ११ ॥

व्यापन्नस्य १३ चाग्निक्कथनं सूर्यातपप्रतापनं तप्तायः पिण्डसिकता-लोष्ट्राणां वा " निर्वापणं प्रसादनञ्च कर्त्तव्यं नागचम्पकोत्पलपाटला-पुष्पप्रभृतिभिश्चाधिवासनमिति ॥ १२ ॥

द्धत्वात् । तदुक्तम् — “ बलाहकाद्याः समदाः कीटा लूताश्च खेचराः । तद्विषोत्सर्गसंस-र्गादग्राह्यं तत्तदा जलम् ॥ ” इति ढल्हणः । १ नवोदकस्य वाह्याभ्यन्तरप्रयोगे दोषा-न्निर्दिशति — कीटेति । कीटाः = वृश्चिकादयः । तत्र कोथशब्दस्य कीटादिभिः सह - प्रत्येकं सम्बन्धः । कोथः = पूतीभावः । २ तृणपर्णानामुत्करः समूहस्तेन युतं तृणपर्णो-त्कर्युतम् । ३ स्थावरजङ्गम विषयुक्तमित्यर्थः । ४ कण्डूकुष्ठादिकान् बाह्यरोगान्, कफ-गुल्मोदरामयाद्याभ्यन्तररोगान् । तदुक्तम् — “ स्नानेन त्वग्भवान् रोगान् कण्डूकुष्टवि-सर्पकृत् । पानेन कफगुल्मानां कृमीणां वरसम्भवान् । करोति विविधान् रोगान् ” इति । ५ व्यापन्नजललक्षणं वक्ति – तन्त्रेति । ६ हटतृणं = जलकुम्भिका । ७ ना-भिजुष्टम् = अनभिस्पृष्टमित्यर्थः । ८ उपसृष्टम् = उपेतम् । ९ तत्र = तेषु ११ षढ्दो- अनि-षेषु । १० दन्तान् ग्रहीतुं शीलमस्येति दन्तग्राहिता, अतिशीततेत्यर्थः । · ष्टगन्धता = विस्रादिगन्धतेत्यर्थः । १२ विष्टम्भयति = गुडगुडशब्दं करोति । १३ दूषि-• तजलस्य विशोधनोपायंदर्शयति- व्यापन्नस्येति । १४ निर्वापणं = जले निक्षेप-

पृष्ठ 394

सुश्रुत संहिता चौखम्बा, पृष्ठ 394 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३४ Digitized by Arya at Samajn maj सुतसंहित and eGangotri [ अ ० ४५

सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा ।

पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ॥ १३ ॥

व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् ।

दोषसञ्जननं ह्येतन्नाददीताहितन्तु तत् ॥ १४ ॥

व्यापन्नं सलिलं यस्तु पिबतीहाप्रसाधितम् ।

श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाकताम् ॥ १५ ॥

श्वासकासप्रतिश्यायशूलगुल्मोदराणि च ।

अन्यान् वा विषमन् रोगान् प्राप्नुयादचिरेण सः ॥ १६ ॥

तत्र सप्त कंलुषस्य प्रसादनानि भवन्ति । तद्यथा - कतकगो-मेदैकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ॥ १७

पञ्च निक्षेपर्णानि भवन्ति । तद्यथा - फलकं, त्र्यकं, ॥

उदकमचिका, शिक्यञ्चेति ॥ १८ ॥ मुञ्जवलयः,

सप्तशीतीकरणानि भवन्ति - प्रवातस्थापनम् उदकप्रक्षेपणं, * ष्टिकाभ्रामणं, व्यजनं, वस्त्रोद्धरणं, वालुकाप्रक्षेपणं, शिक्यावलम्ब-नश्चेति ॥ १ ९ ॥ निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् अच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते ॥ । २० ॥ तत्र नद्यः पश्चिमाभिमुखाः पथ्याः, लघूदकत्वात् खास्तु न प्रशस्यन्ते, गुरूदकत्वात् । दक्षिणाभिमुखा नाऽतिदोषलाः । पूर्वाभिमु-, णमित्यर्थः । १ पुष्पावतंसं = पुष्पाधिवासितम् नाद्यसंस्कृतमित्यर्थः । २ प्रसाधितं = पूर्वोक्ताग्निक्कथ-1 ३ विषमान् = अनियतकालस्थायिनः निर्मलीकरणानि ॥ ४ प्रसादनानि = ५ गोमेदकः = पीताभो मणिः ६ निक्षिप्यन्ते स्थाप्यन्तेऽत्रेति निक्षेपणानि श्रासनानि । तपट्टकं फलकम्, त्र्यष्टमष्टास्रदण्डत्रयसंयोगस्यष्टकम्, वलयाकारेण । शाल्मल्यादिकाष्ठविरचि-गोलो मुब्जवलयः, आकाशान्तराले निरन्तरनिहितवेत्रवैणवादिविरचिता मुञ्जादिविरचितो ञ्चिका, रज्ज्वादिनिर्मितं दोलायन्त्रं उदकम-शिक्यम् । ७ यष्टिकाभ्रामणं = दण्डा-दिनाऽऽलोडनम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 395

सुश्रुत संहिता चौखम्बा, पृष्ठ 395 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] • ४५ ६ ॥ गो-यः, ui., 9 ब-मु-थ. चि. -२३५ सूत्रस्थानम् CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri साधारणत्वात् । तत्र संह्यप्रभवाः कुष्टं जनयन्ति, विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगञ्च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोद्-राणि, हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपद्गलगण्डान्, प्राच्यावन्त्या अपरावन्त्याञ्चाशस्युपजनयन्ति, पारियात्रप्रभवाः पथ्या बलारोग्यकर्यं इति ॥॥ २१ ॥

नद्यः शीघ्रवहा लव्यः प्रोक्ता याचामलोदकाः ।

गुर्व्यः शैवालसंच्छन्नाः कलुषा मन्द्गाश्च याः ॥ २२ ॥

प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः ।

लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ॥ २३ ॥

तत्र सर्वेषां भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यञ्चा-धिकं भवति, स एव चापां परो गुण इति ॥ २४ ॥

दिवार्ककिरणैर्जष्टं निशायामिन्दुरश्मिभिः ।

अरूक्षमनभिष्यँन्दि तत्तुल्यं गगनाम्बुना ॥ २५ ॥

गगनाम्बु त्रिदोषन्नं गृहीतं यत् सुभाजने ।

बल्यं रसायनं ' मेध्यं पात्रापेक्षि ततः परम् ॥ २६ ॥

रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ।

चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ॥ २७ ॥

मूर्च्छापतोष्णदाहेषु विषे रक्ते मदात्यये ।

भ्रमक्लमपरीतेषु तमके वमथौ तथा ॥ २८ ॥

ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ।

पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥ २ ९ ॥

१ ‘ पूना ' इति देशसमीपस्थः पर्वतविशेषः सह्यः । २ अवन्ती उज्जयिनी तयो-पुलक्षितो देशस्तस्य पूर्वस्यां जाताः प्राच्यावन्त्याः पश्चिमस्यां जाता अपरावन्त्याः शैलास्तेषुया नद्य इति डल्हणः । ३ मरुषु = = मरुदेशेषु । ४ दोषान् व्याधीन्.. झटिति यदभिष्यन्दते उत्पादयति तदभिष्यन्दि, तदभिन्नमनभिष्यन्दि । चरके— “ वैशद्यात्कफहन्तृत्वात् तान्येव विवृणोति यत् । तदुक्तमनभिष्यन्दि द्रव्यं द्रव्यविशा · रदैः ॥ ” इति । ५ मेधायै हितं मेध्यं धारणाशक्तिवर्द्धकम् । ६ रक्षोघ्नं = राक्षस-भयहारीत्यर्थः । ७ तमके = श्वासे मोहे वा, वमथौ = वमने छर्धा वा । ‘ वमथुर्वमने

