सुश्रुत संहिता चौखम्बा — पृष्ठ 521–530

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 521–530

पृष्ठ 521

सुश्रुत संहिता चौखम्बा, पृष्ठ 521 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७ अ ० ७ ३ ॥ रोज धु. ते । त. ETT-चग् नी. व. र, " Digitized by Arya Samaj Foundation Chennai and eGangotri fight निदानस्थानम् । ३६१ आगन्तुकं सप्तममष्टमञ्च दकोदरञ्चेति वदन्ति तानि ॥४ ॥

सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा ।

स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ॥ ५ ॥

गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः ।

कोष्ठादुपस्नेह वदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ॥ ६ ॥

त्वचः समुन्नम्य शनैः समन्ताद् विवर्द्धमानो जठरं करोति ।

तत्पूर्वरूपं बलवर्णकाङ्क्षौवलीविनाशो जठरे हि राज्यः ॥ ७ ॥

जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पाद्गतश्च शोफः ।

संगृह्य पार्श्वोदरपृष्ठनाभीर्यद् वर्द्धते कृष्णसिरावनद्धम् ॥ ८ ॥

सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत् ।

यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः ॥ ९ ॥

पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धिः ।

यच्छीतलं शुक्लसिराऽवनद्धं गुरु स्थिरं शुक्लनखाननस्य ॥ १० ॥

स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि ।

स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः ॥ ११ ॥

दरमिति प्राहुः परिस्रावीति चापरे " इति । दकोदरं = जलोदरम् । प्लीहोदरादीनि चत्वारि दूष्यप्रधानानि । १ सुदुर्बलाग्नेः = अतिशयनष्टाग्नेः । २ गुल्माकृत्या व्यन्जितानि लक्षणानि येषां तानि, गुल्मरूपेण प्रकटितचिह्नानी-त्यर्थः । ३ घोराणि = कष्टकराणि, उदराणि – उदरस्थरोगान्, उदराणां सङ्क्षेर्पेण हेत्वन्तरमुक्तं चरके— “ अति सञ्चितदोषाणां पापं कर्म च कुर्वताम् । उदराण्युपजायन्ते मग्दाग्नीनां विशेषतः ॥ ” इति । ४ उपस्नेहवत् = यथा नवमृद्घटे परिपूर्णो द्रवः सूक्ष्मस्रोतोभिः स्रवद्दृश्यते, तथा दुष्टः सामः, अनिलवेगनुन्नः प्रदुष्टप्राणापानवात-प्रेरितः, अन्नसारः अन्नरसः, कोष्ठाद् निःसृत्य, त्वचः समुन्नम्य श्रनद्धाः कृत्वा समन्तात् शनैर्विवर्द्धमानः सन् जठरमुदराख्यं रोगं करोति । ५ काङ्क्षा = अन्ना-काङ्क्षा, वली = इलथचर्मात्मकोदरावयवविशेषः, अत्र विनाशशब्दस्य बलादिना प्रत्ये-कमभिसम्बन्धः, जठरे हि राज्यः रेखाः, भवन्तीति शेषः । जीर्णापरिज्ञानविदाहौ बिद्येते यासुः बस्तिरुजासु ता जीर्णापरिज्ञानविदाद्दवत्यः । “ जोर्णाजीर्णे न वेत्ति च ” इति चरकः । : ६ वातोदरलक्षणं ब्रवीति— सगृह्येति । ७ स्त्रिय इति श्रविवेकिसन्निहितज-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 522

सुश्रुत संहिता चौखम्बा, पृष्ठ 522 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation ३६२ Fo तसंहिताया nnai and eGangotri [ श्र ० ७

