सुश्रुत संहिता चौखम्बा — पृष्ठ 471–480
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 471–480
पृष्ठ 471
पाठ पढ़ें पाठ छिपाएँ
अ ० ४६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् ।
स्थिरतां गतमक्लिन्नमन्नमद्रवपायिनाम् ॥ ४३८ ॥
भवत्याबाधैजननमनुपानमतः पिबेत् ।
न पिबेच्छ्वासकासार्त्तो रोगे चाप्यूर्ध्वजैत्रुगे ॥ ४३ ९ ॥
क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः ।
पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीर्लंयेत् ॥ ४४० ॥
प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् ।
स्यन्दीग्निसादच्छर्यादीनामयाञ्जनयेद् बहून् ॥ ४४१ ॥
गुरुलाघवचिन्तेयं स्वर्भावं नातिवर्त्तते ।
तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ॥। ४४२ ॥
मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः ।
जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ॥। ४४३ ॥
बलिनः " खरभक्ष्या ये ये च दीप्ताग्नयो नराः । ३११ नस्य भोजनादिमध्यान्तविभागेन गुणविशेषं दर्शयति - तदिति । तद् अनुपानं भोजनस्यादौ पीतं सेवितं कर्शयेत् शरीरस्य कृशत्वमापादयेत्, मध्यसेवितं स्थापयेत् । स्थाघातोर्गतिनिवृत्त्यर्थत्वान्न कर्शयति नापि च स्थूलयति, अपि तु समं करोतीत्यर्थः । पश्चात् पीतं बृंहयति शरीरं पुष्णाति तस्माद्वीक्ष्य प्रयोजयेत् । श्रर्थात्कार्यमिच्छताऽऽदौ मध्यशरीरमिच्छता मध्ये पुष्टिमिच्छताऽन्तेऽनुपानं प्रयोक्तव्यमिति निष्कर्षः । १ अद्र-वपायिनाम् = अनुपानमपिबताम् । २ श्राबाधजननं = पीडाकरम् । ३ ऊर्ध्वज-त्रुगे = ग्रीवामूलोपरितनभागे, नासाकर्णादिगतरोगे इत्यर्थः । ४ प्रसेकी = लालास्रावी । ५ अनुपानसेवनानन्तरं वर्ज्यान्निर्दिशति = पीत्वेति । ६ न शीलयेत् = न सेवेत । ७ स्यन्दं = श्लेष्मस्रवणम् । ८ स्वभावं = नैसर्गिकीं गुर्वाद्याहारसात्म्यताम् । ९ उ • त्तरोत्तरम् = स्वभावात्संस्कारं संस्कारान्मात्रां मात्रातोऽन्नम् अन्नात्कालं गुरुलाघवचिन्ता नातिवर्तते नातिक्रामतीत्यर्थः । ' नातिवर्तते ' इति क्रियापदमनुकृष्य संस्कारादावन्वयात् संस्कारं नातिवर्तते, मात्रां नातिवर्तते, अन्नं नातिवर्तते, कालं नातिवर्तते इति बोध्यम् । संस्कारं नातिवर्तते, यथा स्वभावाद् गुरोरपि व्रीहेर्लाजा लघवः, लघोरपि शालेः संस्क-रात् पिष्टं गुरुः । आत्रेयोऽपि – “ गुरूणां लाघवं विद्यात्संस्कारात्सविपर्ययम् । व्रीहे-र्लाजा यथा च स्युः सक्तूनां सिद्धपिण्डकाः ॥ " इति । एवं मात्राऽऽदीनां बोध्यम् । अत्र विस्तरभिया चणकादिभोजना इत्यर्थः । विरम्यते । १० खरभक्ष्याः = श्रमृदु CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 472
पाठ पढ़ें पाठ छिपाएँ
३१२ II कर्मनित्या:: १ सुश्रुतसाहताया-[ अ ० ४६ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri कर्म नित्यश्च ये तेषां नावश्यं परिकीर्त्यते ॥ ४४४ ॥
इति सर्वानुपानवर्गः ।
अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु ।
औप्तान्वितमसङ्कीर्णं शुचि काय महासम् ॥ ४४५ ॥
तत्राप्तैर्गुणसम्पन्नमन्नं भक्ष्यं सुसंस्कृतम् ।
शुचौ देशे सुसंगुप्तं समुपस्थापयेद् भिषक् ॥ ४४६ ॥
विपन्नैरगदैः स्पृष्टं प्रोक्षितं व्यंजनोदकैः ।
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्त्रं निवेदयेत् ॥ ४४७ ॥
वक्ष्याम्यतः परं कृत्स्नमाहारस्योपकल्पनाम् ।
घृतं कार्ष्णायसे देयं पेया देया तु राजते ॥ ४४८ ॥
फलानि सर्वैभक्ष्यांश्च प्रदद्याद्वै दलेषु च ।
