सुश्रुत संहिता चौखम्बा — पृष्ठ 521–530
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 521–530
पृष्ठ 521
पाठ पढ़ें पाठ छिपाएँ
१७ अ ० ७ ३ ॥ रोज धु. ते । त. ETT-चग् नी. व. र, " Digitized by Arya Samaj Foundation Chennai and eGangotri fight निदानस्थानम् । ३६१ आगन्तुकं सप्तममष्टमञ्च दकोदरञ्चेति वदन्ति तानि ॥४ ॥
सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा ।
स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ॥ ५ ॥
गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः ।
कोष्ठादुपस्नेह वदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ॥ ६ ॥
त्वचः समुन्नम्य शनैः समन्ताद् विवर्द्धमानो जठरं करोति ।
तत्पूर्वरूपं बलवर्णकाङ्क्षौवलीविनाशो जठरे हि राज्यः ॥ ७ ॥
जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पाद्गतश्च शोफः ।
संगृह्य पार्श्वोदरपृष्ठनाभीर्यद् वर्द्धते कृष्णसिरावनद्धम् ॥ ८ ॥
सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत् ।
यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः ॥ ९ ॥
पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धिः ।
यच्छीतलं शुक्लसिराऽवनद्धं गुरु स्थिरं शुक्लनखाननस्य ॥ १० ॥
स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि ।
स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः ॥ ११ ॥
दरमिति प्राहुः परिस्रावीति चापरे " इति । दकोदरं = जलोदरम् । प्लीहोदरादीनि चत्वारि दूष्यप्रधानानि । १ सुदुर्बलाग्नेः = अतिशयनष्टाग्नेः । २ गुल्माकृत्या व्यन्जितानि लक्षणानि येषां तानि, गुल्मरूपेण प्रकटितचिह्नानी-त्यर्थः । ३ घोराणि = कष्टकराणि, उदराणि – उदरस्थरोगान्, उदराणां सङ्क्षेर्पेण हेत्वन्तरमुक्तं चरके— “ अति सञ्चितदोषाणां पापं कर्म च कुर्वताम् । उदराण्युपजायन्ते मग्दाग्नीनां विशेषतः ॥ ” इति । ४ उपस्नेहवत् = यथा नवमृद्घटे परिपूर्णो द्रवः सूक्ष्मस्रोतोभिः स्रवद्दृश्यते, तथा दुष्टः सामः, अनिलवेगनुन्नः प्रदुष्टप्राणापानवात-प्रेरितः, अन्नसारः अन्नरसः, कोष्ठाद् निःसृत्य, त्वचः समुन्नम्य श्रनद्धाः कृत्वा समन्तात् शनैर्विवर्द्धमानः सन् जठरमुदराख्यं रोगं करोति । ५ काङ्क्षा = अन्ना-काङ्क्षा, वली = इलथचर्मात्मकोदरावयवविशेषः, अत्र विनाशशब्दस्य बलादिना प्रत्ये-कमभिसम्बन्धः, जठरे हि राज्यः रेखाः, भवन्तीति शेषः । जीर्णापरिज्ञानविदाहौ बिद्येते यासुः बस्तिरुजासु ता जीर्णापरिज्ञानविदाद्दवत्यः । “ जोर्णाजीर्णे न वेत्ति च ” इति चरकः । : ६ वातोदरलक्षणं ब्रवीति— सगृह्येति । ७ स्त्रिय इति श्रविवेकिसन्निहितज-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 522
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation ३६२ Fo तसंहिताया nnai and eGangotri [ श्र ० ७
यस्मै प्रयच्छन्त्यरयो गराश्च दुष्टाम्बुदुषीविषसेवनाद्वा ।
तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् ॥ १२ ॥
तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च ।
स चातुरो मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च ॥१३ ॥
प्रकीर्त्तितं दूषयुदरं तु घोरं प्रीहोदरं कीर्तयतो निबोध ।
विदह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च ॥ १४ ॥
प्लीहौभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः ।
वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र ॥ १५ ॥
मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः ।
सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यदायुदरं तदेव ॥ १६ ॥
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग् वा ।
सञ्चीयते तत्र मलः सदोषः क्रमेण नाड्यामिव सङ्करो हि ॥ १७ ॥
निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् ।
हृन्नाभिमध्ये परिवृद्धिमेति तच्चोदरं विट्समगन्धिकं च ॥ १८ ॥
प्रच्छर्दयन् " बद्धगुदी विभाव्यस्ततः परिस्राव्युदरं निबोध । नोपलक्षणम् । १ गरान् = संयोगजविषान् । तदुक्तमष्टाङ्गसङ्ग्रहे – “ नानाप्राण्यङ्ग-शमलविरुद्धौषधिभस्मनाम् । विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः । कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधः ॥ ” इति । २ “ जीर्णं विषघ्नौषधिभिर्हतं वा दावा-ग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ॥ ” इति। ३ दूष्युदरं = सन्निपातोदरम्, छन्दोऽनुरोधादकारलोपः, घोरं = भयानकम् । ४ “ विदाहिद्रव्यमुद्गारमम्लंकुर्यात्तथा तृषाम् । हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् ॥ ” इति । ‘ “ पैच्छिल्याद् गौरवाद् द्रव्यं रुद्ध्वा रसबहाः सिराः । धत्ते यगौरवं तत्स्यादभिष्यन्दि यथादधि ॥ ” इति । ५ प्लीहा उदरवामपार्श्वस्थस्तस्य क्रमेणाभिवृद्धिम् । “ तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपल-भ्यते, स चोपेक्षितः क्रमेण कुक्षि जठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति ” इति चरकः । ६ सव्येतरस्मिन् = दक्षिणपार्श्वे इत्यर्थः । ७ तदैव = तादृशमेव,
यकृद्दालयति भेदयतीति यकृद्दाल्युदरम् । ८ उपलेपिभिः = पिच्छिलैः केवुकादिभिः ।
९ सङ्करः = सम्मार्जनीक्षिप्यमाणतृणाद्यवकरः, नाड्यां = प्रणालिकायाम् इव ॥
१० गुदोपर्यंन्त्रस्य बद्धत्वाद् मलनिरुद्धं गुदमस्यास्तीति बद्धगुदी, विभाव्यः ज्ञेयः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 523
पाठ पढ़ें पाठ छिपाएँ
०७ J श्र ० ७ २ ॥ १३ ॥ ॥ -मं TIII ॥ कं य न-II व, । निदानस्थानम् । ३६३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri शल्यं यद॒न्नो॑हितं तद॒न्त्रं भिनत्ति यस्यागतमन्यथा वा ॥ १ ९ ॥
तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ।
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च ॥ २० ॥
एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध ।
" यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः ॥२१ ॥
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि ।
स्नेहोपलितेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति ॥ २२ ॥
स्निग्धं महत्सम्पैरिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च ।
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ॥ २३ ॥
आध्मानं गमनेऽशक्तिदबल्यं दुर्बलाग्निता ।
शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः ।
दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि ॥ २४ ॥
अन्ते सलिलभावं हि भजन्ते जठराणि तु ।
सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत् ॥ २५ ॥
इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमोऽध्यायः ॥ ७ ॥
. चरके विशेषः = “ पदमवालेँ: सहान्नेन भुक्तैर्बद्धायनॆ गुदे । उदावत्तैस्तथाऽशभिरन्त्र-सम्मूर्च्छनेन वा । अपानो मार्गसंरोधाद् धात्वग्नि कुपितोऽनिलः । वर्चः पित्तकरान् रुदूद्ध्वा जनयत्युदरं ततः ॥ ” इति । १ यस्य पुरुषस्य यद् अन्नोपहितम् अन्नसंयुक्तं शल्यं कण्टकशर्करादि, अन्यथा यथाभुक्तं तद्विलोमेन, तिर्यग् जृम्भयाऽत्यशननेन वा श्रागतं तद् अन्त्रं भिनत्ति विदारयतीति सम्बन्धः । चरकेऽपि - " शर्करातृणलोष्ठास्थिक-ण्टकैरन्नसंयुतैः । भिद्येतान्त्रं यदा मुक्तेजृम्भयाऽत्यशनेन वा ॥ " इति । २ स्रुतः = गलितः ३ तद्वहानि = उदकवहानि । ४ पूर्ववत् = यथा परिस्राव्युदरेऽधोनाभेरुदरो-भिवृद्धिर्गुदस्रावश्च भवति तद्वत् । ५ सम्परिवृत्तनाभि = उच्छलितनाभि, समाततं = वेदना विस्तीर्णम् इव । ६ दृतिः = चर्मनिर्मितोदकपात्रं ' मशक ' इति, यथा श्व, तुभ्यति = चलति, कम्पते, शब्दायते = गुढगुडायते । ७ अष्टविधोदराणां सामान्यल-क्षणमुपदिशति — आध्मानमिति । ८ उदराणां साध्यासाध्यविचारमाचष्टे = अन्त इति। ९ परिपाकात् = कालपरिणामात् । इति सुश्रुतसंहिताया निदानस्थानीय सुधाऽऽख्यटिप्पन्यां सप्तमोऽध्यायः ।
पृष्ठ 524
पाठ पढ़ें पाठ छिपाएँ
३६४ ' Digitized by Arya Samaj Foundation Chennai and eGangotri ' सुश्रुतसंहिताया-अष्टमोऽध्यायः [ अ ०८ अथातो मूढगर्भनिदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभि-घातविषमशयनासनोपवास वेगाभिघातातिरूक्ष कटुतिक्तभोजनशो-कातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णागर्भशातनप्रभू-तिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः फलमिव वृन्तबन्धनादभिघात-विशेषैः । स विमुक्तबन्धनो गर्भाशयँमतिक्रम्य यकृत्प्लीहान्त्रविवरै-रवस्रंसमानः कोष्ठसङ्क्षोभमापादयति, तस्या जठरसङ्क्षोभाद्वायुर-पानो मूढः पार्श्ववस्तिशीर्षोदरयोनिशूलाना हमूत्र सङ्गानामन्यतममा-पाद्य गर्भं च्यावयति तरुणं शोणितस्त्रावेण 1 । तमेव कदाचिद्विवृद्ध-मसम्यगागतमपत्यपथमनुप्राप्तम निरस्यमानं विगुणापानसम्मोहितं गर्भं मूढगर्भमित्याचक्षते ॥ ३ ॥
ततः स कीलः प्रतिखुरो बीजकः परिघ इति । तत्र, ऊर्ध्वबाहु-शिरः पादो यो योनिमुखं निरुणद्धि कील इव स कीलः । निःसृतहस्त-पादशिराः कायसङ्गी प्रतिखुरः । यो निर्गच्छत्येकशिरोभुजः स बीज-कः । यस्तु परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघ । इति चँतु-अष्टमोऽध्यायः । १ उत्सेधसामान्याद् मूढगर्भनिदानमारभ्यते । मूढगर्भश्च —– “ सर्वावयवसम्पूर्णो मनोबुद्धथादिसंयुतः । विगुणापानसम्मूढो मूढगर्भोऽभिधीयते ” ॥ मूढो जड मूढः, निरुद्धगतिकत्वेन स्वकार्यानह इत्यर्थः । २ ग्राम्यधर्मः = मैथुनम् । ३ प्रेङ्खो- इबेति लनं = दोलनम्, गर्भशातनं = चित्रकादिभेषजेन गर्भपातनम्, बन्धमत्र गर्भाशयप्रति बद्धाः सिराः पेश्यश्चेति ढल्हणः । ४ गर्भाशयं गर्भशय्याम्, अतिक्रम्य = उल्लध्य । ५ मूढगर्भस्य निरुक्तिं वक्ति – तमेवेति । कदाचिद् श्रसम्यगागतं विलोमेनागत-मिति सम्बन्धः, विवृद्धं= जातसारम्, अपत्यपथं = योनिम् । ६ अनिरस्यमानम् = निस्सरन्तम्, सम्मोहितं = मूच्छितम् । मूढगर्भः, ७ ततः = पानवैगुण्यात् सः = कीलः = शङ्कुः तद्वद् ऊर्ध्वबाहुचरणशिरोभिर्योन्यां लग्नः कीलकः, प्रतिखुर , इत्यत्र खर शब्देन हस्तपादावुच्येते, परिषः == मुद्गरः । ८भोजेऽप्युक्तम् – “ ऊर्ध्वबाहुशिरःपादो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 525
पाठ पढ़ें पाठ छिपाएँ
ट-त-रै-मा. द्ध. इतं हु. त ज-तु-TI त अ ०८ / Digitized by Arya Samar Foundation Chennai and eGangotri ३६५ विधो भवतीत्येके भाषन्ते । तत्तु न सम्यक्; कस्मात्? स यदा विगुरणा-निलप्रपीडितोऽपत्यपथमनेकथा प्रतिपद्यते तदा सङ्ख्या हीयते || ४ || तत्रे, कश्चिद् द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते । कश्चिदा-भुग्नैक सक्थिरेकेन । कश्चिदाभुग्न सक्थिशरीरः स्फिग्देशेन तिर्यगा-गतः । कश्चिदुरः पार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते । अन्तः पार्श्वापवृत्तशिराः कश्चिदेकेन वाहुना | कश्चिदाभुग्नशिरा बाहु-द्वयेन । कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः । कश्चिदेकेन सक्थ्ना योनिमुखं प्रतिपद्यतेऽपरेण पायुम् । इत्यष्टविधा मूढगर्भंगतिरुद्दिष्टा समासेनं ॥ ५ ॥
तत्र, द्वावन्त्यावसोध्यौ मूढगर्भी, शेषानपि विपरीतेन्द्रियार्थांक्षे-रुन्ध्याद्योनिमुखं तु यः । प्रतिकीलोपमस्थित्या स च कीलकसंज्ञितः ॥ अधस्तात्पार्श्वतो वाऽपि तथैवाकुञ्चितोऽपि वा । यो निःसृत्य मुखं योनेर्ज्ञेयः प्रतिखुरस्तु सः ॥ योनि-द्वारात्तु निर्गच्छेद्यश्चैकः सशिरोभुजः । तमाहुर्बीजकं नाम मूढगर्भचिकित्सकाः । योनिमावृत्य यस्तिष्ठेत् परिघो गोपुरं यथा । तथाऽन्तर्गर्भमायान्तं विद्यात् परिघसं-ज्ञितम् ॥ ” इति । १ मूढगर्भस्याष्टविधं दर्शयति = तन्त्रेति । २ भुग्नं कुटिलीभूतमेकं सक्थि यस्य स आभुग्नैकसक्थिः । ३ स्फिग्देशेन = कटिमांसपिण्डद्वितयेनेत्यर्थः । ४ पार्श्व-योरन्तर्मंध्येऽपवृत्तं पराङ्मुखीभूतं शिरो यस्य सः । ५ माधवनिदानेऽष्टविधा गतय-स्तु— “ भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् । द्वारं निरुध्य शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्तित कुब्जदेहः एकेन ॥ कश्चिदप-रस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्यः । पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा गतिरियम् ॥ ” इति । ६ विस्तरेण तु तिर्यग् ग्रीवाजङ्घाप्रकारेणानन्ता भवति । ७ अत एवाष्टाङ्ग-सङ्ग्रहे शस्त्रावचारणार्थमुपदिष्टम् - " तौ मूढौ इस्तेनाहर्तुमशक्याविति शस्त्रमवचार-येत् ” इति। ८ वैपरीत्येन होनातियोगेनानुभूताः शब्दादयोऽर्था इति विपरीतेन्द्रि-यार्थाः, योनिभ्रंशः == योन्या बहिर्निर्गमनम्, योनिसंवरणं योनिसङ्कोचः । अत्र श्रीकण्ठोद्धृततन्त्रान्तरोक्तयोनिसंवरणव्याधिर्वर्ण्यते - " वातलान्यन्नपानानि ग्राम्यधर्मं प्रजागरम् । श्रत्यर्थं सेवमानाया गर्भिण्या योनिमार्गगः ॥ मातरिश्वा प्रकुपितो योनिद्वारस्य संवृतिम् । कुरुते रुद्धमार्गत्वात् पुनरन्तर्गतोऽनिलः ॥ निरुणद्धयाशयद्वारं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 526
पाठ पढ़ें पाठ छिपाएँ
३६६ by Arya Samaj Fo सुनुवारसंहितायां reGangotri Four [ अ ० ८ पकयोनिभ्रंशसंवरणमकल्लश्वासकास भ्रमनिपीडितान् परिहरेत् । भवन्ति चात्र । रहरेत् || ६ ||
कालस्य परिणामेन मुक्तं वृन्ताद् यथा फलम् ।
प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ॥ ७ ॥
एवं कालप्रकर्षेण मुक्तो नाडीविबन्धनात् ।
गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ॥ ८ ॥
कृमिवाताभिघातैस्तु तदे बोपद्रुतं फलम् ।
पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ॥ ९ ॥
आचतुर्थात्ततो मासात् प्रस्रवेद् गर्भविच्युतिः ।
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥ १० ॥
प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा ।
नीलोद्धृतसिरा हन्ति सा गर्भ स च तां तथा ॥। ११ ॥
पीडयन् गर्भसंस्थितिम् । निरुद्धवदनोच्छ्वासो गर्भश्चाशु विपद्यते । बद्धां संरुद्धहृदयां नाशयत्याशु गर्भिणीम् । योनिसंवरणं विद्याद् व्याधिमेनं सुदारुणम् ॥ अन्तकप्रतिमं घोरं नारभेत चिकित्सितम् । " इति । मक्कल्लः = शूल भेदः, यत्र प्रसूताया वातेन रुधि-रमारोध्य बस्तिशिरःप्रभृतिषु शूलं क्रियते । तद् वक्ष्यति स्वयमेव शारीरे— “ प्रजा-तायाश्चोत्तरकालं तीक्ष्णैरविशोधितं रक्तं मल्लं करोति इति । चकारादप्रजाताया अपि बोध्यम् । १ यथा गर्भशय्या गर्भरक्षणं करोति नाभिनाडी च गर्भं पुष्णातीति सर्व स्पष्टमुक्त. मष्टाङ्गसङ्ग्रहे = ‘ अस्य नाभ्यां प्रतिबद्धा नाडी, नाड्यामपरा, तस्यां मातृहृदयं, ततो मातृहृदयादाहाररसो धमनीभिः स्यन्दमानोऽपरामुपैति । ततः क्रमान्नाभिं ततश्च स पुनर्गर्भस्य पक्वाशये स्वकायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादिपुष्टिकरः सम्प-द्यते ” । जननाय = प्रप्तवाय, प्रपद्यते = जन्म लभते, “ स योनिं शिरसा याति त्वभावात् प्रसवं प्रति " इति वक्ष्यति । २ गर्भविच्युतिस्रावरूपा भवेदित्यर्थः । ३ असाध्यमूढगर्भगर्भिण्योर्लक्षणमाह - प्रविध्यतीति । प्रविध्यति = अतिशयेन शिरो धुनोतीत्यर्थः । ४ निरपत्रपा = लज्जाशून्या । ५ नीलवर्णा उद्धता सिरा कुदयंशे यस्याः सा नीलोद्धत सिरा, सा गर्भिणी गर्भे हन्ति, स च गर्भश्च तां गर्भिण इन्तीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 527
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Arya Same स्थान npai and eGangotri
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता ।
भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ ॥ १२ ॥
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः ।
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ॥ १३ ॥
बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि ।
तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् ॥ १४ ॥
३६७ इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भनिदानं नाम अष्टमोऽध्यायः ॥८ ॥
नवमोऽध्यायः ।
अथातो विद्रधीनां निदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सर्वामरंगुरुः श्रीमान्निमित्तान्तरभूमिपः । १ अन्तमृतगर्भलक्षणमाह-- गर्भेति 1 । गर्भास्पन्दनं = गर्भावयवाचलनन्, आवी-नां = प्रसववेदनानाम्, योनेर्मूत्रकफप्रसेकादिप्रसवलिङ्गानां वा । २ ‘ शुनताऽन्तर्मृते ’ इति पाठान्तरम् । चरकेऽन्यान्यपि लिङ्गानि प्रदर्शितानि - " तस्याः स्तिमितं स्तब्धमु-दरमाततं शीलमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्न प्रस्रवत्यक्षिणी चास्यावेगप्रादुर्भावो वा यथावदुपलभ्यते इत्येवं लक्षणां स्त्रियं मृतगर्भेयमिति विद्यात् । " इति । ३ उपतापैः = दुःखैरित्यर्थः । ४ मातुर्मृताया अपि जीवतो गर्भस्योद्धरणमाह-- बस्तेति । बस्तमारश्छागव-न्मरणं तेन विपन्नाया मृताया बस्तमार विपन्नायाः । अत्र ' बस्तिद्वारे विपन्नायाः ' इति पाठः । ५ तत्क्षणात् = मुहूर्तात् । तद् वच्यति – “ नोपेक्षेत मृतं गर्भ मुहूर्तमपि पण्डितः । मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता ॥ ” इति । जन्मकाले = नवमादिमासे, पाटयित्वा = स्त्रीकुक्षिं विदार्य, तं = गर्भम्, उद्धरेत् । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यामष्टमोऽध्यायः । नवमोऽध्यायः । अथोत्सेधसामान्याद् विद्रधिनिदानमारभ्यते । शीघ्रमुल्मुकमिव विदहतीति विद्रधिः । तदुक्तं चरके – “ तप्तैः शस्त्रैर्यथा मध्ये तोल्मुकैरिव शीघ्रविदाहित्वाद् विद्रधीत्यभिधीयते ” इति तन्त्रान्तरं च । दह्यते " इति । “ स वै CC - 0. Gurukul Kangri Collection, Haridwar ७ सर्वामरगुरुः = सक-
पृष्ठ 528
पाठ पढ़ें पाठ छिपाएँ
३६ gitized by Arya Samaj Foun सुश्रुतसंहितायां Gangotri [ अ ० ९ शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम् ॥ ३ ॥
त्वक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः ।
दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ॥ ४ ॥
महामूलं रुजावन्तं वृत्तं चाप्यथवाऽऽयतम् ।
तमाहुर्विद्रधिं धीरा विज्ञेयः स च षड्विधः ॥ ५ ॥
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा ।
षण्णामपि हि तेषान्तु लक्षणं सम्प्रवक्ष्यते ॥ ६ ॥
कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः ।
चित्रोत्थानप्रपाकश्च विद्रधिवतसम्भवः ॥ ७ ॥
पक्कोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् ।
क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ॥ ८ ॥
शरावसदृशः पाण्डुः शीतः स्तव्धोऽल्पवेदनः ।
चिरोत्थौनप्रपाकश्च सकण्डुश्च कफोत्थितः ॥ ९ ॥
तनुपीतसिताश्चैषमास्रावाः क्रमशः स्मृताः ।
नानावर्णरुजास्रावो घाटालो विषमो महान् ॥ १० ॥
