सुश्रुत संहिता चौखम्बा — पृष्ठ 511–520
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 511–520
पृष्ठ 511
पाठ पढ़ें पाठ छिपाएँ
I 7 ब, 1: II ३५१ क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामः— CC - 0. Gurukul Kangri Collection, Haridwar 370 Digitized by Arya Samayadation Chennai and eGangotri निदानस्थानम् " pai कानि, तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थान-प्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि; पुण्डरीकप-त्रप्रकाशानि पौण्डरीकाणि श्लेष्मणा, अतसीपुष्पवर्णानि ताम्राणि वा विसर्पाणि पिडकावन्ति च दुद्रुकुष्ठानि; तयोर्द्वयोरप्युत्सन्ना परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणिः ॥ ७ ॥
स्थूलौनि सन्धिष्वतिदारुणानि स्थूलीरुषि स्युः कठिनान्यरूंषि ।
त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति ॥ ८ ॥
कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम् ।
स्युर्येन कण्डूव्यथनौष चोषास्तलेषु तच्चर्मदलं वदन्ति ॥ ९ ॥
विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम् ।
मूर्च्छाविदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद्विकारः ॥१० ॥
शनैः शरीरे पिडकाः स्रवत्यः सर्पन्ति यास्तं परिसर्पमाहुः कण्ड्वन्वितं श्वेतमपयि सिध्म विद्यात्तनु प्रायश " ऊर्ध्वकाये ॥११ ॥
औदुम्बरादिचतुर्णां पित्तकृतत्वं दर्शयति - तेषामिति । १ आत्रेयः – “ सश्वेतं रक्तः पर्यन्तं पुण्डरीकदलोपमम् । सोत्सेधं च सरागं च पुण्डरीकं तदुच्यते ॥ ” इति । २ ढ-ल्हणः == ‘ दद्रुकुष्ठं द्विविधं सितमसितं च । असितस्य महोपक्रमसाध्यत्वादनुबन्धित्वप्र-कर्षांच्च महाकुष्ठेषु मध्ये सुश्रुते पाठः । सितदद्रुकुष्ठस्य सुखसाध्यत्वादुत्तरोत्तरधात्व-नुप्रवेशाभावात्तथाऽत्यर्थंपीडारहितत्वाच्च चरके क्षुद्रकुष्ठेषु मध्ये पाठ इत्यदोषः ' इति । ३ क्षुद्रकुष्ठेषु प्राक् स्थूलारुष्कलक्षणमाह - स्थूलानीति । स्थूलानि = स्थूलमू-लानीत्यर्थः । ४ स्थूलारुषि स्थूलारुष्कसंज्ञके कुष्ठे, कठिनानि अरूषि व्रणाः स्युः । ५ त्वचां कोचः सङ्कोचः, भेदो विदारणं, स्वपनमचेतनत्वं चेति स्वक्कोच भेदस्वपनानि, तानि चाङ्गसादाश्चेति त्वक्कोच भेदस्वपनाङ्गसादाः । ६ तलेषु = हस्तपादस्यैव तले. ष्वित्यर्थः । ७ अभिभूय = दूषयित्वा । 5 विसर्पाख्यकुष्ठमिदं वक्ष्यमाणविसर्पाख्य रोगश्च चिरविसर्पणशीघ्रविसर्पणभेदा-म्यां भिद्यते । ९ अपाय = शीत विनाशीत्यर्थः । १० ऊर्ध्वकाय इति सामान्ये. नोक्तेऽपि प्रायेणोरस्येवभवति । तदुक्तं चरके - श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमु-श्चति । श्रलावुपुष्पवर्षं तत् सिध्मं प्रायेण चोरसि ” ॥ डल्हणः - ' सिध्मकुष्ठं द्विवि •
पृष्ठ 512
पाठ पढ़ें पाठ छिपाएँ
३५२ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ०५
रोज्योऽतिकण्ड्वर्त्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम् ।
कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव ॥ १२ ॥
यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिं मं वदन्ति ।
सास्रावैकण्डूपरिदाह्काभिः पामाऽणुकाभिः पिडकाभिरूह्या ॥ १३ ॥
स्फोटैः सदाहैरति सैर्व कच्छूः स्फिक्पाणिपादप्रभवैनिरूपया ।
कण्डूवन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा ॥ १४ ॥
अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि ।
वायोः प्रकोपात्परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात् ॥ १५ ॥
किलासमपि कुष्ठविकल्प एव; तत्त्रिविधम् - वातेन पित्तेन श्ले-ष्मणा चेति । कुष्ठकिलासयोरन्तर " - त्वग्गतमेव किलासमपरिस्रावि धम् — सिध्मं पुष्पिकासिध्मं च । पुष्पिकासिध्मस्य सुखसाध्यत्वात् सुश्रुते क्षुद्रकुष्ठेषु पाठः । सिध्मस्य दुःखसाध्यत्वाच्चर के महाकुष्ठे पाठ इत्यदोष इति । १ राज्यः = अवदरणकृता बहृयो रेखाः । २ गात्रेषु = पाणिपादेषु । स्पष्टमुक्तं भोजे – “ दोषाः प्रदूष्य त्वङमांसं पाणिपादसमाश्रिताः । पिडकां जनयन्त्याशु दाहक-ण्डूसमन्विताम् ॥ दाल्यते त्वक् खरा रूक्षा पाण्योर्ज्ञेया विचर्चिका । पादे विपादिका ज्ञेया स्थानान्यत्वाद्विचर्चिका ॥ ” इति । एतेन विचचिकैव पादयोर्भवन्ती विदारणयो-गाद्विपादिका भवतीति नैकादशसंख्याऽनुपपत्तिः । ३ वृत्तं = प्रायेण वर्तुलम्, घनं = स्पर्शतः कठिनम् । ४ माधवनिदानॆ किटिभमित्यस्य किटिममिति संज्ञाऽन्तरं दृश्यते- “ श्यावं किणखर-स्पर्श परुषं किटिमं स्मृतम् सह वर्तन्ते या-” इति । ५ श्रास्रावकण्डूपरिदाहकैः स्तास्ताभिः । ६ तन्त्रान्तरेऽप्युक्तम् — “ सैव स्फोटैस्तीव्रदा हैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च " इति । ७ शरीरे = सम्पूर्णदे हे । ८ यस्मिन् क्षुद्रकुष्ठे यस्य दोषस्याधिक्यं तद्दर्शयति – अरुरिति । श्ररुः = स्थूलारुष्कम् । विसर्पकिटिभ विचचिकापामाचर्मदलानि । ९ शेषाणि = * १० अन्तरं = भेदः त्वच-। " त्वग्गतं च यदस्रावि तत् किलासं प्रकीर्तितम् । यदा मतिक्रम्य तद्धातूनवगाहते । हित्वा किलाससंज्ञां च कुष्ठसंज्ञां लभेत्तदा ॥ ” इति विश्वा-मित्रः । भालुकिना धातुभेदेन किलासस्य संज्ञाऽन्तरं दर्शितम् - " वारुणं तत्तु विज्ञेयं मांसधातुसमाश्रयम् । मेदश्रितं भवेच्छ्वित्रं दारुणं रक्तसंश्रयम् ॥ ” इति । चरकेऽपि -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 513
पाठ पढ़ें पाठ छिपाएँ
२५ ३ ॥ ॥१४ ॥
५ ॥ ले-वि ष्ठेषु मुक्तं हक दिका गयो. = खर-या-ण्योः कुष्ठे ण = त्वच रवा-विज्ञेयं पि-अ ० ५ ] Digitized by Arya Sam निदानानम् nai and eGangotri ३५३ च । तद्वातेन मण्डलमरुणं परुषं परिध्वंसि चपित्तेन पद्मपत्र-प्रतीकाशं सपरिदाहं च, श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च सम्बद्धमण्डलमन्तेजो॒तं रक्तरोम चासाध्यमग्निदग्धं च ॥ १६ ॥ । तेषु
कुंष्ठेषु तु त्वक्सङ्कोचस्वापस्वेदशोफ भेदकौण्यस्वरोपघाता वातेन, पाकाबदरणाङ्गुलिपत न कर्णनासाभङ्गातिरागसत्त्वोत्पत्तयः पित्ते-न, कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा ॥ १७ ॥