परिशुष्क प्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥ ४४ ९ ॥
" प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ।
" कट्वराणि खडांश्चैव सर्वान् शैलेषु _१२ दापयेत् ॥ ४५० ॥
दद्यात्ताम्रमये पात्रे सुशीतं सुतं पयः ।
पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ॥ ४५१ ॥
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । = सदा कर्मकारिणः । २ गुरुलाघव चिन्तेति शेषः । इत्यनुपानवर्गः । ०३ श्राप्तैर्विश्वस्तैरन्वितं युक्तम् । ४ महानसं = पाकशालम् । ५ विषघ्नैः = विषहारिभिः । ६ व्यजनं तालवृन्तं तदपि विषघ्नभेषजोदकैः प्रोक्षितं सिक्तम् । ७ कार्ष्णायसे = कृष्णलौद्दमये पात्रे | ८ वैशब्दः पादपूरणे, दलेषु = पत्रेषु; ‘ पत्रं पलाशं हृदनं दलं, पर्णं छदः पुमान् ' इत्यमरः । श्रीहाराणचन्द्रमते ‘ वैदलेषु ’ इत्यस्य वंशादिरचितेषु इत्यर्थो बोध्यः । ९ “ सिक्तं बहुघृते भृष्टं मुहुरुष्णाम्बुना मृदु । जीरकाद्यैर्घनं मांसंपरिशुष्कं तदुच्यते । तदेव गोरसादानं प्रदिग्धमिति विश्रु-तम् ॥ ” इति । १० प्रद्रवाणि = प्रकृष्टद्रवाणि मण्डादीनि " सौवीराम्लं । ११ तथाऽत्यम्लं काञ्जिकं कटवरं विदुः ” इति । १२ शैलेषु = पाषाणमयेषु पात्रेषु ।
पृष्ठ 473
पाठ पढ़ें पाठ छिपाएँ
अ ० ४६ ] Digitized by Arya Samaj, Foundation Chennai and eGangotri
सूत्रस्थानम् ।
दद्याद्वैदूर्य पात्रेषु रागषाडवसट्टकान् ॥ ४५२ ॥
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे 1 सूदः सूपौदनं दद्यात् प्रदेहोंश्च सुसंस्कृतान् ॥ ४५३ ॥
फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च ।
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥ ४५४ ॥
प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः ।
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥ ४५५ ॥
सर्वान् गुडविकारांञ्च रागषाडवसट्टकान् ।
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ १५६ ॥
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।
भोक्तारं विजने रम्ये निःसम्पाते शुभे शुचौ ॥ ४५७ ॥
सुगन्धपुष्परचिते सँमे देशेऽथ भोजयेत् ।
विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ॥ ४५८ ॥
मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।
पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ॥ ४५ ९ ॥
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् । ३१३ आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥ ४६० ॥
ततः पेयस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् ।
१॰घनं पूर्व समश्नीयात् केचिदाहुर्विपर्ययम् ॥ ४६१ ॥
आदावन्ते च मध्ये च भोजनस्य तु शस्यते । १ वैदूर्यपात्रेषु = बिढालनेत्राभमणिनिर्मितपात्रेषु ' । १२ सूपेन मुद्रादिद्विदलेन सिहित-मोदनं भक्तं सूपौदनम् । ३ प्रदेहान् = प्रलेहान्, ' चटनी ' इति प्रसिद्धान् । ४ निः-सम्पाते = वितानसहिते । निःसम्बाधे ‘ ' इति पाठान्तरम् । ५ समे = निम्नोन्नतत्वरहिते देशे । ६ प्रत्यग्रम् = अभिनवम्, सद्यस्कमिति यावम् । ७ यतो भोजनात् प्राग्भुक्तो मधुरो रसः पक्काशयगतं वायुं नयति, भोजनस्य मध्ये भुक्तावलवणौ पित्ताशयेऽग्नि दीप्तिं कुरुतः, भोजनान्ते सेविताः शेषाः कट्वादयः कफजयं कुर्वन्ति अतो वैद्यस्तदा तदा तत्तत्पदार्थमवचारयेदिति वातं जयति ॥ ८ यतः प्रथमं भुक्तो दाडिमाद्यम्लो ९ पेयान् = पातव्यान्, भोज्यान् = रक्तशात्यादीन् । १० घनं भोज्यादिकठिनं पूर्वं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 474