पृष्ठ 396

सुश्रुत संहिता चौखम्बा, पृष्ठ 396 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-' [ अ ० ४५

आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे ।

हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ॥ ३० ॥

नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ।

तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ॥ ३१ ॥

तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु ।

ताडागं वातलं स्वादु कषायं कटु पौकि च ॥ ३२ ॥

वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् ।

सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ॥ ३३ ॥

चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च ।

कफघ्न्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ॥ ३४ ॥

मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् ।

वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ॥ ३५ ॥

कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् ।

तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ॥ ३६ ॥

सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् ।

अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ॥ ३७ ॥

एभिर्दोषैरसंयुक्तं निरवद्यन्तु जाङ्गलम् ।

पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्द्धनम् ॥ ३८ ॥

दीपनं स्वादु शीतञ्च तोयं साधारणं लघु ।

कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ॥ ३ ९ ॥

श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा ।

यत् क्वाथ्यमानं निर्वेगं निष्फेन निर्मलं लघु ॥। ४० ॥

चतुर्भागावशेषन्तु तत्तोयं गुणवत् स्मृतम् ।

न च पर्यषितं देयं कदाचिद्वारि जानता ॥। ४१ ॥

कासे ' इति हेमचन्द्रः । १ स्तिमिते - श्रामकोष्ठे = स्नेहपा-इत्यर्थः । २ स्नेहपीते नानन्तरमित्यर्थः । ३ लेखनं = शरीरकृशकरम् । ४ बल्यं = बलकरम् । ५ कटु-पाकि = विपाके कटिवत्यर्थः । ६ निरवद्यं = दोषरहितम् । ७ क्वाथ्यमानं - प-च्यमानम्, · निर्वेगम् = अनुगामित्वेन निश्चलम् । ८ पर्युषितं = रात्र्युषितम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 397

सुश्रुत संहिता चौखम्बा, पृष्ठ 397 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

} अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।

अम्लीभूतं कफोत्ल्लेशि न हितं तत् पिपासवे ।

मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ॥ ४२ ॥

सन्निपातसमुत्थे च श्रुतशीतं प्रशस्यते ।

स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ॥ ४३ ॥

वृष्यं पित्तपिपासाघ्नं नारिकेलोदकं गुरु ।

दाहातीसार पित्तासृङ्मूर्च्छामद्यविपार्त्तिषु ॥ ४४ ॥

श्रुतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च ।

अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥ ४५ ॥

मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा ।

व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ ४६ ॥

इति जलवर्गः । अथ क्षीरवर्गः ।

गव्यमाजं तथा चौमाविकं माहिषञ्च यत् ।

अश्वायाश्चैव नार्याश्च करेणूनाञ्च यत्पयः ॥ ४७ ॥

तत्त्वने कौषधिरसप्रसादं प्राणदं गुरु । २३७

मधुरं पिच्छिलं शीतं स्निग्धं ऋक्ष्णं सरं मृदु ।

सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ॥ ४८ ॥

तंत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् । वात-१ मन्दपानीयार्हरोगान् दर्शयति- अरोचक इति । २ यावत्प्रतिषेधयितुमशक्यं तावदाचरणं मन्दः । इति जलवर्गः । अथ क्षीरवर्ग: -३ क्षीराणां गव्यादीनामष्टभेदान्निर्दिशति - गव्यमिति । चकारत्रयमनुक्तसमा-` नजातीयक्षीराणां समुच्चयार्थम् । तेनाश्वतरीखरीमृगीस्वङ्गिनीक्षीराणामपि ग्रहणमिति ढल्हणः । ४ सर्वक्षीराणां दशविधगुणान् दर्शयति - तत्त्विति । अनेकौषधिरसप्र-→ सादं = मधुरादिसर्वखाद्यद्रव्यसारभागप्रसादम्; “ द्रव्याणि पुनरोषधयः ” इति प्राग् भगवता सुश्रुतेनैवोक्तत्वात् । ५ सर्वक्षीराणां सामान्यगुणकर्माणि निर्दिशति— तत्रेति । ६ जातिसात्म्यात् = जन्मनः शीलितत्वादित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 398

