सुश्रुत संहिता चौखम्बा — पृष्ठ 411–420
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 411–420
पृष्ठ 411
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २५१ उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि ॥१४५ ॥
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् ।
अपादनवस्थानान्न विरुध्येत पूर्ववत् ॥ १४६ ॥
मध्वामोत्परतस्त्वन्यदामं कष्टं न विद्यते ।
विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ॥ १४७ ॥
अथेक्षुवर्ग: -इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ॥ १४८ ॥
ते चानेकविधाः । तद्यथा-पौण्डको भीरुकश्चैव वंशकः श्वेतपोरकः ।
कान्तारस्तापसेक्षुश्च कौष्ठेक्षुः सूचिपत्रकः ॥ १४ ९ ॥
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।
इत्येता जातयः स्थौल्योद् गुणान् वक्ष्याम्यतः परम् ॥ १५० ॥
सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः ।
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥ १५१ ॥
आभ्यां तुल्यगुणः किञ्चित्सक्षारो वंशको मतः ।
वंशवच्छ्वेतपोरस्तु किञ्चिदुष्णः स वाहा ॥ १५२ ॥
कान्तारतापसाविक्षू वंशानुगतौ मतौ ।
एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ॥ १५३ ॥
सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः ।
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥ १५४ ॥
रविरुद्धनानौषधिपुष्पाणामित्यर्थः । १ वमनविषयेऽपवादमाह – उष्णेनेति । यद्यपि वमने उष्णस्य मधुना विरोधो नोक्तः, तथाऽपि वृद्धा न प्रयुब्ज्यते, वमनस्याधोगतिभ-यादिति ढल्हणः । २ मध्वामात् = मध्वजीर्णात् । ३ श्रमे उष्णमुपचर्यते मधु नोपचर्यते इति विरुद्धोपक्रमत्वादित्यस्य तात्पर्यम् । इति मधुवर्गः । अथेक्षुवर्ग: -४ ' शतपोरकः ' इति पाठान्तरम् । ५ ' काण्डेतुः ' इति पाठान्तरम् । ६ स्थौ: CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 412
पाठ पढ़ें पाठ छिपाएँ
२५२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताय [
कोकारो गुरुः शीतो रक्तपित्तक्षयापहः ।
अतीव मधुरो मूले मध्ये मधुर एव तु ॥ १५५ ॥
अम्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ १५६ ॥
अविदाही कफकरो वातपित्तनिवारणः ।
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ॥ १५७ ॥
गुरुर्विद विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः । अ ० ४५ पक्को गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ॥ १५८ ॥
फौणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ॥१५ ९ ॥ गुडः ३ सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नाति-पित्तजिद्वातन्नो मेदःकफकरो बल्यो वृष्यश्च ॥ १६० ॥
पित्तघ्नो मधुरः शुद्धो वातन्नोऽसृक्प्रसादनः ।
स पुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः ॥ १६१ ॥
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ॥ १६२ ॥
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वञ्च तथा तथा ॥ १६३ ॥
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः ।
तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ॥ १६४ ॥