पाठ पढ़ें पाठ छिपाएँ
३.१४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० ४३ निरंत्ययं दोषहरं फलेष्वामलकं नृणाम् ॥ ४३२ ॥
मृणालविसशालूककन्देक्षुप्रभृतीनि च ।
पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ॥ ४६३ ॥
सुखमुच्चैः: समासीनः समदेहोऽन्न तत्परः ।
काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् ॥ ४६४ ॥
बुभुक्षितोऽन्नमश्नीयान् मात्रावद्विदितागमः ।
काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते ॥ ४६५ ॥
लघु शीघ्रं व्रजेत पाकं स्निग्धोष्णं बलवह्निदम् ।
क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ॥। ४६६ ॥
सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च ।
अतीवयतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥ ४६७ ॥
समश्नीयात् । केचिद् विपर्ययम् अर्थात् पूर्वद्रवं पश्चात् कठिनमाहुः । १ निरत्ययं = निर्वाधम् । २ भोजनप्रकारं प्रतिपादयति - सुखमिति 1 । सृखं सुखपूर्वकम् उच्चैरुच्चा-सने समासीनः सम्यगुपविष्टः, अन्नतत्परोऽन्नपरायणः, न जल्पनादावासक्तः । तथा च स्मृति: – “ प्रजल्पन्नइसन् तन्मना भुञ्जीत " इति । काले = नित्यगे आवस्थिके च द्विविधे काले, तत्र नित्यगः– “ याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् । याममध्ये रसो-त्पत्तिर्यामयुग्माद् बलक्षयः ॥ ” इति । आवस्थिकः – “ क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च । काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ॥ ” इति । सात्म्यं हितकारि, लघु, स्निग्धं, क्षिप्रं नातिद्रुतं नातिविलम्बितम् । तथा चात्रेय: – “ नातिद्रुतमश्नीयात् तथा नातिविलम्बितमश्नीयात् ” इति । उष्णं, द्रवोत्तरं द्रवप्रधानम्, बुभुक्षितः भोजनकाले बुभुक्षितः, श्रकाले बुभुक्षानिषेधं स्वयमेव वक्ष्यति – “ भवत्यकालेऽपि तदा बुभुक्षाया मन्दबुद्धिं विषवन्निहन्ति ” । मात्रावत्, न त्वमात्रावत्; श्रन्यथाऽशुभं स्यात् । तदुक्तं चरके— “ त्रिविधं कुक्षौ स्थापयेदवकाशांशमाद्दारमुपयुञ्जानः, तद्यथा – एकमवकाश शिं मूर्त्तानामाहारविकाराणामेकं द्रवाणामेकं पुनर्वातपित्तश्लेष्मणाम्, एतावत ह्याहारमात्रा मुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति ” । “ अपीडनं भवेत्कुक्षेः पार्श्वयोरवि-पाटनम् । अन्नेन हृदयाबाधो जठरस्य तु गौरवम् ॥ प्रीणनं चक्षुरादीनां शमनं क्षुत्पि पासयोः । उच्छ्वासश्वासहास्यादिकथासु सुखवर्तनम् । सुखेन परिणामः स्यादन्ने भुक्ते दिवा निशि ” ॥ त्रिदितागमः हेयोपादेयविवेकार्थ ' विदितं हिताहितं येन स विदि-तागमः । ३ अतीवायतयामाः = अतिशयदीर्घप्रहराः हेमन्त शिशिरेषु ॥ ४ ऋतुषु = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 475
पाठ पढ़ें पाठ छिपाएँ
३३ अ ० ४६ ] = च घु, था या तं T. व-म. ने सूत्रस्थानम् । ३१५ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri
तेषु तत् प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु ।
येषु चापि भवेयुश्च दिवसा भृशमायताः ॥ ४६८ ॥
तेषु तत्कालविहितमपराह्ने प्रशस्यते ।
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥ ४६ ९ ॥
कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् ।
नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ॥ ४७० ॥
प्राप्तकाले भुञ्जानः शरीरे लघौ नरः ।
तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ॥ ४७१ ॥
अतीतकाले भुञ्जानो वायुनोपहतेऽनले ।
कृच्छ्राद्विपच्यते भुक्तं द्वितीयञ्च न काङ्क्षति ॥ ४७२ ॥
हीनमात्रमसन्तोषं करोति च बलक्षयम् ।
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकंम् ॥ ४७३ ॥
तस्मात् सुसंस्कृतं युक्त्या दो ैरेतैर्विवर्जितम् ।
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ॥ ४७४ ॥
विभज्य दोषकालादीन् कालयोरुभयोरपि ।
अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ॥ ४७५ ॥
द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् ।
चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ॥ ४७६ ॥
१ प्रत्यनीकाढयं = कालबलप्रवृत्तदोषगुणानां विरोधिद्रव्यगुणबहुलमित्यर्थः । २ येषु = ग्रीष्मप्रावृट्सु । · ३ द्रवस्निग्धमधुरप्रायमित्यर्थः । ४ येषु = शरवसन्तेषु । ५ अहोरात्रं समं कृत्वा मध्याह्ने इत्यर्थः । ६ अकालमात्रावत्त्वं निर्दिशति - नाप्रा-प्तेति । श्रप्राप्तकालमतीतकालं वा न भुञ्जीतेत्यर्थः । ७ अधिकभोजने मनुरपि दोषमाह्– “ अनारोग्यमनायुष्यमस्वयं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्त-त्परिवर्जयेत्॥ ” इति । ८ उभयोः कालयोः - सायं प्रातः । मनुरपि " सायं प्रातर्द्वि-जातीनामशनं स्मृतिनोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ ” इति । ९ हेयान्नं निर्दिशति — अचोक्षमिति 1 । श्रचोक्षम् = अशुचिम्, ' चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः । ' इति मेदिनी । दुष्टं विषादिभिः, उत्सृष्टम् = उच्छिष्टम्, पाषाण तृणलोष्टानि विद्यन्तेऽस्येति द्विष्टं = पाषाणतृणलोष्टवत् पाषाणादियुक्तमित्यर्थः ।
पृष्ठ 476
पाठ पढ़ें पाठ छिपाएँ
३ ३१६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० ४६
अशान्तंमुपदग्धं च तथा स्वादुं न लक्ष्यते ।
यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ॥ १७७ ॥
प्रक्षालयेदद्भिरास्यं भुञ्जानम्य मुहुर्मुहुः ।
विशुद्धरसने तस्मै रोचतेऽन्नमपूर्ववत् ॥ ४७८ ॥
स्वादुन तस्य रसनं प्रथमेनातितर्पितम् ।
न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ॥ ४५ ९ ॥
सौमनस्यं बलं पुष्टिमुत्साहं हर्षां सुखम् ।
` स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ॥ ४८० ॥
भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् ।
अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ॥ ४८१ ॥
दन्तान्तरगतं चान्नं शोधने नाह रेच्छनैः ।
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ॥ ४८२ ॥
जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेव तु ।
भुक्तमात्रे कफश्चापि तस्माद् भुक्तेरितं.१० कफम् ॥ ४८३ ॥
धूमेनापो हृद्यैर्वा कषायकटुतिक्तकैः । मनःप्रतिघाति, व्युषितं S विशेषेणोषितं, चिरकालावस्थितमित्यर्थः । अशान्तं = १ किञ्चिदवशिष्टविस्रावणम्, अत्युष्णमित्यर्थः । उपदग्धम् = अतिपाकित्वेन ज्वलितम्, चकाराद् यथायथं यन्न सिद्धं तदपि समुच्चेयम् । २ यत् स्वादुतरं संस्कृतं मधुरर-सादिकमस्ति तद् उत्तरोत्तरं यदधिकाधिकं स्वादुकरं तद् विदध्यात्, कोऽर्थः? दद्याद् वैद्य इति शेषः । ३ प्रक्षालयेत् स्वादुतरपदार्थस्य = गण्डूषं कारयेत् । ४ दानावसरे प्रतिवारं गण्डूषकरणस्य फलमाह – स्वादुनेति । ५. स्वाद्वन्नस्य गुणं प्रतिपादयति - सौमनस्यमिति । ६ प्रार्थयते = यत् किमपि मुद्गमोदकादिकं याचते; तदेव स्वाद्वन्नं विज्ञेयमित्यर्थः । ७ श्रशितः = भुक्तो जनः, युक्त्या - • यथाऽजीर्णादि-बाधो न भवेत्तथा मात्रयेत्यर्थः । भुञ्जानश्चान्तरा भोजनमध्ये उदकं पिबेत् । श्रीभावमि-श्रस्तु भोजनान्तेऽन्ने जीर्णे सत्यभूरि जलं सेवितुमुपदिशति – “ अत्यम्बुपानाच्च विप-च्यतेऽन्नं निरम्बुपानाच्च स एव दोषः । तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिवे-दभूरि ॥ ” इति । ८ शोधनेन = तृणादिना दन्तधावनेन । वाग्भटे भोजनानन्तरमपि दन्तधावनविधानमुपदिष्टम्– “ प्रातर्भुक्खा च मृद्वयं कषायकटुतिक्तकम् । भक्षयेद्दन्तप-वनं दन्तमांसान्यबाधयन् ॥ ” इति । ९ विदग्धे = किञ्चित्पक्वे । १० भुक्तेरितं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 477
पाठ पढ़ें पाठ छिपाएँ
अ ० ४६ ] ३६ र--य द. -प. -ध म. = सूत्रस्थानम् The ३१७ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Epundation Chennai and eGangotri पूगकङ्कोलकर्पूरलवङ्गसुमनैः फलैः ॥ ४८४ ॥
फलैः कटुकषायैर्वा मुखवैशद्यकारकैः ।
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥ ४८५ ॥
भुक्त्वा राजवदासीत यावदन्नक्लमो गतः ।
ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ॥ ४८६ ॥
शब्दरूपरसान् गन्धान् स्पर्शाश्च मनसः प्रियान् ।
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ॥ ४८७ ॥
शब्दरूपरसाः स्पर्शा गन्धाश्चापि जुगुप्सिताः ।
शुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ॥ ४८८ ॥
शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्रवोत्तरम् ।
नाग्न्यातपो न प्लवनं न यानं नापि वाहनम् ॥ ४८ ९ ॥
न चैकरससेवायां प्रसज्येत कदाचन ।
शाकावरौन्नभूयिष्ठमम्लं च न समाचरेत् ॥ ४ ९ ० ॥
एकैकशः समस्तान् वा नाध्यश्नीयाद्रसान् सदा ।
प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ॥ ४ ९ १ ॥
पूर्वमुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् ।
मात्रगुरुं परिहरेदाहारं द्रव्यतश्च यः ॥ ४ ९ २ ॥
पिष्टान्नं नैव भुञ्जीत १ " मात्राया वा बुभुक्षितः । भोजनेन = जातीफलैः । २ राजवदासोत = भद्रासने-वर्द्धितम् । १ सुमनःफलैः नासीत, यावदन्नभक्षणजन्येन्द्रियार्थप्रबाधकश्रमो भवेत् । भद्रासनलक्षणम् - " सोमन्याः पार्श्वयोर्न्यस्यॆद् गुल्फयुग्मं सुनिश्चलम् । वृषणाधः पादपाणि पाणिभ्यां परिबन्धयेत् ॥ ” इति । ३ संविशेत् = निद्रारहितं शयीत | ४ जुगुप्सिताः = मनसोऽप्रियाः । नि-न्दिता इत्यर्थः । विशेषमाहात्रेयः – “ व्यायामं च व्यवायं च धावनं यानमेव च । युद्धं गीतं च पाठं च मुहूर्तं भुक्तवांस्त्यजेत् ॥ ” इति । मुहूर्त = द्वादशक्षणम् ( ४८ मिनिट । ५ द्रवोत्तरं द्रवाढ्यमशनं नाग्न्यादीनिच्छेदिति सम्बन्धः । ६ अवरान्नं = द्विदला · नम्, अम्लं च न समाश्रयेद् न भक्षयेत् । ७ नाध्यश्नीयात् == नाधिकं भक्षयेत् । ८ प्राग्भुक्ते पूर्वं भोजने कृते तु श्रग्नौ अविविक्ते अविशुद्धे सति द्विरन्नं द्वितीयवार-मन्नं न समाचरेद् लघूनामपि मात्रागुरुं मा-न भुन्जीतेत्यर्थः । ९ मुद्गादिद्रव्याणां जातो गुरुमाहारं परिहरेत्, माषादिद्रव्यतो गुरुमाहारमपि परिहरेदित्यर्थः । १० मात्र-
पृष्ठ 478
पाठ पढ़ें पाठ छिपाएँ
३१८ I Digitized by Arya Samaj Foundation Chennat and eGangotri सुश्रुतसंहिताया-[ अ ० ४६
द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति ।
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ॥ ४ ९ ३ ॥
गुरूणामर्द्धसौहित्यं ' लघूनां तृप्तिरिष्यते ।
द्रवोत्त॑रो द्रवश्चापि न मात्रागुरुरिष्यते ॥ ४ ९ ४ ॥
द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते ।
विशुष्कमन्नमभ्यैस्तं न पाकं साधु गच्छति ॥ ४ ९ ५ ॥
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।
स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ॥ ४ ९ ६ ॥
विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते ।
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापद्मावहेत् ॥ ४ ९ ७ ॥
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।
अजीर्ण केचिदिच्छन्ति चतुर्थ रसशेषतः ॥ ४ ९ ८ ॥
१० अत्यम्बुपानाद्विषमाशनाद्वा " सन्धारणात् स्वप्नविपर्ययाच्च ।
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥१९९ ॥
या = अल्पपरिमाणेन पिष्टान्नं भुन्जीत वा बुभुक्षितश्चेत् । चरकः- “ गुरुपिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि । न जातु भुक्तवान् खादेन्मात्रां खादेद् बुभुक्षितः ॥ ” इति । १ पेयं = क्षीरादि, लेह्यं = मध्वादि, श्राद्यं = भक्तादि, भक्ष्यं = लड्डुकादि, एतेषां यथोत्तरं गुरुत्वं जानीयादित्यर्थः । २ सुहितस्य तृप्तस्य भावः सौहित्यम् । अर्धसौ हित्यम् = अर्धंतृप्तिपर्यन्तम् । चरकः - " द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते ” इति ३ द्रवात् क्षीरादेरुत्तरः अधिकः द्रवः पेयादिः । ४ सम्य-गेवोपपद्यते = अदोषकरं भवति । ५ अभ्यस्तं सेवितं द्रवप्राचुर्यमन्तरेण न साधु समी-चीनतया पाकं गच्छतीत्यर्थः । ६ असंक्लिन्नं = सम्यगाद्रौं भावमनापन्नम् । अत पिण्डीकृतं विदाहं विदग्धतां किञ्चित्पाकमिति यावत्, उपगच्छति प्राप्नोति । ७ अन्नवहे स्रोतसि = श्रामाशये, पक्तौ = पित्तधरायां कलायां वा यस्य पित्तं विदग्धं सत्तिष्ठति, तस्यापि भुक्तं विदाहि अन्यद् श्रविदाहि वाऽन्नं विदह्यते इति सम्बन्धः । ८ शुष्कं = पिष्टान्नादि, विरुद्धं = क्षीरमत्स्यादि, विष्टम्भि = गुडगुडाशब्दकारिचणकमसू-रादि विरूढधान्यादि वा, वह्निव्यापदम् = अग्निमान्द्यम्, श्रावहेत् = कुर्यात् । ९ रसस्य रसवदाहारस्य शेषोऽसम्यक् परिणतत्वेन शिष्टोंऽशो रसशॆषस्ततो रसशेषतः । १० अजीर्णस्य कायिककारणमभिदधाति - अतीति । ११ सन्धारणात् = मूत्रपुरीषादीनां CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 479
पाठ पढ़ें पाठ छिपाएँ
w ९ ॥ मयं ते । व्य. मी-एव । बध : सू-I अ ० ४६ ] Digitized by Arya Sa स्स्थापनापूर Phennai and eGangotri ३१ ९ ईष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन 1 प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ॥ ५०० ॥
माधुर्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम् ।
किञ्चिद्विपक्कं भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ॥ ५०१ ॥
उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यम्य ।
रसावशेषेण तु संप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ॥ ५०२ ॥
मूर्च्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः ।
उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ॥ ५०३ ॥
तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम् ।
विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥ ५०४ ॥
वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना ।
कार्यं चानशनं तावद्यावन्न प्रकृतिं भजेत् ॥ ५०५ ॥
लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् ।
यावन्न प्रकृतिस्थ: स्याद्दोषतः प्राणतस्तथा ॥ ५०६ ॥