सुश्रुत संहिता चौखम्बा, पृष्ठ 398 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ४५ पित्तशोणितमानसेष्वपि विकारेष्वविरुद्धम् । जीर्णज्वरकासश्वास-शोषक्षयगुल्मोन्मादोद्रमूर्च्छाभ्रमम ददाहू पिपासास्तिदोपपाण्डु-रोगग्रहणीदोषार्शःशूलोदावर्त्तातिसारप्रवाहिकायो निरोगगर्भास्रावर-क्तपित्तश्रमक्लमहरं पाप्मोपह बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं सन्धौनमास्थापनं वयःस्थापनमायुष्यं जीवनं बृंहणं वमन विरेचना-स्थापनं तुल्यगुणत्वाच्चौजसो वर्द्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्य-वायव्यायामकर्शितानाञ्च पथ्यतमम् ॥ ४ ९ ॥

अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् ।

रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥ ५० ॥

जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् ।

गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ॥ ५१ ॥

दीपनं लघु सङ्ग्राहि श्वासकासास्रपित्तनुत् ।

अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ॥ ५२ ॥

नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः ।

रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ॥ ५३ ॥

शोफगुल्मोदरार्शोघ्नं कृमिकुष्टविषापहम् ।

आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ॥ ५४ ॥

पथ्यं केवलवातेषु कासे चानिलसम्भवे महाभिष्यंन्दि मधुरं माहिषं वह्निनाशनम् ॥ ५५ ॥

निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु । १ जीर्णज्वरलक्षणमाह- “ त्रि सप्ताहव्यतीतस्तु ज्वरो यस्तनुतां गतः । प्लीहाग्नि-सादं कुरुते स जीर्णंज्वर उच्यते ॥ ” इति । २ पाप्मापहं = कार्पासजाद्यपहरणजन्य-पापक्षयकरम् । तथा चैकादशाध्याये मनुः- “ कार्पासकीटजोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ ” इति । ३ सन्धानं = भग्नसंयोजकम्, श्रास्थापनं = निरूहृबस्त्युपयोगि । ४ वमनं = वमनद्रव्यसंयोगीति ढल्हणः, विरेचनं मृदुकोष्ठस्य पित्तप्रकृतेश्च । तथा च वक्ष्यति - “ बहुपित्तो मृदुः स दुग्धेनापि विरच्यते " इति । यावन्तो गुणा = राज--श्रजसस्तावन्तः क्षीरस्येति तुल्यगुणत्वात् । ५ शोषिणां यक्ष्मरोगिणामित्यर्थः । ६ व्याधिः = वातादिदोषः । ७ | महाभिष्यन्दि = दोषधातुम-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 399

सुश्रुत संहिता चौखम्बा, पृष्ठ 399 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] $ । " .. सूत्रस्थानम् । २३ ९ तयोर्नस्याश्च्योतनयोः । इति क्षीरवर्गः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri उष्णमैर्कशफं बल्यं शाखावोतहरं पयः ॥ ५६ ॥

मधुराम्लरसं रूक्षं लवणानुरसं लघु नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ॥ ५७ ॥

नस्यौश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ।

हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ॥ ५८ ॥

स्निग्धं स्थैर्यकरं शीतं चक्षुष्य बलवर्द्धनम् ।

प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ॥ ५ ९ ॥

रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा ।

दिवाकराभितप्तानां व्यायामानिलसेवनात् ॥ ६० ॥

वातानुलोमि श्रान्तिघ्नं चक्षुष्यं चापराह्निकम् ।

पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्त्तितम् ॥ ६१ ॥

तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ।

वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥ ६२ ॥

धारोष्णं गुणवंत् क्षीरं विपरीतमतोऽन्यथा ।

तदेवातिशृतं शीतं गुरु बृंहणंमुच्यते ॥ ६३ ॥

अनिष्टगन्धमम्लञ्च विवण विरसञ्च यत् ।

वर्ज्य सलवणं क्षीरं यच्च विग्रथितं भवेत् ॥ ६४ ॥

इति क्षीरवर्ग: । लस्रोतसामधिकक्लेदप्राप्तिकारणम् । १ एकः शफः खुरो यस्याः सा एकशफा अश्वा-२ शाखा द्वौ बाहू द्वे सक्थिनी च तद्गतो वातः शाखा-दयः, तत्सम्बन्धि दुग्धम् । वातः । ३ नस्यं नासाग्राह्यम्, आश्च्योतनमक्षिपूरणं “ नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम् ” स्त्रीस्तन्यमाममनावर्तितमेव हितमिति । सम्बन्धः । ४ शरीरस्थैर्यकरमित्यर्थः । ५ तत् ६ गुणवत् = बहुगुणम्, अतिशा-यने वतुप् । ७ बृंहणं = शरीरवर्द्धकम् । ८ विकृत्या गुम्फितमिव विग्रथितम्, अम्ला-CO • दिद्रव्य संयोगेन विनष्टमित्यर्थः ।

पृष्ठ 400

सुश्रुत संहिता चौखम्बा, पृष्ठ 400 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४० Digitized by Arya Samaj Foundation Cher and eGangotri ' सुश्रुतसंहिताया-अथ दधिवर्गः— [ अ ० ४५ धि तु मधुरमम्लमत्यम्लश्चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्यापह वृष्यं प्राण मङ्गल्यश्च ॥ ६५ ॥

महाभिष्यन्दि मधुरं कफमेदोविवर्द्धनम् ।

कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ॥ ६६ ॥

विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् ।

स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ॥ ६७ ॥

वातापहं पवित्रञ्च दधि गव्यं रुचिप्रदम् ।

दध्यार्ज कफपित्तघ्नं लघु वातक्षयापहम् ॥ ६८ ॥

दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ।

विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ॥ ६ ९ ॥

बलासंवर्द्धनं स्निग्धं विशेषाद्दधि माहिषम् ।

विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ॥ ७० ॥

वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च ।

कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ॥ ७१ ॥

रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् ।

दीपनीयमचक्षुष्य वाड़वं दधि वातलम् ॥ ७२ ॥

रूक्षमुष्णं कषायञ्च कफमूत्रापहञ्च तत् ।

स्निग्ध विपाके मधुरं बल्यं सन्तर्पणं गुरु ॥ ७३ ॥

चक्षुष्यमचं दोषघ्नं दधि नार्या गुणोत्तरम् ।

लघु पाके बलासघ्नं वीर्योष्णं पक्तिनार्सनम् ॥ ७४ ॥

अथ दधिवर्ग: -१ दधिभेदान् सामान्यतो गुणांश्चाह – दधीति । २ “ यः स्यादनियतात् कालात् शीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमः स ज्वरो विषमः स्मृतः ॥ ” इति । ३ वृष्यं = शुक्रवर्द्धकम् । ४ न सम्यग् दधिभावमापन्नं मन्दजातम् । ‘ दुर्नाम क्लीबमर्शसि ' इति मेदिनी । क्षुम्नादित्वाण्णत्वाभावः । ५ कफवृद्धिकरम् । दुर्नाम = अर्शः । ६ बलासवर्द्धनं = ७ गुणोत्तरं = गुणश्रेष्ठम् । ८ पक्तिनाशनं = पाचनशक्तिहरम् । CC - 0. Gurukul Kangri Collection, Haridwar