यस्मै प्रयच्छन्त्यरयो गराश्च दुष्टाम्बुदुषीविषसेवनाद्वा ।

तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् ॥ १२ ॥

तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च ।

स चातुरो मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च ॥१३ ॥

प्रकीर्त्तितं दूषयुदरं तु घोरं प्रीहोदरं कीर्तयतो निबोध ।

विदह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च ॥ १४ ॥

प्लीहौभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः ।

वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र ॥ १५ ॥

मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः ।

सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यदायुदरं तदेव ॥ १६ ॥

यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग् वा ।

सञ्चीयते तत्र मलः सदोषः क्रमेण नाड्यामिव सङ्करो हि ॥ १७ ॥

निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् ।

हृन्नाभिमध्ये परिवृद्धिमेति तच्चोदरं विट्समगन्धिकं च ॥ १८ ॥

प्रच्छर्दयन् " बद्धगुदी विभाव्यस्ततः परिस्राव्युदरं निबोध । नोपलक्षणम् । १ गरान् = संयोगजविषान् । तदुक्तमष्टाङ्गसङ्ग्रहे – “ नानाप्राण्यङ्ग-शमलविरुद्धौषधिभस्मनाम् । विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः । कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधः ॥ ” इति । २ “ जीर्णं विषघ्नौषधिभिर्हतं वा दावा-ग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ॥ ” इति। ३ दूष्युदरं = सन्निपातोदरम्, छन्दोऽनुरोधादकारलोपः, घोरं = भयानकम् । ४ “ विदाहिद्रव्यमुद्गारमम्लंकुर्यात्तथा तृषाम् । हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् ॥ ” इति । ‘ “ पैच्छिल्याद् गौरवाद् द्रव्यं रुद्ध्वा रसबहाः सिराः । धत्ते यगौरवं तत्स्यादभिष्यन्दि यथादधि ॥ ” इति । ५ प्लीहा उदरवामपार्श्वस्थस्तस्य क्रमेणाभिवृद्धिम् । “ तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपल-भ्यते, स चोपेक्षितः क्रमेण कुक्षि जठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति ” इति चरकः । ६ सव्येतरस्मिन् = दक्षिणपार्श्वे इत्यर्थः । ७ तदैव = तादृशमेव,

यकृद्दालयति भेदयतीति यकृद्दाल्युदरम् । ८ उपलेपिभिः = पिच्छिलैः केवुकादिभिः ।

९ सङ्करः = सम्मार्जनीक्षिप्यमाणतृणाद्यवकरः, नाड्यां = प्रणालिकायाम् इव ॥

१० गुदोपर्यंन्त्रस्य बद्धत्वाद् मलनिरुद्धं गुदमस्यास्तीति बद्धगुदी, विभाव्यः ज्ञेयः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 523

सुश्रुत संहिता चौखम्बा, पृष्ठ 523 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

०७ J श्र ० ७ २ ॥ १३ ॥ ॥ -मं TIII ॥ कं य न-II व, । निदानस्थानम् । ३६३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri शल्यं यद॒न्नो॑हितं तद॒न्त्रं भिनत्ति यस्यागतमन्यथा वा ॥ १ ९ ॥

तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ।

नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च ॥ २० ॥

एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध ।

" यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः ॥२१ ॥

पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि ।

स्नेहोपलितेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति ॥ २२ ॥

स्निग्धं महत्सम्पैरिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च ।

यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ॥ २३ ॥

आध्मानं गमनेऽशक्तिदबल्यं दुर्बलाग्निता ।

शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः ।

दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि ॥ २४ ॥

अन्ते सलिलभावं हि भजन्ते जठराणि तु ।

सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत् ॥ २५ ॥

इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमोऽध्यायः ॥ ७ ॥

. चरके विशेषः = “ पदमवालेँ: सहान्नेन भुक्तैर्बद्धायनॆ गुदे । उदावत्तैस्तथाऽशभिरन्त्र-सम्मूर्च्छनेन वा । अपानो मार्गसंरोधाद् धात्वग्नि कुपितोऽनिलः । वर्चः पित्तकरान् रुदूद्ध्वा जनयत्युदरं ततः ॥ ” इति । १ यस्य पुरुषस्य यद् अन्नोपहितम् अन्नसंयुक्तं शल्यं कण्टकशर्करादि, अन्यथा यथाभुक्तं तद्विलोमेन, तिर्यग् जृम्भयाऽत्यशननेन वा श्रागतं तद् अन्त्रं भिनत्ति विदारयतीति सम्बन्धः । चरकेऽपि - " शर्करातृणलोष्ठास्थिक-ण्टकैरन्नसंयुतैः । भिद्येतान्त्रं यदा मुक्तेजृम्भयाऽत्यशनेन वा ॥ " इति । २ स्रुतः = गलितः ३ तद्वहानि = उदकवहानि । ४ पूर्ववत् = यथा परिस्राव्युदरेऽधोनाभेरुदरो-भिवृद्धिर्गुदस्रावश्च भवति तद्वत् । ५ सम्परिवृत्तनाभि = उच्छलितनाभि, समाततं = वेदना विस्तीर्णम् इव । ६ दृतिः = चर्मनिर्मितोदकपात्रं ' मशक ' इति, यथा श्व, तुभ्यति = चलति, कम्पते, शब्दायते = गुढगुडायते । ७ अष्टविधोदराणां सामान्यल-क्षणमुपदिशति — आध्मानमिति । ८ उदराणां साध्यासाध्यविचारमाचष्टे = अन्त इति। ९ परिपाकात् = कालपरिणामात् । इति सुश्रुतसंहिताया निदानस्थानीय सुधाऽऽख्यटिप्पन्यां सप्तमोऽध्यायः ।

पृष्ठ 524

सुश्रुत संहिता चौखम्बा, पृष्ठ 524 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६४ ' Digitized by Arya Samaj Foundation Chennai and eGangotri ' सुश्रुतसंहिताया-अष्टमोऽध्यायः [ अ ०८ अथातो मूढगर्भनिदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभि-घातविषमशयनासनोपवास वेगाभिघातातिरूक्ष कटुतिक्तभोजनशो-कातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णागर्भशातनप्रभू-तिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः फलमिव वृन्तबन्धनादभिघात-विशेषैः । स विमुक्तबन्धनो गर्भाशयँमतिक्रम्य यकृत्प्लीहान्त्रविवरै-रवस्रंसमानः कोष्ठसङ्क्षोभमापादयति, तस्या जठरसङ्क्षोभाद्वायुर-पानो मूढः पार्श्ववस्तिशीर्षोदरयोनिशूलाना हमूत्र सङ्गानामन्यतममा-पाद्य गर्भं च्यावयति तरुणं शोणितस्त्रावेण 1 । तमेव कदाचिद्विवृद्ध-मसम्यगागतमपत्यपथमनुप्राप्तम निरस्यमानं विगुणापानसम्मोहितं गर्भं मूढगर्भमित्याचक्षते ॥ ३ ॥

ततः स कीलः प्रतिखुरो बीजकः परिघ इति । तत्र, ऊर्ध्वबाहु-शिरः पादो यो योनिमुखं निरुणद्धि कील इव स कीलः । निःसृतहस्त-पादशिराः कायसङ्गी प्रतिखुरः । यो निर्गच्छत्येकशिरोभुजः स बीज-कः । यस्तु परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघ । इति चँतु-अष्टमोऽध्यायः । १ उत्सेधसामान्याद् मूढगर्भनिदानमारभ्यते । मूढगर्भश्च —– “ सर्वावयवसम्पूर्णो मनोबुद्धथादिसंयुतः । विगुणापानसम्मूढो मूढगर्भोऽभिधीयते ” ॥ मूढो जड मूढः, निरुद्धगतिकत्वेन स्वकार्यानह इत्यर्थः । २ ग्राम्यधर्मः = मैथुनम् । ३ प्रेङ्खो- इबेति लनं = दोलनम्, गर्भशातनं = चित्रकादिभेषजेन गर्भपातनम्, बन्धमत्र गर्भाशयप्रति बद्धाः सिराः पेश्यश्चेति ढल्हणः । ४ गर्भाशयं गर्भशय्याम्, अतिक्रम्य = उल्लध्य । ५ मूढगर्भस्य निरुक्तिं वक्ति – तमेवेति । कदाचिद् श्रसम्यगागतं विलोमेनागत-मिति सम्बन्धः, विवृद्धं= जातसारम्, अपत्यपथं = योनिम् । ६ अनिरस्यमानम् = निस्सरन्तम्, सम्मोहितं = मूच्छितम् । मूढगर्भः, ७ ततः = पानवैगुण्यात् सः = कीलः = शङ्कुः तद्वद् ऊर्ध्वबाहुचरणशिरोभिर्योन्यां लग्नः कीलकः, प्रतिखुर , इत्यत्र खर शब्देन हस्तपादावुच्येते, परिषः == मुद्गरः । ८भोजेऽप्युक्तम् – “ ऊर्ध्वबाहुशिरःपादो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 525