हितौहितोपसंयुक्तमन्नं समशनं स्मृतम् ।
बहु स्तोकमकाले वा विज्ञेयं विषमाशनम् ॥ ५०७ ॥
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ।
त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति वा ॥ ५०८ ॥
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति । तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ५० ९
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्टगलं च यस्य ।
द्राक्षाऽभयां माक्षिकसम्प्रयुक्तां लीवाऽभयां वा स सुखं लभेत ॥ ५१० ॥
सन्निरोधात्, स्वप्नविपर्ययः = दिवास्वापो रात्रौ जागरणम् । १ मानसरजस्तमोदोम्बकृ · मजीर्णमाख्याति दैन्यव्याप्तेन । ३ सप्र-ईष्येति । २ रुग्दैन्यनिपीडितेन = रोग सेकं = = लालास्राव च शयीतेत्यर्थः । वाग्भटोऽपि— “ ल-सहितम् । ४. चकारादामादिषु वनं कार्यमामे तु विष्टब्धे स्वेदनं हितम् । विदग्धे वमनं यद्वा यथावस्थं हितं भवेत् ॥ ” इति । ५.समशनविषमाशनाध्यशनलक्षणमाह - हितेति । ६ माक्षिकसम्प्रयुक्ताम्, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 480
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundaसहित hai ar hai and eGangotri ३२० [ अ ० ४६
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले ।
प्रातः स शुण्ठीमभयामशैङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ॥५११ ॥
स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति ।
भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति ॥ ५१२ ॥
श्रत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् ।
कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ॥ ५१३ ॥
ह्रादैनः स्तम्भनः शीतो मूर्च्छातृस्वेददाह जित् ।
उष्णस्तद्विपरीतः स्यात् पाचनश्च विशेषतः ॥ ५१४ ॥
स्नेहमार्द्रवकृत् स्निग्धो बलवर्णकरस्तथा ।
रूक्षस्तद्विपरीतः म्याद्विशेषात् स्तम्भनः खरः ॥ ५१५ ॥
पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः ।
विशदो विपरीतोऽस्मात् क्लेर्दाचूषणरोपणः ॥ ५१६ ॥
दाहपाककरस्तीक्ष्णः स्रावणो, मृदुरन्यथा ।
सादोपलेपबलकृद् गुरुस्तर्पणबृंहणः ॥ ५१७ ॥
लघुम्तद्विपरीतः स्याल्लेखनो रोपणस्तथा ।
दशार्द्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ॥ ५१८ ॥
दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे । अभयां = हरीतकीं वा लीढवेति द्वितीयो योगः । १ अशङ्कः = शङ्कारहितः । २ ली-नं = स्रोतस्सु संश्लिष्टम्, तेजःपथं = जठराग्निपथम्, पित्तनिस्सरणमार्गमिति यावत् । ३ गुणानां = विविधद्रव्याश्रितानांशीतोष्णादिगुणानामित्यर्थः । ४ उष्णादिविंश-तिगुणानां कर्माणि दर्शयति - ह्लादन इति । ह्लादनः = उष्णार्त्तानां सुखसञ्जननः, स्तम्भनः = शोणितादीनां गतिमतां इत्यर्थः । सन्निरोधनः । ५ व्रणादीनां पाचन ६ क्लेदाचूषणः = ' आद्रीं'भावसंशोषणः, व्रणरोपणश्चेति क्लेदाचूषणरोपणः । ७ सादः अङ्गग्लानिः, उपलेपः मलवृद्धिः, बलं इलेष्मा, तानि करोतीति सादोपलेपबलकृत् । ८ दशाद्याः = शीतोष्णस्निग्धरूक्षपिच्छिल विशदतीक्ष्णमृदुगुरुलघुगुणाः । ९ द्रवादीन् = द्रवसान्द्रश्लक्ष्णकर्कशसुगन्धदुर्गन्धसरमन्दव्यवायिविका स्याशुकारिसूक्ष्मगुणान् । अत्र सुश्रुतार्थसन्दीपनभाष्यम् — संख्येयं कर्म विशेषमाश्रित्योपदिश्यते, श्लक्ष्णकर्कश पि-च्छिलविशदसाम्यादुक्तगुणौ नातो द्वादशत्वापत्तिः । वस्तुतस्तु ‘ दशैवान्यान ' इत्यस्य CC - 0. Gurukul Kangri Collection, Haridwar