ल्यात् = प्राधान्याद् इत्येता द्वादश जातयो भवन्तीत्यर्थः । १ " विदाहि द्रव्यमुद्गार-मम्लं कुर्यात्तथा तृषाम् । हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् ॥ ” इति, तद् विशदयति वाग्भटः – - ' “ मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात् । किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः । विदाही = गुरु विष्टम्भी तेनासौ ” इति । २ फाणितम् श्रर्द्धावर्तितेक्षुरसः, ‘ राब ’ इति ख्यातम् । ३ अशुद्धगुढगुणान्निर्दिशति – गुड इति । फाणितस्य पाकादतिघनभावमापन्नो निर्मलो गुढ इत्यर्थः । ' ४ “ इक्षो रसो यः सम्पक्को घनः किञ्चिद् द्रवान्त्रितः । मन्दं यत् स्यन्दते तस्मात्त. न्मत्स्यण्डी निगद्यते ॥ ” इति । पाकोत्तरकालं मलापहरणेन विशुद्धागुढाज्जाता मत्स्य-ण्डिका ततः खण्डस्ततः शर्करा उत्तरोत्तरं विमलजाता वैमल्योत्कर्षमापन्ना उत्तरोत्तरं शैत्यादिप्रकर्षगुणभाजो भवन्तीत्यर्थः । ५ विस्रावण: = तत्तदुत्पत्तिकाले विस्रुतः सर-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 413
पाठ पढ़ें पाठ छिपाएँ
अ ० ४५ ] ४५ ५ ९ ॥ ति-वाः ell र-तद् त्या = ॥ त्तरं र. sa सूत्रस्थानम् | ch २५३ इतीक्षुवर्गः । अथ मद्यवर्गः— CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation, Chennai and eGangotri
सारेस्थिता सुविमला निःक्षारा च यथा यथा ।
तथा तथा गुणवती विज्ञेया शर्करा बुधैः ॥ १६५ ॥
मधुशर्करा पुनश्छद्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायम-धुरा मधुरविपाका च ॥ १६६ ॥
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ॥१६७ ॥
यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः ।
रक्तपित्तप्रशमनाश्छदिंमूर्च्छातृषापहाः ॥ १६८ ॥
रूक्षं मधूकपुष्पोत्थं फाणितं वातपि कृत् ।
कफघ्नं मधुर पाके कषायं बस्तिँदूषणम् ॥ १६ ९ ॥
अथ मद्यवर्गः-सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् ।
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥ १७० ॥
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्र्यिबोधनम् ।
विकासि सृष्टविण्मूत्रं शृणु तस्य विशेषणम् ॥ १७१ ॥
मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा ।
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ॥ १७२ ॥
सक्षारो मलः । १ अपगतमलत्वेन सारमात्रेणावस्थिता सारस्थिता, अत एव सुवि-मला निर्मला निःक्षारा निर्हृतगुढानुगतक्षारभावा । २ छेदनी - पिण्डीभूतानां कफा -दीनां भेदकारिणी। ३ यवासक्वाथपाकघनीभावाच्छकेरा कृता यवासशर्करेति डल्हणः । ४ बस्तिदूषणं = मूत्राशये वातादिप्रकोपकारीत्यर्थः । ५ मद्यानां सामान्यगुणकर्माणि दर्शयति — सर्वमिति । सर्वे = पैष्टिकं मादकं गौडं चेतित्रिविधम् । ६ इन्द्रियबोधनम् = इन्द्रियप्रसादनम्, “ प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः । वाद्यगीतप्रहासानां कथानां च प्रवर्तकः ॥ ” इति । ७ विकासि = " धातुसन्धिबन्धनशैथिल्यकारीत्यर्थः । तदुक्तं शार्ङ्गधरे– “ सन्धिबन्धांस्तु शिथिलान् यत्करोति विकासितत् । विश्लेष्यौजश्च धातुभ्यो यथा क्रमुककोद्रवाः || " इति । सृष्ट-विण्मूत्रम् = विष्ठामूत्रप्रवर्तकमित्यर्थः । 5 मृद्वीका द्राक्षा तत्कृतं मद्यं माद्रकम् ।
पृष्ठ 414
पाठ पढ़ें पाठ छिपाएँ
२५४ Digitized by Arya Sa सुश्रुतसंहिताथां--jennai and eGangotri १ [ अ ० ४५
मधुरं तद्धि रूक्षञ्च कषायानुरसं लघु ।
लघुपाकि सरं शोषविषमज्वरनाशनम् ॥ १७३ ॥
कल्पान्तरं किञ्चित् खार्जूरं वातकोपनम् ।
तदेव विशदं रुच्यं कफन्नं कैर्शनं लघु ॥ १७४ ॥
कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् ।
कास शग्रहणीदोषमूत्राघातानिलापहा ॥ १७५ ॥
स्तन्यरक्तक्षयहिता सुरौ बृंहणदीपनी ।
कासा शग्रहणीश्वासप्रतिश्यायविनाशनी ॥ १७६ ॥
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरौ ।
