सुश्रुत संहिता चौखम्बा — पृष्ठ 461–470
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 461–470
पृष्ठ 461
पाठ पढ़ें पाठ छिपाएँ
अ ० ४६ Bigitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ३०१ आप्यायनः संहननः शुक्रदो बलवर्द्धनः ॥ ३६१ ॥
स दाडिमयुतो वृष्यः संस्कृ तो दोषनाशनः ।
प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम् ॥ ३६२ ॥
क्षुत्तृष्णापहरः श्रेष्टः सौरावः स्वादुशीतलः ।
यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम् ॥ ३६३ ॥
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ।
दीप्ताग्नीनां सदा पथ्यः खानिष्कैस्तु परं गुरुः ॥ ३६४ ॥
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ।
पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् ॥ ३६५ ॥
ऐकध्यं पाचयेत्सम्यग् वेसवार इति स्मृतः ।
वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः ॥ ३६६ ॥
कफनो दीपनो हृद्यः शुद्धानां प्रशिनामपि ।
ज्ञेयः पथ्यतमञ्चैव मुद्गयूषैः कृताकृतः ॥ ३६७ ॥
सं तु दाडिममृद्वीकायुक्तः स्याद्रागखाडवः । भान्वितम् ॥ ” इति । ईदृशम् = एवंविधं तैलसाधितं मांसम् । १ श्रध्यायनः = स्मृतिस्वरहीनज्वरक्षीणकृशात्परेतसां स्वास्थ्यकरः, संहननः क्षतोरसां भग्नविश्लिष्ट-सन्धीनां च सन्धानकरः, शुक्रदः = अल्परेतसां वीर्यवर्द्धकः, बलवर्धनः = श्रोजोहीनानां बलवृद्धिकरः । २ संस्कृतः -- घृतादिना भर्जितः । ३ सौरावः - रसस्योपरितनः स्वच्छो भागः ‘ शो रखा ' इति ख्यातः । ४ खानिष्कः = अतिशुष्क मांसपिष्टः, वेसवार भेदो वा । “ अनस्थि पिशितं पिष्टं स्विन्नं गुणघृतान्वितम् । कृष्णामरिच संयुक्तं वेसवार इति स्मृतः ” । आत्रेयस्तु— “ चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् । धान्याकं रजनीश्वे-ततण्डुलाश्च समांशकाः । वेसवार इति ख्यातः शाकादिषु नियोजयेत् ॥ ” इति । ५ यूषः = “ अष्टादशगुणे नीरे शिम्बीधान्यश्शृतो रसः । विरलान्नो घनः किञ्चित्पेयातो यूष उच्यते । ” इति शार्ङ्गधरसंहिताऽनुसारेण चतुर्दशगुणे जले मुद्गादिसाधितो यूषो बोध्यः । कृतः लवणस्नेहकटुकादिः संस्कृतः, अकृतस्तैरसंस्कृतः कृताकृतः । ६ स = मुद्गयूषः, दाडि -ममृद्वीकायुक्तः ‘ रागखाडव ' इति व्यवहारोपयोगिनामा स्यात् । अन्योऽपि रागखाडवः ---“ श्रममात्रं त्वचाहीनं द्वित्रिर्वा खण्डितं ततः ।...... सुपक्वं च समुत्तार्य मरीचैलेन्दु-वासितम् । स्थापितं स्निग्धमृदभाण्डे रागखाण्डवसज्ञितः " ॥ अपि च- " क्वथितं तु गुडोपेतं सहकारफलं नवम् । तैलनागरसंयुक्त विज्ञेयो रागखाडवः ॥ ” इति बोध्यः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 462
पाठ पढ़ें पाठ छिपाएँ
३०२ Digitized by Arya Samaj Four ennai and eGangotri [ अ ० ४६ Sa सुश्रुतसंहितार्थी jennai. रुचिष्यो ल पाकश्च दोषाणां चा विरोधकृत् ॥ ३६८ ॥
मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ।
कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते ॥ ३६ ९ ॥
मृद्वीका दाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ।
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥ ३७० ॥
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ।
पित्तघ्नो दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ ॥ ३७१ ॥
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ।
हन्ति मूलकयूषस्तु कफमेदोगलामयान् ।
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ॥ ३७२ ॥
तूणीप्रतूणी कासार्शोगुल्मोदावर्त्तनाशनः ।
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ॥ ३७३ ॥
प्राणाभिजननो मूर्च्छामेदोघ्नः पित्तवातजित् ।
मुगामलकयूषस्तु ग्राही पित्तकफे हितः ॥ ३७४ ॥
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ।
सर्वधान्यकृतस्तद्वद् बृंहणः प्राणवर्द्धनः ॥ ३७५ ॥
खडकोम्बलिकौ हृद्यौ तथा वातकफे हितौ ।
बल्यैः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ॥ ३७६
॥
१ तूणी प्रतूणी च वाऩरोगः । तत्र तूणीप्रतूणीलक्षणं वक्ष्यति निदाने– “ अधो याति वर्चोमूत्राशयोत्थिता । भिन्दतीव गुदोपस्थं सा तूणीत्युपदिश्यते । गुदोपस्थोत्थिता या वेदना सैव प्रतिलोमविसर्पिणी । वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता काम्बलिकौ यूषविशेषौ । तत्र खडो द्विविधः - सतक्रशमीधान्यः सतक्रशाकश्च ॥ ” इति । २ खड़-‘ सतक्राणि शमीधान्यानि स्निग्धानि सप्राहकाणि खलानि ” इति । डलयोरभेदात् । तदुक्तम्-‘ खलः ’ ‘ खढ ’ इति पर्यायौ । सतक्रशाकस्तु – “ कपित्थतक्रचाङ्गेरीमरिचाजाजिचित्रकैः ।
सुपक्कः खड यूषोऽयमथ काम्बलिकोऽपरः । दध्यम्ललवणस्नेहतिलमाषसमन्वितः ” ॥
नलः– “ तिलं सुलुञ्चितं कृत्वा पिष्टं क्षीरे त्र्यहोषितम् । पटे पूतं पचेद्धीमानार्द्रकावापितेः घृते ॥ मरिचाजाजिसामुद्रैर्युक्तस्तिलखडो भवेत् ” । " दधिमस्त्वम्ल सिद्धस्तु यूषः काम्बलिकः स्मृतः । पुनः सौवर्चलाजाजीबीजपूरकसौरभैः । संयोज्यमथितः स्वच्छ एष काम्बलिको भवेत् ॥ ” इति । ३ दाडिमाम्लादिसाधितयूषगुणं निर्दिशति - बल्य -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 463
पाठ पढ़ें पाठ छिपाएँ
1 I अ ० ४६ bigitized by Arya Sama सूत्र नम् and eGangotri
दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः ।
तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ॥ ३७७ ॥
खडोः खडयवाग्वश्च षाडवाः पानकानि च ।
एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ॥ ३७८ ॥
अस्नेहलवणं सर्वमकृतं कटुकैर्विना ।
विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ॥ ३७ ९ ॥
अथ गोरसधान्याम्लफलाम्लैरन्वितं च यत् ।
यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥ ३८० ॥
दधिमस्त्वम्ल सिद्धस्तु यूषः काम्बलिकः स्मृतः ।
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ॥ ३८१ ॥
सिण्डौकी च गुरूणि स्युः कफपित्तकराणि च ।
तद्वञ्च वटकौन्याहुर्विदाहीनि गुरूणि च ॥ ३८२ ॥
लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः ।
तृष्णामूर्च्छा भ्रमच्छर्दिश्रमन्ना रोगषाडवाः ॥ ३८३ ॥
रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी । ३०३ इति । १ खडाः पूर्वोक्तलक्षणाः, खडयूषसिद्धा यवाग्वः खडयवाग्वः, षाडवा: = मधुराम्लयैव्यकृताः, तल्लक्षणम् - " स्पष्टाम्लमधुरोऽस्पष्ट कषायलवणोषणाः । अतिक्ताः षाडवाः कोलक्कुलत्थवदरैः कृताः ॥ ” इति कोलकपित्थवदरैरिति पाठान्तरम् । पान-" कानि = द्राक्षाऽम्लिकाऽऽदिकृतानि पेयानि, तलक्षणम् – “ द्राक्षामधूकखर्जूरकाश्मर्यः सपरूषकाः । तुल्यांशैः कल्पितं पूतं शीतं कर्पूरवासितम् ॥ पानकं पञ्चसाराख्यं दाह-तृष्णानिवर्तकम् । त्रिजातमरिचाद्यैस्तु संस्कृताः पानकास्तथा ॥ ” इति । अन्यदपि आम्रादिफलपानकं मत्कृतदानदीपिकायाष्टिप्पन्यां द्रष्टव्यम् । २ कटुकैः शुष्ट्यादिभि-विंनेत्यर्थः पिण्याकविकृतिः पिण्याकपिष्टकादिः, । ३ तिलविकृतिः लड्डुकादिः, विरूढकम् = अङ्कुरितं विगतरोहं वा मुद्गादि । ४ सिण्डाकी = शुक्तेष्वनासुतार्दो प्राक्कथिता । ५ वटकानि = सिण्ड ( कीवटकानीत्यर्थः । ६ रागः– “ सितारुचकसि-न्धूत्थैः सवृक्षाम्लपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया कृतः ॥ ” इति । ७ रसा-ला = शिखरिणी, तल्लक्षणम् – “ सचतुर्जात काजाजिससितार्द्रकनागरम् । रसाला स्याच्छिखरिणी संघृष्टं ससरं दधि " ॥ अपि च- " अर्धाढकः सुचिरपर्युषितस्य दध्नः खण्डस्य षोडशपलानि शशिप्रभस्य । सर्पिःपलं मधुपलं मरिचं द्विकर्ष शुण्ठ्याः पला-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 464
पाठ पढ़ें पाठ छिपाएँ
३०४ Digitized by Arya Sama रमुक्षुतसंहितायां mand eGangotri [ अ ० ४६ स्नेहेनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ॥ ३८४ ॥
सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः ।
नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ॥ ३८५ ॥
मन्थः सद्योबलकरः पिपासाश्रमनाशनः ।
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्त्तनाशनः ॥ ३८६ ॥
शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् ।
द्राक्षामधूकसंयुक्तः कफरोगनिबर्हणः ॥ ३८७ ॥
त्रियेणोपहितो मलदोषानुलोमनः । गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् तदेव खण्डमृद्वीका शर्करासहितं पुनः । ॥ ३८८ ॥
सौम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ॥। ३८ मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम् । ९ ॥ परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः । ॥ ३ ९ ० ॥ पानकानां यथायोगं गुरुलाघवमादिशेत् ॥ ३९ १ ॥ इति कृतान्नवर्गः । र्धमपि चार्धंपलं विढस्य || सूक्ष्मे पटे सुविमले संस्था । एषा वृकोदरकृता सरसा रसाला मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतपात्र-" इति । स्नेहनमिति १ सगुढदधिगुणमाख्याति— । २ सक्तुमन्थमभिधत्ते — सक्तव इति । सक्तुः प्रकीर्तितः ” इति । ३ वर्गत्रयेण अम्लस्नेहगुढत्रितयेण " यवतण्डुललाजादिचूर्णे नुलोमनः = मलमूत्रनिस्सारणः । ४ तदेव = गौढमेव उपहितो युक्तः, मलदोषा-। ५ साम्लं = = 1 तिन्तिडीकादि द्रव्यसहितम्, सतीक्ष्णं मरिचादितीक्ष्णद्रव्योपहितम् स्यात् = भवेद्, निरत्ययं श्रेष्ठमित्यर्थः ।, सहिमं कर्पूरयुतं तसिल्प्रत्ययः । पानकं ६ सर्वतः = सर्वस्मिन् पानके । सप्तम्यर्थे इति कृतान्नवर्गः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 465
पाठ पढ़ें पाठ छिपाएँ
३६ अ ० ४६ Digitized by Arya Sama सूत्रस्थानम् f Chennai and eGangotri ३०५ वक्ष्याम्यतः परं भक्ष्यौन् रसवोर्यविपाकतः ॥ ३ ९ २ ॥
भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ।
अदोहिनः पुष्टिकराः दीपनाः पित्तनाशनाः ॥ ३ ९ ३ ॥
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ।
वातपित्तहरा वृष्या गुरवो रक्तमांसलाः ॥ ३ ९ ४ ॥
बृंहणा गौडिको भक्ष्या गुरवोऽनिलनाशनाः ।
अदाहिनः पित्तहराः शुक्रलाः कफवर्द्धनाः ॥ ३ ९ ५ ॥
मधुमस्तक संयावाः पूपा ये ते विशेषतः । मधुमस्तकसंयावाः गुरुवो बृंहणाचैव मोदकास्तु सुदुर्जराः ॥ ३ ९ ६ ॥
रोचनो दोपनः स्वर्यः पित्तन्नः पवनापहः ।
गुरुर्मृष्टतमश्चैव सदृकः प्राणवर्द्धनः ॥ ३ ९ ७ ॥
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः । अथ भक्ष्यवर्गः— १ भक्ष्यान् = लड्डुकादीन् । २ श्रदाहिनः = ईषद्दाह सञ्जननाः । ३ घृत-पूराः = ‘ घेवर ' इति ख्याताः । तल्लक्षणम् - " मर्दितां समितां क्षीरनारिकेरसितादिभिः । श्रवगाह्य घृते पक्को घृतपूरोऽयमुच्यते ” ॥ समितां = गोधूमचूर्णम् । प्रकारान्तरम् - गोधू-मचूर्णं सूक्ष्मं च स्वच्छं तस्मिन् घृतं क्षिपेत् यावत्तत् पिण्डतां गच्छेत् पश्चाद्दग्धे विम · दयेत् ॥ फेनयित्वा द्रवीभूते ततः पात्रे घृतं न्यसेत् । सशब्दे सुधृते तप्ते तस्य धाराम · पासृजेत् ॥ यावच्च व्याप्य तत्पात्रं प्रसरेद् घृतपूरकः । यत्किञ्चित्ताम्रतां याले खण्डपक्के निमज्जयेत् ॥ ” इति । ४ गुडेन संसृष्टाः पूपागौडिकाः । ५ ' समिता वेष्टिता मध्ये मधु दत्त्वा शृता धृते । मधुमस्तकमुद्दिष्टम् " । अपि च- " मधु तैलघृतैर्मध्ये वेष्टिताः समिताश्च याः । मधुमस्तकमुद्दिष्ट तस्याख्या परिमार्जनम् ॥ ” इति मधुमस्तका एव मधु-शीर्षका बच्यन्ते इति उल्तणः । तत्र मधुशीर्षकलक्षणमाह नलः – विमर्थं समिताचूर्णं मृदुपाकं गुढान्वितम् । घृतांवगा हे गुडिकां वृत्तां पक्वां सकेशराम् ॥ सौगन्धिकाधिवासां चैव च कुर्यात्पूपलिकां बुधः । स एव खण्डसंयावः सिताम्रातमपूरितः । मातुङ्गात्वचा वेष्टितो मधुशीर्षकः ॥ ” इति । संयवः - संयावस्तु घृतक्षीरगुडरोधूमपाकजः ” । “ समितां संया-घृतदुग्धेन मोदयित्वा सुशोभनाम् । पचेद् घृतोत्तरे स्वन्डे क्षिपेद् भाण्डे नवेततः । घोऽसौ युतश्चूर्णैः खण्डलामरिचार्द्रकैः ॥ इति । पूपाः = ' पूआ’इति ख्याताः । ६ सट्ट-कः— “ लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम् । पक्कं दाडिमसंयुक्तं चन्द्रचूर्णव-२० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 466
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation nnai and eGangotri ३०६ [अ ० ४६ वाता पहस्तृप्तिकरो बल्यो विष्यन्दनः स्मृतः ॥ ३ ९ ८ ॥
बृंहणाः वातपित्तघ्ना भक्ष्या बल्यास्तु सोमिताः ।
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥ ३ ९९ ॥
मुद्रादिवेस वाराणां पूर्णा विष्टम्भिनो मताः ।
वैसवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः ॥ ४०० ॥
पार्ललाः श्लेष्मजननाः, शष्कुल्यः कफपित्तलाः ।
वीर्योष्णाः पैष्टिंका भक्ष्याः कफपित्तप्रकोपणाः ॥ ४०१ ॥
विदाहिनो नातिबला गुरुवश्च विशेषतः ।
वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः ॥ ४०२ ॥
विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः 1 बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः ॥ ४२३ ॥
' कूचिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ।
११ विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥ ४०४ ॥
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ।
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः ॥ ४०५ ॥
वातपित्तहरा बल्या वर्णंदृष्टिप्रसादनाः ।
विदाहिनस्तैलकृता गुरवः कटुपाकिनः ॥ ४०६ ॥
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ।
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः ॥ ४०७ ॥
चूर्णितम् । सट्टकं पाचका आहुः ॥ ” इति । १ विषयन्दनः– “ आमगोधूमचूर्णं च सर्पिः क्षीरगुडान्वितम् । नातिसान्द्रो नातिघनोविष्यदो नाम नामतः ॥ इति । २ समिता गोधूमचूर्णं तत्कृताः सामिता इति फेनकादिविशेषणम् । ३ फेनकाः – “ विमर्थं विमलां शुक्लां समितां नातिशर्कराम् । संवेष्टनाय गर्भार्थं खरपाकं घृते पचेत् । फेनकं फेनस-ङ्काशं सम्पूर्णंशशिसन्निभम् ॥ ” इति । ४ पूर्णाः = पूरितगर्भाः । ५ सम्पूर्णाः = सम्पू · रितगर्भाः । ६ पल्लं तिलचूर्णे गुडाद्युपेतं तेन कृता: पाललाः । ‘ पललं तिलचूर्णे च इति मेदिनी । ७ पिष्टकं तण्डुलचूर्णं ' तेन कृताः पैष्टिकाः । ८ विदला मुद्गादयस्तैः कृता वैदलाः । ९ सृष्टमारुताः = बहुवाताः । १० कूर्चिका क्षीरविकृतिस्तया विकृता विविधप्रकाराः कृताः कुचिकाविकृताः । ११ विरूढककृताः = अङ्कुरितमुद्गादि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 467
पाठ पढ़ें पाठ छिपाएँ
३ अ ० ४६ Bigitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ।
कैपालाङ्गारपकास्तु लघवो वातकोपनाः ॥ ४०८ ॥
सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ।
सकिलोटादयो भक्ष्या गुरवः कफवर्द्धनाः ॥ ४० ९ ॥
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ।
उदावर्त्तहरो वाटयः कासपीनस मेहनुत् ।
धौनोलुम्बास्तु लघवः कफमेदोविशोषणाः ॥ ४१० ॥
सक्तैवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः ।
पीताः सद्यो बलकरा भेदिनः पवनापहाः ॥ ४११ ॥
गुर्वी पिण्डी खराऽत्यथ लध्वी सैव विपर्ययात् ।
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ॥ ४१२ ॥
लाजाच्छद्येतिसारन्ना दीपनाः कफनाशनाः । ३०७ बल्याः कषायमधुरा लघवस्तृण्मलापहाः ॥ ४१३ ॥
तृट्छर्दिदाहघमर्त्तिनुदस्तत्सक्तवो मताः ।
रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ॥ ४१४ ॥
पृथुकी गुरवः स्निग्धा बृंहणाः कफवर्द्धनाः ।
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥ ४१५ ॥
सन्धानकृत्पिष्टमामं “ ताण्डुलं कृमिमेहनुत् ।
सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ।
सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः ॥ ४१६ ॥
कृताः । १ कपालः खर्परः, अङ्गारः ज्वलदङ्गारस्तत्र पक्का: कपालाङ्गारपक्काः मण्डका • दिकर्कटीप्रभृतयः । २ किलाटः - नष्टक्षीरभागः, तदुक्तम् — “ नष्टदुग्धस्य पक्कस्य पिण्ड: प्रोक्तः किलाटकः । ” इति । आदिशब्दादामिक्षातकादयः, तैः सह वर्तमानाः सकिला-टादयः । ३ “ अर्द्धस्विन्नाश्च गोधूमा अन्ये च चणकादयः । कुल्माषा इति कथ्यन्ते ” इति । ४ वाट्यः = भृष्टयवादिकृतः । ५ धानाः = भृष्टयवाः, उलुम्बाः = अग्निप-क्काश्चणकादिसिम्बा: ‘ होरहा ' इति ख्याताः । ६ सक्तवः = भृष्टयवचूर्णानि । ७ विप-र्ययात् = नातिखरत्वाद् ८ इति ख्याताः । मृदुरित्यर्थः । पृथुकाः = चिपिटकाः, ‘ चिउड़ा ' ९ सक्षीरभावात् = क्षीरयोगात् । १० श्रमम् = अपक्कम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 468
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ३०८ [ अ ० ४६ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु ।
यथाकौरणमासाद्य भोक्तृणां छन्दतोऽपि वा ।
अनेकद्रव्य योनित्याच्छास्त्रतस्तान् विनिर्दिशेत् ॥ ४१७ ॥
अतः सर्वानुपानान्युपदेक्ष्यामः ।
अम्लेन केचिद्विता मनुष्या माधुर्ययोगे प्रणयीभवन्ति ।
तथाऽम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ॥ ४१८ ॥
' शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् ।
यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रया तत् ॥ ४१ ९ ॥
व्याधिं च कालं च विभाव्य धीरैर्द्रव्याणि भोज्यानि च तानि तानि ।
सर्वानुपानेषु वरं वदन्ति मेध्यं यदम्भः १० शुचिभाजनस्थम् ॥ ४२० ॥
लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः ।
सङक्षेप एषोऽभिहितोऽनुपानेष्यतः परं विस्तरतो विधाये ॥ ४२१ ॥
उष्णोदकानुपानं तु स्नेहानामथ शस्यते ।
ऋते ' ' भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ॥ ४२२ ॥
१ अत्र – “ यदा कारणमासाद्य भोक्तृणां छन्दतोऽपि वा । भक्ष्यादयः प्रकल्प्याः स्युस्तदा सुनिपुणो भिषक् ॥ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु । अनेकद्रव्ययो • नित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ॥ ” इति श्रीहाराणचन्द्रस्त्रीकृतपाठः । २ यथाका-रणं = यथादोषादिप्रकोपम्, आसाद्य = प्राप्य, भोक्तृणां छन्दतः = अभिलाषतः अनैक-द्रव्ययो नित्वाद् भक्ष्यादीनामिति शेषः ३ शास्त्रतः = शास्त्रानुसारेण, तान् = द्रव्यसंयोगसंस्कारविकारान् । ४ विनिर्दिशेत् = गुणत उपदिशेदित्यर्थः । इति भक्ष्यवर्गः । अथानुपानवर्गः– ५ अन्नादनु पश्चात्पीयन्ते इत्यनुपानानि श्राहारमनु लक्षीकृत्य पीयन्ते यानि तान्यनुपानानि वा । ६ विहताः = उद्वेजिताः । ७ प्रणयीभवन्ति = अभिलाषिणो भवन्ति । ८ यथेष्टं = यथेप्सितम्, अम्लतृप्तस्य मधुरं मधुरतृप्तस्याम्लं_पथ्यम् अनु पानं प्रवदन्तीत्यर्थः । ९ अनुपानद्रव्याणि सङ्गृह्योपपादयति – शीतेत्यादिना । १० अम्भः = श्रन्तरिक्षं जलम् । ११ अत्यन्तोष्णस्य भल्लातकस्य तैलं विनेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 469
पाठ पढ़ें पाठ छिपाएँ
1 अ ० ४६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् ॥
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ॥ ४२३ ॥
दधिपायसमद्यार्त्ति विषजुष्टे तथैव च ।
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ॥ ४२४ ॥
यो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम् ।
युद्धाध्वातपसन्तापविषमद्यरुजासु च ॥ ४२५ ॥
माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा ।
मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ॥ ४२६ ॥
अमद्यपानामुदकं फलाम्लं वा प्रशस्यते । ३० ९ क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ॥ ४२७ ॥
सुरा कृशानां स्थूलानामनुपानं मधूर्दकम् ।
निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्त्तितम् ॥ ४२८ ॥
स्निग्धोष्णं मारुते पथ्यं, कफे रूक्षोष्णमिष्यते ।
अनुपानं हितं चापि पित्ते मधुरशीतलम् ॥ ४२ ९ ॥
हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा ।
अर्कलुशिरीषाणामास वास्तु विषात्तिषु ॥ ४३० ॥
अतः परं तु वर्गाणामनुपानं पृथक् पृथक् ।
प्रवक्ष्याम्यानुपूर्वेण सर्वेषामेव मे शृणु ॥ ४३२ ॥
तत्र पूर्वसस्यजातीनां बदराम्लं, वैदलानां धान्याम्लं जङ्घा-लानां धर्व्वजानां च पिप्पल्यासवः, विष्किराणां कोलबदरासवः, प्रतुदानां क्षीरवृक्षासवः, गुहाशयानां खर्जूरनालिकेरासवः, प्रसहा-नामश्वगन्धाऽऽसवः, पर्णमृगाणां १० कृष्णगन्धासवः, बिलेशयानां १ सुखोदकं = मन्दोष्णजलम् । २ सन्तापः = अग्न्यादितापः । ३ भाप्यम् = उच्चैर्भा षणम् । ४ समशिन मधुना मिश्रमुदकं मधूदकम् । ५ चित्रं = त्निग्धरूक्षोष्णमधुरा-द्यनेकविधम् ७ विषार्तिषु = विष-। ६ शेलुः = श्लेष्मातकः, ‘ लिसोड़ा ' इति ख्यातः । पीडासु । ८ पूर्वसस्यजातीन = शालिवर्गपठितानामन्नसमूहानामित्यर्थः । ९ धन्वजानां = मरुदेशजानां मृगाणां, वर्तकादीनां पक्षिणां वा । १० कृष्णगन्धासवः = शोभाञ्जनासवः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 470
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४६ ३१० सुश्रुतसंहिताया-फलसौरासवः, एकशफानां त्रिफलाऽऽसवः, अनेकशफानां खदिरा-सवः, कूलचरार्णा शृङ्गाटककशेरुकासवः, कोशवासिनां पादिनां च स एव, प्लवानामिक्षुरसासवः, नादेयानां मत्स्यानां मृणालासवः, सामुद्राणां तु मातुलुङ्गासवः, अम्लानां फलानां पद्मोत्पलकन्दासवः, कपायाणां । दाडिमवेत्रासवः, मधुराणां त्रिकटुकयुक्तः खण्डासवः, तालफलादीनां धान्याम्लम्, कटुकानां दूर्वानलवेत्रासवः, पिप्पल्या-दीनां श्वदंष्ट्राव सुकासवः; कूष्माण्डादीनां दार्वीकरीरासवः, चुच्चुप्रभृ-तीनां लोध्रासवः, जीवन्त्यादीनां त्रिफलाऽऽसवः, कुसुम्भशाकस्य एव मण्डूकपर्ण्यादीनां महापञ्चमूलासवः, तालमस्तकादीनामम्लफला- स सवः, सैन्धवादीनां सुरासव आरनालं च, तोयं वा सर्वत्रेति॥४३२ ॥
• भवन्ति चात्र ।
सर्वेषामनुपानानां महेन्द्रं तोयमुत्तमम् ।
सात्म्यं यस्य तु ' ' यत्तोयं तन् तम्मै हितमुच्यते ॥। ४३३ ॥
उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् ।
दोषवद् I गुरु वा भुक्तमतिमात्रमथापि वा ॥ ४३४ ॥
यथोक्तेनानुपानेन " सुखमन्नं प्रजीर्यति ।
रोचनं बृंहणं वृष्यं दोषसङ्घातभेदनम् ॥। ४३५
तर्पणं मार्दवकरं श्रमक्लमहरं सुखम् ॥
।
दीपनं दोषशमनं पिपासाच्छेदनं १३ परम् ॥ ४३६
बल्यं वर्णकरं सम्यगनुपानं सदोच्यते ॥।
98 ११ तदादौ कर्शयेत्पीतं स्थापयेन्मध्य सेवितम् ॥ ४३७ ॥
१ फलानि दाडिमादीनि साराः शालसारादयस्तेषामासवः गादीनामनेकशफानामित्यर्थः । फलसारासवः । २ छा-३ कषायाणां = क्षीरवृज्ञादिफलानाम् । ४ मधुराणां द्राक्षाऽऽदीनां फलानां त्रिकटुकयुक्तः खण्डासवः शर्कराऽऽसवः मित्यर्थः । ६ श्त्रदंष्ट्रा = गोक्षुरकः । ५ कटुकानां फलाना-त्यर्थः, वसुकः = बुकः । ७ तालमस्तकमज्जादीनामि-1 ८ आरनालं = काञ्जिकम् । ' ९ माहेन्द्रम् = आन्तरिक्षमित्यर्थः । १० यत्तो-यं = नदीनदसरस्तडागादिजलम् । ११ दोषवद = वातादिदोषकरम् अदोषम् । १३ परम् अतिंशयेन सदोच्यते सर्वदा कथ्यते इति सम्बन्धः ॥ १२ १४ सुखम् अनुपा- = CC - 0. Gurukul Kangri Collection, Haridwar