सुश्रुत संहिता चौखम्बा — पृष्ठ 481–490
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 481–490
पृष्ठ 481
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४३ Pigit ३६ १ ॥ ली. El श. नः, 1 दः । पत्र स्य २१ " सूत्रस्थानम् | " ३२१ CC - 0. Gurukul Kangri Collection, Haridwar द्रवः प्रक्लेद्नः, सान्द्रः स्थूलः स्याद् बन्धकारकः लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा ॥ । ५१ ९ ॥
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ।
दुर्गन्धो विपरीतोऽस्मादधृल्लासारुचिकारकः ॥ ५२० ॥
सरोऽनुलोमनः प्रोक्तो, मन्दो यात्राकरः स्मृतः ।
व्यवोयी चाखिलं देहं व्याप्य पाकाय कल्पते ॥ ५२१ ॥
विकौसी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ।
आशुकारी तथाऽऽशुत्वाद्धावत्यम्भसि तैलवत् ॥ ५२२ ॥
सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतः स्वनुसरः स्मृतः ।
गुणा विंशतिरित्येवं यथावत्परिकीत्तिताः ॥ ५२३ ॥
सम्प्रवक्ष्याम्यतश्चोध्वँमाहारंगतिनिश्चयम् ।
पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः ।
विपक्कः पञ्चधा सम्यग्गुणान् स्वानभिवर्द्धयेत् ॥ ५२४ ॥
अविदग्धः कफं पित्तं विदग्धः पवनं पुनः ।
सम्यग्विपक्को निस्सारः आहारः परिबृंहयेत् ॥ ५२५ ॥
स्थाने ‘ दश चान्यान् इति केषाञ्चन सम्मतः पाठः समीचीनः प्रतिभाति । चकाराद्दशे-तरगुणसमुच्चयः । एव च विंशतिर्गुणा इत्यत्र न किमपि शङ्कासमाधानम् । श्रतएव श्रीभावमिश्रः— “ सुश्रुते तु गुणा एते विंशतिस्तान् ब्रवे शृणु । गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः ॥ पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ । स्थूलः सूक्ष्मो द्रवः शुष्क आशुर्मंन्दः स्मृता गुणाः ॥ ” इति । चरकेऽपि विंशतिरेव गुणाः परिगणिताः । १ यात्राकरः = कालक्षेपकरः, ' यात्रा स्याद् यापने गतौ ' इत्यमरः । २ शाङ्गधरोऽ-पि– “ पूर्वं व्याप्याखिलं कायं ततः पार्क च गच्छति । व्यवायि तद्यथा भङ्गा फेनं चाहि समुद्भवम् ॥ ” इति । ३ ‘ “ सन्धिबन्धांस्तु शिथिलान् यत्करोति विकासि तत् । विश्लेष्यौ-जश्च धातुभ्यो यथा क्रमुककोद्रवाः ॥ ” इति । ४ आहियते रसोऽस्मादित्याहारोऽन्नपानं तस्य गतिः कर्म तस्य निश्चयम् आहारगतिनिश्चयं धातुगुणवर्धनम्, यद्यदात्मकमन्न-मभ्यवहृतं पक्कं यद् द्रव्यगुणं याति गतमपि यच्च पुष्णाति तस्य निर्णयमिति ढल्हणः । ५ सम्यग् विपक्कःपाचकाग्निना परिणतिं गतः स्वान् गुणानभिवर्द्धयेदिति सम्बन्धः । चरकेऽप्युक्तम् — “ यथास्वैरेव पार्थिवानेव शेषाः पुष्यन्ते देहे द्रव्यगुणाः पृथक् । पार्थिवाः शेषांश्च कृत्स्नशः ६ निस्सारः = नीरसः, मलमात्रेणावस्थित इत्यर्थः । ॥ ” इति ।
पृष्ठ 482
पाठ पढ़ें पाठ छिपाएँ
३२२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-विण्मूत्रमाहारमलः सारः प्रागीरितो रसः । [ अ ० ४६ स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥ ५२६ ॥।
कफः पित्तं मलः ' खेषु स्वेदः स्यान्नखरोम च ।
नेत्रविट् त्वक्षु च स्नेहो धातूंनां क्रमशो मलाः ॥ ५२७ ॥
दिवाविबुद्धे हृदये जाग्रतः पुण्डरीकवत् ।
अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ॥ ५२८ ॥
हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः ।
क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ॥ ५२ ९ ॥
इमं विधिं योऽनुमतं महामुनेनृपर्षिमुख्यस्य पठेद्धि यत्नतः स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ॥५३० ॥
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥
१ विण्मूत्रम् आहारमलः, रसः आहारस्य सारः प्राक् शोणितवर्णनीये ईरितः क-थित: । शार्ङ्गधरोऽपि- “ आहारस्य रसः सारः सारहीनो मलद्रवः । सिराभिस्तज्जलं नीतं बस्तौ मूत्रत्वमाप्नुयात् ॥ तत् किट्ट च मलं ज्ञेयं तिष्ठेत्पक्वाशये च तत् । बलित्रितयमा-र्गेण यात्यपानेन नोदितम् ॥ ” इति। २ प्रतर्पयेत् = अतिशयेन वर्द्धयेत् । ३ खेषु = कर्णश्रोत्रमुखादिस्रोतस्सु, मलः = कर्णंगूथादिः । ४ धातूनां = रसरक्तमांसमेदोऽस्थिम-ज्जानाम् । ५ दिवा दिवसे जाग्रतः पुरुषस्य पुण्डरीकवत् पद्मवद् हृदये विबुद्धे रविकि-रणजुष्टत्वेन सक्रियत्वेन च श्लेष्मणोऽपचयात्परिस्फुटान्तः सुषिरे सति अक्लिन्नधातुत्वात् क्लेदेन अननुगतदोषधातुमलत्वात्, श्रजीर्णमप्यन्नं निशि दितमित्यर्थः । ६ रात्रौ प्रसुप्त-स्य हृदि विशेषतः सम्मीलिते सङ्कुचिते क्किन्नविस्रस्तधातुत्वाद् आर्द्र शिथिलधातुत्वाद् अजीर्णे ‘ सायं भुक्ते’इति शेषः । दिवा न हितमन्नमित्यर्थः । ७ महामुनैः = धन्वन्तरेः, अनुमतं = सम्मतं; विधिम् = = पण्डितप्रधानः । आहारविधिम् । ८ सूरिसत्तमः इति पण्डितश्री कपिलदेवमिश्रतनुजन्मना मिश्रोपाह्वश्री सुदामाशम्र्म्मणा निम्मितायां सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां सूत्रस्थाने षट्चत्वारिंशोऽध्यायः । समाप्तमिदं सूत्रस्थानम् । ZR CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 483
पाठ पढ़ें पाठ छिपाएँ
३६ क. तं -= म. क. त् स द् र, ! अथ निदानस्थानम् ॥ प्रथमोऽध्यायः । अथ निदानस्थानम् | कीटमुद्धरन्ती सकलाधिव्याधिकष्टततिजुष्टम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri अथातो वातव्याधिनिदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धन्वन्तरिं धर्मभृतां वरिष्ठमृतोद्भवम् ।
चरणावुपसंगृह्य सुश्रुतः परिपृच्छति ॥। ३ ॥
वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः ।
स्थानं कर्म च रोगांश्च वद मे वदतां वर! ॥ ४ ॥
लोकं दशशतनयना सद्गुणा सुधारसमय्युमा जयति ॥ १ ॥
१ " रोगमादौ परीक्षेत ” इत्युक्तेर्हेतुलक्षणप्रतिपादकनिदानस्थानमारभ्यते— अथेति । “ पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः । वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत् ॥ ” इत्युक्त्या दोषेषु वातस्य प्राधान्यात् प्रथमं वातव्याधिनिदानमधिकरोति । वातजनितोऽसाधारणव्याधिर्वातव्याधिराक्षेपकादिस्तस्य निदानं वातव्याधिनिदानम् । निर्दिश्यते व्याधिरनेनेति निदानं विप्रकृष्टसन्निकृष्टभेदेन व्याध्युत्पत्तिहेतुभूतमित्यर्थः । • विप्रकृष्टं — विरुद्धाहारादि, सन्निकृष्टं — वातादि । अपि च – “ नि निश्चयनिषेधयोः ’ इति वररुचेरुपसर्गसूत्रेण निशब्दस्य निश्चयार्थकत्वाद् व्याधिनिश्वयकरणं निदान-मित्यर्थः । रोगाणां निदानं पञ्चविधमित्याह माधवकरः - " निदानं पूर्वरूपाणि रूपाण्यु-पशयस्तथा । समाप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्त हेत्वायतन. प्रत्ययोत्थानकारणैः । निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ ” इति । शार्ङ्गधरे वातव्याधेरशीतिर्भेदा उक्ताः— “ अशीतिर्वातज रोगाः कथ्यन्ते मुनिभाषिताः ” इति । २ अमृतेन।सह उद्भव ' उत्पत्तिर्यस्य तम् । “ ततो धन्वन्तरिर्देवः श्वेताम्बरधरः स्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ ” इति विष्णुपुराणम् । विष्णोरं • शांशसम्भूतस्य धन्वन्तरैः कथा ब्रह्मवैवर्तपुराणादावनुसन्धेया । ३ प्रकृतिभूतस्य =
पृष्ठ 484
पाठ पढ़ें पाठ छिपाएँ
३२४ * Digitized by Arya Samaj Foundation Chennai and eGangotri " सुश्रुतसंहिताया--[ अ ० १
तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः ।
स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ॥ ५ ॥
स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च ।
सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ॥ ६ ॥
स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् ।
अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ॥ ७ ॥
तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च ।
अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ॥ ८ ॥
आशुकारी मुहुश्वारी पक्काधानगुदालयः । -प्राकृतस्य, व्यापन्नस्य = विकृतस्य, कोपनैः = ' तत्र बलवत् " इत्यादिना व्रणप्रश्नो-क्तैर्द्रव्यगुणकर्मभिः । १ वायोः स्वयम्भूत्वे कारणं निर्दिशति – स्वातन्त्र्यादिति । स्वातन्त्र्यात् = स्वाधीनत्वात्, स्वकर्मविषये नान्येन पित्तादिना प्रेर्यंत इत्यर्थः । नित्य-भावात् = प्रलयेऽप्यवस्थानात्, ' वायुह्येवैतान् संवृङ्क्ते ' सर्वान् इति श्रुतेः । सर्वगत्वा-त् = सर्वमूर्त्तसंयोगित्वादित्यर्थः । २ सर्वात्मा - सर्वप्रयत्नाश्रयः, आत्मयत्नयोः पर्यायत्वात् । ३ श्रव्यक्तः = अनुद्भुतमूर्तित्वेन बाह्यकरणागोचरः, योगाभ्यासावसेय इति यावत् । व्यक्तकर्मा = प्रकटक्रियः । ४ तिर्यग् ऊर्ध्वाधो गच्छतीति तिर्यग्गः, द्विगुणः = स्पर्शशब्दद्वितयगुणयुक्तः । तथा च मनुः– “ परस्परानुप्रवेशाद्धारयन्ति परस्परम् । गुणं पूर्वस्य पूर्वस्य धारयन्त्युत्तरोत्तरम् ॥ ” इति । अपि च – “ महाभूतानि खं वायुरग्निरापः क्षितिस्तथा । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ तेषामेकगुणः पूर्वो गुणवृद्धिः पूर्वः पूर्वगुणश्चैत्र क्रमतो गुणिषु स्मृतः ॥ ” इति । रजोबहुल: = त्रिगुणत्वेऽपि परे परे । कत्वाद्रजःप्रधानः । साङ्ख्ये— “ सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः प्रवर्त-अचिन्त्यवीर्यः = अचिन्त्यमियत्तया परिच्छेत्तुमशक्यं वीर्यं शक्तिर्यस्य सः, दोषाणां ” इति । दोषधातुमलानां नेता प्रेरकः, रोगसमूहे रोगहेतुसमुदाये राजते शोभते इति रोगसमूह-राट्, “ शाखागता कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च । ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति ॥ ” इति चरकानुशासनात् । ५ श्राशुकारी = शीघ्रं विनाशकारी, प्रकृतिभूतोऽपि मुहुरेकविधमनेकविधं चरितुं शीलमस्येति मुहुश्चारी । पक्वाधानं पक्वाशयः गुदः पायुश्चालयो यस्य स पक्वा-धान गुदालयः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 485
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] बो. " न्य-वा. य 1 स्य -i नु तुं निदानस्थानम् ' ३२५. ८ प्राणान् = अग्निषोमा-९ श्रादिशब्दात्प्रति-CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri देहे विचरतस्तस्य लक्षणानि निबोध मे । ९ ॥
दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च ।
क्रियाणामानुलोम्यं च करोत्य कुपितोऽनिलः ॥ १० ॥
यथाऽग्निः पञ्चधौ भिन्नो नामस्थानात्मकर्मभिः ।
भिन्नोऽनिलस्तथा ह्येको नामस्थानक्रियामयैः ॥ ११ ॥
प्रौणोदानौ समानश्च व्यानश्चापान एव च ।
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ॥। १२ ॥
वायुर्यो वक्त्रसंञ्चारी स प्राणो नाम देहधृक् ।
सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ॥ १३ ॥
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकन् गदान् । १ धातुशब्देनेह शरीरधारणकारणाद्रसादयः पुरीषादयश्चोच्यन्ते । विषयेषु = शब्दस्पर्शरूपरसगन्धेषु, सम्प्राप्तिं = समनस्केन्द्रियाणामभिसम्बन्धम् । २ क्रियाणां = वचनादीनाम्, आनुलोम्यं - यथास्वभावमनुकूलत्वम् । ३ अग्निः पित्तग एक एवाग्निः, पञ्चधा व्रणप्रश्ने पाचकरञ्जकालो चकभ्राजकसाधकेतिपञ्चप्रकारेण भिन्नः । ४ स्थानेत्यादिना सङ्क्षेपेण पूर्वोक्तमर्थं स्फोटयति- प्राणेति ॥ प्रागनिति प्राण-यतीति वा प्राणः, उद् ऊर्ध्वमनितीत्युदानः, भुक्तपीते समं नयतीति समानः, वीर्यवत्क-मे कुर्वन् विगृह्य वाऽनतीति व्यानः, मूत्रपुरीषाद्यपनयन्नधोऽनितीत्यपानः । शार्ङ्गधरे सुश्रुतातिरिक्तः क्रमो दृश्यते । तद्यथा – “ अपानः स्यात्समानश्च प्राणोदानौ तथैव च । व्यानश्चेति समीरस्य नामान्युक्तान्यनुक्रमात् ॥ ” इति । " हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥ ” इति । हृदि उरःस्थाने एषां क्रमशो व्यापाराणि – " अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाच-नम् । भाषणादिनिमेषादि तद्व्यापाराः क्रमादमी ॥ ” इति । ५ स्थानस्थाः = साम्या-वस्थाऽवस्थिताः, अविकृता इति यावत् । ६ यापयन्ति = परिपालयन्ति । • __७ वक्त्रसञ्चारी = मुखसञ्चरणशीलः, वातस्य स्थानमेतद् विस्तरतो बोद्धयम् । सङ्क्षेपतस्तु व्रणप्रश्ने " " । वक्त्र सञ्चारित्वमस्योप वातः श्रोणिगुदसंश्रयः इत्युक्तम् लक्षणम् । तेन मूर्धोरःकण्ठनासिका अपि प्राणस्य स्थानमिति ढल्हणः । तथा चाष्टाङ्ग-सङ्ग्रह - " तत्र प्राणोमूघन्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठी-वनक्षवथूगारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः । ” इति । दीन्, अवलम्बते = देहधारणाय स्वक्रियासु योजयतीत्यर्थः ।
पृष्ठ 486
पाठ पढ़ें पाठ छिपाएँ
३२६. Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १ उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ॥ १४ ॥
तेन भाषितगीतादिविशेषोऽभिप्रवर्त्तते 1 ऊर्ध्वजत्रुगतात् रोगान् करोति च विशेषतः ॥ १५ ॥
आमपक्वाशयचरः समानो वह्निसङ्गतः ।
सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि ॥ १६ ॥
गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् ।
कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ॥ १७ ॥
स्वेदासृक्स्रावणश्चापि पञ्चध चेष्टयत्यपि ।
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् ॥ १८ ॥
पक्काधानालयोऽपानः काले कर्षति च्चाप्ययम् ।
समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः ॥ १ ९ ॥
क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुर्दा श्रयान् ।
शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ॥ २० ॥
युगपत् कुपिताश्चापि देहं " भिन्द्यरसंशयम् ।
अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः ॥ २१ ॥
बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् । श्यायादयः । १ ऊर्ध्वशब्देन नाभ्युरःकण्ठादीनां भाषितगीतादावादिशब्देन प्रयत्ना-दीनां च परिग्रहः । तदुक्तं चरके – “ उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च । वाक्प्रवृत्तिप्रयत्नौजोबलवर्णादि कर्म च ॥ ” इति । वाग्भटे - " उर: स्थानमुदानस् नासानाभिगलांश्चरेत् । " इति । २ ऊर्ध्वजत्रुगतान् = नेत्रमुखघ्राणकर्णशिरःसंश्रयान् । चकारात्कासादीनन्यान् रोगान् करोति । ३ आमस्य पक्वं तस्याशय श्रमपक्वाशयस्तत्र चरतीत्यामपक्काशय • चरः पच्यमानाहाराशयसञ्चारी, समानः = तन्नाम कवायुः, वह्निसङ्गतः = वह्नेः पार्श्वे मिलितः, “ अन्तरग्नेश्च पार्श्वस्थः समानः " इत्यात्रेयः । ४ तज्जान् = अन्नपाकजान्, = विशेषान् = रसदोषमूत्रपुरीषसमाख्यातान्, विविनक्ति = पृथक्करोति । ५ रसस्य संवहने सम्यक्प्रेरणे उद्यतः प्रवृत्त इति रसस वहनोद्यतः === उत्क्षेपणाप-। ६ पञ्चधा क्षेपणप्रसारणाकुञ्चनगमनानीति पञ्चविधैः कर्मभिः = ज्वरातीसार-। ७ सर्वदेहगान् रक्तपित्तप्रभृतीन् । पक्काधानं पक्वाशय आलयो यस्य स पक्काधानालयः । ९ ब-स्त्याश्रयोऽश्मर्यादिः, गुदाश्रयो भगन्दरादिः । १० भिन्द्युः = देहं विनाशयेयुः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 487
पाठ पढ़ें पाठ छिपाएँ
T. । य य. प-र. न. अ ० १ ] Digitized by Arya Samp नदानस्थानम् nai and eGangotri ३२७ वायुरामाशये क्रुद्धश्छर्यादीन् ' कुरुते गदान् ॥ २२ ॥
मोहं मूर्च्छा पिपासां च हृद्ब्रहं पार्श्ववेदनाम् ।
पक्वाशयस्थोऽन्त्रैकूजं शूलं नाभौ करोति च ॥ २३ ॥
कृच्छ्र मूत्रपुरीषत्वमानाहं त्रिवेदनाम् ।
श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ॥ २४ ॥
वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुर्चुमायनम् ।
त्वक स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ॥ २५ ॥
व्रणांश्च रक्तगो, ग्रन्थीन् सशूलान् मांससंश्रितः ।
तथा मेदः श्रितः कुर्याद् ग्रन्थीन्मन्दरुजोऽवरणान् ॥ २६ ॥
कुर्यात्सिरागतः शूलं सिराऽऽकुञ्चनपूरणम् ।
स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा ॥ २७ ॥
हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च ।
अस्थिशोषं च भेदं च कुर्याच्छूलं च तच्छ्रितः ॥ २८ ॥।
तथा मज्जगते रुकू च न कदाचित् प्रशाम्यति ।
' ' अप्रवृत्तिः प्रवृत्तिर्वा विकृतिः शुक्रगेऽनिले ॥। २ ९ ॥
हस्तपादशिरोधातूंस्तथा सञ्चरति क्रमात् ।
व्याप्नुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् ॥। ३० ॥
१ आदिशब्दाद्– “ रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः । कासः कण्ठास्य-शोषश्च श्वासश्चामाशयस्थिते ॥ ” इति माधवनिदानोक्तविशेषो ग्राह्यः । २ हृदयस्य बन्धनमिव अन्त्रकूजम् = अन्त्रे गुडगुडाद्यव्यक्तशब्दम् । वेदनाविशेषं हृद्ग्रहम् । ३ ४ त्रिकवेदनां = स्फिजोरुपरितन सन्धिवेदनामित्यर्थः । ५ इन्द्रियवधं = स्वस्वविषय-ग्रहणेऽशक्तताम्, श्रोत्रे कुपितः श्रुतिनाशं, नेत्रे कुपितो दृष्टिनाशं कुर्यादित्याद्यवसेयम् । ६ चुमुचुमायनं = राजिकाकल्कलिप्ताङ्गमिव वेदनाविशेषम् । ७ चन्द्रिकाकारो निब-न्थसङ्ग्रइव्याख्याकारश्च त्वक्शब्देन रसमाह, तेन रसगत इत्यर्थो बोध्यः । त्वग्भेदं = त्वचामवदारणम्, परिपोटनं - सर्वतस्त्वचां विचूर्णनम् । ८ माधवनिदाने रक्तगतवातलक्षणं तु - " रुजस्तीत्राः ससन्तापा वैवर्ण्यं कृशता • रुचिः । गात्रे चारूंषि भुक्तस्य स्तम्भाश्चासृग्गतेऽनिले ॥ ” इति । ९ तच्छ्रितः = यथा-अस्थ्याश्रितः । १० अप्रवृत्तिः = स्त्रीसम्भोगे शुक्रस्यैकान्ततोऽमोक्षः, प्रवृत्तिः = कालं मोक्षः विकृतिः विकारः तदुक्तं माधवनिदाने- " क्षिप्रं मुञ्चति , = शुक्रशोणितनान (, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 488
पाठ पढ़ें पाठ छिपाएँ
३२८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० १
स्तम्भनाक्षे परणस्वापशोफशूलानि सर्वगः ।
स्थानेषूक्तेषु सम्मिश्रः सम्मिश्राः कुरुते रुजः ॥ ३१ ॥
कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान् ।
दाहँ सन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ॥ ३२ ॥
शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते ।
सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ॥ ३३ ॥
शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते ।
प्राणे पित्तावृते छदिदहश्चैवोपजायते ॥ ३४ ॥
दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते ।
उदाने पित्तसंयुक्ते मूर्च्छादाह भ्रमक्लमाः ॥ ३५ ॥
स्वेद मन्दोऽग्निः शीतस्तम्भौ कफावृते ।
समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ॥ ३६ ॥
कौधिकं च विण्मूत्रं रोमहर्षः कफावृते ।
अपाने पित्तसंयुक्ते दाहौण्ये स्यार्दसृग्दरः ॥ ३७ ॥
अधःकायगुरुत्वं च तस्मिन्नेव कफावृते बध्नाति शुक्रं गर्भमथापि वा । विकृति जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ॥ ” इति । विकृता इति पाठे प्रवृत्तिरित्यस्य विशेषणम् । अतिशीघ्रातिमन्दग्रथितविवर्णादियुक्तेत्यर्थं इति ढल्हणः । १ एकाङ्गगत एकधातुगतो वा वायुरुपेक्षितः सर्वाङ्गगतः सर्वधातुगतो वा भूत्वा यानि कर्माणि करोति तानि दर्शयति - स्तम्भनेति । स्तम्भनं = जड़ीभावः । २ उक्तेषु स्थानेषु आमाशयादिपु सम्मिश्रः पित्तादिभिरावृतः, सम्मिश्राः यथायोगं पित्तादीनां दाहादिकार्यलिङ्गैः समन्विताः । ' अभि । ३ अभितान् = बहुविधान् तान् ' इति पाठे तान् अवयवान्, अभि लक्ष्यीकृत्येत्यर्थः । ४ ' सम्मिश्राः कुरुते रुजः ' इत्यत्र सङ्क्षेपेणोक्तावरणस्य त्रयोदशप्रकारान् प्रतिपादयति - दाहेति । वाग्भटे. “ वायोरावरणं चातो बहुभेदं प्रवक्ष्यते । लिङ्गं पित्तावृत्ते दाहस्तृष्णा शूलं श्रमस्तमः ॥ ” इत्यादिना वायोरावरणं द्वाविंशतिविधमुक्तम् । ५ कफाधिकं = इलेष्मवद्दुलं विण्मूत्रम् । ६ असृग्दोर्यते च्यवते यस्मिन्निति असृग्दरः रक्तप्रदरः । तदुक्तं माधवकरेण-“ विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुन्नाच्च भवेत्सर्व । " सृग्रं साङ्गमर्दं सवेदनम् ” इति । ऋतुकाल भिन्नान्यकालेऽपि अधिकार्तवस्रावोऽसृग्दर एव. । तद् वक्ष्यति शारीरे- " तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि । असृग्दरं विजानीयादतोऽ CC - 0. Gurukul Kangri Collection, Haridwar =
पृष्ठ 489
पाठ पढ़ें पाठ छिपाएँ
॥ Bi गं भि टे. II सर्व व S. ३ अ ० १ ] Digitized by Arya कमिदानस्थानम् phennai and eGangotri ३२ ९ व्याने पित्तावृते दाहो गात्रं विक्षेपणं क्लमः ॥ ३८ ॥
गुरुणि सर्वगात्राणि स्तम्भनं चास्थि पर्वणाम् ।
लिङ्ग कफावृते व्याने चेष्टाः स्तम्भस्तथैव च ॥ ३ ९ ॥
प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् ।
रोगाध्व प्रमदामद्यव्यायामैश्चातिपीडनात् ॥ ४० ॥
ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् ।
व्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ॥ ४१ ॥
हस्त्यश्वोर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणैः सेवितैः स्वैः ।
तीक्ष्णोष्णाम्ल क्षारशाकादिभोज्यैः सन्तापाद्यैर्भूयसा सेवितैश्च ॥४२ ॥
क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्ग संरुद्धयाशु यातः ।
ऋद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु ॥ ४३ ॥
तत् " संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् । तद्वत् पित्तं दूषितेनासृजाऽऽक्तं श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्त: ४४
" स्पर्शोद्विमो तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ ।
पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ॥ ४५ ॥
कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते ।
सर्वैदुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ॥ ४६ ॥
न्यद्रक्तलक्षणात् ॥ ” इति । १ गात्रविक्षेपणं = स्वेच्छया गात्रस्येतस्ततः सञ्चलनम् । २ अस्थिपर्वणाम् = अस्थिसन्धीनाम् । ३ चेष्टा गमनादिका तत्रासामर्थ्यं चेष्टास्तम्भः ॥ ४ सुकुमाराणां = मृदुदेहावयवानाम् । ५ ' शोकाच्च प्रमदा ' इति पाठान्तरम् विशिष्टस-६ मधुकोशव्याख्यायाम् - वातरक्तं हि दुष्टेन वातेन दुष्टेन रक्तेन च पथि । म्प्राप्तिकं विकारान्तरमेव । तदुक्तं चरके- “ वायुः प्रवृद्धो वृद्धेन = भारहरणादिकारणैः रक्तेनावारितः । क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥ ” इति । ७ अन्यैः सम्बन्धः | १० श्रत्युद्रिक्तम् = ८ स्वैः = लघुरूचादिभिः । ९ यातः = गच्छतः, वायोरिति तद् रक्तम्, तत्प्राब-अतिशयेन वृद्धिं गतम् । ११ दूषितेन वायुना सम्पृक्तं मिलितं १२ अक्तः , = संयुक्तः । त्याद् वातप्राबल्यात् रक्तस्याप्राबल्याद् वातरक्तमुच्यते । - स्पर्धेति । स्पर्शो-१३ वातादिदोषविशेषेण वातरक्तस्य विशिष्टलिङ्गानि दर्शयति , “ शीतप्रद्वेषश्चानिलोत्तरे ” द्विग्नौ स्पर्शासहौ पादाविति सम्बन्धः । स्पर्शोऽयं शीत एव । १५ स्वं स्वं रूपं • स्पर्शोद्वि-इति चरकैकवाक्यत्वात् । १४ स्वापः - स्पर्शानभिज्ञता CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 490
पाठ पढ़ें पाठ छिपाएँ
३३० Digitized by Arya Samaj " सुश्रुतसंहित Anai and eGangotri [ अ ० १
प्रोग्रपे शिथिलो स्विन्नौ शीतलौ सविपर्ययौ ।
वैवर्ण्यतोद सुप्तत्व गुरुत्वौषसमन्वितौ ॥ ४७ ॥
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि ।
आखोविषमिव क्रुद्धं तद्देहमनुसर्पति ॥ ४८ ॥
आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् ।
उपद्रवैश्व यज्जुष्टं प्राणमांसक्षयादिभिः ॥ ४ ९ ॥
शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् ।
यद तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ॥ ५० ॥
तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्वरः ।
मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ॥ ५१ ॥
सोऽर्पतानकसंज्ञो यः पातयत्यन्तराऽन्तरा! कँफान्वितो भृशं वायुम्तास्वेव यदि तिष्ठति ॥ ५२ ॥
ग्नादित्रिदोषलिङ्गम् । १ प्राग्रूपे = पूर्वरूपे, “ अव्यक्तलक्षणं तेषां पूर्वरूपमिति स्मृतम् । आत्मरूपं तु यद् व्यक्तमपायो लघुता पुनः ॥ ” इति । २ सविपर्ययौ = शैधि-ल्यादिलक्षणेषु विपर्ययेण कठिनास्विन्नोष्णौ । ' पादौ ' इत्यध्याहारः । तद्यथाऽऽद्दाष्टाङ्ग-सङ्ग्रहे- “ कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः । भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भव • न्ति च ॥ ” इति । ३ पादयोः कदाचिद इस्तयोरपि मूलं तलम् श्रास्थाय प्रथमभव-स्थानं कृत्वा आखोः मूषिकस्य विषमिव तद्देहं सकलमेव अनुसर्पति । खोर्विषमित्य-नैन मन्दविसर्पितां दर्शितवानिति विजयरक्षितः । ४ वातरक्तस्यासाध्यलक्षणानि निर्दिशति — आजान्विति । ५ आदिशब्दात् “ अस्वप्नारोचकश्वासमांसकोथ शिरोग्रहाः । मूर्च्छा च मदरु-क्लृष्णाज्वरमोद्दप्रवेपकाः ॥ हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः । अङ्गुलीवक्रता-: स्फोटादाहमर्मग्रहार्बुदाः ॥ ” इतिचरकोक्ता उपद्रवा ग्रायाः । ६ आक्षेपकस्य सामा-न्यलक्षणं विशिनष्टि — यदेति । यदा सर्वाः घमनोः ऊर्ध्वाधस्तिर्यग्गाश्चतुर्विंशतिर्नाड्यः श्रभ्येति व्याप्नोति । कः? मुहुश्चरो मारुत इति सम्बन्धः । मुदुश्चरः = वारंवारं सच. रणशीलः । ७ तदाक्षेपात् = देहचालनात्, श्रक्षिपति = हस्त्यारूढस्येव देहं चालय-तीत्याक्षेपकः । ८ श्रक्षेपकविशॆषाणामपतानकादिबाह्यायामान्तानां लक्षणानि दर्शयति - स इति । य श्राक्षेपकोऽन्तरा मध्ये मध्ये पातयति मोहयति सोऽपतानसंज्ञः । ९ दण्डापतानका-CC - 0. Gurukul Kangri Collection, Haridwar