छर्घ रोचक हृत्कुक्षि तोदशूलप्रमर्दनी ॥ १७७ ॥
प्रसन्ना कफवातार्शो विबन्धानाहनाशनी ।
पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी ॥ १७८ ॥
विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ।
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ॥। १७ ९ ॥
त्रिदोषो भेद्यवृष्यश्व कोहेँलो वदनप्रियः ।
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ॥ १८० ॥
हृद्यः प्रवाहिकाऽऽटोप दुर्नामानिलशोपहृत् ।
बर्कैसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ १८१ ॥
दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः । . कर्शनं = कार्यकारकमित्यर्थः । इत्युक्तलक्षणा सुरा । २ “ शालिपिष्टकपिष्टादिकृतं मद्यं सुरा स्मृता ” ३ श्वेता सुरा इति सम्बन्धः । श्वेतवर्णा सुरेत्यर्थः । श्वेतपुनर्नवादिमूलशालिपि-ष्टककिण्वप्रभवा कतोलीति प्रसिद्धेति डल्हणः । ४ प्रसन्ना = उपरितनाच्छो भागः मण्ड इत्यर्थः । तदुक्तं शार्ङ्गधरे - " सुरामण्डः प्रसन्ना स्यात् ” इति सुरा-। ५ स्वल्पगोधूमो मध्यदेशे पीशीकेति ख्याता, मर्कटहस्ततृणं वा तत्फलकिण्वं मधूलकमिति ढल्हणः । मधूकफलसम्भूतसुरा मधूलिकेति सुश्रुतार्थसन्दीपनम् । ६ अक्षं बिभीतकफलं तत्कृता सुरा प्राक्षिकी । ७ यवसक्तुकृता सुरा कोहलः । ८ " आटोपो गुढगुढा-शब्दः प्रोक्तो जठरसम्भवः ” । दुर्नाम = अर्शः । ९ सकल्कत्वेन सान्द्रं मद्यं जगल CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 415
पाठ पढ़ें पाठ छिपाएँ
। ४५ अ ० ४५ ] ना " पि. रा. मो चः । कलं. डा. गल Digitized by Arya Samaj Foundati Chennai and eGangotri " सूत्रस्थानम् he कषायो मधुरः सीधुर्गौडः पाचनदीपनः ॥ १८२ ॥
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः ।
वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ॥ १८३ ॥
तद्वत् पर्करसः सीधुर्बलवर्णकरः सरः । २५५ शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ॥ १८४ ॥
कर्शनः शीतरसिकः श्वयथूदरनाशनः ।
वर्णकृज्जरणैः स्वर्यो विबन्धघ्न्नोऽर्शसां हितः ॥ १८५ ॥
आक्षिकः पाण्डुरोगन्नो व्रण्यः सङ्ग्राहको लघुः ।
कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ॥ १८६ ॥
जाम्बवो बद्ध निस्यन्दस्तुवरो वातकोपनः ।
तीक्ष्णः सुरासँवो हृद्यो मूत्रलः कफवातनुत् ॥ १८७ ॥
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।
लघुर्मध्वासवरछेदी ' मेहकुष्ठविषापहः ॥ १८८ ॥
तिक्तः कषायः शोफन्नस्तीक्ष्णः स्वादुरवातकृत् ।
तीक्ष्णः कषायो मदकृद् दुर्नामकफगुल्महृत् ॥ १८ ९ ॥
कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ।
बल्यः पित्तहरो वण्य हृद्यश्चेक्षुरसासवः ॥ १ ९ ० ॥
सीधुर्मधूकपुष्पोत्थो विदाह्यग्निबलप्रदः ।
रूक्षः कषायकफहृद्वातपित्तप्रकोपणः ॥ १ ९ १ ॥
निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान् ।
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ॥। १ ९ २ ॥
अनिष्टगन्धि विरसमहृद्यञ्च विदाहि च ।
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ॥ १ ९ ३ ॥
इत्युच्यते, स एव यदाऽद्रवः कल्कमात्रावशिष्टस्तदा बक्वस इत्युच्यते । १ “ इक्षोः पक्कै रसैः सिद्धः सीधुः पक्करसः स्मृतः । श्रमैस्तैरेव यः सीधुः स शीतरसिको मतः ” ॥ २ जरणः = अन्नादिपाचकः । ३ बद्धं निस्यन्दं मूत्रं येन स बद्धनिस्यन्दः । ४ सुरया सूयते तोयकार्यं क्रियते यस्मिन् । स सुरासव इति ढल्हणः । ५ छेदी = दोष संशोधनः ६ “ आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तद्विजानीयान्मैरेयमुभया-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 416