विषमं पच्यते चापि विद्रधिः सान्निपातिकः । लदेवगुरुः, धन्वन्तरिणाऽमृतदानेन देवानाममरत्वं सम्पादितमतः सर्वेषां गुरुरिति निष्क • षैः । श्रीमान् = विष्णुः, “ श्रीमान् विष्णुः " इति रत्नावली । निमित्तान्तरभूमिपः । निमित्तान्तरेण आयुर्वेदोपदेशकारणान्तरेण भूमिपः भूमिपतित्वमापन्न इत्यर्थः । तदुक्त-न्- “ तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव । प्रतीकाराय रोगाणामायुर्वेदं प्रका-शय ॥ ” इति भागवते । १ विद्रधिसम्प्राप्तिमाह - त्वगिति । २ महामूलम् = अस्थ्यादिसमाश्रयणाद् गम्भीरमूलमित्यर्थः । ३ विद्रधेः षट्संख्यां विवृणोति पृथगिति । ४ चित्रौ नानाविधौ वायोर्विषमक्रियत्वादुद्गमप्रपाको यस्य सः । ५ चिरमुत्थानप्रपाकौ - यस्य स चिरोत्थानप्रपाकः । ६ एषां - वातपित्तकफोत्थविद्रधीनाम् । ७ नाना बहुविधा वर्णाः, रुजास्तोददाहकण्ड्वादिकाः, तनुपीतादय श्रास्रावाश्च यस्य सः, घाटा कृकाटि • केवोच्छ्रितपाश्र्श्वोऽस्यास्तीति घाटालः, उन्नतपर्यन्त इत्यर्थः । विषमः = दारुणः, क्ले-राजनकत्वादसाध्यत्वाच्च । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 529
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Arya निदानस्थानम् Chennai and eGangotri तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ॥ ११ ॥
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ।
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ॥ १२ ॥
एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः ।
कृष्णस्फोटावृतः श्यावस्तीत्रदाहरुजाकरः ॥ १३ ॥
पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते ।
उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः ॥ १४ ॥
आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते ।
गुर्व सात्म्य विरुद्धान्नशुष्कसंसृष्टभोजनात् ॥ १५ ॥
अतिव्यवायव्यायामवेगाघातविदाहिभिः । ३६ ९ पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ॥। १६ ॥
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् ।
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ॥ १७ ॥
वृक्योर्यकृति ' लीह्नि हृदये क्लोम्नि " वा तथा । १ काष्ठलोष्टपाषाणादिभिरभिहत इत्यर्थः । अभिहत इति अनुतरक्तस्य मथितपि-च्चितादैरुपलक्षणम्, क्षत इति स्रुतरक्तस्य छिन्नभिन्नादेरिति श्रीकण्ठः । २ वायु-विसृतः = वातप्रेरितः । ३ एते उक्ताः षड्विधा बाह्या विद्रधयस्तेषु सर्वजः सान्निपा-तिकोऽसाध्यः । ४ इत्थं बाह्यविद्रधीनुक्त्वाऽऽभ्यन्तरविद्रधीनभिदधाति — आभ्यन्त-रानिति । बाह्याभ्यन्तरभेदेन विद्रधिद्वयं चरकेऽप्युक्तम् — “ विद्रधिं द्विविधामाहुर्वा -ह्यामाभ्यन्तरीं तथा " इति । ५ सम्भूय = मिलित्वा । ६ यतो वक्ष्यति - " तुल्यदोषस-मुत्थानाद् विद्रधेर्गुल्मकस्य च ' इति । ७ समुन्नद्धं = समन्तादुन्नतम्, अन्तः = शरीराभ्यन्तरे । गुल्मरूपित्वमत्र काठिन्येन बोध्यम् । श्रष्टाङ्गसङ्ग्रहेऽप्युक्तम्– “ बाह्यो • ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः । श्रन्तरो दारुणतरो गम्भीरो गुल्मवद्धनः ॥ वल्मी-कवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत् ” । ८ विद्रध्याधारभूतमांसादिसम्भवाद् बस्ति-मुखे इत्यर्थः । न तु बस्तौ, तत्र मांसमेदसोरभावात् । ९ वृक्को मांसपिण्डद्वयम्, एको वामपार्श्वे स्थितः, द्वितीयो दक्षिणपार्श्वे स्थितः । हाराणचन्द्रस्तु ‘ वृक्कयो: ' इत्यस्य स्थाने ' वुक्कयोः ' इति पठित्वा वुक्कौ नाम द्वे हृद-यावरणे इति व्याख्यातवान् । १० क्लोम्नि = पिपासास्थाने । तदुक्तं भावप्रकाशे - " अधस्तु दक्षिणे भागे हृदयात् २४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 530
पाठ पढ़ें पाठ छिपाएँ
३७० by Arya Samaj Foul सुश्रुत संहिता i Gangotri [ अ ० ९ तेषां लिङ्गानि जानीयाद्वाह्यविद्रधिलक्षणैः ॥ १८ ॥
आर्मपक्कैषणीयाच्च पक्कापक्कं विनिर्दिशेत् ।
अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः ॥ १ ९ ॥
गुँदै वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता ।
नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् ॥ २० ॥
कटीपृष्ठग्रहस्तीव्रो वङ्क्षगोत्थे तु विद्रधौ ।
वृक्कयोः पार्श्वसङ्कोचः प्लीहचु च्छ्वासावरोधनम् ॥ २१ ॥
सर्वाङ्गप्रग्रहरतीत्रो हृदि शूलश्च दारुणः ।
श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका ॥ २२ ॥
आमो वा यदि वा पक्को महान वा यदि वेतरः ।
सर्वो मर्मोत्थितश्चापि विद्रधिः कष्ट उच्यते ॥ २३ ॥
नाभेरुर्पंरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः ।
जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति ॥ २४ ॥
हृन्नाभिस्तिर्ज्या ये तेषु भिन्नेषु बाह्यतः ।
जीवेत्कदाचित् पुरुषो नेतरेषु कदाचन ॥ २५ ॥
क्लोम तिष्ठति । जलवाहि सिरामूलं तृष्णाच्छादनकृन्मतम् ॥ ” इति । बाह्वोर्द्वयोर्मध्ये वक्षस्तन्मध्ये हृदयं तत्पार्श्वे क्लोम पिपासास्थानमिति वैद्याः । क्लोम कालखण्डादध-स्तात् स्थितं दक्षिणपाश्र्वस्थं तिलकं प्रसिद्ध मिति डल्हणः । कालखण्डात् कोऽर्थः? यकृतः । १ सूत्रस्थाने एतन्नामक सप्तदशाध्यायोक्त लक्षणैरित्यर्थः २ बाह्याभ्यन्तरविद्र-धीनां स्थानविशेषेण लक्षणानि दर्शयति - गुद इति । ३ ' बुक्कयो: ' इति हाराणचन्द्रसम्मत पाठः । ४ नाभेरुपरिजाः प्लीहयकृत्क्लोमकु -क्षिहृदयजाः, पक्काः ऊर्ध्वं मुखमार्गेण, यान्ति स्रवन्ति, इतरे गुदवस्ति वृक्कवङ्क्षण जा अधो गुदमार्गेण स्रवन्तीत्यर्थः । तदुक्तं हारीतेन - " ऊर्ध्वं प्रभिन्नेषु मुखान्नराणां प्रवर्ततेऽसृक्सद्दितोऽपि पूयः । श्रधः प्रभिन्नेषु च पायुमार्गाद्, द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु ॥ ” इति । ५ तेषु = प्लीइय कृत्क्लोमगुदकुक्षिवृक्कव ङ्क्षण जेष्वन्तर्विद्रधिषु, बाह्यतो भिन्नेषु कदाचिद् दैवाज्जीवेत्, इतरेषु = हृन्नाभिबस्तिजेषु, कदाचन = पाके अपाके वा न जीवेत्, मर्मखादिति भावः । तदुक्तं भोजेन – " असाध्यो मर्मजो ज्ञेयः पक्कोऽपक्वश्च विद्रधिः । सन्निपातोत्थितोऽप्येवं पक्क एव तु बस्तिजः । खग्जो नाभेरघो यश्च साध्यो मर्मसमीपजः । श्रपक्कश्चैव पक्वश्च साध्यो नोपरिनाभिजः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar