सुश्रुत संहिता चौखम्बा — पृष्ठ 471–480

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 471–480

पृष्ठ 471

सुश्रुत संहिता चौखम्बा, पृष्ठ 471 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।

पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् ।

स्थिरतां गतमक्लिन्नमन्नमद्रवपायिनाम् ॥ ४३८ ॥

भवत्याबाधैजननमनुपानमतः पिबेत् ।

न पिबेच्छ्वासकासार्त्तो रोगे चाप्यूर्ध्वजैत्रुगे ॥ ४३ ९ ॥

क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः ।

पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीर्लंयेत् ॥ ४४० ॥

प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् ।

स्यन्दीग्निसादच्छर्यादीनामयाञ्जनयेद् बहून् ॥ ४४१ ॥

गुरुलाघवचिन्तेयं स्वर्भावं नातिवर्त्तते ।

तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ॥। ४४२ ॥

मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः ।

जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ॥। ४४३ ॥

बलिनः " खरभक्ष्या ये ये च दीप्ताग्नयो नराः । ३११ नस्य भोजनादिमध्यान्तविभागेन गुणविशेषं दर्शयति - तदिति । तद् अनुपानं भोजनस्यादौ पीतं सेवितं कर्शयेत् शरीरस्य कृशत्वमापादयेत्, मध्यसेवितं स्थापयेत् । स्थाघातोर्गतिनिवृत्त्यर्थत्वान्न कर्शयति नापि च स्थूलयति, अपि तु समं करोतीत्यर्थः । पश्चात् पीतं बृंहयति शरीरं पुष्णाति तस्माद्वीक्ष्य प्रयोजयेत् । श्रर्थात्कार्यमिच्छताऽऽदौ मध्यशरीरमिच्छता मध्ये पुष्टिमिच्छताऽन्तेऽनुपानं प्रयोक्तव्यमिति निष्कर्षः । १ अद्र-वपायिनाम् = अनुपानमपिबताम् । २ श्राबाधजननं = पीडाकरम् । ३ ऊर्ध्वज-त्रुगे = ग्रीवामूलोपरितनभागे, नासाकर्णादिगतरोगे इत्यर्थः । ४ प्रसेकी = लालास्रावी । ५ अनुपानसेवनानन्तरं वर्ज्यान्निर्दिशति = पीत्वेति । ६ न शीलयेत् = न सेवेत । ७ स्यन्दं = श्लेष्मस्रवणम् । ८ स्वभावं = नैसर्गिकीं गुर्वाद्याहारसात्म्यताम् । ९ उ • त्तरोत्तरम् = स्वभावात्संस्कारं संस्कारान्मात्रां मात्रातोऽन्नम् अन्नात्कालं गुरुलाघवचिन्ता नातिवर्तते नातिक्रामतीत्यर्थः । ' नातिवर्तते ' इति क्रियापदमनुकृष्य संस्कारादावन्वयात् संस्कारं नातिवर्तते, मात्रां नातिवर्तते, अन्नं नातिवर्तते, कालं नातिवर्तते इति बोध्यम् । संस्कारं नातिवर्तते, यथा स्वभावाद् गुरोरपि व्रीहेर्लाजा लघवः, लघोरपि शालेः संस्क-रात् पिष्टं गुरुः । आत्रेयोऽपि – “ गुरूणां लाघवं विद्यात्संस्कारात्सविपर्ययम् । व्रीहे-र्लाजा यथा च स्युः सक्तूनां सिद्धपिण्डकाः ॥ " इति । एवं मात्राऽऽदीनां बोध्यम् । अत्र विस्तरभिया चणकादिभोजना इत्यर्थः । विरम्यते । १० खरभक्ष्याः = श्रमृदु CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 472

सुश्रुत संहिता चौखम्बा, पृष्ठ 472 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१२ II कर्मनित्या:: १ सुश्रुतसाहताया-[ अ ० ४६ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri कर्म नित्यश्च ये तेषां नावश्यं परिकीर्त्यते ॥ ४४४ ॥

