सुश्रुत संहिता चौखम्बा — पृष्ठ 501–510
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 501–510
पृष्ठ 501
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] ०२ नि-ाका-प्र. करी-नि-नानं खं ज्ञानं लव-1 उपरि दः । रही. II 9 स-स्त्व. तृतीयोऽध्यायः । तृतीयोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya निदानस्थानम् Ghennai and eGangotri ३४१ संसर्गं तं विजानीयात् संसर्गः स च षंविधः ॥ २२ ॥
त्रिदोषाण्यल्प लिङ्गानि याप्यानि तु विनिर्दिशेत् ।
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च ॥ २३ ॥
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ।
सन्निपातसमुत्थानि सहजानि तु वर्जयेत् ॥ २४ ॥
सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः ।
तैस्तु प्रतिहतो वायुरपानः संन्निवर्तते ॥ २५ ॥
ततो व्यानेन सङ्गम्य ज्योतिर्मृद्नाति देहिनाम् ॥ २६ ॥
२ ॥
इति सुश्रुतसंहितायां निदानस्थानेऽशनिदानं नाम द्वितीयोऽध्यायः ॥
अथातोऽश्मरीणां निदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
चतस्रोऽश्मर्यो भवन्ति श्लेष्माधिष्ठानाः । तद्यथा - श्लेष्मणा, वातेन, पित्तेन, शुक्रेण चेति ॥ ३ ॥
वातरक्ते, त्यादिपूर्वोक्तश्लोकेषु वा । १ षड्विधः = वातपित्ते, वातकफौ, पित्तकफौ, पित्तरक्ते, कफरक्ते चेति षट् प्रकारः ॥ ४ स-२ परिगतोऽतिक्रान्तः संवत्सरो यैस्तानि परिसंवत्सराणि = उपरि परावर्तते, अधो न निस्सरतीत्यर्थः । ३ सन्निवर्तते । ङ्गम्य व्यानेन मिलित्वा देहिनां, ज्योतिः श्रग्नि, मृद्गाति मन्दीकरोतीत्यर्थः । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां द्वितीयोऽध्यायः ५ गुदवस्त्योरैकाधिकरण्याद् बस्तिगतव्याधानां यथाकथञ्चित्साजात्यमस्तीत्यर्शो-निदानानन्तरमश्मरीणां निदानमारभ्यते । ६ श्लेष्माधिष्ठानाः = कफसमवायिका- " वि -. रणाः । तिस्र एव श्लेष्माधिष्ठानाः शुक्राश्मरी शुक्राधिष्ठाना । तथा च चरकः , शोषयेद् वस्तिगतं अन्ये " सौम्यम् " इति वचनाच्छुक्रा-सशुक्रम् " इति । तु शुक्र तु । प्रायः श्मर्यपि श्लेष्माधिष्ठानैव “ वातपित्तकफे स्तिस्रश्चतुर्थी शुक्रजाऽपरा । तदुक्तम् —
पृष्ठ 502
पाठ पढ़ें पाठ छिपाएँ
३४२ Digitized by Arya Samaj Foundat " सुश्रुतसंहिताया-and eGangotri [ अ ० ३ तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्र॑स॒-पृक्तोऽनुप्रविश्य बस्तिमश्मरीं जनयति ॥ ४ ॥
तासां पूर्वरूपाणि – बस्तिपीडारोचकौ मूत्रकृच्छ्रं वस्तैि शिरो-मुष्कशेफसां वेदना ज्वरः कृच्छ्रासादौ वस्तिगन्धित्वं मूत्रस्येति || ५ ||
यथास्ववेदनावर्णं दुष्टं सान्द्रमथाविलम् ।
पूर्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः ॥ ६ ॥
अर्थं जातासु नाभिबस्तिसेवनी मेहनेष्वन्यतमस्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणं गोमेदकप्रकाश-मत्याविलं ससितं विसृजति । धावनलङ्घनप्लवन पृष्ठयानोष्णा ध्वगमनैश्वास्य वेदना भवन्ति ॥ ७ ॥