सुश्रुत संहिता चौखम्बा, पृष्ठ 525 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ट-त-रै-मा. द्ध. इतं हु. त ज-तु-TI त अ ०८ / Digitized by Arya Samar Foundation Chennai and eGangotri ३६५ विधो भवतीत्येके भाषन्ते । तत्तु न सम्यक्; कस्मात्? स यदा विगुरणा-निलप्रपीडितोऽपत्यपथमनेकथा प्रतिपद्यते तदा सङ्ख्या हीयते || ४ || तत्रे, कश्चिद् द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते । कश्चिदा-भुग्नैक सक्थिरेकेन । कश्चिदाभुग्न सक्थिशरीरः स्फिग्देशेन तिर्यगा-गतः । कश्चिदुरः पार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते । अन्तः पार्श्वापवृत्तशिराः कश्चिदेकेन वाहुना | कश्चिदाभुग्नशिरा बाहु-द्वयेन । कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः । कश्चिदेकेन सक्थ्ना योनिमुखं प्रतिपद्यतेऽपरेण पायुम् । इत्यष्टविधा मूढगर्भंगतिरुद्दिष्टा समासेनं ॥ ५ ॥

तत्र, द्वावन्त्यावसोध्यौ मूढगर्भी, शेषानपि विपरीतेन्द्रियार्थांक्षे-रुन्ध्याद्योनिमुखं तु यः । प्रतिकीलोपमस्थित्या स च कीलकसंज्ञितः ॥ अधस्तात्पार्श्वतो वाऽपि तथैवाकुञ्चितोऽपि वा । यो निःसृत्य मुखं योनेर्ज्ञेयः प्रतिखुरस्तु सः ॥ योनि-द्वारात्तु निर्गच्छेद्यश्चैकः सशिरोभुजः । तमाहुर्बीजकं नाम मूढगर्भचिकित्सकाः । योनिमावृत्य यस्तिष्ठेत् परिघो गोपुरं यथा । तथाऽन्तर्गर्भमायान्तं विद्यात् परिघसं-ज्ञितम् ॥ ” इति । १ मूढगर्भस्याष्टविधं दर्शयति = तन्त्रेति । २ भुग्नं कुटिलीभूतमेकं सक्थि यस्य स आभुग्नैकसक्थिः । ३ स्फिग्देशेन = कटिमांसपिण्डद्वितयेनेत्यर्थः । ४ पार्श्व-योरन्तर्मंध्येऽपवृत्तं पराङ्मुखीभूतं शिरो यस्य सः । ५ माधवनिदानेऽष्टविधा गतय-स्तु— “ भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् । द्वारं निरुध्य शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्तित कुब्जदेहः एकेन ॥ कश्चिदप-रस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्यः । पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा गतिरियम् ॥ ” इति । ६ विस्तरेण तु तिर्यग् ग्रीवाजङ्घाप्रकारेणानन्ता भवति । ७ अत एवाष्टाङ्ग-सङ्ग्रहे शस्त्रावचारणार्थमुपदिष्टम् - " तौ मूढौ इस्तेनाहर्तुमशक्याविति शस्त्रमवचार-येत् ” इति। ८ वैपरीत्येन होनातियोगेनानुभूताः शब्दादयोऽर्था इति विपरीतेन्द्रि-यार्थाः, योनिभ्रंशः == योन्या बहिर्निर्गमनम्, योनिसंवरणं योनिसङ्कोचः । अत्र श्रीकण्ठोद्धृततन्त्रान्तरोक्तयोनिसंवरणव्याधिर्वर्ण्यते - " वातलान्यन्नपानानि ग्राम्यधर्मं प्रजागरम् । श्रत्यर्थं सेवमानाया गर्भिण्या योनिमार्गगः ॥ मातरिश्वा प्रकुपितो योनिद्वारस्य संवृतिम् । कुरुते रुद्धमार्गत्वात् पुनरन्तर्गतोऽनिलः ॥ निरुणद्धयाशयद्वारं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 526

सुश्रुत संहिता चौखम्बा, पृष्ठ 526 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६६ by Arya Samaj Fo सुनुवारसंहितायां reGangotri Four [ अ ० ८ पकयोनिभ्रंशसंवरणमकल्लश्वासकास भ्रमनिपीडितान् परिहरेत् । भवन्ति चात्र । रहरेत् || ६ ||

कालस्य परिणामेन मुक्तं वृन्ताद् यथा फलम् ।

प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ॥ ७ ॥

एवं कालप्रकर्षेण मुक्तो नाडीविबन्धनात् ।

गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ॥ ८ ॥

कृमिवाताभिघातैस्तु तदे बोपद्रुतं फलम् ।

पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ॥ ९ ॥

आचतुर्थात्ततो मासात् प्रस्रवेद् गर्भविच्युतिः ।

ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥ १० ॥

प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा ।

नीलोद्धृतसिरा हन्ति सा गर्भ स च तां तथा ॥। ११ ॥

पीडयन् गर्भसंस्थितिम् । निरुद्धवदनोच्छ्वासो गर्भश्चाशु विपद्यते । बद्धां संरुद्धहृदयां नाशयत्याशु गर्भिणीम् । योनिसंवरणं विद्याद् व्याधिमेनं सुदारुणम् ॥ अन्तकप्रतिमं घोरं नारभेत चिकित्सितम् । " इति । मक्कल्लः = शूल भेदः, यत्र प्रसूताया वातेन रुधि-रमारोध्य बस्तिशिरःप्रभृतिषु शूलं क्रियते । तद् वक्ष्यति स्वयमेव शारीरे— “ प्रजा-तायाश्चोत्तरकालं तीक्ष्णैरविशोधितं रक्तं मल्लं करोति इति । चकारादप्रजाताया अपि बोध्यम् । १ यथा गर्भशय्या गर्भरक्षणं करोति नाभिनाडी च गर्भं पुष्णातीति सर्व स्पष्टमुक्त. मष्टाङ्गसङ्ग्रहे = ‘ अस्य नाभ्यां प्रतिबद्धा नाडी, नाड्यामपरा, तस्यां मातृहृदयं, ततो मातृहृदयादाहाररसो धमनीभिः स्यन्दमानोऽपरामुपैति । ततः क्रमान्नाभिं ततश्च स पुनर्गर्भस्य पक्वाशये स्वकायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादिपुष्टिकरः सम्प-द्यते ” । जननाय = प्रप्तवाय, प्रपद्यते = जन्म लभते, “ स योनिं शिरसा याति त्वभावात् प्रसवं प्रति " इति वक्ष्यति । २ गर्भविच्युतिस्रावरूपा भवेदित्यर्थः । ३ असाध्यमूढगर्भगर्भिण्योर्लक्षणमाह - प्रविध्यतीति । प्रविध्यति = अतिशयेन शिरो धुनोतीत्यर्थः । ४ निरपत्रपा = लज्जाशून्या । ५ नीलवर्णा उद्धता सिरा कुदयंशे यस्याः सा नीलोद्धत सिरा, सा गर्भिणी गर्भे हन्ति, स च गर्भश्च तां गर्भिण इन्तीत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 527

सुश्रुत संहिता चौखम्बा, पृष्ठ 527 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ९ ] Digitized by Arya Same स्थान npai and eGangotri

गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता ।

भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ ॥ १२ ॥

मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः ।

गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ॥ १३ ॥

बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि ।

तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् ॥ १४ ॥

३६७ इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भनिदानं नाम अष्टमोऽध्यायः ॥८ ॥