तत्रादिबँलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम् ॥ १८ ॥
भवन्ति चात्र |
यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम् ।
अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्द्धितैः ॥ १ ९ ॥
एवं कुष्टं समुत्पन्नं त्वचि कालप्रकर्षतः ।
क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः ॥ २० ॥
स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते ।
वैवर्ण्य रूक्षभावश्च कुष्ठे त्वचि समाश्रिते ॥ २१ ॥
त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्त्तनम् ।
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ॥ २२ ॥
बाहुल्यं " वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः । " दारुणं वाऽरुणं श्वित्रं किलासं नामभिस्त्रिभिः " इति । १ परिध्वंसि = रोमापद्दारि । तदुक्तम्– “ सदाहं रोमविध्वंसि ” इति । २ श्रन्ते जातम् = श्रोष्ठपाणिपादगुह्योत्पन्नमित्यर्थः । तदुक्तमष्टाङ्गसङ्ग्रहे - " गुह्य • पाणितलौष्ठेषु जातमप्यचिरन्तनम् । वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ॥ ” इति । तलमत्र पादतलमिति विजयरक्षितः । रक्तरोम = शुक्लरोम, श्रसाध्यलक्षणे चरकेण — “ यच्छुक्लरोमबहुलं यत्संलग्नं परस्परम् । यच्च वर्षगणोपेतं तच्छ्वित्रं नैव सिद्ध्यति॥ ” इति । ३ कुष्ठानामनुक्तमपि दोषलिङ्गं वक्ति - कुष्ठेष्विति । ४ कुणेर्भावः कौण्यं करवैकल्यम् । ' कुकरे कुणिः ' इत्यमरः । ५ श्रङ्गुलिपतनं = पाकप्रा: बल्येनाङ्गुलिस्रंसनमित्यर्थः । ६ सत्त्वः = क्रिमिः । ७ श्रादिबलप्रवृत्तं = शुक्रशोणित-दोषान्वयमित्यर्थः, पुण्डरीकग्रहणं सर्वमद्दाकुष्ठानामुपलक्षणम् । = धातून् = अभ्य-न्तरीयरक्तादीनित्यर्थः । ९ विकृतः पूयो विपूयकः दुर्गन्धता । २३ १० बाहुल्यं = कुष्ठमण्डलानामाधिक्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 514
पाठ पढ़ें पाठ छिपाएँ
३५४ Digitized by Arya Samaj Fo कुक्कुस सहिता angotri [ अ ०५ तोदः स्फोर्टः स्थिरत्वं च कुष्ठे मांससमाश्रिते ॥ २३ ॥
दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा ।
गात्राणां भेदनं चापि कुष्ठे मेदः समाश्रिते ॥ २४ ॥
नासोभङ्गोऽक्षिरागश्च क्षते च क्रिमिसम्भवः ।
भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते ॥ २५ ॥
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् ।
शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च ॥ २६ ॥
स्त्रीपुंसयोः कुष्ठदोषाद् दुष्टशोणितशुक्रयोः ।
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ॥ २७ ॥
कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम् ।
मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् ॥ २८ ॥
ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः ।
कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम् ॥ २ ९ ॥
म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति ।
नातः कष्टतरो रोगो यथा कुष्ठं प्रकीत्तितम् ॥ ३० ॥
आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम् ।
औषधीनां विशिष्टानां तपसश्च निषेवणात् ॥
यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् ॥ ३१ ॥
प्रसंङ्गाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात् ।
सहशय्याऽऽसनाच्चापि वस्त्रमाल्यानुलेपनात् ॥ ३२ ॥
१ स्फोटः = त्वचः स्फुटनम् । २ नासाभङ्गः = नासिकाऽवदरणम् । ३ कुष्ठं सञ्जा-तमस्येति कुष्ठितम् । यदा स्त्रीपुंसयोः कुष्ठिनोबाजमुपहतं स्यात्तदा तयोः प्रजा नोत्पद्यते इति ढल्हणः । दुष्टं शुक्रमार्तवं वा सर्वथा वीजत्वानुपघातादपत्यजनकं, परन्तु विकृतं जनयतीति द्रष्टव्यमिति विजयरक्षितः, समीक्ष्याहारा-। ४ आत्मवतः = जितेन्द्रियस्य चारकारिणइति गच्छति अनुसरति । श्रतो यावत् । ५ पुनर्जाते पुनर्जन्मनि अपि जन्मान्तरानुसारित्वात् सुचिरं क्लेशकरो नान्यो रोग इति भावः । ६ आस्थाय = आश्रित्य । ७ प्रसङ्गात् = मैथुनात् । ८ अनुलेपनात् = धारणात् । तदुक्तं मनुनाऽपि - " उपानहौ च वासश्च धृतमन्यैर्न CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 515
पाठ पढ़ें पाठ छिपाएँ
०५ I STI-द्यते कृतं रा-मतो ३५५ कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च । षष्ठोऽध्यायः । षष्ठोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar अं ० ६ ] Digitized by Arya Sar मि यमस्थान ennai and eGangotri औपसैर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ॥ ३३ ॥
इति सुश्रुतसंहितायां निदानस्थाने कुष्टनिदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथातः प्रमेहनिदानं व्याख्यास्यामः ॥ १ यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
दिवास्वप्नाव्यायामालम्यप्रसंक्तं शीतस्निग्धमधुरमेद्यद्रवान्नपान-सेविनं " रुषं जानीयात् प्रमेही भविष्यतीति ॥ ३ ॥
तस्य चैवंप्रवृत्तस्यापरिपक्का एव वातपित्तश्लेष्माणो यदा मेदसा सकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहान् जनयन्ति ॥ ४ ॥
तेषां तु पूर्वरूपाणि- हस्तपादतलदाहः स्निग्वपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्ता-लुगलजिह्वादन्तेषु मलोत्पत्तिर्जेंटिलीभावः केशानां वृद्धिश्च नखानाम् ५ धारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च ॥ ” इति १ श्रपसर्गिकरोगाः-सङ्क्रामकरोगाः । “ मसूरिकाश्च रोमान्त्यो ग्रन्थिवीसर्प एव च । उपदंशश्च कण्ड्वाद्यः श्रपसर्गिकसंज्ञकाः ॥ ” इत्याद्यन्यतोऽवसेयम् । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । २ प्रमेहः शुक्रघटित रोगविशेषस्तस्य निदानम् । ३ प्रसक्तम् = अत्यासक्तम् । ४ मेद्यं = मेदोऽभिवर्द्धकम् । ५ पुरुषमिति कथनेन स्त्रीणां प्रमेहा न भवन्ति । तथा च तन्त्रान्तरे— “ रजः प्रसेकान्नारीणां मासि मासि विशुद्धयति । सर्वं शरीरं दोषाश्च न प्रमेइत्यतः स्त्रियः ॥ ” इति, तत्त न युक्तम्, सर्वतन्त्राप्रसिद्धेः प्रत्यक्षविरोधाच्चेति डल्हणः । ६ प्रमेह सम्प्राप्तिमाह - तस्येति । अपरिपक्काः = आमाः । ७ मूत्रवा दीनि वस्तिशिरोगतानि स्रोतांसीति मूत्रवाहिस्रोतांसि । पं निर्भिद्यन्ते निस्सरन्ति ।