पाठ पढ़ें पाठ छिपाएँ
२५६ Digitized by Arya Sam खुश्रुतसंहितायां mail and eGangotri [ अ ० ४५
स्फुर्ट स्रोतस्कर जीर्ण लघु वातकफापहम् ।
अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ १ ९ ४ ॥
बहुदोषहरश्चैव दोषाणां शमनश्च सः ।
दीपनः कफवातन्नः सरः पित्ताविरोधनः ॥ १ ९ ५ ॥
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ।
पिप्पल्यैादिकृतो गुल्मकफरोगहरः स्मृतः ॥ १ ९ ६ ॥
चिकित्सितेषु वक्ष्यन्तेऽरिष्टाः रोगहराः पृथक् ।
अरिष्टासवसीधूनां गुणान् कर्माणि चादिशेत् ॥ १ ९ ७ ॥
बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् ।
सौन्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु । १ ९ ८ ॥
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ।
अल्पौषधं पर्युषितंमत्यच्छं पिच्छिलञ्च यत् ॥ १ ९९ ॥
तद्वज्य सर्वदा मद्यं किञ्चिच्छेषं च तद्भवेत् ।
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ॥ २०० ॥
कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः ।: पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ॥ २०१ ॥
अहृद्यं फेनिलं पूति कृमिलं विरसं च यत् ।
तथा पर्यषितञ्चापि विद्यादनिलकोपनम् ॥ २०२ ॥
सर्व दोषैरुपेतं तु सर्वदोषप्रकोपणम् ।
चिरस्थितं जातरसं दीपनं कफवातजित् ॥ २०३ ॥
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ।
तँस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ॥ २०४ ॥
श्रयम् ” ॥ १ स्फुटस्रोतस्करं = स्रोतोविकाशम् । २ मद्यादिसंस्कारापेक्षया तत्तच्चि-त्रकाभयादिद्रव्यसंयोगसंस्कारादित्यर्थः: । ३ अत्र दोषशब्दो व्याधिवाचकः । ४ शर्करामधुसंयोगेन पिप्पल्यादिगणक्काथकृत इत्यर्थः । सान्द्रमिति । सान्द्रं = घनम् । दिनिन्दितपात्रावस्थितमित्यर्थः । ५ मद्यदोषं दर्शयति-६ काचस्फटिकमृण्मयमद्यपात्रातिरिक्तमलिनत्वा-७ पर्युषितम् = अनाच्छादितमुखे पात्रेऽवस्थितम् ने । ८ मद्यस्य गुणान्निर्दिशति-चिरस्थितमिति । ९ कथं मनं मादयतीति दर्शयति - तस्येति । रसवीर्यंतोऽनेक-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 417
पाठ पढ़ें पाठ छिपाएँ
४५. चि. -क. अ ० ४५ ] Digitized by Arya S र्थस्थान ) Chennai and eGangotri
सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना ।
समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् ॥ २०५ ॥
विक्षोभ्येन्द्रियचेतांसि वीर्यं मदयतेऽचिरात् ।
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः ।
अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ॥ २०६ ॥
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः ।
गीताध्ययन सौभाग्यसुरतोत्साहकृन्मदः ॥ २०७ ॥
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् ।
कलहं सानुबन्धं तु करोति पुरुषे मदः ॥। २०८ ॥
अशौचनिद्रामात्सर्यागम्यागमनलोलताः ।
असत्यभाषणञ्चापि कुर्याद्धि तामसे मदः ॥ २० ९ ॥
रक्तपित्तकरं शुक्तं छेदि भुक्तविपाचनम् ।
वैस्वयं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ॥ २१० ॥
तीक्ष्णोष्णं मूत्रलं हृद्यं कफन्नं कटुपाकि च ।
तद्वत्तदासुतं सर्वं रोचनञ्च विशेषतः ॥ २११ ॥
प्रकारस्य तस्य मद्यस्य वीर्यं मदशक्तिः सौक्ष्म्यात् स्थूलसूक्ष्मस्रोतोऽनुसारित्वाद् औष्ण्याद् श्राग्नेयत्वेनोर्ध्वगामित्वात् तैक्ष्ण्याद् अचिरकारित्वाद् विकासित्वाद् अपरि-णतावस्थायामेव तत्तत्कार्यकारित्वाच्च वह्निना पाचकेन पित्तेन समेत्य मिलित्वा हृदयं प्राप्य धमनीरूर्ध्वमागतं धमनीभिरूर्ध्वं प्राप्तम् इन्द्रियचेतांसि विक्षोभ्य विचाल्य अचिराद् मदयते मानवमिति शेषः । १ शारीरदोषभेदेन मदभेदं दर्शयति - चिरे-णेति । २ सात्त्विकादिभेदेन मदभेदं वक्ति - सात्त्विक इति । दाक्षिण्यं = परापे-क्षिणी प्रकृतिः । ३ साहसेन दुष्कर्मणा सहितं ससाहसम् । ' साहसं तु दमे दुष्कर्मकर्मणि ' इति इति हैमः । तच्च पञ्चधा— “ मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतं चैव साहसं पब्चधा स्मृतम्॥ ” इति स्मृतिः । ४ सानुबन्धं = मुख्यविवादानुयायिविवा-दानुगतम् । ५ " यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ ” इति । ६ तेन शुक्तेनासुतं कृताभिषवं कन्दा-दिकं तदासुतम् । १७ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 418
पाठ पढ़ें पाठ छिपाएँ
२५८ Digitized by Arya Samaj ह hai and eGangotri [ अ ० ४५
गौडानि रसशुक्तानि मधुशुक्तानि यानि च ।
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ २१२ ॥
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ।
ग्रहाण्यर्शोविकारनं भेदि सौवीरकं तथा ॥ २१३ ॥
धान्यौम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् ।
स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु ॥ २१४ ॥
तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ।
मुखवैरस्यदौर्गन्ध्यमलशोषक्तमापहम् ॥ २१५ ॥
दीपनं जरणं भेदि हितमास्थापनेषु च ।
समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते ॥ २१६ ॥
अथ मूत्राणि— श्रर्थं मूत्राणि गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णा-नि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवात-१ गुढोद्भवानि शुक्तानि गौढानि - " गुढाम्बुना सतैलेन सन्धानं काञ्जिकं कन्दशाकफलैर्युक्तं गुढशुक्तं तदुच्यते ॥ ” इति । इक्षुरसादिकृतानि रसशुक्तानि तु यत् । शुक्तवत्सन्धेयानि । मधुशुक्तानि - " जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् गुढ-विनिक्षिप्य धान्यराशौ निधापयेत् । त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम् । मधुभाण्डे ' मद्यशुक्तानि ' इति पाठान्तरम् । तत्र तल्लक्षणम् – “ सर्वं मद्यं पञ्चरसं कालान्तरवशा- ॥ ” इति । द्यदा । त्यक्त्वाऽन्यरसमम्लत्वं याति शुक्तं तदुच्यते ॥ ” क्षया गौडं शुक्तं गुरु अभिष्यन्दकरं चेति भावः इति । २ यथापूर्वं सर्वापे-दकं यवैरामैः सतुषैः शकलीकृतैः । ३ तुषाम्बु = तुषोदकम्, “ तुषो-” इति तल्लक्षणम् । ४ सौवीरकलक्षणम् – " सौवी-रकं यवैरामैः पक्वैर्वा निस्तुषैः कृतम् । गोधूमैरपि सौवीरमाचार्याः केचिदूचिरे ॥ ” ५ “ धान्याम्लं शालिचूर्णैश्च कोद्रवादिकृतं च यत् ” इति इति । धान्ययोनित्वात् — धान्यानि शाल्यादीनि योनिरस्येति धान्ययोनि धान्याम्ललक्षणम् । ६ जरणं = दोषपाचनम्, भेदि = विरेचकम् । ७ सात्म्यम् = प्रकृत्यनुकूलम् तस्य भावस्तस्मात् ॥ इति मद्यवर्गः । अथ मूत्रवर्गः— ८ मूत्रसामान्यगुणान्निर्दिशति — अथेति । ९ शोधनानि = मलशुद्धिकराणी-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 419
पाठ पढ़ें पाठ छिपाएँ
४५ गा. त-त् । गुढ-ते । शा. पि. यो. वी-ते । न् । न् । गी. अ ० ४५ ] Digitized by Arya Sam पूत्रस्थानम् phennai and eGangotri २५ ९ क्रमिमेदोविपगुल्भार्थं उदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ॥ २१७ ॥
भवतश्चात्र ।
तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु ।
शोधनं कफवातघ्नं कृमिमेदोविषापहम् ॥ २१८ ॥
अर्शोजठरगुल्मन्नं शोफारोचकनाशनम् ।
पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ॥ २१ ९ ॥
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।
लघ्वग्निदीपनं ' मेध्यं पित्तलं कफवातजित् ॥ २२० ॥
शूलगुल्मोदराना हविरेकास्थापनादिषु ।
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ २२१ ॥
दुर्गामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ २२२ ॥
कासश्वासापहं शोफकामलापाण्डुरोगनुत् ।
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ २२३ ॥
कासप्लीहोदरश्वासशोषवचग्रहे हितम् ।
सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ २२४ ॥
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् ।
आश्वं कफहरं मूत्रं कृमिदृद्रुषु शस्यते ॥ २२५ ॥
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् ।
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ॥ २२६ ॥
गरंचेतोविकारनं तीक्ष्णं ग्रहणिरोगनुत् ।
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ॥ २२७ ॥
शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् । त्यर्थः । १ मेध्यं = मेधाजनकम्, पवित्रं वा । २ अत्र भावप्रकाशोक्तं ध्येयम्-“ गोजाविमाहिषीणां तु स्त्रीणां मूत्र प्रशस्यते । खरोष्ट्रेभनराश्वानां पुंसां मूत्रं हितं स्मृतम् ” ॥ इति । ३ किलासे = श्वेतकुष्ठे । ४ ग़रचेतोविकारध्नं = विषोन्मादादिमा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 420
पाठ पढ़ें पाठ छिपाएँ
Thai and eGangotri २६०Digitized by Arya Sama m सुश्रुतसंहितायां -[ अ ० ४६ अर्शोघ्नं कारंभं मूत्रं मानुषं च विषापहम् ॥ २२८ ॥
द्रवद्रव्याणि सर्वाणि समासात् कीर्त्तितानि तु ।
कालदेशविभागज्ञो नृपतेर्दातुमर्हति ॥ २२ ९ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चचत्वारिशोऽध्यायः ॥ ४५ ॥
षट्चत्वारिंशत्तमोऽध्यायः ।
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धन्वन्तरिमभिवाद्य सुश्रुत उवाच - प्रागभिहितः प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च । स षट्सु रसेष्वायत्तः । रसाः पुनर्द्रव्यायिणः । द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यञ्च । ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाश-हेतुः । आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च । तथा ह्या-हारवैषम्यादस्वास्थ्यम् । तस्याशितपीतलीढखादितस्य नानाद्रव्यात्म-कस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् रणवीर्यविपाकप्रभावकर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा पृथग्द्रव्यरसगु-नसिकविकारहरमित्यर्थः । चतुर्थ्यर्थे षष्ठी । १ कारभम् = = औष्ट्रम् । २ वैद्य इति शेषः । नृपतेरिति इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां पञ्चचत्वारिंशत्तमोऽध्यायः । षट्चत्वारिंशत्तमोऽध्यायः । ३ अन्नं शाल्यादि पानमनुपानादि तयोर्विधिं प्रकारमधिकृत्य पानविधिस्तम् । ४ “ रसो नास्ति कृतोऽध्यायोऽन्न-विना द्रव्याद् ” इति पूर्वोक्तं ध्येयम् । ५ अशितं मोदकादि, पीतमुदकादि, लीढं लेह्यं मध्वादि, खादितं भक्ष्यं चूष्यं स्तन्याद्येवेति निश्चीयते पारिशेष्यात् । न च खादतेश्चूषणार्थोऽनुपपन्न मोदकादि । खादितमत्र खादति बालकः ' इत्यादिप्रयोगदर्शनादिति सुश्रुतार्थंसन्दीपनभाष्यम् ।; ६ आहारस्य : - ‘ स्तन्यं CC - 0. Gurukul Kangri Collection, Haridwar