तत्र, श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवह्रतोऽत्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्त्रोतो निरुणद्धि, तस्य मूत्रप्रति-घाताद्दाल्यते भिद्यते निस्तुद्यत इव च वस्तिर्गुरुः शीतश्च भवति । अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपु-ष्पवर्णा वा भवति; तां श्लैष्मिकीमिति विद्यात् ॥ ८ ॥
II. पित्तयुक्तस्तु श्लेष्मा " सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य श्लेष्माश्रयाः सर्वा श्रश्मयः स्युर्यमोपमाः ॥ ” इति । १ मूत्रसम्पृक्तः = मूत्रसंसृष्टः, वस्तिमनुप्रविश्येति सम्बन्धः । २ बस्तिशिरः = मूत्राशयद्वारम् । ३ कृच्छावसा. दः = कष्टयुक्ताङ्गग्लानिः, बस्तगन्धित्वं= छागसमानगन्धत्वम् । ४ यथास्वं यथादोषं वेदनावर्णश्च यस्मिन् मूत्रे तद् यथास्त्रवेदनावर्णम्, दुष्टं वातादिभिः । ५ श्रश्मनः = अश्मरीसमूहस्येत्यर्थः । ६ सर्वासां सामान्यलक्षणं प्रतिपादयति — अथेति = अश्मर्या 1 मार्गांवरोधान्मूत्रधारानिरोधः, सरुधिरमूत्रता = अश्मर्याः सङ्घट्टनात्सरक्तमूत्रप्रवर्तनम्, । ७ मूत्रधारासङ्गः मूत्रविकिरणम् = शिश्नमणावश्मरीनिरोधाद् मूत्रस्येतश्चेतश्च गमनम् ससिक्तं = सिकताऽऽकारेणाश्मर्थ्यंशेनानुगतम् । मध्ये ॥ ९ तत्र = असंशोधनशीलापथ्यकारिषु श्रत्र ‘ तत्रात्यर्थं श्लेष्मलमन्नमभ्यवहरतः । श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिम् ' इति हाराणचन्द्रसम्मतपाठः । १० तस्य = पुरुषस्य, मूत्रप्रतिघातात् = मूत्रावरोधात्, || दाल्यते = कुठारेणेव दीर्यते भिद्यते श्रारयेव = , स्फोटयते, निस्तुद्यते = सूचीभिरिव व्यथ्यते । ११ सङ्घातं = काठिन्यमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 503
पाठ पढ़ें पाठ छिपाएँ
३ अ ० ३ ] स. ॥५ ॥
त JI. चः ते. ता. तेषं र्या " व निदानस्थानम् । ३४३ = CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातादूष्यते चूष्यते दह्यते पच्यत इव बस्तिरु वातश्च भवति । अश्मरी चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधुवर्णा वा भवति, तां पैत्तिकीमिति विद्यात् ॥ ९ ॥
वातयुतस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि, तस्य मूत्रप्रतीघातात्तीत्रा वेदना भवति, तथाऽत्यथ पीड्यमानो दन्तान् खादति नाभिं पीड-यति मेहूं मृद्नोति पायुं स्पृशति विर्धिते विदहति वातमूत्रपुरी-पाणि कृच्छ्रेण चाय मेहतो निःसरन्ति । अश्मरी चात्र श्यावा परुषा विपमा खैरा कदम्बपुष्पवत्कण्टकाचिता भवति; तां वातिकी-मिति विद्यात् ॥ १० ॥
प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्ध-गुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति । तेषामेवाल्पब-स्तिकायत्वादनुपचितमांसत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति, महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति ॥ ११ ॥
मैथुनाभिघातादतिमैथुनाद्वा शुक्रं चलितमनिर्गच्छद्विमार्गगम-नादनिलोऽभितः संगृह्य मेदवृषणयोरन्तरे संहरति, संहृत्य चोप-शोषयति । सा मूत्रमार्गमावृणोति, मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च १ ऊष्यते = समीपस्थेनेवाग्निनोपतप्यते, चूष्यते = आकृष्यत इव, दह्यते = अग्निना भस्मसादिव क्रियते, पच्यते = क्षारेणेव दाते. उष्णवातः = • - उत्तरन्त्रे पठितो मूत्राघात भेदः । तद्यथा— “ व्यायामाध्वातपैः पित्तं बस्ति प्राप्यानिलावृतम् । बस्ति मेढ़ गुदं चैवप्रदहन् स्रावयेदधः ॥ मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा । कृच्छ्रात्पुनः पुनर्ज-। २ मृद्नाति = मेढ्रमर्दनं करोति । ३ विशर्द्धते = न्तोरुष्णवातं वदन्ति तम् ॥ ” इति आर्त्तनादं करोति, नानाविधदुःखोद्भावकं शब्दं विदधातीति यावत्, विदहति = विन्दु. शो निष्यन्देन परितपति । ४ खरा = कठोरा । ५ मैथुनाभिघातात् === उपस्थित-शुक्रवेगस्य मैथुनाकरणात् श्रतिमैथुनात् = मैथुनप्राचुर्याद् वा । ६ अभितः: ऊर्ध्वमधश्चोभयतः । ७ संहरति = राशीकरोति ।
पृष्ठ 504
पाठ पढ़ें पाठ छिपाएँ
३४४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ३ श्वयथुमापादयति, पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रविलेयमाप-द्यते; तां शुक्राश्मरीमिति विद्यात् ॥ १२ ॥
भवन्ति चात्र ।
शर्करा सिकता मेहो भस्मोख्योऽश्मरिवैकृतम् ।
अमर्याः शर्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥ १३ ॥
पवनेऽनुगुणे सौ तु निरेत्यल्पा विशेषतः ।
सा भिन्नमूत्तिर्वातेन शर्करेत्यभिधीयते ॥ १४ ॥
हृत्पीडा सक्थिसदनं कुक्षिशूलः सवेपथुः ।
तृष्णोर्ध्वगोऽनिलः कार्य्यं दौर्बल्यं पाण्डुगात्रता ॥। १५ ॥
अरोचकाविपाकौ तु शर्करार्त्ते भवन्ति च ।
मूत्रमार्गप्रवृत्ता सा सक्तां कुर्यादुपद्रवान् ॥ १६ ॥
दौर्बल्यं सदनं कार्य्यं कुक्षिशूलमरोचकम् ।
पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम् ॥। १७ ॥
नाभिपृष्ठकटी मुष्कगुदवङ्ङ्क्षणशेफसाम् ।
एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः ॥ १८ ॥
अलाब्वा इव रूपेण सिरास्नायुपरिग्रहः ।
बस्तिर्बस्तिशिरश्चैव पौरुषं वृषणौ गुदम ॥ १ ९ ॥
" एकसम्बन्धिनो ह्येते गुदास्थिविवरस्थिताः । १ प्रविलयमापद्यते = अल्पत्वाद् विलीयते । तदुक्तम् – “ तस्यामुत्पन्नमात्रायां शुक्र-मेति विलीयतेति । २ भस्माख्यः = उत्तरनन्त्रे पठितो मूत्रशुकनामा मूत्ररोगः । ३ तुल्या व्यञ्जनावेदना यस्याः सा, अश्मरीसदृशवर्णशूलादिलिङ्गेत्यर्थः । ४ सा अश्मरी यदा अल्पा रयात्तदा पवने वातेऽनुगुणेऽनुकूले सति निरेति निर्ग-च्छति, प्रतिलोमे तु पवनॆ क्वचिदिति शेषः । तदुक्तम् – " अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे । निरेति सह मूत्रेण = प्रतिलोमे निरुध्यते ॥ ” इति । ५ भिन्नमूर्तिः वायुना विदीर्णावयवः । ६ सक्ता = = श्रनिर्गता 1 ७ तन्वी त्वगस्येति तनुत्वक्कः सुक्ष्मत्वक्चः । ८ सिरास्नायू परिग्रहोऽवलम्बनमस्येति सिरास्नायुपरिग्रहः । ९ बस्तिप्र सङ्गेन बरितसमीपस्थानामन्येषां स्थानं निर्दिशति - बस्तिरिति । पौरुषं = शिश्नो भगं च । १० एकसम्बन्धिनः = समानसंश्रयाः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 505
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] 1 ' निदानस्थानम् । ३४५ -CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri मूत्राशयो मलाधारः प्राणायर्तनमुत्तमम् ॥ २० ॥
पक्कोशयगतास्तत्र नाड्यो मूत्रवहास्तु याः ।
तर्पर्य॑न्ति सदा मूत्रं सरितः सागरं यथा ॥ २१ ॥
सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः ।
नाडीभिरुपनीतस्य ' मूत्रस्यामाशयान्तरात् ॥ २२ ॥
जाग्रतः स्वपतश्चैव स निःस्यन्दन पूर्यते ।
आर्मुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्यते नवः ॥ २३ ॥
घटो यथा तथा विद्धिं बस्तिर्मूत्रेण पूर्यते ।
एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा ॥ २४ ॥
मूत्रयुक्त उपस्नेहात् प्रविश्य कुरुतेऽश्मरीम् ।
अप्सु स्वच्छास्वपि यथा निषिक्तासु ' ' नवे घटे ॥ २५ ॥
कालान्तरेण पङ्कः स्यादश्मरी सम्भवस्तथा ।
" संहन्त्यपो यथा दिव्या मारुतोऽग्निश्च वैद्युतः ॥ २६ ॥
तुद्वलासं बस्तिस्थमूष्मा संहन्ति सानिलः ।
" मारुते प्रगुणे बस्तौ मूत्रं सम्यक् प्रवत्तते ।
विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि ॥। २७ ॥
१ प्राणानामग्नीषोमादीनामायतनं स्थानमिति प्राणायतनम्, उत्तमम् । तदाह् दृढवलः— “ तत्र शाखाऽऽश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, स्कन्धाश्रितेभ्योऽपि हृद्वस्तिशिरांसि तन्मूलत्वाच्छरीरस्य ” इति । २ अस्याक्षीणमूत्रत्वं निदर्शयति— पक्वाशयेति । ३ तर्पयन्ति = वर्धयन्ति । ४ आसां = नाडीनाम् । ५ उपनीतस्य = प्रापितस्य। ६ निःस्यन्देन = मन्दं मन्दं क्षरणेन पूर्यत इत्यर्थः । ७ अधोमुखत्वेन बस्तेरनूर्ध्वमुखस्यापि पूरणप्रकारं दृष्टान्तेनावगमयति- आमुखा-दिति । सलिले न्यस्तो धृतः पाश्र्वेभ्यः चतुष्पार्श्वगतच्छिद्रेभ्यः पूर्यते । एवमेव मूत्रवदेव, प्रविश्यतेऽनेनेति प्रवेशस्तेन प्रवेशेन, प्रकृतत्वात् सूक्ष्मछिद्रनिचयेने-त्यर्थः। ९ उपस्नेहात् = उपलेपात् । १० निषिक्तासु = स्थापितासु । ११ यथा मारुतो वायुः, वैद्युतोऽग्निश्च दिव्या श्रान्तरिक्षा श्रपो जलानि संहन्ति काठिन्य ' कगेति करकाः करोतीति यावत्; तद्वत् सानिलः सवातः ऊष्मा पित्तं बस्तिस्थं बलासं कफं संहन्ति कठिनं करोति, अश्मरीं करोतीत्यर्थः । १२ बस्तिगतानां रोगाणां वायोः कारणस्वमुपपादयति — मारुत इति । प्रगुणे =
पृष्ठ 506
पाठ पढ़ें पाठ छिपाएँ
३४६ Digitized by Arya Samaj Foundation Chennai and eGangotri
सुश्रुतसंहितायां-मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च ।
मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि ॥ २८ ॥
[ अ ०: ४ इति सुश्रुतसंहितायां निदानस्थानेऽश्मरीनिदानं नाम तृतीयोऽध्यायः ॥ ३ ॥
चतुर्थोऽध्यायः ।
अथातो भगेन्दराणां निदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वातपित्तश्लेष्म सन्निपातागन्तुनिमित्ताः शतपोनको श्रीवपरि त्राविशम्बूकावर्त्तेन्मार्गिणो यथासङ्ख्यं पञ्च भगन्दरा भवन्ति । ते तु भगगुदबस्तिप्रदेश दारणाच्च भगन्दरा इत्युच्यन्ते । अक्काः पिडकाः, पक्कास्तु भगन्दराः ॥ ३ ॥
तेषान्तु पूर्वरूपारिण— कटीकपालवेदना कण्डूर्दाहः शोफच गुदस्य भवति ॥ ४ ॥
तत्रापथ्यसेविनां वायुः प्रकुपितः सन्निवृत्तः स्थिरीभूतो गुंदम-अनुकूले । प्रतिलोमे = प्रतिकूले । १ वायौ प्रतिकूले सति ये रोगाः प्रादुर्भवन्ति तान् दर्शयति — मूत्रेति । मूत्राघातः = मूत्रावरोधः, मूत्रकृच्छ्रं तु दुःखेन मूत्रप्रवृत्तिरिति । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां तृतीयोऽध्यायः । चतुर्थोऽध्यायः । २ भगवद्दारयन्तीति भगन्दरास्तेषाम् । भगशब्दो गुदाद्युपलक्षणम् । उक्तमपि भोजे -“ भगं परिसमन्ताच्च गुदं बस्ति तथैव च । भगवद्दारयेद्यस्मात्तस्माज्ज्ञेयो भगन्दरः । ” इति । ३ पञ्चेति संख्याकथनं रक्तजद्वन्द्वजभगन्दर सम्भावनानिरासार्थम् । तन्त्रान्तरे भगन्दरस्याक्षै प्रकाराः समुपलभ्यन्ते, तेषु येऽधिकास्त्रयः त एव प्रदर्श्यन्ते यथा- “ वात. पित्तात्परिक्षेपी परिक्षिप्य गुदं गतिः । जायते परितस्तत्र प्राकारं परिखेव च । ” इति परिक्षेपी । “ ऋजुर्वातकफादृज्व्या गुदो गत्या विदार्य्यते ” इति ऋजुः । “ कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः । श्रशमूले ततः शोफः कण्डूदाइ।दिमान् भवेत् ॥ स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन् मूलमर्शसः । स्रवत्यजत्रं गतिभिरयमर्शो भगन्दरः ॥ ” इत्य. र्शोभगन्दरः । ४ वाग्भटेऽप्युक्तम्– “ अपक्कं पिडकामाहुः पाकप्राप्तं भगन्दरम् ” इति । ५ कटीकपालं = कट्यस्थि । ६ सन्निवृत्तः = स्वकर्मविरतः । ७ गुदमभितः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 507
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] व . स निदानस्थानम्T ३४७ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri भितोऽङ्गुले द्व्यङ्गुले वा मांसशोणिते प्रदूष्यारुणवर्णां पिडकां जनयति, साऽस्य तोदादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमा-रणा च पाकमुपैति, मूत्राशयाभ्यासगतत्वाच्च ब्रणः प्रक्लिन्नः शतपोनं-कवदणुमुखैश्छिद्रैरापूर्यते " तानि च छिद्राण्यजस्रमच्छं फेनीनुविद्ध-मधिकमास्रावं स्रवन्ति, व्रणश्च ताड्यते भिद्यते छिद्यते सूचीभिरिव निस्तद्यते, गुदं चावदीर्यते, उपेक्षिते च वातमूत्रपुरीपरेतसामध्यागम-श्च तैरेव छिद्रैर्भवति । तं भगन्दरं । शतपोनकमित्याचक्षते ॥ ५ ॥
पित्तं तु प्रकुपितमनिलेनाथः प्रेरितं पूर्ववदवस्थितं रक्तां तन्वी-मुच्छ्रितामुग्रीवाकारां पिडकां जनयति, साऽस्य चोषादीन् वेदना-विशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, व्रणश्चाग्निक्षा-राभ्यामिव दाते दुर्गन्धमुष्णमास्रावं स्रवति, उपेक्षितश्च वातमू-त्रपुरीषरेतांसि विसृजति । तं भगन्दर मुग्रीवमित्याचक्षते ॥ ६ ॥
श्लेष्मातु प्रकुपितः समीरणेनाथः प्रेरितः पूर्ववदवस्थितः शुक्ला-वभासां स्थिरां कण्डूमतीं पिडकां जनयति, साऽस्य कण्ड्वादीन् वेद-नाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, व्रणश्च कठिनः संरम्भी कण्डूप्रायः पिच्छिलमजस्रमास्रावं स्रवति, उपेक्षितश्च वात-मूत्रपुरी परेतांसि विसृजति तं भगन्दरं परित्राविमित्याचक्षते ॥७ ॥
वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्याधो गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठप्रमाणां सर्वलिङ्गां पिडकां जनयति, साऽस्य तोददाहकण्ड्वादीन् " वेदनाविशेषान् जनयति, अप्रतिक्रिय-गुदस्य चतुष्पार्श्वतः, अङ्गुले द्व्यङ्गुले वा । तदुक्तम् – “ गुंदस्य द्वयङ्गुले क्षेत्रे पार्श्वतः पिडकाऽऽर्तिकृत् ” इति । १ वेदनाविशेषान् = वातानुगुणवेदनाविशेषान् जनयति, अप्रतिक्रियमाणा = अपतर्पणादिभिः । २ अभ्यासः = सन्निकृष्टो देशः । ३ शतपोनकवत् = चालनिकावत् । यद्वा शतपोनकः शुकदोषे पठितो विकारः । ४ फेनानुविद्धं = फेनानुगतम् । ५ छिद्यते = दात्रेणेव द्विधा क्रियते । ६ उच्छ्रि-ताम् = उन्नताम्, उष्ट्रग्रीवाकारामिति मध्ये गलवकत्वेनोष्ट्रग्रीवाकारस्वम् । ७ पि त्तानुरूपवेदनाविशेषानित्यर्थः । ८ कफानुगुणवेदनाविशेषानित्यर्थः । ९ संरम्भी = सततवेदनः, कण्डूप्रायः = खर्जूबहुलः । १० त्रिदोषानुगुणवेदनाविशेषानित्यर्थः ।
पृष्ठ 508
पाठ पढ़ें पाठ छिपाएँ
३४८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया---[ अ ० ४ माणा च पाकमुपैति, व्रणश्च नानाविधवर्णमात्रावं स्रवति, पूर्ण-नदीशम्बूकावर्त्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः; तं भगन्दरं शम्बूकावर्त्तमित्याचक्षते ॥ ८ ॥
मूढेन मांमलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतं यदाऽव-गाढपुरीषोन्मिश्रमपानेनाधः प्रेरितमसम्यगागतं गुदं क्षिखेति तत्र क्षतनिमित्तः कोथ उपजायते, तस्मिंश्चक्षते पूयरुधिराव की मां-सकोथे भूमाविव जलप्रक्लिन्नायां क्रिमयः सञ्जायन्ते, ते भक्षयन्तो गुदमनेकधा पार्श्वतो दारयन्ति, तस्य तैर्मार्गः कृमिकृतैर्वा तपुरी-षरेतांस्यभिनिःसरन्ति; तं भगन्दरमु · मौर्गिणमित्या चक्षते ॥। ९ ॥ भवन्ति चात्र |
उत्पद्यतेऽल्परुक् शोफात् क्षिप्रं चाप्युपशाम्यति ।
पाय्वन्तदेशे पिडका सा ज्ञेयाऽन्या भगन्दरात् ॥ १० ॥
पायोः स्याद् द्व्यङ्गुले देशे गूढमूला सरुग्ज्वरा ।
भागन्दरी तु विज्ञेया पिडकाऽतो विपर्य्ययात् ॥ ११ ॥
यानँयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान् ।
पायुर्भवेद्रजः कट्यां पूर्वरूपं भगन्दरे ॥ १२ ॥
घोराः साधयितुं दुःखाः सव एव भगन्दराः ।
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः ॥ १३ ॥
इति सुश्रुतसंहितायां निदानस्थाने भगन्दरनिदानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
