सुश्रुत संहिता चौखम्बा — पृष्ठ 441–450

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 441–450

पृष्ठ 441

सुश्रुत संहिता चौखम्बा, पृष्ठ 441 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥ १८५ ॥

रसे पाके च मधुरं खार्जूरं रक्तपित्तजित् । बृंहणीय महृद्यं च मधूककुसुमं गुरु । २८१ वातपित्तोपशमनं फलं तस्योपदिश्यते ॥ १८६ ॥

वातीमाक्षोडाभिषुकनिचुलपिचुलपिचुनिको चकोरुमाणप्रभृतीनि १८७

पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च ।

बृंहणान्यनिलघ्नानि बल्यौनि मधुराणि च ॥ १८८ ॥

कषायं कफपित्तघ्नं किञ्चित्तिक्तं रुचिप्रदम् ।

हृद्यं सुगन्धि विशदं लवलीफलमुच्यते ॥ १८ ९ ॥

वसिरं शोतपाक्यं च सारुष्करनिबन्धनम् ।

विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् ॥। १ ९ २ ॥

विपाके मधुरं चापि रक्तपि प्रसादनम् ।

ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ॥ १ ९ १ ॥

शीतं कषायं मधुरं टङ्कं मारुतकृद् गुरु । द स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मन्नमैजुदम् ॥ १ ९ २ ॥

शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् ।

गुरु “ श्लेष्मातकफलं कफकृन्मधुरं हिमम् ॥ १ ९ ३ ॥

" करीराक्षिक पीलूनि तृणशून्य फलानि च । नमाप्यायनरूपंरसायनम् । १ वातामं ‘ बादाम ' इति, अक्षोडं = ' अखरोट ' इति, अभि-पुकः = ' अंगूर’इति, निचुलं = ' चिलगोजा ' इति, पिचु = पिचुकम्, निकोचकं = ‘ पिस्ता ' इति, उरुमाणं = ‘ नासपाती’इति । प्रभृतिग्रहणाल्लवलीफलादीनि ग्राह्याणि । २ वाता-मादीनां सामान्यगुणमभिदधाति - पित्तेति 1 । ३ बल्यानि = बलकराणि । ४ लवलीफलं = ' हरफारेवड़ी ' इति ख्यातम् । तल्लक्षणम् - " वनस्निग्धा हरितांशुः ५ वसिरं = प्रपुन्नाटसदृक्च्छदा । सुगन्धिमूला लवली पाण्डुकोमलवल्कला ॥ ” इति । सूर्यावर्तफलम्, शीतपाक्यं = बलाफलम्, अरुष्करनिबन्धनं भल्लातकवृन्तं तेन सह वर्तमानमिति ऐरावणिका, सारुष्करनिबन्धनम् । ६ ऐरावतं = कृष्णलोडिताल्पफला दन्तशठं == जम्बीरभेदम् । ७ टङ्क - नीलकपित्थफलम् । ८ ऐदम् = इङ्गुदीफलम् । ९ शमीफलं फलम् । == सङ्गरम् । १० श्लेष्मातकफलं = ' लिसोडा ' इति ख्यातस्य ११ करीरः == मरुदेशजातः कण्डकीवृक्षः, आक्षिकम् = अक्षि कीफलम्, पीलु = पीलुफ • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 442

सुश्रुत संहिता चौखम्बा, पृष्ठ 442 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० ४६ स्वादुतिक्तकटूष्णानि कफवातहराणि च ॥ १ ९ ४ ॥

तिक्तं पित्तकरं तेषां सरं कटुविपाकि च ।

तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् ॥ १ ९ ५ ॥

रुष्करं तौवरकं कषायं कटुपाकि च ।

उष्णं क्रिमिज्वरानाहमेहोदावर्त्तनाशनम् ।

कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च ॥ १ ९ ६ ॥

अङ्कोलस्य फलं विस्रं गुरुश्लेष्महरं हिमम् ।

करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् ॥ १ ९ ७ ॥

रूक्ष्णोष्णं कटुकं पाके लघु वातकफापहम् ।

तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् ॥ १ ९ ८ ॥

व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् ।

कषायं दीपनं चाम्लं चक्षुष्यं चाभैयाफलम् ॥ १ ९९ ॥

भेदनं लघु रूक्षोष्णं वैस्वर्यं क्रिमिनाशनम् ।

चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ॥ २०० ॥

कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् ।

कषायमीषन्मधुरं किञ्चित् पूगफलं सरम् ॥ २०१ ॥

जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् ।

कक्कोलकं लवङ्गं च तिक्तं कटु कफापहम् ॥ २०२ ॥

लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम् ।

सतिक्तः सुरभिः शीतः कपूरो लघु लेखनः ॥ २०३ ॥

तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः ।

लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी ॥ २०४ ॥।

- प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः ।

बैभीतको मदकरः कफमारुतनाशनः ॥ २०५ ॥

-लम्, तृणशून्यं - मल्लिका । १ श्रारुष्करं = भल्लातकम्, तौवरकं - तुवरकफलं प्रमेहचिकित्सिते प्रोच्यमानम् । २ अरिष्टः = निम्बः । ३ अभयाफलं हरीतकीफ-लम् । ४ आक्षं = बिभीतकफलम् । ५ जातीकोशः = जावित्रो । जातीकोशादीनां-फलेतरत्वे सत्यपि गुणसाम्यादुपपादनम् । कटुकः = कक्कोलः ६ लता कस्तूरिकाफ-। CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 443

सुश्रुत संहिता चौखम्बा, पृष्ठ 443 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४६ । सूत्रस्थानम् । कषायमधुरोमज्जा कोलानां पित्तनाशनः । २८३ तृष्णाच्छद्येनिलन्नश्च तद्वदामलकस्य च ॥ २०६ ॥

बीजपूरकशम्याकमज्जा कोशाम्रसम्भवः ।

स्वादुपाकोऽग्निबलकृत स्निग्धः पित्तानिलापहः ॥ २०७ ॥

यस्य यस्य फलस्येह वीर्यं भवति यादृशम् ।

तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ॥ २०८ ॥

फलेषु परिपक्कं यद् गुणवत्तदुदाहृतम् ।

बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् ।

ग्राह्युष्णं दीपनं तद्धि कषायं कटुं तिक्तकम् ॥ २० ९ ॥

व्याधितं कृमिजुष्टं च पाकातीतमकालजम् ।

वर्जनोयं फलं सर्वमपर्यागतमेव च ॥ २१० ॥

इति फलवर्गः ।

शौकान्यत ऊर्ध्वं वक्ष्यामः । तत्र पुष्पफलालाबुकालिन्दकप्रभृ-तीनि ॥ २११ ॥

पित्तन्नान्यनिलं कुर्युस्तथा मन्दकफानि च । लमिति तात्पर्यम् । १ बहुवचननिर्देशात् कोल सजातीयानां बदरादीनामित्यर्थः । २ त्याज्यफलानि दर्शयति - व्याधितमिति । व्याधितत्वमाकृतिवैकृत्या बोध्यम् । कृमिजुष्टं = कृमिसेवितम्, पाकातीतम् = श्रुतिरक्कम्, अकालजं यथास्वकालेऽनुत्पन्नम्, अपर्यागतम् = अपरिपक्कम् । इति फलवर्ग: । अथ शाकवर्ग: -३ “ मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् । त्वक् पुष्पं कवकं चैत्र शाकं दशविधं स्मृतम् ” ॥ इत्युक्तानि बोध्यानि । ४ पुष्पफलं = कूष्माण्डम्, इदं लताफलेषु श्रेष्ठम् । तदुक्तं राजनिघण्टौ - " कूष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ” । अलाबू = दीर्घवर्तुलाद्यनेकप्रकारा तुम्बिनी, कालिन्दकं कूष्माण्डाकृतिफलसदृशफलम्, लोके ' तरबूज'इति ख्यातम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 444

सुश्रुत संहिता चौखम्बा, पृष्ठ 444 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ४६ सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च ॥ २१२ ॥

पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम् ।

शुक्लं लघुष्णं सक्षारं दीपनं बस्तिशोधनम् ॥ २१३ ॥

सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् ।

दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् ॥ २१४ ॥

अलाबुभिन्नविको तु रूक्षा गुव्यतिशीतला ।

तिक्ताला बुहृद्या तु वामिनी वातपित्तजित् ॥ २१५ ॥

त्रपुंसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ॥ २१६ ॥

स्वादुतिक्तरसान्याहुः कफवातकराणि च ।

सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च ॥ २१७ ॥

बालं सुनीलं त्रपुसं तेषां पित्तहर ं स्मृतम् ।

तत्पाण्डुकफकृज्ञ्जीर्णमम्लं वातकफापहम् ॥ २१८ ॥

एर्वारुकं सकर्कारु सम्पक्कं कफवातकृत् ।

सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ॥ २१ ९ ॥

सक्षरं मधुरं चैव शीर्णवृन्तं कफापहम् ।

भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥ २२० ॥

पिप्पलीमरिचशृङ्गवेरार्द्र कहिंगुजीरक कुस्तुम्बुरुजम्बीरसुमुखसुर-१ सृष्टमूत्रपुरीषाणि = मलमूत्र प्रवर्तकानि । २ मध्यम् = अर्धपक्कम् । ३ शुक्लं = परिपक्वम् । ४ उन्मादापस्मारादिचेतोविकारिणामित्यर्थः । ५ भिन्न विट्का - मल-भेदिनी । ६ त्रपुसं = सुधावासः, लोके ' खीरा ' इति ख्यातम्, एर्वारुः = लोमशा ककेटी, ' ककड़ी ' इति लोके, कर्कारुकशीर्णवृन्तौ = कर्कटीभेदौ । ७ त्रपुसादीनां सामान्यगुणं दर्शयति- स्वाद्विति । सक्षार मित्यादयोऽपक्क-शीर्णवृन्तस्य गुणाः, भेदनमित्यादयोऽर्धपक्कस्य गुणाः, आनाहेत्यादि परिपक्वस्य चेति बोध्यम् । आनाहश्च अष्ठीला चानादाष्ठीलं तन्नुदतीत्यानाद्दाष्ठीलनुत् घात विशेषः । ९ शृङ्गवेरं = शुण्ठी ॥ अष्ठीला ' धनिया मूत्रा- इति, जम्बीरः = जम्बीरगन्धि किञ्चिदम्लं इरितशाकम् १० कुस्तुम्बुरु , सुमुखसुरसार्जका = धन्याकम् एते , त्रयस्तुलसी-भेदाः, भूस्तृणं = रौद्दिषः, गन्धतृणविशेषः, सुगन्धकः = श्रल्पभूस्तृणभेदः, कासमर्दकः = ‘ कर्सोंदी’इति ख्यातः, कालमालः - कृष्णमल्लिका, बर्वरिकेति यावत्, कुठेरक: -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 445

सुश्रुत संहिता चौखम्बा, पृष्ठ 445 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४६ । सूत्रस्थानम् । २८५ सार्जक भूस्तृणसुगन्धककासमर्दककालमाल कुठेरकक्ष वकखरपुष्पशि-म्रुमधुशिग्रुफरिणज्झकसर्पपराजिकाकुलाहला व गुत्थगण्डीरतिलपर्णि-कावर्षाभूचित्रकमूलकलशुनपलाण्डुकलायप्रभृतीनि ॥ २२१ ॥

केन्युष्णानि रुख्यानि वातश्लेष्महराणि च ।

कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा ॥ २२२ ॥

तेषां गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा ।

शुष्का कफानिलनी सा वृष्या पित्ताविरोधिनी ॥ २२३ ॥

स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च ।

कटूष्णं लघु तच्छ्रुष्कमवृष्यं कफवातजित् ॥ २२४ ॥

नात्युष्णं नातिशीतं च वीर्यतो मँरिचं सितम् ।

गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः ॥ २२५ ॥

नागरं कफवातनं विपाके मधुरं कटु ।

वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ॥ २२६ ॥

कफानिलहरं स्वर्यं विर्बंन्धानाहशूलनुत् ।

कद्रूष्णं रोचनं हृद्यं वृष्यं चैवाद्रकं स्मृतम् ॥ २२७ ॥

लघुष्णं पाचनं हिङ्गु दीपनं कफवातजित् । तुलसीभेदः, क्षत्रकः = ' नकछिकनो ' इति प्रसिद्धः, खरपुष्पः = मरुबकः, क्षवकभेद इत्य. न्ये, शिग्रुः = श्वेतशोभाञ्जनः, मधुशिग्रुः = रक्तशोभाञ्जनः, 'फणिज्भकः = ' मरुश्रा ' इति ख्यातः, सर्षपराजिके स्पष्टे, कुलाहलः = मुण्डितिका, अवगुत्था = रक्तगुञ्जा, गण्डीरः = सूरणः, तिलपर्णिका = रक्तचन्दनं चोरको वा, वर्षाभूः = श्वेतपुनर्नवा, चित्रकमूलक-लशुनपलाण्डवः प्रसिद्धाः, कलायः = वर्तुलकलायः, ' मटर ' इति ख्यातस्तस्य शाकम् । १ एतच्छाकानां सामन्यगुणं वक्ति - कटूनोति । २ कृतान्नेषु = कृतान्नवर्गपठि-तेषु मुद्गयूषादिषु श्रनेकधा क्वाथकल्कव्यञ्जनादिविभागेन, संस्कारार्थं = गुणाधानार्थंम् । ३ समं पित्तं न वर्द्धयति नापि च हास्यतीति पित्ताविरोधिनी । ४ सितं मरिचं = शोभाञ्जनबीजम्, श्वेतमरिचं ५ मरिचेभ्यः सकाशाद् गुणवत् प्रशस्तगुणमि-वा । त्यर्थः । प्रशंसायां मतुप् । २ नागरं - शुण्ठी । ६ विबन्धः = मलाद्यप्रवर्तनम्, श्रानाहस्तु - " श्रमं शकृद्वा निचितं क्रमेण इति

भूयो ।

विबद्धं विगुणानिलेन प्रवर्तमानं न यथास्वमेनं विकारमानाइमुदाहरन्ति ॥

CC - Q. Gurukul Kangri Collection, Haridwar

पृष्ठ 446

सुश्रुत संहिता चौखम्बा, पृष्ठ 446 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८६ Digitized by Arya S सुश्रुतसंहितायां hennai and eGangotri [ अ ० प्र ० ४६ कटु स्निग्धं सर तीक्ष्णं शूलाजीर्णविबन्धनुत् ॥ २२८ ॥

तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्द्धनम् ।

कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् ॥ २२ ९ ॥

कौरवी करवी तद्वद्विज्ञेया सोपकुञ्चिका ।

भक्ष्यव्यञ्जनभोज्येषु विविधेष्वव चारिता ॥ २३० ॥

आर्द्रा कुस्तुम्बरी कुर्यात् म्वादुसौगन्ध्यहृद्यताम् ।

सा शुष्का मधुरा पाके स्निग्धा वृड्दाहनाशनी ॥ २३१ ॥

दोषघ्नी कटुका किञ्चित् तिक्ता स्रोतोविशोधनी ।

जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः ॥ २३२ ॥

सुरभिर्दीपनो रुच्यो मुखवैशद्यकारकः ।

कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ॥ २३३ ॥

पित्तकृत् पार्श्वशूलन्नः सुरैंसः समुदाहृतः 1 तद्वत्तु सुमुखो ज्ञेयो विशेषाद् गरेनाशनः ॥ २३४ ॥

कफन्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्द्धनाः ।

कटुपाकरसाचैव सुरसार्जंकभूस्तृणाः ॥ २३५ ॥

• मधुरः कफवातन्नः पाचनः कण्ठशोधनः ।

विशेषतः पित्तहरः सतिक्तः समर्दकः ॥ २३६ ॥

कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः ।

मधुशिग्रुः सरस्तिक्तः शोफनो दीपनः कटुः ॥ २३७ ॥

विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च ।

त्रिदोषं सार्षपं शाकं गाण्डीरं वेगंनाम च ॥ २३८

चित्रकस्तिलपर्णी च कफशोफहरे लघू ॥ ॥

वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् ॥ २३ ९ ॥

१ सितपीतभेदेन जीरकद्वयम् । २ कारवी = सूक्ष्मजीरकम्, करवी = सूक्ष्मकृष्णजी-रकम्, उपकुञ्चिका = ईषत्कृष्णं स्थूलजीरकम्, इत्येवं पञ्चविधानि जीरकाणि विज्ञ-यानि । ३ श्रवचारिता = संस्कारार्थंप्रक्षिप्ता । ४ सुरसः = श्वेततुलसी । ५, गर-नाशनः = कृत्रिम विषह्नरः । ६ सुरस: = कृष्णतुलसी । ७ वेगनाम = महाकाल • फलम्, ' वेगो जवे प्रवाहे च महाकालफलेऽपि च ' इति मेदिनी । ८ तिलपर्णी = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 447

सुश्रुत संहिता चौखम्बा, पृष्ठ 447 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ Jigitized by Arya Samaj सूत्रस्थान pai and eGangotri २८७

कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी ।

सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका ॥ २४० ॥

महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् ।

तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् ॥ २४१ ॥

त्रिदोषशमनं शुष्कं विषदोषहरं लघु ।

विष्टम्भ वातलं शाकं शुष्कमन्यत्र मूलकात् ॥ २४२ ॥

पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः ।

तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ च ॥ २४३ ॥

स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः ।

वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः ॥ २४४ ॥

हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिका सशोफान् ।

दुर्नामकुष्ठानले सादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ २४५ ॥

नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च ।

बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं च विवर्द्धयेत्तु ॥२४६ ॥

स्निग्धो रुचिष्यः स्थिरधातुकर्त्ता बल्योऽथ मेधाकफपुष्टिदश्च ।

स्वादुर्गुरुः शोणितपित्तशस्तः स पिच्छिलः क्षीरपलाण्डुरुक्तः ॥२४७ ॥

कलायशाकं पित्तघ्नं कफघ्नं वातलं गुरु ।

कषायानुरसं चैव विपाके मधुरं च तत् ॥ २४८ ॥

रक्तचन्दनम् । १ कण्ठ्या = गलशोधिनी, मूलकपोतिका = बालमूलकम् ।. २ मूलक-विषयकपुष्पपत्रादीनां गुणं प्रतिपादयति- पुष्पमिति । ३ लशुनगुणमाह - स्निग्धेति । ४ वृष्यः = शुक्रवृद्धिकरः । ५ रसोनः = एकरसविरहितः पञ्चरसो लशुन इत्यर्थः । तदुक्तं भावप्रकाशे - “ पञ्च-भिश्च रसैर्युक्तः रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥ बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः । ” इति । ' ६ अनल सादः = अग्निमान्द्यम् । ७ पलाण्डुगुणं प्रतिपादयति - नात्युष्णेति । ८ पलाण्डुभेदक्षीरपलाण्डुगुणमाह-स्निग्ध इति ' इति किष्यन् कितवाद् । रुचिष्यः = रुचिकरः, ' रुचिभुजिभ्यां किष्यन्, गुणाभावः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 448

सुश्रुत संहिता चौखम्बा, पृष्ठ 448 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८८ Digitized by Arya Sam स्सुश्रुत संहितायां - end eGangotri [ अ ० ४६ चुच्यूथिका तरुणी जीवन्तीबिम्बीतिकानन्दी भल्लातकच्छ-गलान्त्रीवृक्षादनीफञ्जीशाल्मली शेलु वनस्पतिप्रसवशरण कर्बु कोवि-दारप्रभृतीनि ॥ २४ ९ ॥

कषायस्वादुतिक्तानि रक्तपित्तहराणि च ।

कफघ्नान्यनिलं कुर्युः सङ्ग्राहीणि लघूनि च ॥ २५० ॥

लघुः पाके च जन्तुघ्न्नः पिच्छिलो ब्रणिनां हितः ।

कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा ॥ २५१ ॥

चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता ।

वृक्षादनी वातहरा फञ्जी त्वल्पबला मता ॥ २५२ ॥

क्षीरवृक्षोत्पलादीनां कषायाः पल्लवाः स्मृताः ।

शीताः सङ्ग्राहिणः शस्ता रक्तपितातिसारिणाम् ॥ २५३ ॥

पुनर्नवावरुणत कार्य रुक वत्सादनीविल्वशाकप्रभृतीनि ॥२५४ ॥

उष्णानि स्वादुतिक्तानि बातप्रशमनानि च ।

तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् ॥ २५५

तण्डुलीयकोपोदिकाऽश्वचलाचिल्लीपालङ्कयावास्तूकप्रभृतीनि ॥ ॥ २५६ ॥

सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च ।

मन्दवातकफान्याहू रक्तपित्तहराणि च ॥ २५७ ॥

मधुरो रसपाकाभ्यां रक्तपित्तमदापहः । १ चुच्चूः- नाडिकाकारपत्रः, “ पालङ्कयवत्स्मृतश्चुच्चूः स इति वाग्भटः । यूथिका = ‘ जूही ' इति ख्याता, “ सितपीतनीलमेचकनाम्न्यः तु सङ्ग्रहणान्तकः ” काः ” 1 | तरुणी = ‘ सेवती ' इति ख्याता, जीवन्ती = जीवा कुसुमेन यूथ-जीवन्तीपटोलसदृशैः पत्रैरित्यन्ये । बिम्बीतिका, पाढासमानपत्रेलि ढल्हणः । ‘ भिलावा ' इति प्रसिद्धः छगलान्त्री = बृद्धदारुकः = कुन्दुरिका , वृक्षादनी, नन्दी = धत्रः, भल्लातकः ‘ भारंगी ’ इनि, शाल्मली प्रसिद्धा, शेलुः = श्लेष्मातकः, ‘ लिसोड़ा -- बन्दा, फञ्जी = भार्गी, सत्राः = न्यग्रोधोदुम्बरादिपञ्चक्षीरिवृक्षपल्लवाः, राणः प्रसिद्धः ' इति, वनस्पतिप्र-भेदः श्वेतकाञ्चनारो वा, कोविदारः, कर्बुदारः = श्लेष्मातक ' = रक्तकाञ्चनारः । २ जन्तुघ्नः = कृमिघ्नः । ३ क्षीरवृक्षा न्यग्रोधादयः, उत्पलानिनीलोत्पलादीनि तेषां पल्लवाः ४ पुनः र्नवा = श्वेतपुनर्नवा, वरुणः = वरुणवृत्तो याज्ञिकः तर्कारी । शुक्लैरण्डः, वत्सादनी = गुडूची = अरणिका, उरुबूकः = । ५ तण्डुलीयकः = ‘ चौलाई ' इति, उपोदिका = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 449

सुश्रुत संहिता चौखम्बा, पृष्ठ 449 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

। अ ० ४६ ] gitized by Arya Samaj nai a hennai and eGangotri २८ ९ तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः ॥ २५८ ॥

स्वादुपाकरसा वृष्या वातपित्तमदापहा । उपोदिका सरा स्निग्धा बल्या श्लेष्मकरी हिमा कटुर्विपाके कृमिहा मेधाग्निबलवर्द्धनः ॥। २५ ९ ॥ सक्षारः सर्वदोषघ्नो वास्तू को रोचनः सरः ॥ २६० ॥

चिल्ली वास्तूकवज्ज्ञेया पालङ्कया तण्डुलीयघत् ।

वातकृत् बद्धविण्मूत्रा रूक्षा पित्तकफे हिता ।

शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् ॥ २६१

मण्डूकपर्णीसप्तलामुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा- ॥ - काकमाचीप्रपुन्ना डावल्गुजस तीनबृहतीकण्टकारिकाफलपटोलवार्त्ता-कुकारवेल्लककटुकिका केबुको रुबूकपर्पटककिराततिक्तकर्कोटकारिष्ट-कोशातकीवेत्रकरीराटरूपकार्कपुष्पीप्रभृतीनि ॥ २६२ ॥

रक्तपित्तहराण्याहुहृद्यौनि सुलघूनि च । 7 ‘ पोई ' इति, अश्वबला = मेथिकाभेदः, चिल्ली = रक्तवास्तूकः । ब्राह्मीभेदः, ‘ वरमी ' इति लोके, सप्तला = सेडुण्डः, सुनिषण्णकः = सिरिवालिका १ मण्डूकपणीं ' पत्री ' चौपतिया ' इति, “ चाङ्गेरीसदृशैः पत्रैः सुनिषण्णश्चतुर्दलः । शाको जलान्विते , चतु-देशै चतुष्पत्रीति कथ्यते ॥ ” इति तल्लक्षणम् । सुवर्चला = सूर्यावर्तः, पिप्पली, गुडूची, गोजिह्वा = ' गोभी ' इति, काकमाची = ' मकोय ' इति, प्रपुन्नाडः = • ' पमाड़ ' इति, अवल्गुज: = ‘ वाकुची ' इति, सतीनः = वर्तुलकलायः, बृहतीकण्टकारिकाफलम् = बृहल्लघुभेदद्वयेन कण्टकारिकाफलम्, ' पटोलस्तिक्तकः पटुः ' इत्यमरः, लोके ' परवल ' इति, तस्य फलं पत्रं च गृह्यते, वार्ताकुः = वर्तुलफलो वृन्ताकः, ‘ बैंगन ' इति, कारवे-ल्लकः == ‘ करैला ’ इति ख्यातः, कटुकिका - अरण्यकासमर्दः, केवुकः = ग्राम्योऽरण्यश्च, ‘ केंड ' इति ख्यातः, उरुवूकः = रक्तैरण्डः, शुक्लैरण्डः पूर्वमुक्तः, पर्पटकः = ‘ पित्तपा-पड़ा ' इति, किराततिक्तक - भूनिम्ब:, ' चिरायता ' इति, कर्कोटकः = ‘ ककोड़ा ' इति अरि-ष्टः = निम्बः, कोशातकी = ' तोरई ' इति, वेत्रकरीरं = वेत्राग्रं, ' वेतकोपल ' इति, श्राटरूषकः == वासकः, ‘ अडूसा ' इति, अर्कपुष्पी = अर्कपुष्पसदृशी लता, ' अन्धाहुली ' इति ख्याता । २ मण्डूकपर्ण्यादीनां सामान्यगुणमाख्याति – रक्तेति निहृद्यानि । १ ९ CC - 0. Gurukul Kangri Collection, Haridwar ३ हृदयाय हिता-

पृष्ठ 450

सुश्रुत संहिता चौखम्बा, पृष्ठ 450 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" सुश्रुतसंहितायां २ ९ ० Digitized by Arya Sama hna - and eGangotri [ अ ० ४६ कुष्ठमेहज्वरश्वासकासारुचिहराणि च ॥ २६३ ॥

कषाया तु हिता पित्ते खादुपाकरसा हिमा ।

लध्वी मण्डूकपर्णी तु तद्वद्बोजिह्निका मता ॥ २६४ ॥

अविदाही त्रिदोषघ्नः सङ्ग्राही सुनिषण्णकः ।

अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः ॥ २६५ ॥

ईषत्तितं त्रिदोषनं शाकं कटु सतीनजम् ।

नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् ॥ २६६ ॥

कण्डुकुष्ठकृमिघ्नानि कफवातहराणि च ।

फलानि बृहतीनां तु कटुतिक्तलघूनि च ॥ २६७ ॥

कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम् ।

पटोलं कटुकं पाके वृष्यं रोचनदीपनम् ॥ २६८ ॥

कफवातहरं तिक्तं रोचनं कटुकं लघु ॥

वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम् ।

तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च ॥ २६ ९ ॥

अटरूषकवेत्राग्रगुडूचीनिम्वपर्पटाः ।

किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥ २७० ॥

कफापहं शाकमुक्तं वरुणप्रपुनाडयोः ।

रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् ॥ २७१ ॥

दीपनं कालशौकं तु गरदोषहरं कटु ।

कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु ॥ २७२ ॥

वातलं नालिकौशाकं पित्तघ्नं मधुरं च तत् ग्रहण्यर्शोविकारनी साम्ला वातकफे हिता ॥ उष्णा कषायमधुरा चौङ्गेरी चाग्निदीपनी ॥ २७३ ॥

१ यद्विधं = त्रिदोषघ्नमित्यर्थः । २ “ वायुं वत्सादनी हन्यात् " इति चरके गु-डूची वातहरा, इह कफपित्तहरा आख्याता । कम् । ३ कालशाकं == श्राद्धार्ह कालियाशा ४ कौसुम्भं = ' कुसुम्भ ' इति ख्यातस्य शाकम् ५ नालिकाशाकं - ' पटुआ ' इति ख्यातस्य शाकम् । ६ चाङ्गेरी = ‘ अमलोनिया । ' इति ख्यातस्य शाकम् । CC - 0. Gurukul Kangri Collection, Haridwar