सुश्रुत संहिता चौखम्बा — पृष्ठ 451–460
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 451–460
पृष्ठ 451
पाठ पढ़ें पाठ छिपाएँ
६ अ ० ४६ Pigitized by Arya Samaj pala ennai and eGangotri २ ९ १ लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बक-कुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः ॥ २७४ ॥
स्वोदुपाकरसाः शीताः कफघ्ना नातिपित्तलाः ।
लवणानुरसा रूक्षाः सदारा वातलाः सराः ॥ २७५ ॥
स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका ॥
सङ्ग्राहि शीतलं चापि लघु दोषापहं तथा ।
राजचवकशाकं तु सटी शाकं च तद्विधम् ॥ २७६ ॥
स्वादुपाकरसं शाकं दुर्जर हरिमन्थजम् ।
भेदनं मधुरं रूक्षं कलायमतिवातलम् ॥ २७७ ॥
स्रंसनं कटुकं पाके लघु वातकफापहम् ।
शोफघ्नमुष्णवीर्यं च पत्रं पूतिकैरञ्जजम् ॥ २७८ ॥
ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम् ।
सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् ॥ २७ ९ ॥
स्रंसनं कटुकं पाके कषायं वह्निदीपनम् ।
वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् ॥ २८० ॥
अथ पुष्पवर्गः--कोविदारशणशाल्मली पुष्पाणि मधुराणि मधुरविपाकानि रक्तपित्तहराणि च । वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपा-१ लोणिका - क्षुद्राम्लिका, जातुकं = शुक्ल शालपर्णीीं, त्रिपणिका - दुग्धिका, वनकार्पासी वा, पत्तूरं = शिरबालिकाभेदं शालिञ्चीशाकं वा, जीवकः एतन्नाम्नैव प्रसिद्धः, सुवर्चला = सूर्यावर्तभेदः, ‘ डोडी ' इति ख्याता, डुडुरकः इतिनाम्नैव ख्यातः, कुतुम्बकः = द्रोणपुष्प:, कुठिञ्जरः = कुरहञ्जनः, कुन्तलिका = चुच्चूसदृशा दीर्घपत्रा, कुरण्टिका = पीतझिण्टी | २ लोणिकादीनां सामान्यगुणं दर्शयति – स्वाद्विति । ३ राजक्षव कशाकं = कृष्णरा-जिकाशाकम्, शटीशाकं = गन्धमूली शाकम्, तद्विधं = राजक्षवकसदृशम् । ४ हरि-मन्थजं - चणकशाकम् । ५ पूतिकरअ: = कण्टकिक्करजः । इति शाकवर्गः । अथ पुष्पवर्ग: -६ वृषः वासकः, अगस्त्यः वकः, तयोः पुष्पाणीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 452
पाठ पढ़ें पाठ छिपाएँ
२ ९ २ Digitized by Arya Samajसुश्रुतसंहितायां and eGangotri कानि क्षयकासापहानि ॥। २८१ ॥ [ अ ० ४६ आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते ॥ २८२ ॥
करीरमधुशिग्रु कैरीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च ॥ २८३ ॥
रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च ।
कफपित्तहरं पुष्पं कुष्ठन्नं कुटज़स्य च ॥ २८४ ॥
सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम् ।
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम् ।
तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले ॥ २८५ ॥
सिन्धुवारं विजानीयाद्धितं पित्तविनाशनम् ।
मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ॥ २८६ ॥
सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च । श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम् ॥ २८७ ॥
किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् ॥ २८८
।
यथा वृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा ॥
मधुशिग्रुकरीराणि कटुश्लेष्महराणि च । र्क्षवककुलेवरवंशकरीरप्रभृतीनि कफहराणि ॥ २८ ९ सृष्टमूत्रपुरी- ॥ १ करीरः- मरुदेशजः कण्टकिवृक्षभेदः, मधुशिग्रुः वृक्षः = बन्धूको रक्तचन्दनं वा । ३ श्रसनः = = रक्तशोभाञ्जनः । र्गुण्डीपुष्पम् । २ रक्त-= पीतशालः । ४ सिन्धुवारं = नि-५ सौरभ्यात् = सौगन्ध्यादित्यर्थः । ६ नागं = नागकेसरम् । ७ कुरण्टकं = झिण्टीपुष्पम् । ८ - अनुक्तमर्थमुपसङ्ग्रहीतुमभिधत्ते मनुक्तपुष्पजातं वृक्षोचितं वृक्षन्यस्तं स्तवकादिकं यथावृक्षं — यथेति । पुष्प-' उचितं तु भवेन्न्यस्ते ' इति मेदिनी । वृक्षानुरूपं जानीयात् । इति पुष्पवर्गः । अथोद्भिदशाकवर्गः । ९ क्षवकः = क्षत्रकभेदः, कुलेचरः = छत्रकभेदः, वंशकरीरः == वंशाङ्कुरः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 453
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ४३ अ ० ४६ Jigit ग षाणि च ॥ २ ९ ० ॥ सूत्रस्थानम् ।
क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम् ।
विष्यन्दि वातलं नातिपित्तश्ले मकरं च तत् ॥ २ ९ १ ॥
" वेणोः करीराः कफला मधुरा रसपाकतः । २ ९ ३ विदाहिनो वातकराः सकषाया विरूक्षणाः ॥ २ ९ २ ॥ उद्भिदानि पलोलेक्षुकरोषवेणुक्षितिजानि । तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च । इक्षुजं मधुरं कषायानु-रसं कटुकं शीतलं च । तद्वदेवोष्णं कारीषं कषायं वातकोपनं च ।
वेणुजातं कषायं वातकोपनं च । भूमिजं गुरु नातिवातलं भूमि-तश्चास्यानु॑रसः ॥ २ ९ ३ ॥
पिण्याक तिलकल्कस्थूणि काशुष्क शाकानि सर्वदोषप्रकोपणा-नि ॥ २ ९ ४ ॥
विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः ।
सिण्डौकी वातला सार्द्रा रुचिष्याऽनलदीपनी ॥ २ ९ ५ ॥
विड्भेदि गुरु रूक्षञ्च प्रायो विष्टम्भि दुर्जरम् ।
सकषायं च सर्वं हि स्वादु शाकमुदाहृतम् ।
पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् ॥ २ ९ ६ ॥
कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम् ।
वर्जयेत् पत्रशाकं तत् यदकालविरोहि च ॥ २ ९ ७ ॥
१ विष्यन्दि == इलेष्मस्रावीत्यर्थः । २ पलालः = सस्यशून्यकाण्डादिः, इक्षुः प्रसिद्धः, करीषं = शुष्कगोमयम्, वेणुः - वंशकाष्ठादिः, क्षितिजानि = भूमिजातानि, उद्भि-दानि = उद्भिज्जानि छत्र कादीनीत्यर्थः । ३ तद्वत् = इक्षुजसदृशम् । ४ भूमिसदृ-शगुणमित्यर्थः। ५ पिण्याकः = यन्त्रादिपीडितसर्षपादिनिःस्नेहकल्कः, ' खली ' इति ख्यातः, तिलकल्कः = तिलपिण्याकः, स्थूणिकाशुष्कशाकानि = स्थूणिका वटकारूपाणि शुष्कशाकानि व्यवहृता ॥ ६ सिण्डाकी = ' पकौड़ी ' ' बचका ' इत्यादिनाम्ना ( ७७ परिजीर्णम् = अतिपक्वम् । ८ अकालविरोहि = यथास्वकाले नोत्पन्नम् । इत्युद्भिदशाकवर्गः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 454
पाठ पढ़ें पाठ छिपाएँ
२ ९ ४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ४६ कन्दानत ऊर्ध्वं वक्ष्यामः — विदारीकन्दशतावरीबिसमृणाल-शृङ्गाटककशेरुक पिण्डौलुकमध्वालुक हत्या लुककाष्ठालु कशङ्खालुकर-क्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ॥ २ ९ ८ ॥
रक्तपित्तहराण्याहुः शीतानि मधुराणि च ।
गुरूणि बहुशुक्रारिण स्तन्यवृद्धिकराणि च ॥ २ ९९ ॥
मधुरोबृं हणो वृष्यः शीतः स्वर्योऽतिमूत्रलः ।
विदारीकन्दो बल्यस्तु पित्तवातहरश्च सः ॥ ३०० ॥
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी ।
महती चैव हृद्या च मेधाग्निबलवर्द्धिनी ॥ ३०१ ॥
ग्रहण्यर्शोविकारनी वृष्या शीता रसायनी ।
कफपित्तहरास्तिक्तास्तस्यैौ एवाङ्कुराः स्मृताः ॥ ३०२
अविदाहि विसं प्रोक्तं रक्तपित्तप्रसादनम् ॥।
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ॥
गुरू विष्टम्भिशीतौ च शृङ्गाटककशेरुकौ । ३०३ ॥
पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ॥ ३०४
सुरेन्द्रकन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत् ॥।
वेणोः कैरीरा गुरवः कफमारुतकोपनाः ॥ ३०५
स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका ॥ विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च रूक्षा माणकं स्वादु शीतं च गुरु चापि प्रकीर्त्तितम् ॥ ३०६ ॥ ।
स्थूलकन्दस्तु नात्युष्णः सूरणो गुर्दकीलहा ॥ ३०७ ॥
अथ कन्दवर्गः-१ पिण्डालुकः = गोलालुकः, मध्वालुकः= रे = रोमशो दीर्घालुकः, काष्ठालुकः = कठिनालुकः, शङ्खालुकः = श्वेतालुकः मधुरालुकः , रक्तालुकः , हस्त्यालुकः = लोहिता-४ सुरेन्द्रकन्दः = वन्यालुको वज्रकन्दोवा । लुकः । २ स्तन्यवृद्धिकराणि == स्त्रीणां दुग्धवर्धकानि । ३ तस्याः = शतावर्याः । ५ वेणोः = वंशस्य, करीराः = मूलाङ्कुराः । ५ स्थूलः कन्दः = बृहदाकारः सूरणः स्यान्महापत्रः " इति भावप्रकाशोक्तः, ' मानकन्द सूरणः = लघुसूरणः, माणकः = " माणकः ' इति ख्यातः गुदकीलमर्श ७ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 455
पाठ पढ़ें पाठ छिपाएँ
६ उ-अ ० ४६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः । २ ९९ कषायाः पित्तशमना विपाके मधुरा हिमाः ॥ ३०८ ॥
वारौहकन्दः श्लेष्मन्नः कटुको रसपाकतः ।
मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ॥ ३० ९ ॥
तालनारिकेलखर्जूरप्रभृतीनां मस्तकै मज्जानः ॥ ३१० ॥
स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा ।
शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ॥ ३११ ॥
बौलं ह्यनार्त्तवं जीर्णं व्याधितं कृमिभक्षितम् ।
कन्दं विवर्जयेत् सर्वं यो वा सम्यङ् न रोहति ॥ ३१२ ॥
अथ लवणानि— सैन्धवसामुद्रविड सौवर्चलरोम कौद्भिद प्रभृतीनि लवणानि यथो-त्तरमुष्णानि वातहराणि कफपित्तकराणि यथापूर्वं स्निग्धानि स्वा-दूनि सृष्टमूत्रपुरीषाणि चेति ॥ ३१३ ॥
चक्षुष्यं सैन्धवं हृद्यं रुच्यं लध्वग्निदीपनम् ।
स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ॥ ३१४ ॥
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ ३१५ ॥
सक्षारं दीपनं सूक्ष्मं शूलहृद्रोगनाशनम् ।
रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ॥ ३१६ ॥
हन्तीति गुदकीलहा । १ वाराइकन्दः प्रसिद्धः, एतदभावे - " वाराहीणामभावे तु ‘ चर्मकारालुको मतः ” । २ मस्तकमज्जानः = तालादिवृक्ष शिरोऽग्रमज्जानः, मज्जा ‘ गिरी ' इति = सम्यङ् न । ३ त्याज्यकन्दानाह – बालमिति । सम्यङ् न रोहति प्रादुर्भवतीत्यर्थः । इति कन्दवर्गः । अथ लवणवर्ग: -४ सैन्धवं प्रसिद्धम्, सामुद्रं = दक्षिणसमुद्रसमीपजातम्, बिडं = कृत्रिमलवणम्, सौवर्चलं: = 1 = कृष्णलवणम्, रोमकं = पांशुलवणं शाकम्भरीदेशोत्थम्, श्रद्भिदं = मार्गा- = ५ वातानुलोमनं साम्भरिलवणम्, प्रभृतिग्रहणादूषरोत्थादीनि बोध्यानि । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 456
पाठ पढ़ें पाठ छिपाएँ
२ ९ ६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ४६
लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु ।
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ॥ ३५७ ॥
रोमकं तीक्ष्णमत्युष्णं व्र्व्यवायि कटुपाकि च ।
वातघ्नं लघु विस्यन्दि सूक्ष्मं विभेदि मूत्रलम् ॥ ३१८ ॥
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् ।
सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ॥ ३१ ९ ॥
कफवातकृमिहरं लेखनं पित्तकोपनम् ।
दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ॥ ३२० ॥
ऊपसूतं वालुकैलं शैलमूलाकरोद्भवम् ।
लवणं कटुकं छेदि विहितं कटु चोच्यते ॥ ३२१ ॥
यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः गुल्माशग्रहणी दोषप्रतिश्यायविनाशनाः ॥ क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः ॥ ३२२ ॥
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ ।
शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनी ॥ ३२३
उष्णोऽनिलन्नः प्रक्लेदी चोपक्षारो बलापहः ॥
मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ॥ ।
विरूक्षणोऽनिलकरः श्लेष्मन्नः पित्तदूषणः ३२४ ॥
अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ॥ । ३२५ ॥
वृतवातस्य स्रोतःशुद्धिकरत्वेन प्रवर्तनम् । १ व्यवायि = अपक्कमेवाखिलं पश्चान्मद्यविषयवद्दे इस्थमेव पाकपरिणामि | देहं व्याप्य टिकाऽऽह्वयं = पाकाभिनिर्वृत्तत्वाद् गुटिकाभूतं २ उत्क्लेदि = श्राद्रीं भावकारि । ३ गु-लवणम् । ४ ऊषसूतम् = ऊषः क्षारमृ. तिका, ततः सूतं जातमूषसूतम्, बालुकैलं - बालुकाः भवं बालुकैलम् । ‘ इलोवीं वाग् वुधस्त्री गौः ' इति हेमचन्द्रः सिकतास्तन्मयी । शैलमूलाकरोद्भवं इला पृथ्वी तंत्र लावस्थितखनिजोत्पन्नम् । ५ यवक्षारः = यवशूकोद्भवक्षारः, स्वर्जिकाक्षारः = = पर्वतमू सर्जि • · क्षारः, ‘ सब्जीखार’इति लोके, ऊषक्षारः प्रसिद्धः, पाकिमक्षार: - पाकेन पाकविधावुपदिष्टः पानीयः प्रतिसारणीयश्च, टङ्कणक्षारः = निर्वृत्तः क्षार-समौ = अग्निसदृशतीक्ष्णावित्यर्थः । व्रणस्य लेखनमिति ‘ सोहागाखार’इति । ६ बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar वह्नि
पृष्ठ 457
पाठ पढ़ें पाठ छिपाएँ
अ ० ४६J Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
सुवर्ण स्वादु हृद्यञ्च बृंहणीयं रसायनम् ।
दोषत्रयपहं शीतं चक्षुष्यं विषसूदनम् ॥ ३२६ ॥
रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत् ।
ताम्रं कषायं मधुरं लेखनं शोतलं सरम् ॥ ३२७ ॥
सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित् ।
वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ॥ ३२८ ॥
कटु क्रिमिघ्नं लवणं त्रपुसीसं विलेखनम् ।
मुक्ताविद्रुमवज्ञेन्द्र वैदूर्यस्फटिकादयः ॥ ३२ ९ ॥
चक्षुष्या मरणयः शीता लेखना विषसूदनाः । २ ९ ७ पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ॥ ३३० ॥
धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात् ।
आस्वादतो भूतगुणैश्च मत्वा तदादिशेद् द्रव्यमनल्पबुद्धिः ॥ ३३१ ॥
षष्टिका यवगोधूमा लोहिता ये च शालयः ।
मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ॥ ३३२ ॥
लावतित्तिरिसारङ्गकुरङ्गेणकपिञ्जलाः ।
मयूरर्वंर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ॥ ३३३ ॥
दाडिमामलकं द्राक्षा खर्जूरं सपरूषकम् ।
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥ ३३४ ॥
सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः ।
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥ ३३५ ॥
गव्यं क्षीरं घृतं श्रेष्ठं, सैन्धवं लवणेषु च ।
धात्री दाडिममम्लेषु पिप्पली नागरं कटौ ॥ ३३६ ॥
१ सुवर्णादीनां गुणमभिदधाति - सुवर्णमिति । २ वज्रेन्द्रः = हीरकः, वैदूर्यं = । विडालनेत्राभो दर्शयति - धान्येष्विति मणिभेदः । ३ अनुक्तद्रव्यज्ञानोपायं ४ अप्रमेयत्वात् = अपरिसंख्येयत्वात् श्रानन्त्यादिति यावत् । ५ आस्वादतः = मधुरादिरसविशेषतः, भूतगुणैः = द्रव्यारम्भकभूतगुणैर्वीर्यविपाकादिभिश्च । ६ उक्तेषु. धान्यादिवर्गेषु प्रधानानि द्रव्याण्यभिधत्ते – षष्टिकेति । ७ वर्मिः = महाशकलो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 458
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ४६
तिक्ते पटोलवार्त्ता के मधुरे घृतमुच्यते ।
क्षौद्रं पूगफलं श्रेष्ठं कषाये सपरूषकम् ॥ ३३७ ॥
शर्करेक्षुविकारेषु पाने मध्वासवौ तथा ।
परिसंवत्सरं धान्यं, मांसं वयसि मध्यमे ॥ ३३८ ॥
अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम् ।
फलं पर्यागतं, शाकमशुष्कं तरुणं नवम् ॥ ३३ ९ ॥
अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् ॥। ३४०
लाजैमण्डो विशुद्धानां पथ्यः पाचनदीपनः ।
वातानुलोमनो हृद्यः पिप्पली ६ गरायुतः ॥ ३४१ ॥
स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ।
क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी ॥ ३४२ ॥
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्द्धनी ।
पथ्या स्वादुरसा लध्वी दीपनी क्षुत्तृषापहा ॥
हृद्य सन्तर्पणी वृष्या बृंहणी बलवर्द्धनी । ३४३ ॥
शाकमांसफलैर्युक्ता विलेयला च दुर्जरा ॥ ३४४॥
रोहितभेदो मत्स्येषु प्रधानतम इत्यर्थः । २ पर्यागतं = परिपक्वम् । १ मध्वासवौ = माद्दकद्राक्षाऽऽसवौ । इति लवणादिवर्गः । अथ कृतान्नवर्गः--तान्नमित्यर्थः । ३ संस्कृतान्नानां गुणं विशिनष्टि - अत इति । ४ कृतान्नम् = श्रग्निद्वारा पाचि-५ भृष्टशा लिभवा लाजा इत्युच्यन्ते, तैः साधितो तदुक्तम्— “ लाजैर्वा तण्डुलैर्मृष्टैर्लाजमण्डः प्रकीर्तितः ” । मण्डस्तु— मण्डो लाजमण्डः । सिद्धो मण्डस्त्वसिक्थकः ” । सिक्यो भक्तावयवस्तेन रहितोऽसिक्थक “ नीरे चतुर्दशगुणे इत्यस्यार्थः । तन्त्रान्तरे त्रिविधं मण्डमाइ— “ मण्डस्तु त्रिविधो ज्ञेय टैरभृष्टैश्च तण्डुलैः परिसंस्कृतः । च् तुस्त्रिंशद्गुणं भक्तात् एकद्वित्रिपरिस्रुतः । लाजैर्भू-६ पिप्पलीशुण्ठीमिलितो लाजमण्ड पूर्वः पूर्वी लघुहिंतः ॥ ” इति । इत्यर्थः । ७ विलेपी— “ विलेपी घनसिक्था स्यात् सिद्धा नीरे चतुर्गुणे ” इति । ८ अत्र — ' बस्तिसंशोधनी वृष्या ज्वरातीसारयोहिंता । ' इति पाठान्तरम् । ९ अम्ला = श्रम्लादिभिः कृतसंस्कारा इत्यर्थः । ' विलेप्यग्ला च CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 459
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ६ ०४६ ॥ I सूत्रस्थानम्
सिक्थैर्विरहितो मण्डः पेया॑ सिक्थसमन्विता ।
विलेपी बहुसिक्था स्याद् यवागूर्विरलद्रवा ॥ ३४५ ॥
विष्टम्भी पायँसो बल्यो मेदःकफकरो गुरुः ।
कफपित्तकरी बल्या कृशैराऽनिलनाशनी ॥ ३४६ ॥
धौतैस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ।
स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः ॥ ३४७ ॥
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्वाप्योद्नो गुरुः ।
लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः ॥ ३४८ ॥
स्नेहैर्मासैः फलैः कन्दैवै दलालैश्च संयुताः ।
गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः ॥ ३४ ९ ॥
सुविन्नो निस्तुषो भ्रष्ट ईषत्सूपो लघुर्हितः । २ ९९ स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् ॥ ३५० ॥
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ।
मांसं स्वभावतो वृष्यं स्नेहनं बलवर्द्धनम् ॥ ३५१ ॥
स्नेहगोर.सधान्याम्लफलाम्लकटुकैः सह ।
सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु ॥ ३५२ ॥
दुर्जरा’इत्यत्र ‘ यवाग्वस्ताश्च दुर्जराः ' इति श्रीहाराणचन्द्रः पठति व्याख्याति चताःपूर्वोक्ता मण्डाद्यात्मका यवाग्व एवेत्यर्थः । चकारोऽवधारणार्थः, न तु ताः, पृथग् यवाग्वश्चेति वाक्यार्थः मते पेयालक्षणम्- " चतु-। १ पेया अत्र यवागूः, पेयायवाग्वोर्भेदवादिनां दशगुणे नीरे रक्तशाल्यादिभिः कृता । द्रवाधिका स्वल्पतिक्या पेया प्रोक्ता भिषग्वरैः ॥ ” इति भक्तावयवरहितो मण्डः, पेया यवाग्वपरपर्याया । २ यवागूः - पेया । एतेन भक्तावयवसमन्विता विरलद्रवा, विलेपी बहुभक्तावयवा लेह्या पृथग् द्रवरहितेति भेद-त्रयमेतच्छ्लोकोक्तं बोध्यम् । ३ पयसि संस्कृतस्तण्डुलः पायसः । ४ तिलतण्डुल-माषपक्का कृशरा । ५ श्रोदनगुणं दर्शयति — धौत इति 1 । धौतः = प्रक्षालितः, विमलः = कण्डनादि • नाऽपगतमलः, सुप्रस्रुतः = सुष्ठु गालितमण्ड: । ७ भृष्ट-। ६ स्विन्नः = सम्यक्पक्कः स्तण्डुलोऽस्येति भृष्टतण्डुलः, भृष्टतण्डुलसाधित श्रोदन इत्यर्थः । ८ संस्कारविशेषेण ९ गोरसः = दधि द्दिदलगुणमाह – सुास्वन्न इति । तत्र ईषद्भृष्ट इति सम्बन्धः । तक्रं च, न तु क्षीरम्, ‘ गोरसो दधि तक्रं च ' इति हैमात् । " शाकाम्लपलपिण्याककुल-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 460
पाठ पढ़ें पाठ छिपाएँ
ennai and eGangotri " सुश्रुतसंहित ] hai ३०० Digitized by Arya Samaj [ अ
तदेवं गोरसादानं सुरभिद्रव्यसंस्कृतम् ।
विद्यात्पित्तकफोद्रेकि बलमांसाग्निवर्द्धनम् ॥ ३५३ ॥
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ।
रोचनं बलमेधाग्निमांसौज: शुक्रवर्द्धनम् ॥ ३५४ ॥
तदेवोल्लुप्त पिष्टत्वादुल्लुप्तमिति पाचकाः ।
परिशुष्कगुणैर्युक्तं वह्नौ पक्कमतो लघुः ॥ ३५५ ॥
तदेव ' शूलिकाप्रोतमङ्गारपरिपाचितम् । अ ० ४६ ज्ञेयं गुरुतरं किञ्चित् प्रदिग्धं गुरुपाकतः ॥ ३५६ ॥
उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ।
परिशुष्कं प्रदग्धं च शूल्यं यच्चान्यदीदृशम् ॥ ३५७
मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद् गुरु ॥
लध्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् ।
अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ॥ । ३५८ ॥
प्रीणनः प्राणजननः श्वासकासक्षयापहः वातपित्तश्रमहरो हृद्य मांसरसः स्मृतः ॥ ३५ ९ ॥ स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम्
।
|| ३६० ॥
भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् । त्थलवणामिषैः । करीरदधिमाषैश्च प्रायः १ प्रदिग्धत्वेन सिद्धस्य मांसस्य गुणं वक्ति क्षीरं विरुध्यते ॥ ” इति तन्त्रान्तराच्च । - तदेवेति । २ परिशुष्कम्– “ सिक्तं बहुघृते भृष्टं मुहुरुष्णाम्बुना परिशुष्कं तदुच्यते ॥ ” इति । ३ श्रादावुल्लुप्तमतिच्छिन्नं मृदु । जीरकाद्यैर्धनं मांसं पिष्टत्वं तस्मात्, ' उल्लुप्तम् ' इति पाचकाः पश्चात्पिष्टं तस्य भाव उल्लु-प्रोतं = लोहादिशलाकाऽऽरोपितम् सूपकारा वदन्तीति शेषः । ४ शूलिका-। ५ स्नेहधान्याम्लतक्रादिना प्रदिग्धमित्यर्थः ६ भर्जितादिनां लक्षणम्– “ भर्जितं स्याद् । दिकृतं पिष्टं दधिदाडिमसौरभैः ॥ सिद्धं घृतादौ तु पिष्ट्वा यत्साधितं पुनः । अपूपा-दिषु यत्पक्वं प्रतप्तं तदुदाहृतम् ॥ पिशितं साज्यैस्तथाऽजाजीसामुद्रमरिचैरपि सौरभैर्लिप्तं । श्रङ्गारा-कल्कलिप्तं च कन्दुपाचितमुच्यते ॥ ” परिशुष्कमुक्तम् कन्दुपक्कं मधु प्रभम् । राजिका विश्रुतम् ” इति परिशुष्कल क्षणस्याग्रे बोध्यम् । “ तदेव गोरसादानं प्रदिग्धमिति सिक्त्वा सिक्त्वाऽम्बुधाराभिर्विधूमेऽग्नौ प्रतापयेत् । “ हिङ्गुद ॥ फलाम्लेनापि के परिक्षिप्तं शूले निष्पोडितं ततः । यत्पक्वं शूल्यं तत्सौर-CC - 0. Gurukul Kangri Collection, Haridwar