सुश्रुत संहिता चौखम्बा — पृष्ठ 421–430

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 421–430

पृष्ठ 421

सुश्रुत संहिता चौखम्बा, पृष्ठ 421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-४६ IT-न. -वा ति तं अ ० ४६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् २६१ भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणञ्च कर्त्तुं समर्थाः । आहारायत्ताञ्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्यु-क्तः प्रोवाच भगवान् धन्वन्तरिः - अथ खलु वत्स सुश्रुत! यथाप्र-श्नमुच्यमानमुपधारयस्व ॥ ३ ॥

तत्र, लोहितशालिकलमकदमक पाण्डुकसुगन्धकशकुनाहृतपुष्पा-ण्डकपुण्डरीकमहाशालिशीतभी रुक रोघ्रपुष्पकदीर्घ शूककाञ्चनकमहि-षमहाशूकहायनकदूषक महादूषकप्रभृतयः शालयः ॥ ४ ॥

मधुरा वीर्यतः शीता लघुपाका बलावहाः ।

पित्तघ्नाल्पोनिलकफाः स्निग्धा बद्धाल्पवर्चसः ॥ ५ ॥

तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः ।

चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ॥ ६ ॥

व्रण्यो ज्वरहरचैव सर्वदोषविषापहः ।

तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ॥ ७ ॥

पष्टिकका मुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहा-षष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ॥ ८ ॥

रसे पाके च मधुराः शमना वातपित्तयोः ।

शालीनाञ्च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ॥ ९ ।

षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः ।

मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद् बलवर्द्धनः ॥ १० ॥

विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः ।

शेषास्त्वल्पान्तरगुणाः षष्टिकाः क्रमशो गुणैः ॥ ११ ॥

अनवबुद्धोऽज्ञातः स्वभावः स्वरूपो यैस्तेऽनवबुद्धस्वभावाः । १ शालिभेदान् दर्श-यति — तन्त्रेति । एते शाल्यादयो नानादेशप्रसिद्धा इति तत्तद्देशीयैरेव आकृत्या-दिभिर्वक्तुं । ३ बद्धमल्प शक्यन्ते । २ अल्पानिलकफाः = किञ्चिद्वातश्लेष्मकराः वर्चः पुरीषमेभिरिति बद्धाल्पवर्चसः मलावरोधकाः, श्रल्पमलोत्पादका इत्यर्थः । ४ अत्र दोषशब्दस्य व्याधिरर्थः । ५ षष्टिकभेदान्निर्दिशति— षष्टिकेति । ६ प्रभृतिग्रहणाच्चीनदुर्दर शारदादयो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 422

सुश्रुत संहिता चौखम्बा, पृष्ठ 422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" सुश्रुतसंहिता ai a Digitized by Arya Samaj Foundation. ennai and eGangotri [ अ ० ४६ २६२ कृष्णत्रीहिशालामुख जतुमुखनन्दीमुख लावाचक त्वरितककुक्कु-टाण्डकपारावतंकपाटलप्रभृतयो व्रीहयः ॥ १२ ॥

कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः ॥ अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्यवर्चसः ॥ १३ ॥

कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः ।

तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ॥ १४ ॥

दग्धायामवनौ जाताः शालयो लघुपाकिनः ।

कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ॥ १५ ॥

' स्थलँजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः किञ्चित्सतिक्तमधुराः पवनानलैवर्द्धनाः ॥ १६ । ॥ • कैदौरा मधुरा वृष्या बल्याः पित्तनिबर्हणाः । ईषत्कषायाल्पमला गुरवः कफशुक्रलाः रोप्यातिरोप्या लववः शीघ्रपाका गुणोत्तराः

॥ १७ । ॥

दाहिनो दोषहरा बल्या मूत्रविवर्द्धनाः ॥ १८

शालयश्छिन्नरूढी ये रूक्षास्ते बद्धवर्चसः । ॥

तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः ॥। १ ९ ॥ तद्वत् कुधान्यमुद्गादिमाषादीनाञ्च वक्ष्यते ॥ २० ॥

बोध्याः । ' षष्टिको व्रीहिभेद: ' इतिहेमाद्रिः । १ व्रीहिभेदानाह— कृष्णेति । २ अहिमाः = उष्णाः । ३ बद्धवर्चसः = मलावरोधका इत्यर्थः । -जाङ्गलभूमिजाताः । ५ पवनानलवर्द्धनाः = किञ्चिद्वाताग्निवृद्धिकरा ४ स्थलजाः = सजलभूमिभागसम्भवाः, अनूपजा इति इत्यर्थः । ६ कैदाराः = यावत् । ७ ये शालय एकवारमुत्पाट्याश्वन्यत्र रोप्यन्ते ते रोप्याः, ये तु द्विस्त्रिर्वाऽन्यत्ररोप्यन्ते तेऽतिरोप्या ८ पूर्वे छिन्नाः पश्चाद्रूढाश्छिन्नरूढाः इति ढल्हणः । वर्ग इत्यर्थः । शाकपार्थिवादित्वादादिशब्दस्य । ९ शाल्यादिर्वर्गः शालिवर्गः, शालिषष्टिकत्रीहि-स्वस्थावस्थायामेकान्तहितः, किन्तु रुग्णावस्थायां दोषानुसारेण लोपः । हिताहितः एष शालिवर्ग: श्चिदहित इति भावः । कस्मिंश्चिद् हित: कस्मि-CC - 0. Gurukul Kangri Collection, Haridwar 1000

पृष्ठ 423

सुश्रुत संहिता चौखम्बा, पृष्ठ 423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] -४६ । = सूत्रस्थानम् । २६३ अथ कुधान्यवर्गः-CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri कोर दूपकश्यामाकनीवारशान्तनु वरकोद्दालकप्रियङ्गुमधूलिकाना-नदीमुखीकुरुविन्दगवेधुकसर वरुक तोदपर्णीमुकुन्द कवेणुयवप्रभृतयः कुधान्यविशेषाः ॥ २१ ॥

उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः ।

श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ॥ २२ ॥

कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः ।

कोद्रवश्च सनीवारः श्यामाकञ्च सशान्तनुः ॥ २३ ॥

कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः ।

यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ॥ २४ ॥

मधूली मधुरा शीता स्निग्धा नान्दीमुखी तथा ।

विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ॥ २५ ॥

रूक्षा वेणुयवा ज्ञेया वीर्योष्णाः कटुपाकिनः ।

बद्धमूत्राः कफहराः कषाया वातकोपनाः ॥ २६ ॥

मुद्रवनमुद्रकलायम कुष्ठमसूर मङ्गल्यच एकसतोनत्रिपुट कहरे ण्वा-ढकीप्रभृतयो वैदलाः ॥ २७ ॥

कषायमधुराः शीताः कटुपाका मरुत्कराः ।

बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ॥ २८ ॥

नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः ।

प्रधाना हरितास्तत्र वन्या मुद्द्रसमाः स्मृताः ॥ २ ९ ॥

विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः ।

मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥ ३० ॥

श्राढकी कफपित्तघ्नी नातिवातप्रकोपणी ।

वातलाः शीतमधुराः सकषाया विरूक्षणाः ॥ ३१ ॥

कफशोणितपित्तघ्नाश्चरणकाः पुंस्त्वनाशनाः । अथ कुधान्यवर्गः— १ कोरदूषकः = ' कोदो ' इति ख्यातः । २ बद्धनिस्यन्दाः = बद्धमूत्राः, मूत्रस्रा-वन्यूनकरा इति भावः । ३ शमीधान्यानि निर्दिशति – मृद्गेति । ४ प्रभृतिश-

पृष्ठ 424

सुश्रुत संहिता चौखम्बा, पृष्ठ 424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६४ Digitized by Arya Samaj Foundation Chennai and eGangotri " सुश्रुतसंहिता ai त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ॥ ३२ ॥

हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः । [ अ ० ४६ ऋते मुद्रमसूराभ्यामन्ये त्याध्मानकारकाः ॥ ३३ ॥

मापो गुरुभिन्नपुरीषमूत्रः स्निग्धोष्णवृध्यो मधुरोऽनिलघ्नः ।

सन्तर्पणः स्तन्यकैरो विशेषाद्बलप्रदः शुक्रकफावहश्च ॥ ३४ ॥

कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्त्ता ।

स्वादुर्विपाके मधुरोऽलैसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ॥ ३५ ॥

माषैः समानं फलमात्मँगुप्तमुक्तञ्च काकाण्डफलं तथैव ।

आरण्यमाषां गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ॥३६ ॥।

उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः ।

शुक्राश्मरीगुल्मनिषूदनश्च साङ्ङ्ग्रौहिकः पीनसकासहारी ॥ ३७ ॥

आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च । कफस्य हन्ता नयनार्मंयघ्नो विशेषतो वन्यकुलत्थ उक्तः ईषत्कषायो मधुरः सतिक्तः साङ्ग्राहिकः पित्तकरस्तथोष्णः ॥ ३८ ॥

तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपन । दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वंच्योऽथ केश्योऽनिलहा एव पथ्यः || ३ ९ ||

तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथान्ये गुरु ।

यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी ॥ ४० ॥

१० । व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्ध मूत्रो बहुवातवर्चाः । ४१ ॥ ब्दान्माषकुलत्थादीनां परिग्रहः । वैदलाः नं = वातरोगविशेषः, ' अफारा ' = द्विदलान्नसमूहा इत्यर्थः । इति ख्यातम् । ' बोढा ' इति नाम्ना ख्यातः । १ श्रध्मा-२ विशेषाद् दुग्धोत्पादकः, स्त्रीणामिति शेषः । ३ अलसान्द्रः = राजमाषः, ४ आत्मगुप्तं फलं = क्रौञ्चवीजम्, काकाण्डायाः फलं काकाण्डफलं, क्रौञ्चसदृशं शूकशिम्बीफलमित्यर्थः । ' सन्ज्ञाच्छन्दसोर्बहुलम् ह्रस्वः । ५ साङ्ग्राहिकः = सङ्ग्राही, अनिलगुणभूयिष्ठ ' इति नेत्ररोगहरः । ७ अनुरसे ईषत्कषाय इत्यर्थः इति भावः । I ६ नयनामयघ्नः = ८ त्वचे हितस्त्वच्यः त्वचो हित-करः । अत्र ‘ स्तन्यः ' इति पाठान्तरम् । केशेभ्यो हितः केश्यः केशहितकरः । ९ तः = कृष्णतिलः । असि-१० प्रबद्धमूत्रः = अल्पमूत्रकर्ता, बहुबातवर्चा: = श्रन्त्रे वात-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 425

सुश्रुत संहिता चौखम्बा, पृष्ठ 425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] ४६ T सूत्रस्थानम् । २६५ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri

स्थैर्य्याग्निमेधास्वरवर्णकृञ्च सपिच्छिलः स्थूलविलेखनश्च ।

मेदोमरुत्तृड्हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ॥ ४२ ॥

एभिर्गुणैर्हीनतरैस्तु किञ्चिद् विद्याद् यवेभ्योऽतियवानशेषैः ।

गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ॥ ४३ ॥

स्निग्धोऽतिशोतोऽनिलपित्तहन्ता संन्धानकृत् श्लेष्मकरः सरश्च ।

रुक्षः कषायो विषशोपशुकबलासदृष्टिक्षयकृद् विदाही ॥ ४४ ॥

कटुर्विपाके मधुरस्तु शिम्बः प्रबन्धविमारुतपित्तलश्च । --सितासिताः पोतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः || ४५ ||

यथोदितास्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च ।

सहौद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लोप्रभ वास्तु शिम्बाः ॥४६ ॥।

ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च ।

विदाहवन्तश्च भृशं विरूक्षा विष्टय जीर्यन्त्यनिलप्रदाश्च ॥ ४७ ॥

रुचिप्रदाश्चैव सुदुर्जरीश्च सर्वे स्मृता वैदलिकास्तु " शिम्बाः ।

" कटुविपाके कटुकः कफन्नो विदाहिभावादहितः कुसुम्भः ॥ ४८ ॥

उष्णाऽतसी स्वादुरसाऽनिलन्नी पित्तोल्बणा स्यात् कटुका विपाके ।

पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ।

. तीक्ष्णोष्णरूक्षः कफमारुतनस्तथागुणश्चासित सर्षपोऽपि ॥ ४ ९ ॥

मलवर्धक इत्यर्थः । १ निःशूकाः कृष्णारुणयवा अतियवा उच्यन्ते । तदुक्तं भाव-प्रकाशे - " निःशूकोऽतियवः स्मृतः ” इति । २ भग्नानामस्थ्नां सन्धानकर्तेत्यर्थः । ३ वलासः - इलेष्मा । ४ यथोदिताः = येन प्रकारेणोक्ताः, अर्थात् सितः सर्वप्रधान-स्तदपेक्षया न्यूनगुणोऽसितस्ततः पीतोऽल्पगुणस्ततोऽपि रक्तोऽल्पगुणः । ५ सहाद्वयं = मुद्गपर्णीींमाषपणद्वितयम् । मूलकजाश्च शिम्बाः = मूलकशिम्बी । कुशिम्बिवल्लीप्रभवाः = आत्मगुप्तालतासम्भवाः । पूर्वं पक्कमात्मगुप्ताफलमत्राममात्म-गुप्ताफलमुपदिश्यते इति न पुनरुक्ततादोष श्रशङ्कयः । ६ पित्तनिबर्हणाः = पित्त-नाशकाः । ७ मुद्गादिसतीनान्तानां वैदलानामार्द्रशिम्बीफलिकागुणमभिदधाति— विदाहेति गच्छन्ति ॥ ८ विष्टभ्य = पाककाले गुडगुडाशब्दं कृत्वा, जीर्यन्ति = पाकं ९ सुदुर्जराः दुःखेन पाकपरिणामा शिम्बाः = मुद्गाद्यार्द्रफलिकाः । इत्यर्थः । १० ११ शमीधान्यसामान्यात्कुसुम्भातसीसर्षपबीजगुणं दर्शयति -- कटुरिति । १२ सिद्धा-र्थकः = श्वेतसर्षपः । १३ असितसर्षपः = रक्तसर्षपः ।

पृष्ठ 426

सुश्रुत संहिता चौखम्बा, पृष्ठ 426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६६ Digitized by Arya Sam सुश्रुतसंहित aai and eGangotri अनार्तवं व्याधिहतमपर्यागतमेव च । [ अ ० ४६ अभूमिजं नवञ्चापि न धान्यं गुणवत् स्मृतम् ॥ ५० नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् ॥। विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥ ५१ ॥

शाल्यादेः सर्षपान्तस्य विविधस्यास्य भार्गशः ।

कालप्रमाणसंस्कारमात्राः सम्परिकीर्त्तिताः ॥ ५२ ॥

-अथोर्ध्वं मांसवर्गानुपदेक्ष्यामः । तद्यथा – जलेश्या ग्राम्याः, क्रव्यभुज, एकशफा, जाङ्गलाश्चेति षण्मांसवर्गाः, । आनूपा एतेषां, वर्गाणामुत्तरोत्तरं प्रधानतमाः । ते पुनर्द्विविधा श्चेति । तत्र जाङ्गलवर्गोऽष्टविधः । तद्यथा - जङ्घाली - जाङ्गला आनूपा-गुहाशयाः, प्रसहाः, पर्णमृगा, बिलेशया, ग्राम्याश्चेति , विष्किराः, प्रतुदा, लविष्किरौ प्रधानतमौ ॥ ५३ ॥ । तेषां जङ्घा-तावेणहरिणकुरङ्गकरालकृत मालशरभश्वदंष्ट्रापृषतचारुष्करमृ-१ त्याज्यधान्यानि निर्दिशति - अनार्तवमिति । अनार्तवं

व्याधिहतं = कुङ्कुमादिन्याधिनष्टम्, अपर्यायगतम् = न यथास्वर्तुजातम्, रोपलकाद्यशस्तभूमिप्रदेशप्रभवम् । २ भावप्रकाशे— = अपरिपक्वम्, अभूमिजम् = ऊष-परिमुञ्चति । न तु त्यजति तद्वीर्यं स्वं क्रमान्मुञ्चत्यतः “ वर्षोषितं सर्वधान्यं गौरवं अङ्कुरितं धान्यमित्यर्थः । विरूढमङ्कुरजनन परम् ॥ ” इति । ३ विरूढम् = अंशतः, अल्पप्रमाणत इत्यर्थः । इति कुधान्यवर्गः शक्तिरहितमिति । ढल्हणः । ४ भागशः -अथ मांसवर्गः-५ जलेशयाः = मत्स्यादयः, श्रानूपाः = जलप्रायप्रदेशवासिनो ग्रामवासिनश्छागादयः, क्रव्यभुजः = महिषादयः, ग्राम्याः = तदुक्तं भागवते— “ खरोऽश्वं.ऽश्वतरो श्राममांसाशिनो गौरः शरभश्चमरी गृध्रादयः, एकशफाः = खरादयः, जाङ्गलाः = हरिणादयः । ६ जङ्घा वेगवत्यः सन्त्येषामिति तथा । एते चैकशफाः ” इति । न्तीति विष्किराः, चन्च्वा प्रतुद्य भक्षयन्तीति जङ्घालाः, विकीर्यं भक्षय-स्वं भक्ष्यं प्रसह्य भक्षयन्तीति प्रसहाः, पर्णे मृगयन्त प्रतुदाः, गुहायां शेरते इति गुहाशयाः, कोवृक्षमार्जारवृक्षमर्कटिकादयः । एते पर्णमृगाः प्रोक्ताः इति ” इति पर्णमृगाः । विले, तदुक्तम्– “ वत-शयाः, ग्रामे वा ग्राम्याः । शेरत इति बिले-७ तौ = पूर्वोक्तजङ्घालविष्किरौ, एणः = कृष्णमृगः, हरिणः= गौरमृगः, ऋक्षः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 427

सुश्रुत संहिता चौखम्बा, पृष्ठ 427 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ अ ० ४६ ] यां T-1, T-, Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २६७ गमातृकाप्रभृतयो जङ्घाला मृगाः कषाया ॥ मधुरा लघवो वातपित्त-हरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ॥ ५४

कषायो मधुरो हृद्यः पित्तासृक्कफरोगहा ।

सङ्ग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ॥ ५५ ॥

मधुरो मधुरः पाके दोषन्नोऽनलदीपनः ।

शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ॥ ५६ ॥

एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते ।

यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ॥ ५७ ॥

शीताऽसृपित्तशमनी विज्ञेया मृगमातृका ।

सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ॥ ५८ ॥।

लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकावर्त्तकनप्तृकाबार्तीक चकोरक-लविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरवाहकयवा-लकप्रभृतयस्त्र्याहला विष्किराः ॥ ५ ९ ॥ लघवः शीतमधुरा कषाया दोषनाशनाः ।

सङ्ग्राही दीपनचैव कषायमधुरो लघुः ।

लावः कटुविपाकश्च सन्निपाते च पूजितः ॥ ६० ॥

ईषद्गुरूष्णमधुरो वृष्यो मेधाऽग्निवर्द्धनः ।

तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ॥ ६१ ॥

नीलाण्डो मृगः, ' रोहू ' इति ख्यातः; कुरङ्गः = चतुरगतिको मृगः, ' चतुरङ्ग ' इति ख्यातः, करालः = कस्तूरीमृगः, कृतमालः = सङ्घातचारी मृगः, शरभ: - • उष्टप्रमाणो महाश्वङ्गः– “ अष्टपादूर्ध्वनयन ऊर्ध्वपादचतुष्टयः " इत्युक्तलक्षणः काश्मीरे प्रसिद्धः, श्वदंष्ट्रा = शुनो दंष्टे व चतुर्दन्तोऽतिदुष्टो मृगः, पृषतः = शुभ्रबिन्दुचित्रितः, चारुष्करः = चारुशरीरः क्षुद्रमृगविशेषः, मृगमातृका - अल्पा पृथूदरा हरिणी । प्रभृतिशब्दात् कोटरकरभादयः ।. १ लावश्चतुविधः । तदुक्तम्- " गैरिकः पांशुलश्चैव पौण्ड्रको दर्भर-स्तथा । लावश्चतुर्विधः प्रोक्तः तित्तिरिर्द्विविधः स्मृतः ” ॥ तित्तिरिः = चित्रपक्षः कृष्ण-तित्तिरिः, कपिञ्जलः = गौरतित्तिरिः, वत्तरः = ' घरघरा ' इति ख्यातः । श्रवशिष्टानां परिचयोऽन्यत्र कर्तव्यः । त्रिभिश्चरणयुगलचक्षुभिराहलन्ति विलिखन्ति भूमिमिति च्याहलाः । २. पूजितः = प्रशस्तः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 428

सुश्रुत संहिता चौखम्बा, पृष्ठ 428 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

hai and eGangotri २६८ Digitized by Arya Samaj: an श्रुतसंहित jinai a [ अ ० ४६

रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः ।

कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ॥ ६२ ॥

हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः ।

वातपित्तहरा वृष्या मेधाऽग्निबलवर्द्धनाः ॥ ६३ ॥

लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः ।

कषायः स्वादुलवरणस्त्वच्यः केश्योऽरुचौ हितः ॥ ६४ ॥

मयूरः स्वरमेधाऽग्निदृक्श्रोत्रेन्द्रियदाकृत् ।

स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ॥ ६५ ॥

बृंहणः कुक्कुटो वन्यस्तद्वद् ग्राम्यो गुरुस्तु सः ।

वातरोगक्षयवमीविषमज्वरनाशनः ॥ ६६ ॥

कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृह कडिण्डिमाणवकशतपत्रकमातृनिन्दक भेदाशिशुकसारिकावल्गुलीगि- कुलिङ्ग - गोक्ष्वेड-रिशालट्वान्नदूषकसुगृहीखञ्जरीटहारीत दात्यूहप्रभृतयः

कषायमधुरा रूक्षाः फलाहौरा मरुत्कराः । प्रतुदाः ॥ ६७ ॥

पित्तश्लेष्महाः शीता बद्धमूत्राल्पवर्चसः सर्वदोषकरस्तेषां भेदाशी मलदूषकाः ॥ ६८ ॥

कषायस्वादुलवणो गुरुः कारणकपोतकः ।

रक्तपित्तप्रशमनः कषायविशदोऽपि च ॥ ६ ९ ॥

। विपाके मधुरश्चापि गुरुः पारावतः कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्द्धनः स्मृतः ॥ ७० ॥

रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः । सिंहव्याघ्रवृकतरवृक्षद्वीपिमार्जारशृगालमृगेर्वारुकै ॥ ७१ ॥ प्रभृतयो गु-हाशयाः ॥ ७२ ॥

मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः

उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ।

|| ७३ ॥

१. कुलिङ्गः = वन्यचटकः, गृहकुलिङ्गः – ग्राम्यचटकः, गोवेढकः २ फलाहारत्वेन वातकरा इत्यर्थः । ३ मृगेर्वारुकः = मृगादः शृगालाकारो = गोनर्दपक्षी । व्याघ्रभेदः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 429

सुश्रुत संहिता चौखम्बा, पृष्ठ 429 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ अ ० ४६ ] गे. 11: Digitized by Arya Samaj Foundation Chennai and eGangotri " सूत्रस्थानम् " " २६ ९ काकर्क कुरर चापभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्र-सहाः ॥ ७४ ॥

एते सिंहादिभिः सर्वे समाना वायसादयः ।

रसवीर्यविपाकेपु विशेषाच्छोषिणे हिताः ॥ ७५ ॥

मद्गुँमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः॥७६ ॥

मधुरा गुरवो वृष्याश्चक्षुष्या शोषिणे हिताः ।

सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ॥ ७७ ॥

श्वाविच्छल्यकगोधाशशवृपदंशलोपाक लोमशकर्णकदलीमृगप्रि-यकाजगरसर्पमूषिकनकुलमहा बभ्रुप्रभृतयो बिलेशयाः ॥ ७८ ॥

वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः ।

बातं हन्युः श्लेष्मपित्ते च कुर्यः स्निग्धाः कासश्वासका पहाच ॥ ७ ९ ॥

कषायमधुरस्तेषां शशः पित्तकफापहः ।

नातिशीतलवीर्यत्वाद्वात धारणो मतः ॥ ८० ॥

गोधा विपाके मधुरा कषायकटुका स्मृता ।

वातपित्तप्रशमनी बृंहणी बलवर्द्धनी ॥ ८१ ॥

शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः ।

प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः ॥ ८२ ॥

दुर्नामानिलदोषघ्नः कृमिदूषीविषापहाः ।

चक्षुष्या मधुराः पाके सर्पा मेधाऽग्निवर्द्धनाः ॥ ८३ ॥

१ कङ्को नाम— “ कङ्कः स्यात्कङ्कमल्लाख्यो बाणपत्रार्हपक्षकः । लोहपृष्ठो दीर्घपादः पक्षाधः पाण्डुवर्णभाक् ” ॥ २ चिल्लिः = चिल्हः । ' ३ मद्गुमूषिकः = वृक्षाश्रयी मालु-यासर्पः, वृक्षशायिका = वृक्षमर्कटिका, ' गिलहरी ' इति ख्याता, श्रवकुशः = गोलाङ्गुलो वानरः, वानरत्वेऽप्यस्य पृथक्कथनं प्रपञ्चार्थम्, पूतिघासः = सुगन्धिवृषणो वनबिलाङः । ४ वृषदंशः = ग्राममार्जारः, लोपाकः = शृगालभेदः, लोमशकर्णः = बिलेशयो मृगभेदः, कदलो = बृहद्बिडालसदृशो व्याघ्राकारो मृगविशेषः, मृगप्रियकः = गोनसः । ५ महा-चभ्रुः = बृहन्नकुलः । ६ वातसाधारणः कषायाद् वाताभिवृद्धौ मधुराद् वातोपशमे च समानः । ७ दूषीविषम्— “ दूषितं देशकालान्न दिवास्वप्नैर भीक्ष्णशः । यस्माद् दूषयते CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 430

सुश्रुत संहिता चौखम्बा, पृष्ठ 430 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

anai and eGangotri " सुश्रुतसंहिताय i hai a Digitized by Arya Samai Foung २७० [ अ ० ४६

दर्वीकरा दीपंकाश्च तेषूक्ताः कटुपाकिनः ।

मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ॥ ८४ ॥

अश्वाश्वतरगोखरोष्ट्रवस्तोरभ्रमेदः पुच्छ्कप्रभृतयो ग्राम्याः ॥ ८५ ॥ P

ग्राम्या वातहराः सर्वे बृंहणा कफपित्तलाः ।

मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः ॥ ८६ ॥

नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः ।

छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥ ८७ ॥

बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु ।

मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ ८८ ॥

श्वासकासप्रतिश्यायविषमज्वरनाशनम् ।

श्रमात्यग्निहितं गव्यं पवित्र मनिलापहम् ॥ ८ ९ ॥

और भ्रवत्सलवणं मांसमेकशफोद्भवम् ।

अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ॥ ९ ० ॥

दूरे जनान्तनिलया दूरे पानीयगोचराः ।

ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ॥ ९ १ ॥

अतीवसन्ननिलयाः समीपोदकगोचराः ।

ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ॥ ९ २ ॥

ऑनूपवर्गस्तु पञ्चविधः । तद्यथा - कूलचराः, प्लवाः, कोषस्थाः, धातून् तस्माद् दूषीविषं स्मृतम् ” ॥ १ दीपकाः = राजिमन्तः सर्पाः । २ अश्वाग-दभसंयोगेनोत्पन्नोऽश्वतरः ‘ खच्चर ' इति ख्यातः । ३ मेदःपुच्छकः – दुम्बकः । ४ यज्ञो-पयोगित्वेन पवित्रमित्यर्थः । ५ जनशब्दोऽत्र ग्रामवाची । तेन दूरे ग्रामतो गृहा इत्यर्थं इति डल्हणः । विप्रकृष्टे देशे जनपरिपूर्णत्वेन मनोहराणि भवनानि येभ्यस्ते दूरे जनान्तनिलयाः । अन्तो मनोहर इति पर्यायौ, अलुक् छान्दस इति सुश्रुतार्थं सन्दीपन-भाष्यम् । ‘ जनात्तनिलयाः ’ इति पाठान्तरम् । दूरे पानीयगोचराः = दूरे पानीयविषयाः, जलाशयाद् दूरनिवासिन इत्यर्थः । ६ अतीवासन्ननिलयाः = अतिशयेन ग्रामासन्न-गृहा इत्यर्थः । ७ अनुगता आपो यत्रेत्यनूपो जलप्रायो देशस्तत्र भवा श्रनूपास्तेषां वर्ग: । कूले नद्यादितटे चरन्ति भक्षयन्ति भ्रमन्ति चेति प्लवन्ते पानीये. कुलचराः, तरन्तीति प्लवाः, कोषः शङ्खादीनां सम्पुटस्तत्र तिष्ठन्तीति कोषस्थाः, पादिनः = पाद-वन्तः कच्छपादयः । CC - 0. Gurukul Kangri Collection, Haridwar