सुश्रुत संहिता चौखम्बा — पृष्ठ 411–420

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 411–420

पृष्ठ 411

सुश्रुत संहिता चौखम्बा, पृष्ठ 411 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २५१ उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि ॥१४५ ॥

उष्णेन मधु संयुक्तं वमनेष्ववचारितम् ।

अपादनवस्थानान्न विरुध्येत पूर्ववत् ॥ १४६ ॥

मध्वामोत्परतस्त्वन्यदामं कष्टं न विद्यते ।

विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ॥ १४७ ॥

अथेक्षुवर्ग: -इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ॥ १४८ ॥

ते चानेकविधाः । तद्यथा-पौण्डको भीरुकश्चैव वंशकः श्वेतपोरकः ।

कान्तारस्तापसेक्षुश्च कौष्ठेक्षुः सूचिपत्रकः ॥ १४ ९ ॥

नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।

इत्येता जातयः स्थौल्योद् गुणान् वक्ष्याम्यतः परम् ॥ १५० ॥

सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः ।

अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥ १५१ ॥

आभ्यां तुल्यगुणः किञ्चित्सक्षारो वंशको मतः ।

वंशवच्छ्वेतपोरस्तु किञ्चिदुष्णः स वाहा ॥ १५२ ॥

कान्तारतापसाविक्षू वंशानुगतौ मतौ ।

एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ॥ १५३ ॥

सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः ।

वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥ १५४ ॥

रविरुद्धनानौषधिपुष्पाणामित्यर्थः । १ वमनविषयेऽपवादमाह – उष्णेनेति । यद्यपि वमने उष्णस्य मधुना विरोधो नोक्तः, तथाऽपि वृद्धा न प्रयुब्ज्यते, वमनस्याधोगतिभ-यादिति ढल्हणः । २ मध्वामात् = मध्वजीर्णात् । ३ श्रमे उष्णमुपचर्यते मधु नोपचर्यते इति विरुद्धोपक्रमत्वादित्यस्य तात्पर्यम् । इति मधुवर्गः । अथेक्षुवर्ग: -४ ' शतपोरकः ' इति पाठान्तरम् । ५ ' काण्डेतुः ' इति पाठान्तरम् । ६ स्थौ: CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 412

सुश्रुत संहिता चौखम्बा, पृष्ठ 412 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताय [

कोकारो गुरुः शीतो रक्तपित्तक्षयापहः ।

अतीव मधुरो मूले मध्ये मधुर एव तु ॥ १५५ ॥

अम्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ १५६ ॥

अविदाही कफकरो वातपित्तनिवारणः ।

वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ॥ १५७ ॥

गुरुर्विद विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः । अ ० ४५ पक्को गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ॥ १५८ ॥

फौणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ॥१५ ९ ॥ गुडः ३ सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नाति-पित्तजिद्वातन्नो मेदःकफकरो बल्यो वृष्यश्च ॥ १६० ॥

पित्तघ्नो मधुरः शुद्धो वातन्नोऽसृक्प्रसादनः ।

स पुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः ॥ १६१ ॥

मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ॥ १६२ ॥

यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।

स्नेहगौरवशैत्यानि सरत्वञ्च तथा तथा ॥ १६३ ॥

यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः ।

तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ॥ १६४ ॥

ल्यात् = प्राधान्याद् इत्येता द्वादश जातयो भवन्तीत्यर्थः । १ " विदाहि द्रव्यमुद्गार-मम्लं कुर्यात्तथा तृषाम् । हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् ॥ ” इति, तद् विशदयति वाग्भटः – - ' “ मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात् । किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः । विदाही = गुरु विष्टम्भी तेनासौ ” इति । २ फाणितम् श्रर्द्धावर्तितेक्षुरसः, ‘ राब ’ इति ख्यातम् । ३ अशुद्धगुढगुणान्निर्दिशति – गुड इति । फाणितस्य पाकादतिघनभावमापन्नो निर्मलो गुढ इत्यर्थः । ' ४ “ इक्षो रसो यः सम्पक्को घनः किञ्चिद् द्रवान्त्रितः । मन्दं यत् स्यन्दते तस्मात्त. न्मत्स्यण्डी निगद्यते ॥ ” इति । पाकोत्तरकालं मलापहरणेन विशुद्धागुढाज्जाता मत्स्य-ण्डिका ततः खण्डस्ततः शर्करा उत्तरोत्तरं विमलजाता वैमल्योत्कर्षमापन्ना उत्तरोत्तरं शैत्यादिप्रकर्षगुणभाजो भवन्तीत्यर्थः । ५ विस्रावण: = तत्तदुत्पत्तिकाले विस्रुतः सर-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 413

सुश्रुत संहिता चौखम्बा, पृष्ठ 413 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४५ ] ४५ ५ ९ ॥ ति-वाः ell र-तद् त्या = ॥ त्तरं र. sa सूत्रस्थानम् | ch २५३ इतीक्षुवर्गः । अथ मद्यवर्गः— CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation, Chennai and eGangotri

सारेस्थिता सुविमला निःक्षारा च यथा यथा ।

तथा तथा गुणवती विज्ञेया शर्करा बुधैः ॥ १६५ ॥

मधुशर्करा पुनश्छद्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायम-धुरा मधुरविपाका च ॥ १६६ ॥

यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ॥१६७ ॥

यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः ।

रक्तपित्तप्रशमनाश्छदिंमूर्च्छातृषापहाः ॥ १६८ ॥

रूक्षं मधूकपुष्पोत्थं फाणितं वातपि कृत् ।

कफघ्नं मधुर पाके कषायं बस्तिँदूषणम् ॥ १६ ९ ॥

अथ मद्यवर्गः-सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् ।

भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥ १७० ॥

पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्र्यिबोधनम् ।

विकासि सृष्टविण्मूत्रं शृणु तस्य विशेषणम् ॥ १७१ ॥

मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा ।

रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ॥ १७२ ॥

सक्षारो मलः । १ अपगतमलत्वेन सारमात्रेणावस्थिता सारस्थिता, अत एव सुवि-मला निर्मला निःक्षारा निर्हृतगुढानुगतक्षारभावा । २ छेदनी - पिण्डीभूतानां कफा -दीनां भेदकारिणी। ३ यवासक्वाथपाकघनीभावाच्छकेरा कृता यवासशर्करेति डल्हणः । ४ बस्तिदूषणं = मूत्राशये वातादिप्रकोपकारीत्यर्थः । ५ मद्यानां सामान्यगुणकर्माणि दर्शयति — सर्वमिति । सर्वे = पैष्टिकं मादकं गौडं चेतित्रिविधम् । ६ इन्द्रियबोधनम् = इन्द्रियप्रसादनम्, “ प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः । वाद्यगीतप्रहासानां कथानां च प्रवर्तकः ॥ ” इति । ७ विकासि = " धातुसन्धिबन्धनशैथिल्यकारीत्यर्थः । तदुक्तं शार्ङ्गधरे– “ सन्धिबन्धांस्तु शिथिलान् यत्करोति विकासितत् । विश्लेष्यौजश्च धातुभ्यो यथा क्रमुककोद्रवाः || " इति । सृष्ट-विण्मूत्रम् = विष्ठामूत्रप्रवर्तकमित्यर्थः । 5 मृद्वीका द्राक्षा तत्कृतं मद्यं माद्रकम् ।

पृष्ठ 414

सुश्रुत संहिता चौखम्बा, पृष्ठ 414 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५४ Digitized by Arya Sa सुश्रुतसंहिताथां--jennai and eGangotri १ [ अ ० ४५

मधुरं तद्धि रूक्षञ्च कषायानुरसं लघु ।

लघुपाकि सरं शोषविषमज्वरनाशनम् ॥ १७३ ॥

कल्पान्तरं किञ्चित् खार्जूरं वातकोपनम् ।

तदेव विशदं रुच्यं कफन्नं कैर्शनं लघु ॥ १७४ ॥

कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् ।

कास शग्रहणीदोषमूत्राघातानिलापहा ॥ १७५ ॥

स्तन्यरक्तक्षयहिता सुरौ बृंहणदीपनी ।

कासा शग्रहणीश्वासप्रतिश्यायविनाशनी ॥ १७६ ॥

श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरौ ।

छर्घ रोचक हृत्कुक्षि तोदशूलप्रमर्दनी ॥ १७७ ॥

प्रसन्ना कफवातार्शो विबन्धानाहनाशनी ।

पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी ॥ १७८ ॥

विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ।

रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ॥। १७ ९ ॥

त्रिदोषो भेद्यवृष्यश्व कोहेँलो वदनप्रियः ।

ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ॥ १८० ॥

हृद्यः प्रवाहिकाऽऽटोप दुर्नामानिलशोपहृत् ।

बर्कैसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ १८१ ॥

दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः । . कर्शनं = कार्यकारकमित्यर्थः । इत्युक्तलक्षणा सुरा । २ “ शालिपिष्टकपिष्टादिकृतं मद्यं सुरा स्मृता ” ३ श्वेता सुरा इति सम्बन्धः । श्वेतवर्णा सुरेत्यर्थः । श्वेतपुनर्नवादिमूलशालिपि-ष्टककिण्वप्रभवा कतोलीति प्रसिद्धेति डल्हणः । ४ प्रसन्ना = उपरितनाच्छो भागः मण्ड इत्यर्थः । तदुक्तं शार्ङ्गधरे - " सुरामण्डः प्रसन्ना स्यात् ” इति सुरा-। ५ स्वल्पगोधूमो मध्यदेशे पीशीकेति ख्याता, मर्कटहस्ततृणं वा तत्फलकिण्वं मधूलकमिति ढल्हणः । मधूकफलसम्भूतसुरा मधूलिकेति सुश्रुतार्थसन्दीपनम् । ६ अक्षं बिभीतकफलं तत्कृता सुरा प्राक्षिकी । ७ यवसक्तुकृता सुरा कोहलः । ८ " आटोपो गुढगुढा-शब्दः प्रोक्तो जठरसम्भवः ” । दुर्नाम = अर्शः । ९ सकल्कत्वेन सान्द्रं मद्यं जगल CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 415

सुश्रुत संहिता चौखम्बा, पृष्ठ 415 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

। ४५ अ ० ४५ ] ना " पि. रा. मो चः । कलं. डा. गल Digitized by Arya Samaj Foundati Chennai and eGangotri " सूत्रस्थानम् he कषायो मधुरः सीधुर्गौडः पाचनदीपनः ॥ १८२ ॥

शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः ।

वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ॥ १८३ ॥

तद्वत् पर्करसः सीधुर्बलवर्णकरः सरः । २५५ शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ॥ १८४ ॥

कर्शनः शीतरसिकः श्वयथूदरनाशनः ।

वर्णकृज्जरणैः स्वर्यो विबन्धघ्न्नोऽर्शसां हितः ॥ १८५ ॥

आक्षिकः पाण्डुरोगन्नो व्रण्यः सङ्ग्राहको लघुः ।

कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ॥ १८६ ॥

जाम्बवो बद्ध निस्यन्दस्तुवरो वातकोपनः ।

तीक्ष्णः सुरासँवो हृद्यो मूत्रलः कफवातनुत् ॥ १८७ ॥

मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।

लघुर्मध्वासवरछेदी ' मेहकुष्ठविषापहः ॥ १८८ ॥

तिक्तः कषायः शोफन्नस्तीक्ष्णः स्वादुरवातकृत् ।

तीक्ष्णः कषायो मदकृद् दुर्नामकफगुल्महृत् ॥ १८ ९ ॥

कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ।

बल्यः पित्तहरो वण्य हृद्यश्चेक्षुरसासवः ॥ १ ९ ० ॥

सीधुर्मधूकपुष्पोत्थो विदाह्यग्निबलप्रदः ।

रूक्षः कषायकफहृद्वातपित्तप्रकोपणः ॥ १ ९ १ ॥

निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान् ।

नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ॥। १ ९ २ ॥

अनिष्टगन्धि विरसमहृद्यञ्च विदाहि च ।

सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ॥ १ ९ ३ ॥

इत्युच्यते, स एव यदाऽद्रवः कल्कमात्रावशिष्टस्तदा बक्वस इत्युच्यते । १ “ इक्षोः पक्कै रसैः सिद्धः सीधुः पक्करसः स्मृतः । श्रमैस्तैरेव यः सीधुः स शीतरसिको मतः ” ॥ २ जरणः = अन्नादिपाचकः । ३ बद्धं निस्यन्दं मूत्रं येन स बद्धनिस्यन्दः । ४ सुरया सूयते तोयकार्यं क्रियते यस्मिन् । स सुरासव इति ढल्हणः । ५ छेदी = दोष संशोधनः ६ “ आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तद्विजानीयान्मैरेयमुभया-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 416

सुश्रुत संहिता चौखम्बा, पृष्ठ 416 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५६ Digitized by Arya Sam खुश्रुतसंहितायां mail and eGangotri [ अ ० ४५

स्फुर्ट स्रोतस्कर जीर्ण लघु वातकफापहम् ।

अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ १ ९ ४ ॥

बहुदोषहरश्चैव दोषाणां शमनश्च सः ।

दीपनः कफवातन्नः सरः पित्ताविरोधनः ॥ १ ९ ५ ॥

शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ।

पिप्पल्यैादिकृतो गुल्मकफरोगहरः स्मृतः ॥ १ ९ ६ ॥

चिकित्सितेषु वक्ष्यन्तेऽरिष्टाः रोगहराः पृथक् ।

अरिष्टासवसीधूनां गुणान् कर्माणि चादिशेत् ॥ १ ९ ७ ॥

बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् ।

सौन्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु । १ ९ ८ ॥

अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ।

अल्पौषधं पर्युषितंमत्यच्छं पिच्छिलञ्च यत् ॥ १ ९९ ॥

तद्वज्य सर्वदा मद्यं किञ्चिच्छेषं च तद्भवेत् ।

तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ॥ २०० ॥

कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः ।: पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ॥ २०१ ॥

अहृद्यं फेनिलं पूति कृमिलं विरसं च यत् ।

तथा पर्यषितञ्चापि विद्यादनिलकोपनम् ॥ २०२ ॥

सर्व दोषैरुपेतं तु सर्वदोषप्रकोपणम् ।

चिरस्थितं जातरसं दीपनं कफवातजित् ॥ २०३ ॥

रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ।

तँस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ॥ २०४ ॥

श्रयम् ” ॥ १ स्फुटस्रोतस्करं = स्रोतोविकाशम् । २ मद्यादिसंस्कारापेक्षया तत्तच्चि-त्रकाभयादिद्रव्यसंयोगसंस्कारादित्यर्थः: । ३ अत्र दोषशब्दो व्याधिवाचकः । ४ शर्करामधुसंयोगेन पिप्पल्यादिगणक्काथकृत इत्यर्थः । सान्द्रमिति । सान्द्रं = घनम् । दिनिन्दितपात्रावस्थितमित्यर्थः । ५ मद्यदोषं दर्शयति-६ काचस्फटिकमृण्मयमद्यपात्रातिरिक्तमलिनत्वा-७ पर्युषितम् = अनाच्छादितमुखे पात्रेऽवस्थितम् ने । ८ मद्यस्य गुणान्निर्दिशति-चिरस्थितमिति । ९ कथं मनं मादयतीति दर्शयति - तस्येति । रसवीर्यंतोऽनेक-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 417

सुश्रुत संहिता चौखम्बा, पृष्ठ 417 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५. चि. -क. अ ० ४५ ] Digitized by Arya S र्थस्थान ) Chennai and eGangotri

सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना ।

समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् ॥ २०५ ॥

विक्षोभ्येन्द्रियचेतांसि वीर्यं मदयतेऽचिरात् ।

चिरेण श्लैष्मिके पुंसि पानतो जायते मदः ।

अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ॥ २०६ ॥

सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः ।

गीताध्ययन सौभाग्यसुरतोत्साहकृन्मदः ॥ २०७ ॥

राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् ।

कलहं सानुबन्धं तु करोति पुरुषे मदः ॥। २०८ ॥

अशौचनिद्रामात्सर्यागम्यागमनलोलताः ।

असत्यभाषणञ्चापि कुर्याद्धि तामसे मदः ॥ २० ९ ॥

रक्तपित्तकरं शुक्तं छेदि भुक्तविपाचनम् ।

वैस्वयं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ॥ २१० ॥

तीक्ष्णोष्णं मूत्रलं हृद्यं कफन्नं कटुपाकि च ।

तद्वत्तदासुतं सर्वं रोचनञ्च विशेषतः ॥ २११ ॥

प्रकारस्य तस्य मद्यस्य वीर्यं मदशक्तिः सौक्ष्म्यात् स्थूलसूक्ष्मस्रोतोऽनुसारित्वाद् औष्ण्याद् श्राग्नेयत्वेनोर्ध्वगामित्वात् तैक्ष्ण्याद् अचिरकारित्वाद् विकासित्वाद् अपरि-णतावस्थायामेव तत्तत्कार्यकारित्वाच्च वह्निना पाचकेन पित्तेन समेत्य मिलित्वा हृदयं प्राप्य धमनीरूर्ध्वमागतं धमनीभिरूर्ध्वं प्राप्तम् इन्द्रियचेतांसि विक्षोभ्य विचाल्य अचिराद् मदयते मानवमिति शेषः । १ शारीरदोषभेदेन मदभेदं दर्शयति - चिरे-णेति । २ सात्त्विकादिभेदेन मदभेदं वक्ति - सात्त्विक इति । दाक्षिण्यं = परापे-क्षिणी प्रकृतिः । ३ साहसेन दुष्कर्मणा सहितं ससाहसम् । ' साहसं तु दमे दुष्कर्मकर्मणि ' इति इति हैमः । तच्च पञ्चधा— “ मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतं चैव साहसं पब्चधा स्मृतम्॥ ” इति स्मृतिः । ४ सानुबन्धं = मुख्यविवादानुयायिविवा-दानुगतम् । ५ " यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ ” इति । ६ तेन शुक्तेनासुतं कृताभिषवं कन्दा-दिकं तदासुतम् । १७ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 418

सुश्रुत संहिता चौखम्बा, पृष्ठ 418 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५८ Digitized by Arya Samaj ह hai and eGangotri [ अ ० ४५

गौडानि रसशुक्तानि मधुशुक्तानि यानि च ।

यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ २१२ ॥

तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ।

ग्रहाण्यर्शोविकारनं भेदि सौवीरकं तथा ॥ २१३ ॥

धान्यौम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् ।

स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु ॥ २१४ ॥

तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ।

मुखवैरस्यदौर्गन्ध्यमलशोषक्तमापहम् ॥ २१५ ॥

दीपनं जरणं भेदि हितमास्थापनेषु च ।

समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते ॥ २१६ ॥

अथ मूत्राणि— श्रर्थं मूत्राणि गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णा-नि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवात-१ गुढोद्भवानि शुक्तानि गौढानि - " गुढाम्बुना सतैलेन सन्धानं काञ्जिकं कन्दशाकफलैर्युक्तं गुढशुक्तं तदुच्यते ॥ ” इति । इक्षुरसादिकृतानि रसशुक्तानि तु यत् । शुक्तवत्सन्धेयानि । मधुशुक्तानि - " जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् गुढ-विनिक्षिप्य धान्यराशौ निधापयेत् । त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम् । मधुभाण्डे ' मद्यशुक्तानि ' इति पाठान्तरम् । तत्र तल्लक्षणम् – “ सर्वं मद्यं पञ्चरसं कालान्तरवशा- ॥ ” इति । द्यदा । त्यक्त्वाऽन्यरसमम्लत्वं याति शुक्तं तदुच्यते ॥ ” क्षया गौडं शुक्तं गुरु अभिष्यन्दकरं चेति भावः इति । २ यथापूर्वं सर्वापे-दकं यवैरामैः सतुषैः शकलीकृतैः । ३ तुषाम्बु = तुषोदकम्, “ तुषो-” इति तल्लक्षणम् । ४ सौवीरकलक्षणम् – " सौवी-रकं यवैरामैः पक्वैर्वा निस्तुषैः कृतम् । गोधूमैरपि सौवीरमाचार्याः केचिदूचिरे ॥ ” ५ “ धान्याम्लं शालिचूर्णैश्च कोद्रवादिकृतं च यत् ” इति इति । धान्ययोनित्वात् — धान्यानि शाल्यादीनि योनिरस्येति धान्ययोनि धान्याम्ललक्षणम् । ६ जरणं = दोषपाचनम्, भेदि = विरेचकम् । ७ सात्म्यम् = प्रकृत्यनुकूलम् तस्य भावस्तस्मात् ॥ इति मद्यवर्गः । अथ मूत्रवर्गः— ८ मूत्रसामान्यगुणान्निर्दिशति — अथेति । ९ शोधनानि = मलशुद्धिकराणी-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 419

सुश्रुत संहिता चौखम्बा, पृष्ठ 419 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५ गा. त-त् । गुढ-ते । शा. पि. यो. वी-ते । न् । न् । गी. अ ० ४५ ] Digitized by Arya Sam पूत्रस्थानम् phennai and eGangotri २५ ९ क्रमिमेदोविपगुल्भार्थं उदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ॥ २१७ ॥

भवतश्चात्र ।

तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु ।

शोधनं कफवातघ्नं कृमिमेदोविषापहम् ॥ २१८ ॥

अर्शोजठरगुल्मन्नं शोफारोचकनाशनम् ।

पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ॥ २१ ९ ॥

गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।

लघ्वग्निदीपनं ' मेध्यं पित्तलं कफवातजित् ॥ २२० ॥

शूलगुल्मोदराना हविरेकास्थापनादिषु ।

मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ २२१ ॥

दुर्गामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।

आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ २२२ ॥

कासश्वासापहं शोफकामलापाण्डुरोगनुत् ।

कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ २२३ ॥

कासप्लीहोदरश्वासशोषवचग्रहे हितम् ।

सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ २२४ ॥

दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् ।

आश्वं कफहरं मूत्रं कृमिदृद्रुषु शस्यते ॥ २२५ ॥

सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् ।

तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ॥ २२६ ॥

गरंचेतोविकारनं तीक्ष्णं ग्रहणिरोगनुत् ।

दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ॥ २२७ ॥

शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् । त्यर्थः । १ मेध्यं = मेधाजनकम्, पवित्रं वा । २ अत्र भावप्रकाशोक्तं ध्येयम्-“ गोजाविमाहिषीणां तु स्त्रीणां मूत्र प्रशस्यते । खरोष्ट्रेभनराश्वानां पुंसां मूत्रं हितं स्मृतम् ” ॥ इति । ३ किलासे = श्वेतकुष्ठे । ४ ग़रचेतोविकारध्नं = विषोन्मादादिमा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 420

सुश्रुत संहिता चौखम्बा, पृष्ठ 420 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Thai and eGangotri २६०Digitized by Arya Sama m सुश्रुतसंहितायां -[ अ ० ४६ अर्शोघ्नं कारंभं मूत्रं मानुषं च विषापहम् ॥ २२८ ॥

द्रवद्रव्याणि सर्वाणि समासात् कीर्त्तितानि तु ।

कालदेशविभागज्ञो नृपतेर्दातुमर्हति ॥ २२ ९ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चचत्वारिशोऽध्यायः ॥ ४५ ॥

षट्चत्वारिंशत्तमोऽध्यायः ।

अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

धन्वन्तरिमभिवाद्य सुश्रुत उवाच - प्रागभिहितः प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च । स षट्सु रसेष्वायत्तः । रसाः पुनर्द्रव्यायिणः । द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यञ्च । ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाश-हेतुः । आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च । तथा ह्या-हारवैषम्यादस्वास्थ्यम् । तस्याशितपीतलीढखादितस्य नानाद्रव्यात्म-कस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् रणवीर्यविपाकप्रभावकर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा पृथग्द्रव्यरसगु-नसिकविकारहरमित्यर्थः । चतुर्थ्यर्थे षष्ठी । १ कारभम् = = औष्ट्रम् । २ वैद्य इति शेषः । नृपतेरिति इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां पञ्चचत्वारिंशत्तमोऽध्यायः । षट्चत्वारिंशत्तमोऽध्यायः । ३ अन्नं शाल्यादि पानमनुपानादि तयोर्विधिं प्रकारमधिकृत्य पानविधिस्तम् । ४ “ रसो नास्ति कृतोऽध्यायोऽन्न-विना द्रव्याद् ” इति पूर्वोक्तं ध्येयम् । ५ अशितं मोदकादि, पीतमुदकादि, लीढं लेह्यं मध्वादि, खादितं भक्ष्यं चूष्यं स्तन्याद्येवेति निश्चीयते पारिशेष्यात् । न च खादतेश्चूषणार्थोऽनुपपन्न मोदकादि । खादितमत्र खादति बालकः ' इत्यादिप्रयोगदर्शनादिति सुश्रुतार्थंसन्दीपनभाष्यम् ।; ६ आहारस्य : - ‘ स्तन्यं CC - 0. Gurukul Kangri Collection, Haridwar