सुश्रुत संहिता चौखम्बा — पृष्ठ 481–490

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 481–490

पृष्ठ 481

सुश्रुत संहिता चौखम्बा, पृष्ठ 481 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri अ ० ४३ Pigit ३६ १ ॥ ली. El श. नः, 1 दः । पत्र स्य २१ " सूत्रस्थानम् | " ३२१ CC - 0. Gurukul Kangri Collection, Haridwar द्रवः प्रक्लेद्नः, सान्द्रः स्थूलः स्याद् बन्धकारकः लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा ॥ । ५१ ९ ॥

सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ।

दुर्गन्धो विपरीतोऽस्मादधृल्लासारुचिकारकः ॥ ५२० ॥

सरोऽनुलोमनः प्रोक्तो, मन्दो यात्राकरः स्मृतः ।

व्यवोयी चाखिलं देहं व्याप्य पाकाय कल्पते ॥ ५२१ ॥

विकौसी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ।

आशुकारी तथाऽऽशुत्वाद्धावत्यम्भसि तैलवत् ॥ ५२२ ॥

सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतः स्वनुसरः स्मृतः ।

गुणा विंशतिरित्येवं यथावत्परिकीत्तिताः ॥ ५२३ ॥

सम्प्रवक्ष्याम्यतश्चोध्वँमाहारंगतिनिश्चयम् ।

पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः ।

विपक्कः पञ्चधा सम्यग्गुणान् स्वानभिवर्द्धयेत् ॥ ५२४ ॥

अविदग्धः कफं पित्तं विदग्धः पवनं पुनः ।

सम्यग्विपक्को निस्सारः आहारः परिबृंहयेत् ॥ ५२५ ॥

स्थाने ‘ दश चान्यान् इति केषाञ्चन सम्मतः पाठः समीचीनः प्रतिभाति । चकाराद्दशे-तरगुणसमुच्चयः । एव च विंशतिर्गुणा इत्यत्र न किमपि शङ्कासमाधानम् । श्रतएव श्रीभावमिश्रः— “ सुश्रुते तु गुणा एते विंशतिस्तान् ब्रवे शृणु । गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः ॥ पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ । स्थूलः सूक्ष्मो द्रवः शुष्क आशुर्मंन्दः स्मृता गुणाः ॥ ” इति । चरकेऽपि विंशतिरेव गुणाः परिगणिताः । १ यात्राकरः = कालक्षेपकरः, ' यात्रा स्याद् यापने गतौ ' इत्यमरः । २ शाङ्गधरोऽ-पि– “ पूर्वं व्याप्याखिलं कायं ततः पार्क च गच्छति । व्यवायि तद्यथा भङ्गा फेनं चाहि समुद्भवम् ॥ ” इति । ३ ‘ “ सन्धिबन्धांस्तु शिथिलान् यत्करोति विकासि तत् । विश्लेष्यौ-जश्च धातुभ्यो यथा क्रमुककोद्रवाः ॥ ” इति । ४ आहियते रसोऽस्मादित्याहारोऽन्नपानं तस्य गतिः कर्म तस्य निश्चयम् आहारगतिनिश्चयं धातुगुणवर्धनम्, यद्यदात्मकमन्न-मभ्यवहृतं पक्कं यद् द्रव्यगुणं याति गतमपि यच्च पुष्णाति तस्य निर्णयमिति ढल्हणः । ५ सम्यग् विपक्कःपाचकाग्निना परिणतिं गतः स्वान् गुणानभिवर्द्धयेदिति सम्बन्धः । चरकेऽप्युक्तम् — “ यथास्वैरेव पार्थिवानेव शेषाः पुष्यन्ते देहे द्रव्यगुणाः पृथक् । पार्थिवाः शेषांश्च कृत्स्नशः ६ निस्सारः = नीरसः, मलमात्रेणावस्थित इत्यर्थः । ॥ ” इति ।

पृष्ठ 482

सुश्रुत संहिता चौखम्बा, पृष्ठ 482 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-विण्मूत्रमाहारमलः सारः प्रागीरितो रसः । [ अ ० ४६ स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥ ५२६ ॥।

कफः पित्तं मलः ' खेषु स्वेदः स्यान्नखरोम च ।

नेत्रविट् त्वक्षु च स्नेहो धातूंनां क्रमशो मलाः ॥ ५२७ ॥

दिवाविबुद्धे हृदये जाग्रतः पुण्डरीकवत् ।

अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ॥ ५२८ ॥

हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः ।

क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ॥ ५२ ९ ॥

इमं विधिं योऽनुमतं महामुनेनृपर्षिमुख्यस्य पठेद्धि यत्नतः स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ॥५३० ॥

इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥

१ विण्मूत्रम् आहारमलः, रसः आहारस्य सारः प्राक् शोणितवर्णनीये ईरितः क-थित: । शार्ङ्गधरोऽपि- “ आहारस्य रसः सारः सारहीनो मलद्रवः । सिराभिस्तज्जलं नीतं बस्तौ मूत्रत्वमाप्नुयात् ॥ तत् किट्ट च मलं ज्ञेयं तिष्ठेत्पक्वाशये च तत् । बलित्रितयमा-र्गेण यात्यपानेन नोदितम् ॥ ” इति। २ प्रतर्पयेत् = अतिशयेन वर्द्धयेत् । ३ खेषु = कर्णश्रोत्रमुखादिस्रोतस्सु, मलः = कर्णंगूथादिः । ४ धातूनां = रसरक्तमांसमेदोऽस्थिम-ज्जानाम् । ५ दिवा दिवसे जाग्रतः पुरुषस्य पुण्डरीकवत् पद्मवद् हृदये विबुद्धे रविकि-रणजुष्टत्वेन सक्रियत्वेन च श्लेष्मणोऽपचयात्परिस्फुटान्तः सुषिरे सति अक्लिन्नधातुत्वात् क्लेदेन अननुगतदोषधातुमलत्वात्, श्रजीर्णमप्यन्नं निशि दितमित्यर्थः । ६ रात्रौ प्रसुप्त-स्य हृदि विशेषतः सम्मीलिते सङ्कुचिते क्किन्नविस्रस्तधातुत्वाद् आर्द्र शिथिलधातुत्वाद् अजीर्णे ‘ सायं भुक्ते’इति शेषः । दिवा न हितमन्नमित्यर्थः । ७ महामुनैः = धन्वन्तरेः, अनुमतं = सम्मतं; विधिम् = = पण्डितप्रधानः । आहारविधिम् । ८ सूरिसत्तमः इति पण्डितश्री कपिलदेवमिश्रतनुजन्मना मिश्रोपाह्वश्री सुदामाशम्र्म्मणा निम्मितायां सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां सूत्रस्थाने षट्चत्वारिंशोऽध्यायः । समाप्तमिदं सूत्रस्थानम् । ZR CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 483

सुश्रुत संहिता चौखम्बा, पृष्ठ 483 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६ क. तं -= म. क. त् स द् र, ! अथ निदानस्थानम् ॥ प्रथमोऽध्यायः । अथ निदानस्थानम् | कीटमुद्धरन्ती सकलाधिव्याधिकष्टततिजुष्टम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri अथातो वातव्याधिनिदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

धन्वन्तरिं धर्मभृतां वरिष्ठमृतोद्भवम् ।

चरणावुपसंगृह्य सुश्रुतः परिपृच्छति ॥। ३ ॥

वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः ।

स्थानं कर्म च रोगांश्च वद मे वदतां वर! ॥ ४ ॥

लोकं दशशतनयना सद्गुणा सुधारसमय्युमा जयति ॥ १ ॥

१ " रोगमादौ परीक्षेत ” इत्युक्तेर्हेतुलक्षणप्रतिपादकनिदानस्थानमारभ्यते— अथेति । “ पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः । वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत् ॥ ” इत्युक्त्या दोषेषु वातस्य प्राधान्यात् प्रथमं वातव्याधिनिदानमधिकरोति । वातजनितोऽसाधारणव्याधिर्वातव्याधिराक्षेपकादिस्तस्य निदानं वातव्याधिनिदानम् । निर्दिश्यते व्याधिरनेनेति निदानं विप्रकृष्टसन्निकृष्टभेदेन व्याध्युत्पत्तिहेतुभूतमित्यर्थः । • विप्रकृष्टं — विरुद्धाहारादि, सन्निकृष्टं — वातादि । अपि च – “ नि निश्चयनिषेधयोः ’ इति वररुचेरुपसर्गसूत्रेण निशब्दस्य निश्चयार्थकत्वाद् व्याधिनिश्वयकरणं निदान-मित्यर्थः । रोगाणां निदानं पञ्चविधमित्याह माधवकरः - " निदानं पूर्वरूपाणि रूपाण्यु-पशयस्तथा । समाप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्त हेत्वायतन. प्रत्ययोत्थानकारणैः । निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ ” इति । शार्ङ्गधरे वातव्याधेरशीतिर्भेदा उक्ताः— “ अशीतिर्वातज रोगाः कथ्यन्ते मुनिभाषिताः ” इति । २ अमृतेन।सह उद्भव ' उत्पत्तिर्यस्य तम् । “ ततो धन्वन्तरिर्देवः श्वेताम्बरधरः स्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ ” इति विष्णुपुराणम् । विष्णोरं • शांशसम्भूतस्य धन्वन्तरैः कथा ब्रह्मवैवर्तपुराणादावनुसन्धेया । ३ प्रकृतिभूतस्य =

पृष्ठ 484

सुश्रुत संहिता चौखम्बा, पृष्ठ 484 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२४ * Digitized by Arya Samaj Foundation Chennai and eGangotri " सुश्रुतसंहिताया--[ अ ० १

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः ।

स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ॥ ५ ॥

स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च ।

सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ॥ ६ ॥

स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् ।

अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ॥ ७ ॥

तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च ।

अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ॥ ८ ॥

आशुकारी मुहुश्वारी पक्काधानगुदालयः । -प्राकृतस्य, व्यापन्नस्य = विकृतस्य, कोपनैः = ' तत्र बलवत् " इत्यादिना व्रणप्रश्नो-क्तैर्द्रव्यगुणकर्मभिः । १ वायोः स्वयम्भूत्वे कारणं निर्दिशति – स्वातन्त्र्यादिति । स्वातन्त्र्यात् = स्वाधीनत्वात्, स्वकर्मविषये नान्येन पित्तादिना प्रेर्यंत इत्यर्थः । नित्य-भावात् = प्रलयेऽप्यवस्थानात्, ' वायुह्येवैतान् संवृङ्क्ते ' सर्वान् इति श्रुतेः । सर्वगत्वा-त् = सर्वमूर्त्तसंयोगित्वादित्यर्थः । २ सर्वात्मा - सर्वप्रयत्नाश्रयः, आत्मयत्नयोः पर्यायत्वात् । ३ श्रव्यक्तः = अनुद्भुतमूर्तित्वेन बाह्यकरणागोचरः, योगाभ्यासावसेय इति यावत् । व्यक्तकर्मा = प्रकटक्रियः । ४ तिर्यग् ऊर्ध्वाधो गच्छतीति तिर्यग्गः, द्विगुणः = स्पर्शशब्दद्वितयगुणयुक्तः । तथा च मनुः– “ परस्परानुप्रवेशाद्धारयन्ति परस्परम् । गुणं पूर्वस्य पूर्वस्य धारयन्त्युत्तरोत्तरम् ॥ ” इति । अपि च – “ महाभूतानि खं वायुरग्निरापः क्षितिस्तथा । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ तेषामेकगुणः पूर्वो गुणवृद्धिः पूर्वः पूर्वगुणश्चैत्र क्रमतो गुणिषु स्मृतः ॥ ” इति । रजोबहुल: = त्रिगुणत्वेऽपि परे परे । कत्वाद्रजःप्रधानः । साङ्ख्ये— “ सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः प्रवर्त-अचिन्त्यवीर्यः = अचिन्त्यमियत्तया परिच्छेत्तुमशक्यं वीर्यं शक्तिर्यस्य सः, दोषाणां ” इति । दोषधातुमलानां नेता प्रेरकः, रोगसमूहे रोगहेतुसमुदाये राजते शोभते इति रोगसमूह-राट्, “ शाखागता कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च । ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति ॥ ” इति चरकानुशासनात् । ५ श्राशुकारी = शीघ्रं विनाशकारी, प्रकृतिभूतोऽपि मुहुरेकविधमनेकविधं चरितुं शीलमस्येति मुहुश्चारी । पक्वाधानं पक्वाशयः गुदः पायुश्चालयो यस्य स पक्वा-धान गुदालयः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 485

सुश्रुत संहिता चौखम्बा, पृष्ठ 485 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] बो. " न्य-वा. य 1 स्य -i नु तुं निदानस्थानम् ' ३२५. ८ प्राणान् = अग्निषोमा-९ श्रादिशब्दात्प्रति-CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri देहे विचरतस्तस्य लक्षणानि निबोध मे । ९ ॥

दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च ।

क्रियाणामानुलोम्यं च करोत्य कुपितोऽनिलः ॥ १० ॥

यथाऽग्निः पञ्चधौ भिन्नो नामस्थानात्मकर्मभिः ।

भिन्नोऽनिलस्तथा ह्येको नामस्थानक्रियामयैः ॥ ११ ॥

प्रौणोदानौ समानश्च व्यानश्चापान एव च ।

स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ॥। १२ ॥

वायुर्यो वक्त्रसंञ्चारी स प्राणो नाम देहधृक् ।

सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ॥ १३ ॥

प्रायशः कुरुते दुष्टो हिक्काश्वासादिकन् गदान् । १ धातुशब्देनेह शरीरधारणकारणाद्रसादयः पुरीषादयश्चोच्यन्ते । विषयेषु = शब्दस्पर्शरूपरसगन्धेषु, सम्प्राप्तिं = समनस्केन्द्रियाणामभिसम्बन्धम् । २ क्रियाणां = वचनादीनाम्, आनुलोम्यं - यथास्वभावमनुकूलत्वम् । ३ अग्निः पित्तग एक एवाग्निः, पञ्चधा व्रणप्रश्ने पाचकरञ्जकालो चकभ्राजकसाधकेतिपञ्चप्रकारेण भिन्नः । ४ स्थानेत्यादिना सङ्क्षेपेण पूर्वोक्तमर्थं स्फोटयति- प्राणेति ॥ प्रागनिति प्राण-यतीति वा प्राणः, उद् ऊर्ध्वमनितीत्युदानः, भुक्तपीते समं नयतीति समानः, वीर्यवत्क-मे कुर्वन् विगृह्य वाऽनतीति व्यानः, मूत्रपुरीषाद्यपनयन्नधोऽनितीत्यपानः । शार्ङ्गधरे सुश्रुतातिरिक्तः क्रमो दृश्यते । तद्यथा – “ अपानः स्यात्समानश्च प्राणोदानौ तथैव च । व्यानश्चेति समीरस्य नामान्युक्तान्यनुक्रमात् ॥ ” इति । " हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥ ” इति । हृदि उरःस्थाने एषां क्रमशो व्यापाराणि – " अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाच-नम् । भाषणादिनिमेषादि तद्व्यापाराः क्रमादमी ॥ ” इति । ५ स्थानस्थाः = साम्या-वस्थाऽवस्थिताः, अविकृता इति यावत् । ६ यापयन्ति = परिपालयन्ति । • __७ वक्त्रसञ्चारी = मुखसञ्चरणशीलः, वातस्य स्थानमेतद् विस्तरतो बोद्धयम् । सङ्क्षेपतस्तु व्रणप्रश्ने " " । वक्त्र सञ्चारित्वमस्योप वातः श्रोणिगुदसंश्रयः इत्युक्तम् लक्षणम् । तेन मूर्धोरःकण्ठनासिका अपि प्राणस्य स्थानमिति ढल्हणः । तथा चाष्टाङ्ग-सङ्ग्रह - " तत्र प्राणोमूघन्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठी-वनक्षवथूगारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः । ” इति । दीन्, अवलम्बते = देहधारणाय स्वक्रियासु योजयतीत्यर्थः ।

पृष्ठ 486

सुश्रुत संहिता चौखम्बा, पृष्ठ 486 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२६. Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १ उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ॥ १४ ॥

तेन भाषितगीतादिविशेषोऽभिप्रवर्त्तते 1 ऊर्ध्वजत्रुगतात् रोगान् करोति च विशेषतः ॥ १५ ॥

आमपक्वाशयचरः समानो वह्निसङ्गतः ।

सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि ॥ १६ ॥

गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् ।

कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ॥ १७ ॥

स्वेदासृक्स्रावणश्चापि पञ्चध चेष्टयत्यपि ।

क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् ॥ १८ ॥

पक्काधानालयोऽपानः काले कर्षति च्चाप्ययम् ।

समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः ॥ १ ९ ॥

क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुर्दा श्रयान् ।

शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ॥ २० ॥

युगपत् कुपिताश्चापि देहं " भिन्द्यरसंशयम् ।

अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः ॥ २१ ॥

बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् । श्यायादयः । १ ऊर्ध्वशब्देन नाभ्युरःकण्ठादीनां भाषितगीतादावादिशब्देन प्रयत्ना-दीनां च परिग्रहः । तदुक्तं चरके – “ उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च । वाक्प्रवृत्तिप्रयत्नौजोबलवर्णादि कर्म च ॥ ” इति । वाग्भटे - " उर: स्थानमुदानस् नासानाभिगलांश्चरेत् । " इति । २ ऊर्ध्वजत्रुगतान् = नेत्रमुखघ्राणकर्णशिरःसंश्रयान् । चकारात्कासादीनन्यान् रोगान् करोति । ३ आमस्य पक्वं तस्याशय श्रमपक्वाशयस्तत्र चरतीत्यामपक्काशय • चरः पच्यमानाहाराशयसञ्चारी, समानः = तन्नाम कवायुः, वह्निसङ्गतः = वह्नेः पार्श्वे मिलितः, “ अन्तरग्नेश्च पार्श्वस्थः समानः " इत्यात्रेयः । ४ तज्जान् = अन्नपाकजान्, = विशेषान् = रसदोषमूत्रपुरीषसमाख्यातान्, विविनक्ति = पृथक्करोति । ५ रसस्य संवहने सम्यक्प्रेरणे उद्यतः प्रवृत्त इति रसस वहनोद्यतः === उत्क्षेपणाप-। ६ पञ्चधा क्षेपणप्रसारणाकुञ्चनगमनानीति पञ्चविधैः कर्मभिः = ज्वरातीसार-। ७ सर्वदेहगान् रक्तपित्तप्रभृतीन् । पक्काधानं पक्वाशय आलयो यस्य स पक्काधानालयः । ९ ब-स्त्याश्रयोऽश्मर्यादिः, गुदाश्रयो भगन्दरादिः । १० भिन्द्युः = देहं विनाशयेयुः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 487

सुश्रुत संहिता चौखम्बा, पृष्ठ 487 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

T. । य य. प-र. न. अ ० १ ] Digitized by Arya Samp नदानस्थानम् nai and eGangotri ३२७ वायुरामाशये क्रुद्धश्छर्यादीन् ' कुरुते गदान् ॥ २२ ॥

मोहं मूर्च्छा पिपासां च हृद्ब्रहं पार्श्ववेदनाम् ।

पक्वाशयस्थोऽन्त्रैकूजं शूलं नाभौ करोति च ॥ २३ ॥

कृच्छ्र मूत्रपुरीषत्वमानाहं त्रिवेदनाम् ।

श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ॥ २४ ॥

वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुर्चुमायनम् ।

त्वक स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ॥ २५ ॥

व्रणांश्च रक्तगो, ग्रन्थीन् सशूलान् मांससंश्रितः ।

तथा मेदः श्रितः कुर्याद् ग्रन्थीन्मन्दरुजोऽवरणान् ॥ २६ ॥

कुर्यात्सिरागतः शूलं सिराऽऽकुञ्चनपूरणम् ।

स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा ॥ २७ ॥

हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च ।

अस्थिशोषं च भेदं च कुर्याच्छूलं च तच्छ्रितः ॥ २८ ॥।

तथा मज्जगते रुकू च न कदाचित् प्रशाम्यति ।

' ' अप्रवृत्तिः प्रवृत्तिर्वा विकृतिः शुक्रगेऽनिले ॥। २ ९ ॥

हस्तपादशिरोधातूंस्तथा सञ्चरति क्रमात् ।

व्याप्नुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् ॥। ३० ॥

१ आदिशब्दाद्– “ रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः । कासः कण्ठास्य-शोषश्च श्वासश्चामाशयस्थिते ॥ ” इति माधवनिदानोक्तविशेषो ग्राह्यः । २ हृदयस्य बन्धनमिव अन्त्रकूजम् = अन्त्रे गुडगुडाद्यव्यक्तशब्दम् । वेदनाविशेषं हृद्ग्रहम् । ३ ४ त्रिकवेदनां = स्फिजोरुपरितन सन्धिवेदनामित्यर्थः । ५ इन्द्रियवधं = स्वस्वविषय-ग्रहणेऽशक्तताम्, श्रोत्रे कुपितः श्रुतिनाशं, नेत्रे कुपितो दृष्टिनाशं कुर्यादित्याद्यवसेयम् । ६ चुमुचुमायनं = राजिकाकल्कलिप्ताङ्गमिव वेदनाविशेषम् । ७ चन्द्रिकाकारो निब-न्थसङ्ग्रइव्याख्याकारश्च त्वक्शब्देन रसमाह, तेन रसगत इत्यर्थो बोध्यः । त्वग्भेदं = त्वचामवदारणम्, परिपोटनं - सर्वतस्त्वचां विचूर्णनम् । ८ माधवनिदाने रक्तगतवातलक्षणं तु - " रुजस्तीत्राः ससन्तापा वैवर्ण्यं कृशता • रुचिः । गात्रे चारूंषि भुक्तस्य स्तम्भाश्चासृग्गतेऽनिले ॥ ” इति । ९ तच्छ्रितः = यथा-अस्थ्याश्रितः । १० अप्रवृत्तिः = स्त्रीसम्भोगे शुक्रस्यैकान्ततोऽमोक्षः, प्रवृत्तिः = कालं मोक्षः विकृतिः विकारः तदुक्तं माधवनिदाने- " क्षिप्रं मुञ्चति , = शुक्रशोणितनान (, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 488

सुश्रुत संहिता चौखम्बा, पृष्ठ 488 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० १

स्तम्भनाक्षे परणस्वापशोफशूलानि सर्वगः ।

स्थानेषूक्तेषु सम्मिश्रः सम्मिश्राः कुरुते रुजः ॥ ३१ ॥

कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान् ।

दाहँ सन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ॥ ३२ ॥

शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते ।

सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ॥ ३३ ॥

शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते ।

प्राणे पित्तावृते छदिदहश्चैवोपजायते ॥ ३४ ॥

दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते ।

उदाने पित्तसंयुक्ते मूर्च्छादाह भ्रमक्लमाः ॥ ३५ ॥

स्वेद मन्दोऽग्निः शीतस्तम्भौ कफावृते ।

समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ॥ ३६ ॥

कौधिकं च विण्मूत्रं रोमहर्षः कफावृते ।

अपाने पित्तसंयुक्ते दाहौण्ये स्यार्दसृग्दरः ॥ ३७ ॥

अधःकायगुरुत्वं च तस्मिन्नेव कफावृते बध्नाति शुक्रं गर्भमथापि वा । विकृति जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ॥ ” इति । विकृता इति पाठे प्रवृत्तिरित्यस्य विशेषणम् । अतिशीघ्रातिमन्दग्रथितविवर्णादियुक्तेत्यर्थं इति ढल्हणः । १ एकाङ्गगत एकधातुगतो वा वायुरुपेक्षितः सर्वाङ्गगतः सर्वधातुगतो वा भूत्वा यानि कर्माणि करोति तानि दर्शयति - स्तम्भनेति । स्तम्भनं = जड़ीभावः । २ उक्तेषु स्थानेषु आमाशयादिपु सम्मिश्रः पित्तादिभिरावृतः, सम्मिश्राः यथायोगं पित्तादीनां दाहादिकार्यलिङ्गैः समन्विताः । ' अभि । ३ अभितान् = बहुविधान् तान् ' इति पाठे तान् अवयवान्, अभि लक्ष्यीकृत्येत्यर्थः । ४ ' सम्मिश्राः कुरुते रुजः ' इत्यत्र सङ्क्षेपेणोक्तावरणस्य त्रयोदशप्रकारान् प्रतिपादयति - दाहेति । वाग्भटे. “ वायोरावरणं चातो बहुभेदं प्रवक्ष्यते । लिङ्गं पित्तावृत्ते दाहस्तृष्णा शूलं श्रमस्तमः ॥ ” इत्यादिना वायोरावरणं द्वाविंशतिविधमुक्तम् । ५ कफाधिकं = इलेष्मवद्दुलं विण्मूत्रम् । ६ असृग्दोर्यते च्यवते यस्मिन्निति असृग्दरः रक्तप्रदरः । तदुक्तं माधवकरेण-“ विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुन्नाच्च भवेत्सर्व । " सृग्रं साङ्गमर्दं सवेदनम् ” इति । ऋतुकाल भिन्नान्यकालेऽपि अधिकार्तवस्रावोऽसृग्दर एव. । तद् वक्ष्यति शारीरे- " तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि । असृग्दरं विजानीयादतोऽ CC - 0. Gurukul Kangri Collection, Haridwar =

पृष्ठ 489

सुश्रुत संहिता चौखम्बा, पृष्ठ 489 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

॥ Bi गं भि टे. II सर्व व S. ३ अ ० १ ] Digitized by Arya कमिदानस्थानम् phennai and eGangotri ३२ ९ व्याने पित्तावृते दाहो गात्रं विक्षेपणं क्लमः ॥ ३८ ॥

गुरुणि सर्वगात्राणि स्तम्भनं चास्थि पर्वणाम् ।

लिङ्ग कफावृते व्याने चेष्टाः स्तम्भस्तथैव च ॥ ३ ९ ॥

प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् ।

रोगाध्व प्रमदामद्यव्यायामैश्चातिपीडनात् ॥ ४० ॥

ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् ।

व्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ॥ ४१ ॥

हस्त्यश्वोर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणैः सेवितैः स्वैः ।

तीक्ष्णोष्णाम्ल क्षारशाकादिभोज्यैः सन्तापाद्यैर्भूयसा सेवितैश्च ॥४२ ॥

क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्ग संरुद्धयाशु यातः ।

ऋद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु ॥ ४३ ॥

तत् " संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् । तद्वत् पित्तं दूषितेनासृजाऽऽक्तं श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्त: ४४

" स्पर्शोद्विमो तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ ।

पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ॥ ४५ ॥

कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते ।

सर्वैदुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ॥ ४६ ॥

न्यद्रक्तलक्षणात् ॥ ” इति । १ गात्रविक्षेपणं = स्वेच्छया गात्रस्येतस्ततः सञ्चलनम् । २ अस्थिपर्वणाम् = अस्थिसन्धीनाम् । ३ चेष्टा गमनादिका तत्रासामर्थ्यं चेष्टास्तम्भः ॥ ४ सुकुमाराणां = मृदुदेहावयवानाम् । ५ ' शोकाच्च प्रमदा ' इति पाठान्तरम् विशिष्टस-६ मधुकोशव्याख्यायाम् - वातरक्तं हि दुष्टेन वातेन दुष्टेन रक्तेन च पथि । म्प्राप्तिकं विकारान्तरमेव । तदुक्तं चरके- “ वायुः प्रवृद्धो वृद्धेन = भारहरणादिकारणैः रक्तेनावारितः । क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥ ” इति । ७ अन्यैः सम्बन्धः | १० श्रत्युद्रिक्तम् = ८ स्वैः = लघुरूचादिभिः । ९ यातः = गच्छतः, वायोरिति तद् रक्तम्, तत्प्राब-अतिशयेन वृद्धिं गतम् । ११ दूषितेन वायुना सम्पृक्तं मिलितं १२ अक्तः , = संयुक्तः । त्याद् वातप्राबल्यात् रक्तस्याप्राबल्याद् वातरक्तमुच्यते । - स्पर्धेति । स्पर्शो-१३ वातादिदोषविशेषेण वातरक्तस्य विशिष्टलिङ्गानि दर्शयति , “ शीतप्रद्वेषश्चानिलोत्तरे ” द्विग्नौ स्पर्शासहौ पादाविति सम्बन्धः । स्पर्शोऽयं शीत एव । १५ स्वं स्वं रूपं • स्पर्शोद्वि-इति चरकैकवाक्यत्वात् । १४ स्वापः - स्पर्शानभिज्ञता CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 490

सुश्रुत संहिता चौखम्बा, पृष्ठ 490 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३० Digitized by Arya Samaj " सुश्रुतसंहित Anai and eGangotri [ अ ० १

प्रोग्रपे शिथिलो स्विन्नौ शीतलौ सविपर्ययौ ।

वैवर्ण्यतोद सुप्तत्व गुरुत्वौषसमन्वितौ ॥ ४७ ॥

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि ।

आखोविषमिव क्रुद्धं तद्देहमनुसर्पति ॥ ४८ ॥

आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् ।

उपद्रवैश्व यज्जुष्टं प्राणमांसक्षयादिभिः ॥ ४ ९ ॥

शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् ।

यद तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ॥ ५० ॥

तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्वरः ।

मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ॥ ५१ ॥

सोऽर्पतानकसंज्ञो यः पातयत्यन्तराऽन्तरा! कँफान्वितो भृशं वायुम्तास्वेव यदि तिष्ठति ॥ ५२ ॥

ग्नादित्रिदोषलिङ्गम् । १ प्राग्रूपे = पूर्वरूपे, “ अव्यक्तलक्षणं तेषां पूर्वरूपमिति स्मृतम् । आत्मरूपं तु यद् व्यक्तमपायो लघुता पुनः ॥ ” इति । २ सविपर्ययौ = शैधि-ल्यादिलक्षणेषु विपर्ययेण कठिनास्विन्नोष्णौ । ' पादौ ' इत्यध्याहारः । तद्यथाऽऽद्दाष्टाङ्ग-सङ्ग्रहे- “ कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः । भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भव • न्ति च ॥ ” इति । ३ पादयोः कदाचिद इस्तयोरपि मूलं तलम् श्रास्थाय प्रथमभव-स्थानं कृत्वा आखोः मूषिकस्य विषमिव तद्देहं सकलमेव अनुसर्पति । खोर्विषमित्य-नैन मन्दविसर्पितां दर्शितवानिति विजयरक्षितः । ४ वातरक्तस्यासाध्यलक्षणानि निर्दिशति — आजान्विति । ५ आदिशब्दात् “ अस्वप्नारोचकश्वासमांसकोथ शिरोग्रहाः । मूर्च्छा च मदरु-क्लृष्णाज्वरमोद्दप्रवेपकाः ॥ हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः । अङ्गुलीवक्रता-: स्फोटादाहमर्मग्रहार्बुदाः ॥ ” इतिचरकोक्ता उपद्रवा ग्रायाः । ६ आक्षेपकस्य सामा-न्यलक्षणं विशिनष्टि — यदेति । यदा सर्वाः घमनोः ऊर्ध्वाधस्तिर्यग्गाश्चतुर्विंशतिर्नाड्यः श्रभ्येति व्याप्नोति । कः? मुहुश्चरो मारुत इति सम्बन्धः । मुदुश्चरः = वारंवारं सच. रणशीलः । ७ तदाक्षेपात् = देहचालनात्, श्रक्षिपति = हस्त्यारूढस्येव देहं चालय-तीत्याक्षेपकः । ८ श्रक्षेपकविशॆषाणामपतानकादिबाह्यायामान्तानां लक्षणानि दर्शयति - स इति । य श्राक्षेपकोऽन्तरा मध्ये मध्ये पातयति मोहयति सोऽपतानसंज्ञः । ९ दण्डापतानका-CC - 0. Gurukul Kangri Collection, Haridwar