१ पूर्णनद्या आवर्तवत् शम्बूकावर्तवत्, अथवा पूर्णनद्याः शम्बूकावर्तवद् वेदना-विशेषाः समुत्तिष्ठन्ति प्रवर्तन्ते । तदुक्तं भोजे – “ नदीनां परिपूर्णानां शम्बूकावर्तका यथा । समुत्तिष्ठन्ति वेगेन तोयवेगसमीरिताः ॥ ” इति । शम्बूकास्तदाख्याः शङ्खाः । ' शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयो: ' इति हेमचन्द्रः । ' २ असम्यंगागतं = तिर्यगागतम् । ३ अत्रोन्मार्गेण क्रिमिकृतविमार्गेण पुरीषादि-गमनादुन्मार्गिसंज्ञा ज्ञेया । ४ पाय्वन्तदेशे गुदस्यान्ते पिढकाशोत्पति सम्बन्धः । ५ अतो विपर्ययात् = भागन्दर्याः पिढकाया वैपरीत्याद् भगन्दरकरी पिडका भवतीत्यर्थः । ६ भगन्दरपूर्वरूपं दर्शयति - यानेति । प्रतीकारप्रयत्नाय प्रति ७ पादयति - घोरा इति । घोराः = कष्टप्रदाः साधयितुं दुःखाः कष्टसाध्या भवन्तीति शेषः । " इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां चतुर्थोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 509
पाठ पढ़ें पाठ छिपाएँ
1 अ ०५ Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् ।
पञ्चमोऽध्यायः ।
अथातो कुष्ठनिदानं व्याख्यास्यामः ॥ १
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
३४ ९ मिथ्याहारीचारस्य विशेषाद् गुरुविरुद्धासात्म्याजी सहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदक-मांसानि वा पयसाऽभोक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहजा छर्दिर्वा प्रतिर्हन्ति, तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्या-निलः प्रवृद्धस्तिर्यग्गीः सिराः सम्प्रतिपद्य समुद्धूय बाह्यं मार्गे प्रति समन्ताद्विक्षिपति, यत्र यत्र च दोषो विक्षिप्तो निःसरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति, एवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र च परि-पञ्चमोऽध्यायः । १ दुःसाध्यत्वसामान्याद् भगन्दर निदानानन्नरं कुष्ठनिदानमारभ्यते । कुष्णात्यङ्ग कुत्सितं तिष्ठतीति वा कुष्ठम् । “ कालेनोपेश्चितं यस्मात् सर्वं कुष्णाति तद्वपुः " इति तन्त्रा-न्तरम् २ मिथ्याहाराचारस्य = अहिताहारविहारस्येत्यर्थः । ३ विरुद्धानि = " न मत्स्यान् पयसाऽभ्यवहरेत् " इत्यादिना चरकोक्तानि, हिताहितीये प्राक् प्रदर्शितानि वा, असात्म्यं = प्रकृतिप्रतिकूलम् । ४ यः ऊष्माभितप्तः, ऊष्मणा अग्न्यातपादिना ` अभितप्तः सन्तप्तः, अप्सु शीतोदकेषु मज्जति । चरकेऽप्युक्तम्- “ भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः ” इति । ५ प्रतिद्दन्ति = अवरोधते । ६ तिर्यग्गाः सिराः - शारीरस्थानोक्तास्तिर्यग्गमनस्वभावात् प्रधानभूताश्चतस्रो ' धमनोः, सम्प्रतिपद्य = सम्प्राप्य, समुद्धूय = आक्षिप्य, अस्य स्थाने ' सन्दूष्य'इति पाठा · न्तरम् । तत्र सुश्रुतार्थसन्दीपनभाष्यम् – ' सन्दूष्येति “ सिराः प्रपद्य तिर्यग्गास्त्वग्लसी-कासृगामिषम् । दूषयन्ति ” इति तन्त्रान्तरीयस्मरणात् ' इति । बाह्यं = बाह्यरोगमार्गम् । तदुक्तं चरके— “ तत्र शाखा रक्तादयो धातवस्त्वक् च स बाह्यो रोगमार्गः ” “ दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठनानास्तानेव स्वगादीन् दूषयन्तः कुष्ठान्यभिनिवर्त्त-यन्ति ” इति दृढबलोक्त्यैव बाह्यां त्वचं प्रति लक्षीकृत्येति वाऽर्थो बोध्यः । श्रीहाराणच-न्द्रोऽपि ‘ बाह्यं मार्गमिति “ रक्तादयो धातवस्त्वक् च बाह्यो रोगमार्गः ’ ” इत्यागमै सत्यपि सामान्य शब्दस्य विशेष वृत्तित्वात् “ एवमुत्पन्नस्त्वचि " इत्यनन्तरोक्तेश्च बाह्यां त्वचं प्रति इत्याद्याह। CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 510
पाठ पढ़ें पाठ छिपाएँ
३५० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ 30५ वृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्य धातूनभिदूषयति ॥ ३ ॥
तस्य पूर्वरूपाणि त्वक्पारुष्य मकस्माद्रोमहर्षेः कण्डूः स्वेदवाहुल्य-मस्वेदनं वाऽङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ॥४ ॥
तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि; एवमष्टादश कुष्ठानि भवन्ति । तत्र महाकुष्टान्यरुणौदुम्बरर्ण्यजिह्वकपालका करणकपुण्ड-रीकदद्रुकुष्ठानीति । क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं चर्म-दलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिमं पामा रकसा चेति । सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति; उत्सन्नतस्तु दोषग्रहणममिभवात् ॥ ५ ॥
तंत्र वातेनारुणं, पित्तेनौदुम्बर जिह्वकपालकाकरणकानि, श्ले-ष्मणा पुण्डरीकं दद्रुकुष्टं चेति । तेषां तु महत्त्वं क्रियागुरुत्वमुत्तरो-त्तरं धात्वनुप्रवेशादसाध्यत्वं चेति ॥ ६ ॥
तत्र, वातेनारुणौभानि तनूनि विसर्पाणि तोदभेदस्वापयुक्ता-" न्यरुणानि । पित्तेन पक्कोदुम्बर फलाकृतिवर्णान्यौडुम्बराणि, " ऋण -जिह्वाप्रकाशानि खराणि ऋष्यजिह्वानि, " कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि, " काकणन्तिका फलसदृशान्यतीव रक्तकृष्णानि काक-१३ १ वातादिरप्रतिक्रियमाणः सन् अभ्यन्तरं प्रतिपद्य धातून् क्रमशो रक्तमांसादीन-भिदूषयति । ' प्रतिपद्यते धातूनभिदूषयन् ' इति पाठान्तरम् । २ तस्य = कुष्ठसामा-न्यस्य । ३ अकस्मात् कारणं विनैव, रोमहर्षः = रोमाञ्चः । ४ स्वापः = स्पर्शा • ज्ञानम् । ५ कुष्ठानामसंख्येयत्वादिदं संख्याप्रदर्शनं दिङ्मात्रमिति ज्ञेयम् । तदुक्तं चरके - “ स सप्तविधोऽष्टादशविधोऽसंख्येयविधो तदुक्तं चरके— वा भवति " इति । ६ “ न च किश्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम् " इति । उत्सन्नतः = उत्कर्षतः, तु = एव, तुरत्रावधारणार्थः, दोषग्रहणं = वातादिदोषनामग्राहम्, अभिभवात् ‘ इतरदोषयोः क्रियते ' इति शेषः । = ७ दोषभेदेन कुष्ठविशेषस्योत्पत्तिमाह – तत्रेति । ८ महत्त्वं चैषां शीघ्रमुत्तरो-। त्तरधात्ववगाहन बहुदोष जत्व क्रियाभूयस्त्वयोगात् । ९ अरुणाभानि = रक्तवर्णानीत्यर्थः १० अरुणानि = अरुणाख्यानि कुष्ठानि । ११ ऋष्यः नीलाण्डो हरिणः ‘ रुरु ’ इति । ख्यातस्तस्य जिह्वाया इव प्रकाशः सादृश्यं येषां तानि खराणि - खरत्वयुक्तानि = गुआ, १२ कृष्णकपालिकाप्रकाशानि = कृष्णखर्परखण्डाकाराणि । १३ काकणन्तिका CC - 0. Gurukul Kangri Collection, Haridwar