इति सर्वानुपानवर्गः ।

अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु ।

औप्तान्वितमसङ्कीर्णं शुचि काय महासम् ॥ ४४५ ॥

तत्राप्तैर्गुणसम्पन्नमन्नं भक्ष्यं सुसंस्कृतम् ।

शुचौ देशे सुसंगुप्तं समुपस्थापयेद् भिषक् ॥ ४४६ ॥

विपन्नैरगदैः स्पृष्टं प्रोक्षितं व्यंजनोदकैः ।

सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्त्रं निवेदयेत् ॥ ४४७ ॥

वक्ष्याम्यतः परं कृत्स्नमाहारस्योपकल्पनाम् ।

घृतं कार्ष्णायसे देयं पेया देया तु राजते ॥ ४४८ ॥

फलानि सर्वैभक्ष्यांश्च प्रदद्याद्वै दलेषु च ।

परिशुष्क प्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥ ४४ ९ ॥

" प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ।

" कट्वराणि खडांश्चैव सर्वान् शैलेषु _१२ दापयेत् ॥ ४५० ॥

दद्यात्ताम्रमये पात्रे सुशीतं सुतं पयः ।

पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ॥ ४५१ ॥

काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । = सदा कर्मकारिणः । २ गुरुलाघव चिन्तेति शेषः । इत्यनुपानवर्गः । ०३ श्राप्तैर्विश्वस्तैरन्वितं युक्तम् । ४ महानसं = पाकशालम् । ५ विषघ्नैः = विषहारिभिः । ६ व्यजनं तालवृन्तं तदपि विषघ्नभेषजोदकैः प्रोक्षितं सिक्तम् । ७ कार्ष्णायसे = कृष्णलौद्दमये पात्रे | ८ वैशब्दः पादपूरणे, दलेषु = पत्रेषु; ‘ पत्रं पलाशं हृदनं दलं, पर्णं छदः पुमान् ' इत्यमरः । श्रीहाराणचन्द्रमते ‘ वैदलेषु ’ इत्यस्य वंशादिरचितेषु इत्यर्थो बोध्यः । ९ “ सिक्तं बहुघृते भृष्टं मुहुरुष्णाम्बुना मृदु । जीरकाद्यैर्घनं मांसंपरिशुष्कं तदुच्यते । तदेव गोरसादानं प्रदिग्धमिति विश्रु-तम् ॥ ” इति । १० प्रद्रवाणि = प्रकृष्टद्रवाणि मण्डादीनि " सौवीराम्लं । ११ तथाऽत्यम्लं काञ्जिकं कटवरं विदुः ” इति । १२ शैलेषु = पाषाणमयेषु पात्रेषु ।

पृष्ठ 473

सुश्रुत संहिता चौखम्बा, पृष्ठ 473 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] Digitized by Arya Samaj, Foundation Chennai and eGangotri

सूत्रस्थानम् ।

दद्याद्वैदूर्य पात्रेषु रागषाडवसट्टकान् ॥ ४५२ ॥

पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे 1 सूदः सूपौदनं दद्यात् प्रदेहोंश्च सुसंस्कृतान् ॥ ४५३ ॥

फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च ।

तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥ ४५४ ॥

प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः ।

खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥ ४५५ ॥

सर्वान् गुडविकारांञ्च रागषाडवसट्टकान् ।

पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ १५६ ॥

एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।

भोक्तारं विजने रम्ये निःसम्पाते शुभे शुचौ ॥ ४५७ ॥

सुगन्धपुष्परचिते सँमे देशेऽथ भोजयेत् ।

विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ॥ ४५८ ॥

मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।

पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ॥ ४५ ९ ॥

पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् । ३१३ आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥ ४६० ॥

ततः पेयस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् ।

१॰घनं पूर्व समश्नीयात् केचिदाहुर्विपर्ययम् ॥ ४६१ ॥

आदावन्ते च मध्ये च भोजनस्य तु शस्यते । १ वैदूर्यपात्रेषु = बिढालनेत्राभमणिनिर्मितपात्रेषु ' । १२ सूपेन मुद्रादिद्विदलेन सिहित-मोदनं भक्तं सूपौदनम् । ३ प्रदेहान् = प्रलेहान्, ' चटनी ' इति प्रसिद्धान् । ४ निः-सम्पाते = वितानसहिते । निःसम्बाधे ‘ ' इति पाठान्तरम् । ५ समे = निम्नोन्नतत्वरहिते देशे । ६ प्रत्यग्रम् = अभिनवम्, सद्यस्कमिति यावम् । ७ यतो भोजनात् प्राग्भुक्तो मधुरो रसः पक्काशयगतं वायुं नयति, भोजनस्य मध्ये भुक्तावलवणौ पित्ताशयेऽग्नि दीप्तिं कुरुतः, भोजनान्ते सेविताः शेषाः कट्वादयः कफजयं कुर्वन्ति अतो वैद्यस्तदा तदा तत्तत्पदार्थमवचारयेदिति वातं जयति ॥ ८ यतः प्रथमं भुक्तो दाडिमाद्यम्लो ९ पेयान् = पातव्यान्, भोज्यान् = रक्तशात्यादीन् । १० घनं भोज्यादिकठिनं पूर्वं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 474

सुश्रुत संहिता चौखम्बा, पृष्ठ 474 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३.१४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० ४३ निरंत्ययं दोषहरं फलेष्वामलकं नृणाम् ॥ ४३२ ॥

मृणालविसशालूककन्देक्षुप्रभृतीनि च ।

पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ॥ ४६३ ॥

सुखमुच्चैः: समासीनः समदेहोऽन्न तत्परः ।

काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् ॥ ४६४ ॥

बुभुक्षितोऽन्नमश्नीयान् मात्रावद्विदितागमः ।

काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते ॥ ४६५ ॥

लघु शीघ्रं व्रजेत पाकं स्निग्धोष्णं बलवह्निदम् ।

क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ॥। ४६६ ॥

सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च ।

अतीवयतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥ ४६७ ॥

समश्नीयात् । केचिद् विपर्ययम् अर्थात् पूर्वद्रवं पश्चात् कठिनमाहुः । १ निरत्ययं = निर्वाधम् । २ भोजनप्रकारं प्रतिपादयति - सुखमिति 1 । सृखं सुखपूर्वकम् उच्चैरुच्चा-सने समासीनः सम्यगुपविष्टः, अन्नतत्परोऽन्नपरायणः, न जल्पनादावासक्तः । तथा च स्मृति: – “ प्रजल्पन्नइसन् तन्मना भुञ्जीत " इति । काले = नित्यगे आवस्थिके च द्विविधे काले, तत्र नित्यगः– “ याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् । याममध्ये रसो-त्पत्तिर्यामयुग्माद् बलक्षयः ॥ ” इति । आवस्थिकः – “ क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च । काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ॥ ” इति । सात्म्यं हितकारि, लघु, स्निग्धं, क्षिप्रं नातिद्रुतं नातिविलम्बितम् । तथा चात्रेय: – “ नातिद्रुतमश्नीयात् तथा नातिविलम्बितमश्नीयात् ” इति । उष्णं, द्रवोत्तरं द्रवप्रधानम्, बुभुक्षितः भोजनकाले बुभुक्षितः, श्रकाले बुभुक्षानिषेधं स्वयमेव वक्ष्यति – “ भवत्यकालेऽपि तदा बुभुक्षाया मन्दबुद्धिं विषवन्निहन्ति ” । मात्रावत्, न त्वमात्रावत्; श्रन्यथाऽशुभं स्यात् । तदुक्तं चरके— “ त्रिविधं कुक्षौ स्थापयेदवकाशांशमाद्दारमुपयुञ्जानः, तद्यथा – एकमवकाश शिं मूर्त्तानामाहारविकाराणामेकं द्रवाणामेकं पुनर्वातपित्तश्लेष्मणाम्, एतावत ह्याहारमात्रा मुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति ” । “ अपीडनं भवेत्कुक्षेः पार्श्वयोरवि-पाटनम् । अन्नेन हृदयाबाधो जठरस्य तु गौरवम् ॥ प्रीणनं चक्षुरादीनां शमनं क्षुत्पि पासयोः । उच्छ्वासश्वासहास्यादिकथासु सुखवर्तनम् । सुखेन परिणामः स्यादन्ने भुक्ते दिवा निशि ” ॥ त्रिदितागमः हेयोपादेयविवेकार्थ ' विदितं हिताहितं येन स विदि-तागमः । ३ अतीवायतयामाः = अतिशयदीर्घप्रहराः हेमन्त शिशिरेषु ॥ ४ ऋतुषु = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 475

सुश्रुत संहिता चौखम्बा, पृष्ठ 475 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३ अ ० ४६ ] = च घु, था या तं T. व-म. ने सूत्रस्थानम् । ३१५ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri

तेषु तत् प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु ।

येषु चापि भवेयुश्च दिवसा भृशमायताः ॥ ४६८ ॥

तेषु तत्कालविहितमपराह्ने प्रशस्यते ।

रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥ ४६ ९ ॥

कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् ।

नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ॥ ४७० ॥

प्राप्तकाले भुञ्जानः शरीरे लघौ नरः ।

तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ॥ ४७१ ॥

अतीतकाले भुञ्जानो वायुनोपहतेऽनले ।

कृच्छ्राद्विपच्यते भुक्तं द्वितीयञ्च न काङ्क्षति ॥ ४७२ ॥

हीनमात्रमसन्तोषं करोति च बलक्षयम् ।

आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकंम् ॥ ४७३ ॥

तस्मात् सुसंस्कृतं युक्त्या दो ैरेतैर्विवर्जितम् ।

यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ॥ ४७४ ॥

विभज्य दोषकालादीन् कालयोरुभयोरपि ।

अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ॥ ४७५ ॥

द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् ।

चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ॥ ४७६ ॥

१ प्रत्यनीकाढयं = कालबलप्रवृत्तदोषगुणानां विरोधिद्रव्यगुणबहुलमित्यर्थः । २ येषु = ग्रीष्मप्रावृट्सु । · ३ द्रवस्निग्धमधुरप्रायमित्यर्थः । ४ येषु = शरवसन्तेषु । ५ अहोरात्रं समं कृत्वा मध्याह्ने इत्यर्थः । ६ अकालमात्रावत्त्वं निर्दिशति - नाप्रा-प्तेति । श्रप्राप्तकालमतीतकालं वा न भुञ्जीतेत्यर्थः । ७ अधिकभोजने मनुरपि दोषमाह्– “ अनारोग्यमनायुष्यमस्वयं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्त-त्परिवर्जयेत्॥ ” इति । ८ उभयोः कालयोः - सायं प्रातः । मनुरपि " सायं प्रातर्द्वि-जातीनामशनं स्मृतिनोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ ” इति । ९ हेयान्नं निर्दिशति — अचोक्षमिति 1 । श्रचोक्षम् = अशुचिम्, ' चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः । ' इति मेदिनी । दुष्टं विषादिभिः, उत्सृष्टम् = उच्छिष्टम्, पाषाण तृणलोष्टानि विद्यन्तेऽस्येति द्विष्टं = पाषाणतृणलोष्टवत् पाषाणादियुक्तमित्यर्थः ।

पृष्ठ 476

सुश्रुत संहिता चौखम्बा, पृष्ठ 476 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ३१६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० ४६

अशान्तंमुपदग्धं च तथा स्वादुं न लक्ष्यते ।

यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ॥ १७७ ॥

प्रक्षालयेदद्भिरास्यं भुञ्जानम्य मुहुर्मुहुः ।

विशुद्धरसने तस्मै रोचतेऽन्नमपूर्ववत् ॥ ४७८ ॥

स्वादुन तस्य रसनं प्रथमेनातितर्पितम् ।

न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ॥ ४५ ९ ॥

सौमनस्यं बलं पुष्टिमुत्साहं हर्षां सुखम् ।

` स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ॥ ४८० ॥

भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् ।

अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ॥ ४८१ ॥

दन्तान्तरगतं चान्नं शोधने नाह रेच्छनैः ।

कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ॥ ४८२ ॥

जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेव तु ।

भुक्तमात्रे कफश्चापि तस्माद् भुक्तेरितं.१० कफम् ॥ ४८३ ॥

धूमेनापो हृद्यैर्वा कषायकटुतिक्तकैः । मनःप्रतिघाति, व्युषितं S विशेषेणोषितं, चिरकालावस्थितमित्यर्थः । अशान्तं = १ किञ्चिदवशिष्टविस्रावणम्, अत्युष्णमित्यर्थः । उपदग्धम् = अतिपाकित्वेन ज्वलितम्, चकाराद् यथायथं यन्न सिद्धं तदपि समुच्चेयम् । २ यत् स्वादुतरं संस्कृतं मधुरर-सादिकमस्ति तद् उत्तरोत्तरं यदधिकाधिकं स्वादुकरं तद् विदध्यात्, कोऽर्थः? दद्याद् वैद्य इति शेषः । ३ प्रक्षालयेत् स्वादुतरपदार्थस्य = गण्डूषं कारयेत् । ४ दानावसरे प्रतिवारं गण्डूषकरणस्य फलमाह – स्वादुनेति । ५. स्वाद्वन्नस्य गुणं प्रतिपादयति - सौमनस्यमिति । ६ प्रार्थयते = यत् किमपि मुद्गमोदकादिकं याचते; तदेव स्वाद्वन्नं विज्ञेयमित्यर्थः । ७ श्रशितः = भुक्तो जनः, युक्त्या - • यथाऽजीर्णादि-बाधो न भवेत्तथा मात्रयेत्यर्थः । भुञ्जानश्चान्तरा भोजनमध्ये उदकं पिबेत् । श्रीभावमि-श्रस्तु भोजनान्तेऽन्ने जीर्णे सत्यभूरि जलं सेवितुमुपदिशति – “ अत्यम्बुपानाच्च विप-च्यतेऽन्नं निरम्बुपानाच्च स एव दोषः । तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिवे-दभूरि ॥ ” इति । ८ शोधनेन = तृणादिना दन्तधावनेन । वाग्भटे भोजनानन्तरमपि दन्तधावनविधानमुपदिष्टम्– “ प्रातर्भुक्खा च मृद्वयं कषायकटुतिक्तकम् । भक्षयेद्दन्तप-वनं दन्तमांसान्यबाधयन् ॥ ” इति । ९ विदग्धे = किञ्चित्पक्वे । १० भुक्तेरितं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 477

सुश्रुत संहिता चौखम्बा, पृष्ठ 477 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४६ ] ३६ र--य द. -प. -ध म. = सूत्रस्थानम् The ३१७ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Epundation Chennai and eGangotri पूगकङ्कोलकर्पूरलवङ्गसुमनैः फलैः ॥ ४८४ ॥

फलैः कटुकषायैर्वा मुखवैशद्यकारकैः ।

ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥ ४८५ ॥

भुक्त्वा राजवदासीत यावदन्नक्लमो गतः ।

ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ॥ ४८६ ॥

शब्दरूपरसान् गन्धान् स्पर्शाश्च मनसः प्रियान् ।

भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ॥ ४८७ ॥

शब्दरूपरसाः स्पर्शा गन्धाश्चापि जुगुप्सिताः ।

शुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ॥ ४८८ ॥

शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्रवोत्तरम् ।

नाग्न्यातपो न प्लवनं न यानं नापि वाहनम् ॥ ४८ ९ ॥

न चैकरससेवायां प्रसज्येत कदाचन ।

शाकावरौन्नभूयिष्ठमम्लं च न समाचरेत् ॥ ४ ९ ० ॥

एकैकशः समस्तान् वा नाध्यश्नीयाद्रसान् सदा ।

प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ॥ ४ ९ १ ॥

पूर्वमुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् ।

मात्रगुरुं परिहरेदाहारं द्रव्यतश्च यः ॥ ४ ९ २ ॥

पिष्टान्नं नैव भुञ्जीत १ " मात्राया वा बुभुक्षितः । भोजनेन = जातीफलैः । २ राजवदासोत = भद्रासने-वर्द्धितम् । १ सुमनःफलैः नासीत, यावदन्नभक्षणजन्येन्द्रियार्थप्रबाधकश्रमो भवेत् । भद्रासनलक्षणम् - " सोमन्याः पार्श्वयोर्न्यस्यॆद् गुल्फयुग्मं सुनिश्चलम् । वृषणाधः पादपाणि पाणिभ्यां परिबन्धयेत् ॥ ” इति । ३ संविशेत् = निद्रारहितं शयीत | ४ जुगुप्सिताः = मनसोऽप्रियाः । नि-न्दिता इत्यर्थः । विशेषमाहात्रेयः – “ व्यायामं च व्यवायं च धावनं यानमेव च । युद्धं गीतं च पाठं च मुहूर्तं भुक्तवांस्त्यजेत् ॥ ” इति । मुहूर्त = द्वादशक्षणम् ( ४८ मिनिट । ५ द्रवोत्तरं द्रवाढ्यमशनं नाग्न्यादीनिच्छेदिति सम्बन्धः । ६ अवरान्नं = द्विदला · नम्, अम्लं च न समाश्रयेद् न भक्षयेत् । ७ नाध्यश्नीयात् == नाधिकं भक्षयेत् । ८ प्राग्भुक्ते पूर्वं भोजने कृते तु श्रग्नौ अविविक्ते अविशुद्धे सति द्विरन्नं द्वितीयवार-मन्नं न समाचरेद् लघूनामपि मात्रागुरुं मा-न भुन्जीतेत्यर्थः । ९ मुद्गादिद्रव्याणां जातो गुरुमाहारं परिहरेत्, माषादिद्रव्यतो गुरुमाहारमपि परिहरेदित्यर्थः । १० मात्र-

पृष्ठ 478

सुश्रुत संहिता चौखम्बा, पृष्ठ 478 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१८ I Digitized by Arya Samaj Foundation Chennat and eGangotri सुश्रुतसंहिताया-[ अ ० ४६

द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति ।

पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ॥ ४ ९ ३ ॥

गुरूणामर्द्धसौहित्यं ' लघूनां तृप्तिरिष्यते ।

द्रवोत्त॑रो द्रवश्चापि न मात्रागुरुरिष्यते ॥ ४ ९ ४ ॥

द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते ।

विशुष्कमन्नमभ्यैस्तं न पाकं साधु गच्छति ॥ ४ ९ ५ ॥

पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।

स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ॥ ४ ९ ६ ॥

विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते ।

शुष्कं विरुद्धं विष्टम्भि वह्निव्यापद्मावहेत् ॥ ४ ९ ७ ॥

आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।

अजीर्ण केचिदिच्छन्ति चतुर्थ रसशेषतः ॥ ४ ९ ८ ॥

१० अत्यम्बुपानाद्विषमाशनाद्वा " सन्धारणात् स्वप्नविपर्ययाच्च ।

कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥१९९ ॥

या = अल्पपरिमाणेन पिष्टान्नं भुन्जीत वा बुभुक्षितश्चेत् । चरकः- “ गुरुपिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि । न जातु भुक्तवान् खादेन्मात्रां खादेद् बुभुक्षितः ॥ ” इति । १ पेयं = क्षीरादि, लेह्यं = मध्वादि, श्राद्यं = भक्तादि, भक्ष्यं = लड्डुकादि, एतेषां यथोत्तरं गुरुत्वं जानीयादित्यर्थः । २ सुहितस्य तृप्तस्य भावः सौहित्यम् । अर्धसौ हित्यम् = अर्धंतृप्तिपर्यन्तम् । चरकः - " द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते ” इति ३ द्रवात् क्षीरादेरुत्तरः अधिकः द्रवः पेयादिः । ४ सम्य-गेवोपपद्यते = अदोषकरं भवति । ५ अभ्यस्तं सेवितं द्रवप्राचुर्यमन्तरेण न साधु समी-चीनतया पाकं गच्छतीत्यर्थः । ६ असंक्लिन्नं = सम्यगाद्रौं भावमनापन्नम् । अत पिण्डीकृतं विदाहं विदग्धतां किञ्चित्पाकमिति यावत्, उपगच्छति प्राप्नोति । ७ अन्नवहे स्रोतसि = श्रामाशये, पक्तौ = पित्तधरायां कलायां वा यस्य पित्तं विदग्धं सत्तिष्ठति, तस्यापि भुक्तं विदाहि अन्यद् श्रविदाहि वाऽन्नं विदह्यते इति सम्बन्धः । ८ शुष्कं = पिष्टान्नादि, विरुद्धं = क्षीरमत्स्यादि, विष्टम्भि = गुडगुडाशब्दकारिचणकमसू-रादि विरूढधान्यादि वा, वह्निव्यापदम् = अग्निमान्द्यम्, श्रावहेत् = कुर्यात् । ९ रसस्य रसवदाहारस्य शेषोऽसम्यक् परिणतत्वेन शिष्टोंऽशो रसशॆषस्ततो रसशेषतः । १० अजीर्णस्य कायिककारणमभिदधाति - अतीति । ११ सन्धारणात् = मूत्रपुरीषादीनां CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 479

सुश्रुत संहिता चौखम्बा, पृष्ठ 479 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

w ९ ॥ मयं ते । व्य. मी-एव । बध : सू-I अ ० ४६ ] Digitized by Arya Sa स्स्थापनापूर Phennai and eGangotri ३१ ९ ईष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन 1 प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ॥ ५०० ॥

माधुर्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम् ।

किञ्चिद्विपक्कं भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ॥ ५०१ ॥

उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यम्य ।

रसावशेषेण तु संप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ॥ ५०२ ॥

मूर्च्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः ।

उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ॥ ५०३ ॥

तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम् ।

विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥ ५०४ ॥

वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना ।

कार्यं चानशनं तावद्यावन्न प्रकृतिं भजेत् ॥ ५०५ ॥

लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् ।

यावन्न प्रकृतिस्थ: स्याद्दोषतः प्राणतस्तथा ॥ ५०६ ॥

हितौहितोपसंयुक्तमन्नं समशनं स्मृतम् ।

बहु स्तोकमकाले वा विज्ञेयं विषमाशनम् ॥ ५०७ ॥

अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ।

त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति वा ॥ ५०८ ॥

अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति । तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ५० ९

विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्टगलं च यस्य ।

द्राक्षाऽभयां माक्षिकसम्प्रयुक्तां लीवाऽभयां वा स सुखं लभेत ॥ ५१० ॥

सन्निरोधात्, स्वप्नविपर्ययः = दिवास्वापो रात्रौ जागरणम् । १ मानसरजस्तमोदोम्बकृ · मजीर्णमाख्याति दैन्यव्याप्तेन । ३ सप्र-ईष्येति । २ रुग्दैन्यनिपीडितेन = रोग सेकं = = लालास्राव च शयीतेत्यर्थः । वाग्भटोऽपि— “ ल-सहितम् । ४. चकारादामादिषु वनं कार्यमामे तु विष्टब्धे स्वेदनं हितम् । विदग्धे वमनं यद्वा यथावस्थं हितं भवेत् ॥ ” इति । ५.समशनविषमाशनाध्यशनलक्षणमाह - हितेति । ६ माक्षिकसम्प्रयुक्ताम्, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 480

सुश्रुत संहिता चौखम्बा, पृष्ठ 480 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundaसहित hai ar hai and eGangotri ३२० [ अ ० ४६

भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले ।

प्रातः स शुण्ठीमभयामशैङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ॥५११ ॥

स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति ।

भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति ॥ ५१२ ॥

श्रत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् ।

कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ॥ ५१३ ॥

ह्रादैनः स्तम्भनः शीतो मूर्च्छातृस्वेददाह जित् ।

उष्णस्तद्विपरीतः स्यात् पाचनश्च विशेषतः ॥ ५१४ ॥

स्नेहमार्द्रवकृत् स्निग्धो बलवर्णकरस्तथा ।

रूक्षस्तद्विपरीतः म्याद्विशेषात् स्तम्भनः खरः ॥ ५१५ ॥

पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः ।

विशदो विपरीतोऽस्मात् क्लेर्दाचूषणरोपणः ॥ ५१६ ॥

दाहपाककरस्तीक्ष्णः स्रावणो, मृदुरन्यथा ।

सादोपलेपबलकृद् गुरुस्तर्पणबृंहणः ॥ ५१७ ॥

लघुम्तद्विपरीतः स्याल्लेखनो रोपणस्तथा ।

दशार्द्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ॥ ५१८ ॥

दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे । अभयां = हरीतकीं वा लीढवेति द्वितीयो योगः । १ अशङ्कः = शङ्कारहितः । २ ली-नं = स्रोतस्सु संश्लिष्टम्, तेजःपथं = जठराग्निपथम्, पित्तनिस्सरणमार्गमिति यावत् । ३ गुणानां = विविधद्रव्याश्रितानांशीतोष्णादिगुणानामित्यर्थः । ४ उष्णादिविंश-तिगुणानां कर्माणि दर्शयति - ह्लादन इति । ह्लादनः = उष्णार्त्तानां सुखसञ्जननः, स्तम्भनः = शोणितादीनां गतिमतां इत्यर्थः । सन्निरोधनः । ५ व्रणादीनां पाचन ६ क्लेदाचूषणः = ' आद्रीं'भावसंशोषणः, व्रणरोपणश्चेति क्लेदाचूषणरोपणः । ७ सादः अङ्गग्लानिः, उपलेपः मलवृद्धिः, बलं इलेष्मा, तानि करोतीति सादोपलेपबलकृत् । ८ दशाद्याः = शीतोष्णस्निग्धरूक्षपिच्छिल विशदतीक्ष्णमृदुगुरुलघुगुणाः । ९ द्रवादीन् = द्रवसान्द्रश्लक्ष्णकर्कशसुगन्धदुर्गन्धसरमन्दव्यवायिविका स्याशुकारिसूक्ष्मगुणान् । अत्र सुश्रुतार्थसन्दीपनभाष्यम् — संख्येयं कर्म विशेषमाश्रित्योपदिश्यते, श्लक्ष्णकर्कश पि-च्छिलविशदसाम्यादुक्तगुणौ नातो द्वादशत्वापत्तिः । वस्तुतस्तु ‘ दशैवान्यान ' इत्यस्य CC - 0. Gurukul Kangri Collection, Haridwar