सुश्रुत संहिता चौखम्बा — पृष्ठ 401–410

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 401–410

पृष्ठ 401

सुश्रुत संहिता चौखम्बा, पृष्ठ 401 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

A. A. त् अ ०४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri " सूत्रस्थानम्

कषायानुरसं नाग्या दधि वर्चोविवर्द्धनम् ।

दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ॥ ७५ ॥

विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् । २४१ वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ॥ ७६ ॥

कुर्याद् भक्ताभिलाषञ्च दद्धि यत् सुपरिस्रुतम् ।

शृतात् क्षीरात्तु यज्जातं गुणवदधि तत् स्मृतम् ॥ ७७ ॥

वातपित्तहरं रुच्यं धात्वग्निबलवर्द्धनम् ।

दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ॥ ७७ ॥

वह्नेर्विधमनश्चापि कफशुक्रविवर्द्धनः ।

दधि त्वसारं रूक्षञ्च ग्राहि विष्टम्भि वातलम् ॥ ७ ९ ॥

दीपनीयं लघुतरं सकषायं रुचिप्रदम् ।

शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ॥ ८० ॥

हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ।

तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ॥ ८१ ॥

अम्लं कषायं मधुरमवृष्यं कफवातनुत् ।

प्रह्लादनं प्रीणनञ्च भिनत्त्याशु मलञ्च तत् ॥

बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ॥ ८२ ॥

स्वद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च । १ सुष्ठु परिस्रुतं वस्त्रादिभिर्गालितजलांशं सुपरिस्रुतम् । २ सरः = स्नेहबहुल उपरितनांशः । तथा च भावप्रकाशे – “ दध्नस्तूपरि यो भागो घनः स्नेहसमन्वितः । स लोके सर इत्युक्तो दध्नो मण्डस्तु मस्त्विति ॥. ३ विधमनः = नाशनः ४ अ-सारं = निस्सारम्, सररहितमित्यर्थः । ५ रोगविशेषेण दधिनिषेधमाह चरकः- “ रक्तपित्तकफोत्थेषु विकारेष्वहितं च तत् । न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् || नामुद्द्रसूपं नाक्षौद्रं नोष्णं नामलकैर्विना । ज्वरासृपित्तवीसर्प कुष्ठपाण्ड्वामयभ्रमान् । प्राप्नुयात् कामलां चोग्रां दंधिप्रियः ॥ ” विधिं हित्वा इति । ६ मस्तु = द्विगुणवारियुतं दधि । राजनिघण्टौ - “ तक्रं त्रिभाग-दधिसंयुतमम्बुधीरैरुक्तं दधि द्विगुणवारियुतं तु मस्तु ” इति । ७ प्रीणनं प्रीति-८ भक्तच्छन्दं = क्षुधाम् । ९ दधिवर्गोक्तमुपसंहरति-१६ पोटा पुस्तक - विभाग सञ्जननम्। CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 402

सुश्रुत संहिता चौखम्बा, पृष्ठ 402 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४२ Digitized by Arya S सुश्रुर्तसहिताय f hennai and eGangotri [ अ ० ४५ असारमेवं दधि संप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ॥ ८३॥१

इति दधिवर्गः । अथ तक्रवर्ग: -: -तकं मधुरभम्लं कषायानुरसमुष्णवीर्य्यं लघु रूक्ष मग्निदीपनं गैरशोफातिसारग्रहणीपाण्डुरोगार्शः प्लीहगुल्मा रोचक विषमज्वरतृ-ष्णाच्छर्दिर्पंसेकशूलमेदः श्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृ-च्छ्र स्नेहव्यापत्प्रशमनमवृष्यञ्च ॥ ८४ ॥

मन्थनादिपृथग्भूतस्नेहमद्धोदकं च यत् ।

नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे ।

यत्तु सस्नेहमजलं मथितं घोलमुच्यते ॥ ८५ ॥

नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले ।

न मूर्च्छा भ्रमदाहेषु न रोगे रक्तपैत्तिके ॥ ८६ ॥

शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च ।

मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ॥ ८७ ॥

तत् पुनर्मधुरं श्लेष्मप्रकोपरणं पित्तप्रशमनञ्च; अम्लं वातघ्नं पित्तकरश्च ॥ ८८ ॥

१ स्वाद्वम्लमित्यादिना श्लोकार्थेन गणनीयम् । तत्र सरः = ससारम् । इति दधिवर्गः । अथ तक्रवर्गः-२ अथ तक्रगुणान् प्रतिपादयति - तक्रमिति । ३ गरं = संयोगजं विषम् । ४ प्रसेकः = कफजन्यलालादिस्रावः । ५ स्नेहव्यापत्प्रशमनं = स्निग्धद्रव्यभक्षणजनित-विकारनाशनम् । स्नेहातियोगजनितविकाराः - तन्द्रा सोत्क्लेश आनाहो ज्वरः स्तम्भो विसंज्ञतेत्यादिकाश्चरकादाववलोकनीयाः । ६ तुवरं = कषायानुरसम् । -७ तन्त्रान्तरे तक्रस्य त्रैविध्यमाह " रूक्ष मर्दोद्धृतस्नेहं | तक्रं -यतश्चानुद्धृतं घृतम् दोषाग्निबलवित्त्रिविधं तत्प्रयोजयेत् ” ॥ अपि च घोलमथिततक्रोदश्विच्छच्छिकेतिनाम-भेदेन तद्भेदा उक्ता निघण्टौ– “ धोलन्तु मथितं तक्रमुदश्विच्छच्छिकाऽपि च । ससार निर्जलं घोलं मथितं त्वसरोदकम् || तक्रं पादजलं प्रोक्तमुदश्वित्त्वर्द्धवारिकम् । छच्छिका1 सारहीना स्यात्स्वच्छा प्रचुरवारिका ॥ ” इति । ८ स्रोतोमार्गावरोधे शोधकत्वात्तक्रस्य CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 403

सुश्रुत संहिता चौखम्बा, पृष्ठ 403 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४५ joi २ ॥ i तं का न्य सूत्रस्थानम् २४३ इति तक्रवर्गः । CC - 0. Gurukul Kangri Collection, Haridwar

वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम् ।

पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ॥ ८ ९ ॥

ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूांच की ।

तक्राल्लघुतरो मण्डः कूर्चिकाद्धितक्रजः ॥ ९ ० ॥

गुरुः किलोटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः ।

मधुरौ बृंहणौ वृध्यौ तद्वत्पीयूषैमोरटौ ॥ ९ २ ॥

नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं सङ्ग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्थोऽदितापहं, चिरोत्थितं गुरु कफमेदोविवर्द्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ॥ ९ २ ॥ क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेह माधुर्ययुक्तमतिशीतं सौकुमार्य-करं चक्षुष्यं सङ्ग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनञ्च ॥ ९ ३ ॥ सन्तानिका पुनर्वातघ्नी तर्पणी बल्या वृष्या स्निग्धा रुच्या म-धुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ॥ ९ ४ ॥

विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः ।

विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ॥ ९ ५ ॥

प्राशस्त्यमित्यर्थः 1 १ दध्ना तक्रेण वा सह पाकात् पृथग्भूतं घनद्रवभागं क्षीरं कूर्चिका । २ उपरितन: स्वच्छो भागो मण्डः । कथम्भूतः कूचिकादधितक्रजः कूर्चिका-भूतं यद्दधि तक्रं च ताभ्यां जात इत्यर्थः । तदाह निघण्टौ - " दध्ना सह च यत्पक्कं क्षीरं सा दधिकूर्चिका । तक्रेण पक्कं यत्क्षीरं सा भवेत्तक्रकूचिका ॥ ” इति । ३ किलाटः = कूर्चिकीभूतदुग्धस्य पिण्डः । तदुक्तम् - " नष्टदुग्धस्य पक्कस्य पिण्डः प्रोक्तः किलाटक ” इति । ४ “ क्षीरं सद्यः प्रसूतायाः पीयूषमिति संज्ञितम् । सप्तरात्रात्परं क्षीरमप्रसन्नस्तु मोरटः ” ॥ सप्ताहात्परतो यावत्प्रसन्नतां न गच्छति तावन्मोरट इत्यर्थः । ५ सद्यो भवं सद्यस्कन् । ६ श्रदिताख्यवातव्याधिः । ७ सन्तानिका = क्षीरस्योपरिस्थित-भागः, क्षीरसर इति यावत् । ८ अवशिष्टान् श्रजातक्राद्यात्मकान् विकल्पान् प्रकारान् क्षीरवीर्यात् समादिशेद् यथाऽजादीनां क्षीरगुणस्तदनुगुणतत्तक्रादिगुणमुपदिशेदित्यर्थः ।

पृष्ठ 404

सुश्रुत संहिता चौखम्बा, पृष्ठ 404 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४४ Digitized by Arya Samaj Foundation Chennai and eGangotri r सुश्रुतसंहितार्थी अथ घृतम्-अ ० ४५ घृतं ' तु मधुरं सौम्यं मृदु शीतवीर्य्यमल्पाभिष्यन्दि स्नेहन-मुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृति-मतिमेधाकान्तिस्वरलावं प्यसौकुमाय्यजस्तेजोबल करमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्द्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नञ्च ॥ ९ ६ ॥

विपाके मधुरं शीतं वातपित्तविषापहम् ।

चक्षुष्यमग्र्यं बल्यञ्च गव्यं सर्पिर्गुणोत्तरम् ॥ ९ ७ ॥

आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनम् ।

कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ॥ ९ ८ ॥

मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् ।

वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥ ९९ ॥

औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् ।

दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥ १०० ॥

पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् ।

* फेऽनिले ' योनिदोषे शोषे कम्पे च तद्धितम् ॥ १०१ ॥

पाके लघूष्णवीर्य्यञ्च कषायं कफनाशनम् ।

दीपनं बद्धमूत्रञ्च विद्यादैकशफं घृतम् ॥ १०२ ॥

चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतोपमम् । अथ घृतवर्ग: -१ अथ सामान्यतो घृतगुणानाह-- घृतमिति । सोमगुणबहुलं सौम्यम् । २ श्रा-नाहः = विण्मूत्ररोधकव्याधिः । ३ लावण्यं = शरीरसौन्दर्यभेदः, तदुक्तम् - " मुक्ता-फलेषु छायायारतरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ ” इति । ४ पाप्मप्रशमनमलक्ष्मीप्रशमनं चेत्यर्थः । घृतस्य पाप्मप्रशमनत्वमाह– “ यस्मात्तेजो-मयं ब्रह्म घृते तच्च व्यवस्थितम् । तेजोऽमृतमयं दिव्यं महापातकनाशनम् ॥ ” इति । ५ “ हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः । वृत्तश्चयापचयवान् स गुल्म इति कीर्तितः ” ॥ अपि च - " आर्तवादपि गुल्मः स्यात् स तु स्त्रीणां प्रजायते । अन्य-स्त्वसृग्भवः पुंसां तथा स्त्रीणां प्रजायते ॥ ” इति । ६ योनिदोषे = उदावर्तादिविंश-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 405

सुश्रुत संहिता चौखम्बा, पृष्ठ 405 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ॥ १०३ ॥

कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु । २४५ हन्ति कारेणैवं सर्पिः कफकुष्ठविषक्रिमीन् ॥ १०४ ॥

क्षीरघृतं पुनः सङ्ग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोग-हितञ्च ॥ १०५ ॥

सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो स् नस्याक्षिप्रपूरणेषूपदिश्यते ॥ १०६ ॥

सर्पिः पैराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छा मदोन्मादोदर-ज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिरः शूलघ्नं दीपनं बस्तिनस्याक्षि-पूरणेषूपदिश्यते ॥ १०७ ॥

भवति चात्र ।

पुराणं तिमिरश्वासपीनसज्वरका सनुत् ।

मूर्च्छा कुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥ १०८ ॥

एकादशशतञ्चैव वत्सरानुषितं घृतम् ।

रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ॥ १० ९ ॥

पेयं महाघृतं भूतैः कफन्नं पवनाधिकैः ।

बल्यं पवित्रं मेध्यञ्च विशेषात्तिमिरापहम् ॥ ११० ॥

सर्वभूतहरञ्चैव घृतमेतत् प्रशस्यते ॥ १११ ॥

तियोनिव्यापदि । १ कारेणवं = हास्तिनम् । २ क्षीरघृतं = क्षीरमथनात्समुद्भूत-नवनीतोत्थं घृतमित्यर्थः । ३ नेत्ररोगहितं = षट्सप्ततिदृष्टिगतव्याधिहितकरम् । ४ सर्पिर्मण्डः = घनीभूतघृतस्योपरिस्थितः स्वच्छो भागः, सरः = विरेचकः । ५ यद्यपि पुराणसपिंर्विषये— “ वर्षादूर्ध्वं भवेदाज्यं पुराणम् ” “ पुराणं दशवर्षं स्यात् प्रपुराणमतः परम् " इत्यादि मतभेदो दृश्यते; तथाऽपि " यथा यथा जरां याति गुणवत्स्यात्तथा तथा ” इत्यायुर्वेददीपिकोद्धृतहारीतोक्तवचनविषयका ज्यगुणौत्क सर्वेषां मतैक्यमिति बोध्यम् 1 । ६ शूलशब्दस्य योन्यादिभिः सह प्रत्येकं सम्बन्धः । ७ “ शतवर्षंस्थितं यत्तु कुम्भसर्पिरतदुच्यते ” इत्यपरे । ८ सर्वभूतहरं = पिशाचादिस-र्वभूतबाधाऽपहारकमित्यर्थः । इति घृतवर्गः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 406

सुश्रुत संहिता चौखम्बा, पृष्ठ 406 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-अथ तैलानि— [ अ ० ४५ तैलं ' त्वाग्नेयमुष्णं तीष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यं-वायि सूक्ष्मं विशदं गुरु सरं विकौसि वृष्यं त्वक्प्रसादनं शोधनं मे-धामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषाया-नुरसं पाचनमनिलँबलासक्षयकरं क्रिमिन्नमशितपित्तजननं योनि-शिरःकर्णशूलप्रशमनं गर्भाशयशोधनञ्च तथा छिन्नभिन्नविद्धोत्पिष्ट-च्युतमथितक्षतपिच्चितभग्नस्फुटित क्षाराग्निदग्ध विश्लिष्टदारिताभिह-तदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिल-तैलं प्रशस्यते ॥ ११२ ॥

तद्वस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे ।

अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥ ११३ ॥

एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्र-विशोधनमा रोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदो-षहरच ॥ ११४ ॥

• निम्बा तसीकुसुम्भमूलकजीमूर्तकवृक्षककृत वेधनार्क कम्पिल्लकह्-स्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदी शिग्रु सर्षपसुवर्चलाविडङ्गज्योतिष्मती-फलतैलानि तीक्ष्णाणि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि अथ तैलवर्ग: -१ सामान्यतस्तैलस्य गुणकर्मणी निर्दिशति – तैलमिति । यद्यपि तैलशब्देन तिलेषु भवं तैलं तिलतैलमभिप्रेतम्, तथाऽपि वर्गेऽस्मिन्नैरण्डतैलादीनामपि व्यतया “ तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतः ” इति पारिभाषिकं वक्त-भिप्रेतम् । श्राग्नेयम् = अग्निगुणबहुलम् तैलमत्रा-। २ " व्यवायी वाऽखिलं देहं व्याप्य पाकाय कल्पते ” इति वच्यमाणलक्षणं व्यवायि । ३ विकासि = सर्वशरीरानुप्रवेशेन धातुस-न्धिबन्धनविमोचकम् । ४ अनिलो वातः बलासः श्लेष्मा मिलितयोस्तयोर्विनाशक-मित्यर्थः । ५ उत्पिष्टं = चूर्णितम्, च्युतं = स्थानादपसृतम्, मथितं = विलोढितम्, पिच्छितं = चिपिटीभूतम्, भग्नं = सन्धिमुक्तादिभग्नम्, स्फुटितं = बहुधाखण्डीभू-तम् । ६ जीमूतकः = देवदाली, वृक्षकः - कुटजः, कृतवेधनः = कोशातकी । कम्पि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 407

सुश्रुत संहिता चौखम्बा, पृष्ठ 407 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगहराणि चेति ॥ ११५ ॥

वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् ।

कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरु पित्तलम् ॥ ११३ ॥

कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु ।

कफमेदोऽनिलहरं लेखनं कटु दीपनम् ॥। ११७ ॥

कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु । २०७ कुष्ठाय कृमिहरं दृष्टिशुक्रबलापहम् ॥ ११८ ॥

विपाके कटुकं तैलं कौसुम्भं सर्व दोषकृत् ।

रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ॥ ११ ९ ॥

किराततिक्तकातिमुक्तकबिभोतकनालिकेर कोला तोड जीवन्ती-प्रियाकर्बुदारसूर्य वल्लीत्रपु सैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्य-दीनि सृष्टविण्मूत्राण्यग्निसादनानि चेति ॥ १२० ॥

मधुक काश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रश-मनानि ॥ १२१ ॥

तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकु ष्टमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ॥ १२२ ॥

सरलदेवदारुर्गंण्डीरशिंशपागुरुसार स्नेहास्तिक्तकटुकषाया दुष्ट-ब्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ॥ १२३ ॥

तुम्बीकोश म्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकश-विनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिल-ल्लकः = रेणुधद्गुण्डारोचनी, हस्तिकर्ण: = भूपलाशः, पृथ्वीका = कृष्णजीरकः । १ किराततिक्तकः = भूनिम्बः, अतिमुक्तकः = माधवीलताफलम् । ' फले लुक् ' इति सूत्रेण तद्धितप्रत्ययस्य लुक् । एवमन्यत्रापि यथायोगं बोद्ध्थम् । २ मधुकः = गुड-पुष्पः, दीर्घोकारघटितोऽपि मधूकशब्दः; काश्मर्यः = गम्भारी, ‘ गम्भार ' इति ख्यातः । → ३ तुवरकनामौषधिः, एतत्परिचयस्तु — “ पत्रैस्तु केशराकारैः कलायसदृशैः फलैः । वृक्षस्तुवरको नाम पश्चिमार्णवतीरजः ॥ ” इति तत्रान्तरीयः । ४ गण्डीरो वृक्षविशेषः । सरलाद्यगुर्वन्तानामन्तर्गतसारभागस्य तैलम् । ५ कोशाम्रः = वनाम्रवृक्षविशेषः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 408

सुश्रुत संहिता चौखम्बा, पृष्ठ 408 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-हरा दुष्टव्रणशोधनाश्च ॥ १२४ ॥

[ अ ० ४५ यतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं रसायनञ्च ॥ १२५ ॥

एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्मा-भिवर्द्धनं च ॥ १२६ ॥

सहकार तैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरञ्च ॥ १२७ ॥

फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् ।

गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् ॥ १२८ ॥

यावन्तः स्थावराः स्नेहाः समासात् परिकीत्तिताः ।

सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥ १२ ९ ॥

सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते ।

निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥ १३० ॥

ग्राम्यानूपौदकानाञ्च वसामेदोमज्जानो गुरूष्णमधुरा वातन्नाः । जाङ्गलैकशफकन्यादादीनां लघुशीतकषाया रक्तपित्तन्नाः । प्रतुदवि-ष्किराणां श्लेष्मघ्नाः । तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरु-विपाका वातहराश्च ॥ १३१ ॥

१ यवक्षेत्रेषु जायमाना तिक्तसप्ताष्टपत्रा यवतिक्ता तस्याः फलतैलमित्यर्थः । २ एकै-षिका = कृष्णत्रिवृता श्रविद्धकरणी पाठा वा तस्याः फलतैलम् । ३ आम्रतैलमित्यर्थः, ' आम्रइचूतो रसालोऽसौ सहकारोऽतिसौरभ ः ' इत्यमरः । ४ फलसदृशगुणकर्माणि वि-निर्द्दिशेदित्यर्थः । ‘ फलवत्तानि निर्दिशेत् ' इति पाठान्तरम् ५ “ स्नेहानां द्विविधा योनिः सौम्यस्थावरजङ्गमा ” इति चरकः ॥ ६ वैशिष्ट्यमाह चरकः— “ तैलं संयोगसंस्कारात्सर्वरोगापहं परम् । तैलप्रयोगाद-जरा निर्विकारा जितश्रमाः । आसन्नातिबलाः सङ्ख्ये दैत्याधिपतयः पुरा ॥ ” इति । ७ निष्पत्तेः = तैलकर्मसंसिद्धेः, यथा तिले तैलं निष्पद्यते, तथैवैरण्डादिष्वपीति निष्प-त्तिसाम्यमितिभावः । तैलसाम्याद् वसामेदोमज्जगुणान् दर्शयति - ग्राम्येति । ९ प्रतुद्य चञ्च्वा ये भक्षयन्ति ते प्रतुदाः कपोतपारावतादयः, नखैर्विकीर्य ये भक्षयन्ति ते विष्किराः लावादयः । इति तैलवर्गः। CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 409

सुश्रुत संहिता चौखम्बा, पृष्ठ 409 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] नं यं न सूत्रस्थानम् । २४ ९ अथ मधुवर्ग: -अथ मधुवर्ग: -६ सविषान्व-७ मेदोग्रन्थ्यादीनां छेदीत्यर्थः । विदा-CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri म॑धु तु मधुरं कषायानुरसं रूक्ष शोतमग्निदीपनं वर्ण्य स्वयं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं सङ्ग्राहि चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्म मेदोमेहहिक्काश्वा-सकासातिसारच्छर्दितृष्णाकृमिविषैप्रशमनं ह्लादि त्रिदोषप्रशमनञ्च । तत्तु लघुत्वात्कफनं पैच्छिल्यान्माधुर्यात्कषायभावाच्च वातपि त्तघ्नम् ॥ १३२ ॥

पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च ।

आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥ १३३ ॥

विशेषात्पात्तिकं तेषु रूक्षोष्णं सविपान्वयात् ।

वातासृपित्तकृच्छेदिं विदाहि मदकृन्मधु ॥ १३४ ॥

पैच्छिल्यात् स्वादुभूयस्त्वाद् भ्रामरं गुरुसंज्ञितम् ।

क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥ १३५ ॥

१ मधुनः सामान्यगुणान्निर्दिशति - मध्विति । २ सुकुमारं = सौकुमार्यकरमि-त्यर्थः । ३ विशेषतो वरटीदंशजन्य विषशामकमिति बोध्यम् । ४ पौत्तिकम् — ' ' मह-त्यः पिङ्गला यास्तु मक्षिकाः पुत्तिकाः स्मृताः ” तद्भवं सर्पिषा तुल्यं मधु पौत्तिकम् । भ्रामरम्– “ किञ्चित्सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्योऽलिभिश्चितम् । निर्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥ ” इति । क्षौद्रम् - " मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्त-त्कृतं मधु । मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात्कपिलं भवेत् ॥ ” इति । माक्षिकम् - “ मक्षिकाः पिङ्गवर्णास्तु महत्यो मधुमक्षिकाः । ताभिः कृतं तैलवर्णे माक्षिकं परिकीर्तितम् ॥ ” इति । छात्रम्— “ वरटाः कपिलाः पीताः प्रायो हिमवतो वने । कुर्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥ ” इति । आर्घ्यम् - " तीच्णतुण्डास्तु याः पीतवर्णाः षट्पदसन्निभाः । अर्थ्यांस्ता माक्षिका ज्ञेया आर्ध्यं तत्कृतमुच्यते ॥ ” इति । औद्दालकम् – “ प्रायो वल्मी • कमध्यस्थाः कपिलाः स्वल्पकीटकाः । कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु || ” इति । दालम् – “ इन्द्रनीलदलाकाराः । सूक्ष्मा या मक्षिकाः शुभाः । वृक्षकोटरमध्य-स्थास्तज्जं दालमुदाहृतम् ॥ ” इति । ५ पौत्तिकाद्यष्टमधुजातीनां गुणान् दर्शयति- विशेषादिति यात् = सविषमक्षिकासम्बन्धित्वादित्यर्थः ।

पृष्ठ 410

सुश्रुत संहिता चौखम्बा, पृष्ठ 410 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" सुश्रुतसंहिताया " a Digitized by Arya Samaj Foundation Chennai and eGangotri २५० [ ० ४५

तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् ।

श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ॥ १३६ ॥

स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् ।

श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ॥ १३७ ॥

आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् ।

कषायं कटु पाके च बल्यं तिक्तमवार्तकृत् ॥ १३८ ॥

औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् ।

कषायमुष्णमम्लञ्च पित्तकृत् कटुपाकि च ॥ १३ ९ ॥

छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् ।

बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् ॥ १४० ॥

मेदःस्थौल्याप ग्राहि पुराणमतिलेखनम् ।

दोषत्रयहरं पक्कैमाममम्लं त्रिदोषकृत् ॥ १४१ ॥

तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् ।

नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ॥ १४२ ॥

तंत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां षमक्षिकासम्भवत्वाच्चानुष्णोपचारम् ॥ १४३ ॥

उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु ।

पुष्परसानां सवि-उष्णार्त्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ॥ १४४ ॥

तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससम्भवाच्च । हिलक्षणम् — ‘ ‘ द्रव्यस्वभावादथ गौरवाद्वा चिरेण पाकं जठराग्नियोगात् । पित्तप्रकोपं विदहत् करोति तदन्नपानं कथितं विदाहि ॥ ” इति । १ किञ्चिद् वातकृदिति निष्कर्षः । २ “ मधुनः शर्करायाश्च गुडस्यापि विशेषतः । एकसंवत्सरेऽतीते पुराणत्वं स्मृतं बुधैः ॥ ” इति । ३ अग्निसंयोगात्पक्वम् । अग्निसंयोगनिषेधात् कालपरिणामेन पक्कत्व-मामत्वमित्यन्ये । ४ नानाद्रव्यात्मकत्वात् = अनेकविध पुष्परससम्भूतत्वात्, योगवाहि - योगेन द्रव्य-संयोगेन वहति तत्तद्द्रव्यगुणानुकारीणि तानि तानि कर्माणि करोतीति तत् । ५ मधु अनुष्णोपचारम् उष्णोपचारानर्हं भवतीति सूर्य- तद् योजना । ६ उष्णार्ते = घर्मेण तापेन वा पीडितम्, उष्णैर्द्रव्यैः सह उष्णं • काले देशे वा । ७ नानौषधीनां = परस्प CC - 0. Gurukul Kangri Collection, Haridwar