पृष्ठ 516
पाठ पढ़ें पाठ छिपाएँ
३५६ Digitized by Arya Samaj Founda " सुश्रुतसंहिताया pai and eGangotri [ अ ० ६ तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहाः ॥ ६ ॥
सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः ॥ ७ ॥
तत्र, कफदुदकेनुवालिकासुरासिकताशनैर्ल बणपिष्टसान्द्रशुक्र. फेनमेहा ' दश साध्याः, दोषदूष्याणां समक्रियत्वात् । पितान्नील-हरिद्राऽम्ल क्षार मञ्जिष्ठाशोणितमेहाः पैट याध्याः, दोषदूयाणां विष-मक्रियत्वात् । वातात्सर्पिर्वसाक्षौद्रहस्ति मे हाश्चत्वारोऽसाध्यतमाः, महात्ययिकत्वात् ॥ ८ । १ प्रमेहाणां सामान्यलक्षणं दर्शयति - तन्त्रेति । श्रष्टाङ्गहृदयेऽपि— “ सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता । मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ॥ ” इति । २ कफात् = कफप्राधान्यादित्यर्थः । ३ तन्त्रान्तरे- “ शीताच्छशीतैरुदकप्रमेहः स्या-दिक्षुवाली मधुराच्छशीतात् । पित्तोत्कटः स्वच्छ गुणात्सुराऽऽख्यो मूत्रेण युक्तः सिकता-प्रमेहः ॥ मन्देन मूत्रेण शनैः प्रमेो गुरोर्विदग्धाल्लवणप्रमेहः । पिष्टः प्रमेहः खलु शुक्रभागात्समस्तसान्द्रेण तु सान्द्रमेहः ॥ स्निग्धेन शुक्रेण च शुक्रमेहः स्यात्फेनमेहो गुरुशुक्लयोगात् । इत्येभिरंशैः कफदोषजातैर्नृणां प्रमेहा दश सम्भवन्ति । श्रौतकट्य-तोऽयं व्यपदेश एषु संसर्गभावो गुणदोषदूष्यात् । ४ दोषोऽत्र कफः दूष्या मेदोमज्जाप्रभृतयः । तदुक्तं चरके - " बहबद्धं मेदो मांसं च शरीरजक्लेदः शुक्रं शोणितं च वसा मज्जा लसीका रसश्वौजः संख्यात इति दूष्यवि-शेषाः " इति, तेषां समक्रियत्वात् रूक्षोष्णादिसाध्यत्वेनाभिन्नक्रियत्वात् । कफस्य रूक्षती दणकटुतिक्तादिका या क्रियाऽनुकूला सा मेदः प्रभृतीनां विरुद्धोपक्रमा न भव-तीतिभावः । ५ “ पित्तानीलहरिद्राम्लक्षारमाञ्जिष्ठशोणितैः " इति । ६ दोषोऽत्र पित्तं दूष्या मेदःप्रभृतयस्तेषाम्, विषमक्रियत्वात् = पित्तमेदसः परस्परं विरुद्धक्रियत्वात्, पित्तस्य यद् मधुरशीतादि पथ्यं, तन्मेदसोऽपथ्यं, मेदसो यत्कटुकादि पथ्यं, तत् पित्त-स्यापथ्यमिति भावः । चरके याप्यत्वस्य हेत्वन्तरमपि दर्शितम् - " सर्व एव ते याप्याः संसृष्टदोषमेदःस्थानकत्वात् ” इति । ७ तन्त्रान्तरेऽपि— “ सर्विर्मेहं मरुत्कुर्याद्युक्तश्च लवणेन हि । मेदोयुक्तो वसायुक्तो वसामेद्दकरस्तु सः । क्षौद्रमेहे रौक्ष्यगुणाद्विष्टम्भो हस्ति-मेहतः ॥ ” इति । ८ मद्दात्ययिकत्वात् = आप्यायनार्हप्रचुरतरमज्जप्रभृतिसारतरधातुक्षयकरत्वात् । ' ' विरुद्धोपक्रत्वाच्च ' इति अत्रापि प्रमेहान् , सम्बध्यते । तदुक्तं चरके – “ इमांश्चतुरः वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति ” इति । तेनात्र यद्वायोः स्निग्धादि पथ्यं तन्मेदसोऽपथ्यमित्यादिस्तदर्थो बोध्यः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 517
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ६ अ ० ६ ] ' न्यं त । या. ना . य-च स्थ व. I, त्तः पाः त 1 न् I निदानस्थानम् । ३५७ CC - 0. Gurukul Kangri Collection, Haridwar तत्र, वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहान् जनयति वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्, कफपित्तवसा-, मज्जमेदोभिरन्वितो वायुर्वातप्रमेहान् ॥ ९ ॥
तत्रे, श्वेतमवेदनमुदकसदृशमुदकमेही मेहति । इक्षुरसतुल्यमि-क्षुबालिकामेही । सुरामेही सुरातुल्यम् । सरुजं सिकताऽनुविद्धं सि-कतामेही । शनैः सकफं मृत्स्नं शनैर्मेही । विशदं लवणतुल्यं लवण-मेही । हृष्टरोमा पिष्टरसँतुल्यं पिष्टमेही । आविलं सान्द्रं सान्द्रमेही ।
शुक्रतुल्यं शुक्रमेही । स्तोकं स्तोकं सफेनं फेनमेही मेहति ॥ १० ॥
अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामः- सफेनमच्छं नीलं नील-मेही मेहति । सदाहं हरिद्राऽऽभं हरिद्रामेही । अम्लरसगन्धमम्ल-मेही । स्रुतक्षारप्रतिमं क्षारमेही । मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही । शोणितप्रकाशं शोणितमेही मेहति ॥ ११ ॥
अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामः - सर्पिः प्रकाशं सर्पिर्मेही मेहति । वसाप्रकाशं वसामेही 1 । क्षौद्ररसवर्णं क्षौद्र मे ही । मत्तमात-ङ्गवदनुप्रबन्धं हस्तिमेही मेहति ॥ १२ ॥
मक्षिंकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारो-चकाविपाकाः कफप्रसे कच्छर्दिनिद्राकासश्वासाश्चेति श्लेष्मजाना-मुपद्रवाः. वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीका-१ कफजानां दशप्रमेहाणामनुक्रमेण लक्षणानि निर्दिशति - तत्रेति । २ सिकता वालुकेव विकृतिमापन्नः श्लेष्मा सिकता, तद्युक्तं सिकताऽनुविद्धम् । ३ लवणतुल्यं = लवणाम्बुसदृशमित्यर्थः । ४ पिष्टरसतुल्यं = तण्डुलचूर्णमिश्रोदकसमम् । ५ सा-न्द्रं =धनम्, “ यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने । पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम् । ७ मञ्जि-॥ ” इति चरकः । ६ स्तोकं स्तोकम् - अल्पमल्पमित्यर्थः ष्ठोदकप्रकाशं = ‘ मजीठ ' इति ख्यातस्य क्वाथसदृशम् । ८ अनुप्रबन्धम् = अजस्रम्, यथा मत्तमतङ्गजः प्रवृद्धवेगानुपूर्व्या सततं मेहति तद्वदयमित्यर्थः । ९ प्रतिदोषं प्रमेहोपद्रवान् दर्शयति - मक्षिकेति । मक्षिकोपसर्पणं = शरीरे सूत्रे वा मक्षिकाभिसरणम् । तदुक्तं चरके — " षट्पदपिपीलिकाभिश्च शरीरमूत्राभिस-
पृष्ठ 518
पाठ पढ़ें पाठ छिपाएँ
३५८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसाहताया-[ अ ० ६ ज्वरातीसारारोचका बमथुः परिधूमायनं दाहो मूर्च्छा पिपासा दि द्रानाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानाम् । हृद्द्महो
लौल्यैमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीपत्वं चेति वातजानाम् ।
एवमेते विंशतिः प्रमेहाः सोपद्रवी व्याख्याताः ॥ १३ ॥
तत्र, वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दो पैश्चानुगतधातोः प्रमेहिणो दशैँ पिडका जायन्ते । तद्यथा - शराविका, सर्षपिका, कच्छपिका, जालिनी, विनता, पुत्रिणी, मसूरिका, अलजी, बिदा-रिका, विद्रधिका चेति ॥ १४ ॥
शरावमात्रा तेंद्र्पा निम्नमध्या शराविका ।
गौरसर्षपसंस्थाना तत्प्रमाणा च सापपी ॥ १५ ॥
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः ॥
जोलिनी तीव्रदाहा तु मांसजालसमावृता ॥ १६ ॥
महती पिडका नीला पिडका विनता स्मृता ।
महत्यल्पौचिता ज्ञेया पिडका सा तु पुत्रिणी ॥ १७ ॥
मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका ।
रक्ता सिता स्फोटवती दारुणा " त्वलजी भवेत् ॥ १८ ॥
रणम् ” इति । १ परिधूमायनं = समन्ततो धूमोरिणम् । २ लौल्यं = विरुद्धाविरु • द्धसर्वरसभक्षणेच्छा । ३ उपद्रवाः प्रदर्शिताश्चरके – “ उपद्रवास्तु खलु प्रमेहिणां तृष्णाऽतीसारज्वरदाद्ददौर्बल्यारोचकाविपाका: पूतिमांसपिङकालजीविद्रध्यादयश्च तत्प्र-सङ्गाद् भवन्ति ” इति । ४ चरके तु सप्तैव पिडका निर्दिष्टा: - " शराविका कच्छपिका जालिनी सर्षपी तथा । श्रलजी विनताऽऽख्या च विद्रधी चेति सप्तमी " ॥ ॥ भोजे नव पिढका उक्ता: - “ शराविका सर्षपिका कूर्मिका जालिनी तथा । कुलत्थिकाडलजी पुत्री विदारी विद्रधीतथा ॥ नवैताः पिडका ज्ञेयाः " इति । कुलत्थिका = मसूरिका । ५ तद्रूपा == शरावरूपा । ६ गौरसर्षपसंस्थाना = श्वेतसर्षपाकारेत्यर्थः । ७ कूर्म-संस्थाना = कच्छपपृष्ठाभेत्यर्थः । तदुक्तं चरके – “ प्रवगाढार्तिनिस्तोदा महावास्तुप-रिग्रहा । इलक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता ॥ ” इति । ८ तन्त्रान्तरेऽस्या लक्षणम् - " परस्पराभिसम्बन्धात्पिडका चैकदेशजा । पित्तोत्कटा दाहवती भृशरुग्जा-लिनी मता ॥ ” इति । ९ श्रल्पाचिता = क्षुदपिडकाभिग्रंथिता । १० " दहति त्वचमु CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 519
पाठ पढ़ें पाठ छिपाएँ
०६ अ ० ६ ] ति म् । तोः का, दा-वेरु ॰ तत्प्र-था । विका ताः तुप. स्या जा-मु. निदानस्थानम् । ३५ ९ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri
विदारीकन्दवद् वृत्ता कठिना च विदारिका ।
विद्रवेर्लक्षणैर्यक्ता ज्ञेया विद्रधिका बुधैः ॥ १ ९ ॥
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः ।
गुदे हृदि शिरस्य से पृष्ठे मर्मणि चोत्थिताः ।
सोपद्रवा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ॥ २० ॥।
कृत्स्नं शरीरं निष्पीड्य ' मेदोमज्ज वसायुतः ।
अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः ॥ २१ ॥
प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते ।
किञ्चिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत् ॥ २२ ॥
कृत्स्नान्यर्द्धानि वा यस्मिन् पूर्वरूपाणि मानवे ।
प्रवृद्धमूत्रमत्यर्थं तं प्रमेहिणमादिशेत् ॥ २३ ॥
पिडकापीडितं गाढमुपसृष्टमुपद्रवैः ।
मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्त्तितः ॥ २४ ॥
स चापि गमनात् स्थानं स्थानादासनमिच्छति ।
आसनाद् वृणुते शय्यां शयनात् स्वप्नमिच्छति ॥ २५ ॥
यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुकपिलकपोतमे चैकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति, एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति ॥ २६ ॥
त्थाने तृष्णामोहज्वरप्रदा । विसपेत्यनिशं दुःखाद्दहत्यग्निरिवालजी ॥ ” इति । १ ये मेहा यन्मया यद्दोषारब्धाः, तेषामेताः प्रमेहपिडका तत्कृतास्तद्दोषकृताः । यद्यपि प्रमे-हास्त्रिदोषजन्यास्तथाऽपि ‘ व्यपदेशस्तु भूयसा ' इति न्यायेन येषु प्रमेहेषु ये दोषा अधि-कास्तदनुसारेणैव ते सज्ञां लभन्ते, तद्वत्तद्दोषोल्वणाः पिडका अपीति निष्कर्षः । २ उपद्रवाः = तृट्कासादयः । यदुक्तं चरके – “ तृट्कासमांससङ्कोचमोहहिक्का-मदज्वराः । विसर्पमर्मसंरोधाः पिडकानामुपद्रवाः ॥ ” इति । ३ निष्पीड्य - मूत्रेण सह समस्तान् धातून् प्रवाहय्येत्यर्थः । तदुक्तमष्टाङ्गसङ्ग्रहे— “ वायुर्वसादीन् धातून् शरीरस्य परमसारभूतान् बस्तिमाकृष्य मूत्रेण सह विसृजति, तस्मात् ' ' असाध्याः ” । ४ उत्कर्षापकर्षंकृतेन = वृद्धिन्यूनमात्राकृते नैत्यर्थः । ५ मेचकः = श्या-
पृष्ठ 520
पाठ पढ़ें पाठ छिपाएँ
३६० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-भवति चात्र । [ अ ०७
सर्व एव प्रमेहास्तु कालेन प्रतिकारिणः ।
मधुमेहत्वमायान्ति तदा साध्या भवन्ति हि ॥ २७ ॥
इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्टोऽध्यायः ॥ ६ ॥
सप्तमोऽध्यायः ।
अथात उदरौणां निदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमोऽभवद्यः ।
ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः ॥
पृथक्समस्तैरपि चेह दोषैः प्लीहोदरं वद्धगुदं तथैव । ३ ॥
मवर्णः । १ अप्रतिकारिणः प्रतीकारमकुर्वतः पुंसः । H २ मधुमेहः सावरणवायुनैव क्रियते । तदुक्तं चरके – “ तैरावृतगतिर्वायुरोज आदाय गच्छति । यदा बस्ति तदा कृच्छ्रो मधुमेहः प्रवर्तते ॥ ” इति । प्रसङ्गादिदमि-हावसेयम्– “ मधुरं यच्च मेहेषु प्रायो मध्विव मेइति । सर्वेऽपि मधुमेहाख्या माधुर्या-च्च तनोरतः ॥ ” इति वाग्भटोक्त्या भाविनीं मधुमेहतामाश्रित्य सर्व एव मेहा मधु-मेहशब्दवाच्या इति । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां षष्ठोऽध्यायः । सप्तमोऽध्यायः । ३ उदरोत्सेधसाधर्म्यादुदराणां निदानम् । अत्रोदरस्थो रोगोऽप्युदरशब्देनोच्यते । उक्तं च— “ तात्स्थ्यतद्धर्मंताभ्यां च तत्समीपतयाऽपि च । तत्साहचर्याच्छब्दानां वृत्ति-रेषा चतुर्विधा ॥ ” इति । = विश्वा-४ राजा ऋषिरिवेति राजर्षिः । ५ ब्रह्मर्षिपुत्रं मित्रसुतम् । विश्वामित्रो राजर्षिरपि तपसा ब्रह्मर्षित्वमवापेति पौराणिकाः । ६ पृथग् दोषैस्त्रीणि, समस्तैर्दोषैरेकः सन्निपातोदरः, एवं चत्वार्युदराणि दोषप्रधानानि, प्ली-होदरम्, अत्र यकृद्दाल्युदरस्यापि समावेशः, प्लीहोदरसमत्वात् । प्रकाशे– “ प्लीहोदरस्यैव भेदो यकृद्दात्युदरं तथा " इति । बद्धगुदं = बद्धगुदोदरः, " छिद्रो • || श्रागन्तुकं === परिस्राव्युदरं छिद्रोदरं क्षतोदरं तदुक्तमष्टाङ्गसङ्ग्रह -, वा, CC - 0. Gurukul Kangri Collection, Haridwar