नवमोऽध्यायः ।

अथातो विद्रधीनां निदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सर्वामरंगुरुः श्रीमान्निमित्तान्तरभूमिपः । १ अन्तमृतगर्भलक्षणमाह-- गर्भेति 1 । गर्भास्पन्दनं = गर्भावयवाचलनन्, आवी-नां = प्रसववेदनानाम्, योनेर्मूत्रकफप्रसेकादिप्रसवलिङ्गानां वा । २ ‘ शुनताऽन्तर्मृते ’ इति पाठान्तरम् । चरकेऽन्यान्यपि लिङ्गानि प्रदर्शितानि - " तस्याः स्तिमितं स्तब्धमु-दरमाततं शीलमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्न प्रस्रवत्यक्षिणी चास्यावेगप्रादुर्भावो वा यथावदुपलभ्यते इत्येवं लक्षणां स्त्रियं मृतगर्भेयमिति विद्यात् । " इति । ३ उपतापैः = दुःखैरित्यर्थः । ४ मातुर्मृताया अपि जीवतो गर्भस्योद्धरणमाह-- बस्तेति । बस्तमारश्छागव-न्मरणं तेन विपन्नाया मृताया बस्तमार विपन्नायाः । अत्र ' बस्तिद्वारे विपन्नायाः ' इति पाठः । ५ तत्क्षणात् = मुहूर्तात् । तद् वच्यति – “ नोपेक्षेत मृतं गर्भ मुहूर्तमपि पण्डितः । मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता ॥ ” इति । जन्मकाले = नवमादिमासे, पाटयित्वा = स्त्रीकुक्षिं विदार्य, तं = गर्भम्, उद्धरेत् । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यामष्टमोऽध्यायः । नवमोऽध्यायः । अथोत्सेधसामान्याद् विद्रधिनिदानमारभ्यते । शीघ्रमुल्मुकमिव विदहतीति विद्रधिः । तदुक्तं चरके – “ तप्तैः शस्त्रैर्यथा मध्ये तोल्मुकैरिव शीघ्रविदाहित्वाद् विद्रधीत्यभिधीयते ” इति तन्त्रान्तरं च । दह्यते " इति । “ स वै CC - 0. Gurukul Kangri Collection, Haridwar ७ सर्वामरगुरुः = सक-

पृष्ठ 528

सुश्रुत संहिता चौखम्बा, पृष्ठ 528 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६ gitized by Arya Samaj Foun सुश्रुतसंहितायां Gangotri [ अ ० ९ शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम् ॥ ३ ॥

त्वक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः ।

दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ॥ ४ ॥

महामूलं रुजावन्तं वृत्तं चाप्यथवाऽऽयतम् ।

तमाहुर्विद्रधिं धीरा विज्ञेयः स च षड्विधः ॥ ५ ॥

पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा ।

षण्णामपि हि तेषान्तु लक्षणं सम्प्रवक्ष्यते ॥ ६ ॥

कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः ।

चित्रोत्थानप्रपाकश्च विद्रधिवतसम्भवः ॥ ७ ॥

पक्कोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् ।

क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ॥ ८ ॥

शरावसदृशः पाण्डुः शीतः स्तव्धोऽल्पवेदनः ।

चिरोत्थौनप्रपाकश्च सकण्डुश्च कफोत्थितः ॥ ९ ॥

तनुपीतसिताश्चैषमास्रावाः क्रमशः स्मृताः ।

नानावर्णरुजास्रावो घाटालो विषमो महान् ॥ १० ॥

विषमं पच्यते चापि विद्रधिः सान्निपातिकः । लदेवगुरुः, धन्वन्तरिणाऽमृतदानेन देवानाममरत्वं सम्पादितमतः सर्वेषां गुरुरिति निष्क • षैः । श्रीमान् = विष्णुः, “ श्रीमान् विष्णुः " इति रत्नावली । निमित्तान्तरभूमिपः । निमित्तान्तरेण आयुर्वेदोपदेशकारणान्तरेण भूमिपः भूमिपतित्वमापन्न इत्यर्थः । तदुक्त-न्- “ तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव । प्रतीकाराय रोगाणामायुर्वेदं प्रका-शय ॥ ” इति भागवते । १ विद्रधिसम्प्राप्तिमाह - त्वगिति । २ महामूलम् = अस्थ्यादिसमाश्रयणाद् गम्भीरमूलमित्यर्थः । ३ विद्रधेः षट्संख्यां विवृणोति पृथगिति । ४ चित्रौ नानाविधौ वायोर्विषमक्रियत्वादुद्गमप्रपाको यस्य सः । ५ चिरमुत्थानप्रपाकौ - यस्य स चिरोत्थानप्रपाकः । ६ एषां - वातपित्तकफोत्थविद्रधीनाम् । ७ नाना बहुविधा वर्णाः, रुजास्तोददाहकण्ड्वादिकाः, तनुपीतादय श्रास्रावाश्च यस्य सः, घाटा कृकाटि • केवोच्छ्रितपाश्र्श्वोऽस्यास्तीति घाटालः, उन्नतपर्यन्त इत्यर्थः । विषमः = दारुणः, क्ले-राजनकत्वादसाध्यत्वाच्च । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 529

सुश्रुत संहिता चौखम्बा, पृष्ठ 529 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ९ ] Digitized by Arya निदानस्थानम् Chennai and eGangotri तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ॥ ११ ॥

क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ।

ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ॥ १२ ॥

एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः ।

कृष्णस्फोटावृतः श्यावस्तीत्रदाहरुजाकरः ॥ १३ ॥

पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते ।

उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः ॥ १४ ॥

आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते ।

गुर्व सात्म्य विरुद्धान्नशुष्कसंसृष्टभोजनात् ॥ १५ ॥

अतिव्यवायव्यायामवेगाघातविदाहिभिः । ३६ ९ पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ॥। १६ ॥

वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् ।

गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ॥ १७ ॥

वृक्योर्यकृति ' लीह्नि हृदये क्लोम्नि " वा तथा । १ काष्ठलोष्टपाषाणादिभिरभिहत इत्यर्थः । अभिहत इति अनुतरक्तस्य मथितपि-च्चितादैरुपलक्षणम्, क्षत इति स्रुतरक्तस्य छिन्नभिन्नादेरिति श्रीकण्ठः । २ वायु-विसृतः = वातप्रेरितः । ३ एते उक्ताः षड्विधा बाह्या विद्रधयस्तेषु सर्वजः सान्निपा-तिकोऽसाध्यः । ४ इत्थं बाह्यविद्रधीनुक्त्वाऽऽभ्यन्तरविद्रधीनभिदधाति — आभ्यन्त-रानिति । बाह्याभ्यन्तरभेदेन विद्रधिद्वयं चरकेऽप्युक्तम् — “ विद्रधिं द्विविधामाहुर्वा -ह्यामाभ्यन्तरीं तथा " इति । ५ सम्भूय = मिलित्वा । ६ यतो वक्ष्यति - " तुल्यदोषस-मुत्थानाद् विद्रधेर्गुल्मकस्य च ' इति । ७ समुन्नद्धं = समन्तादुन्नतम्, अन्तः = शरीराभ्यन्तरे । गुल्मरूपित्वमत्र काठिन्येन बोध्यम् । श्रष्टाङ्गसङ्ग्रहेऽप्युक्तम्– “ बाह्यो • ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः । श्रन्तरो दारुणतरो गम्भीरो गुल्मवद्धनः ॥ वल्मी-कवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत् ” । ८ विद्रध्याधारभूतमांसादिसम्भवाद् बस्ति-मुखे इत्यर्थः । न तु बस्तौ, तत्र मांसमेदसोरभावात् । ९ वृक्को मांसपिण्डद्वयम्, एको वामपार्श्वे स्थितः, द्वितीयो दक्षिणपार्श्वे स्थितः । हाराणचन्द्रस्तु ‘ वृक्कयो: ' इत्यस्य स्थाने ' वुक्कयोः ' इति पठित्वा वुक्कौ नाम द्वे हृद-यावरणे इति व्याख्यातवान् । १० क्लोम्नि = पिपासास्थाने । तदुक्तं भावप्रकाशे - " अधस्तु दक्षिणे भागे हृदयात् २४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 530

सुश्रुत संहिता चौखम्बा, पृष्ठ 530 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७० by Arya Samaj Foul सुश्रुत संहिता i Gangotri [ अ ० ९ तेषां लिङ्गानि जानीयाद्वाह्यविद्रधिलक्षणैः ॥ १८ ॥

आर्मपक्कैषणीयाच्च पक्कापक्कं विनिर्दिशेत् ।

अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः ॥ १ ९ ॥

गुँदै वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता ।

नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् ॥ २० ॥

कटीपृष्ठग्रहस्तीव्रो वङ्क्षगोत्थे तु विद्रधौ ।

वृक्कयोः पार्श्वसङ्कोचः प्लीहचु च्छ्वासावरोधनम् ॥ २१ ॥

सर्वाङ्गप्रग्रहरतीत्रो हृदि शूलश्च दारुणः ।

श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका ॥ २२ ॥

आमो वा यदि वा पक्को महान वा यदि वेतरः ।

सर्वो मर्मोत्थितश्चापि विद्रधिः कष्ट उच्यते ॥ २३ ॥

नाभेरुर्पंरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः ।

जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति ॥ २४ ॥

हृन्नाभिस्तिर्ज्या ये तेषु भिन्नेषु बाह्यतः ।

जीवेत्कदाचित् पुरुषो नेतरेषु कदाचन ॥ २५ ॥

क्लोम तिष्ठति । जलवाहि सिरामूलं तृष्णाच्छादनकृन्मतम् ॥ ” इति । बाह्वोर्द्वयोर्मध्ये वक्षस्तन्मध्ये हृदयं तत्पार्श्वे क्लोम पिपासास्थानमिति वैद्याः । क्लोम कालखण्डादध-स्तात् स्थितं दक्षिणपाश्र्वस्थं तिलकं प्रसिद्ध मिति डल्हणः । कालखण्डात् कोऽर्थः? यकृतः । १ सूत्रस्थाने एतन्नामक सप्तदशाध्यायोक्त लक्षणैरित्यर्थः २ बाह्याभ्यन्तरविद्र-धीनां स्थानविशेषेण लक्षणानि दर्शयति - गुद इति । ३ ' बुक्कयो: ' इति हाराणचन्द्रसम्मत पाठः । ४ नाभेरुपरिजाः प्लीहयकृत्क्लोमकु -क्षिहृदयजाः, पक्काः ऊर्ध्वं मुखमार्गेण, यान्ति स्रवन्ति, इतरे गुदवस्ति वृक्कवङ्क्षण जा अधो गुदमार्गेण स्रवन्तीत्यर्थः । तदुक्तं हारीतेन - " ऊर्ध्वं प्रभिन्नेषु मुखान्नराणां प्रवर्ततेऽसृक्सद्दितोऽपि पूयः । श्रधः प्रभिन्नेषु च पायुमार्गाद्, द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु ॥ ” इति । ५ तेषु = प्लीइय कृत्क्लोमगुदकुक्षिवृक्कव ङ्क्षण जेष्वन्तर्विद्रधिषु, बाह्यतो भिन्नेषु कदाचिद् दैवाज्जीवेत्, इतरेषु = हृन्नाभिबस्तिजेषु, कदाचन = पाके अपाके वा न जीवेत्, मर्मखादिति भावः । तदुक्तं भोजेन – " असाध्यो मर्मजो ज्ञेयः पक्कोऽपक्वश्च विद्रधिः । सन्निपातोत्थितोऽप्येवं पक्क एव तु बस्तिजः । खग्जो नाभेरघो यश्च साध्यो मर्मसमीपजः । श्रपक्कश्चैव पक्वश्च साध्यो नोपरिनाभिजः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar