सुश्रुत संहिता चौखम्बा — पृष्ठ 531–540
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 531–540
पृष्ठ 531
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by A ग्नि दीवमधपम ation Chennai and eGangotri
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः ।
दाहज्वरकरो घोरो जायते रक्तविद्रधिः ॥ २६ ॥ ७
अपि सम्यक् प्रजातानामसृक् कायादनिःसृतम् ।
रक्तजं विद्रधिं कुर्यात् कुक्षौ मल्ल संज्ञितम् ॥ २७ ॥
सप्ताहान्नोपशान्तश्चेत्ततौऽसौ सम्प्रपच्यते ।
विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः ॥ २८ ॥
गुल्मंदोपसमुत्थानाद्विद्रवेर्गुल्मकस्य च ।
कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च ॥ २ ९ ॥
न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः ।
गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते ॥ ३० ॥
विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा ॥ ३१ ॥
एवम्प्रकारो गुल्मस्तु तस्मात्पाकं न गच्छति ।
मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः ॥ ३२ ॥
मांसशोणितहीनत्वाद् गुल्मः पाकं न गच्छति ।
गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मासशोणिते ।
विद्रधिः पच्यते तस्माद् गुल्मश्चापि न पच्यते ॥ ३३ ॥
हृन्नाभिवस्तिजः पक्को वर्ज्यो यश्च त्रिदोषजः ।
अर्थ मज्जपरीपाको घोरः समुपजायते ॥ ३४ ॥
३७१ १ अपप्रजातानां === पतितगर्भाणां, निर्हृतमूढगर्भाणान्चेत्यर्थः, प्रजातानां = यथा · कालं सुखं प्रसूतानां स्त्रीणाम् श्रहितैः = रक्तपित्तप्रकोपिभिः शीतरूक्षाहारविहारैः रक्तविद्रधिर्जायते इति सम्बन्धः । २ सम्प्रपच्यते = पित्तोष्मणाऽन्तः प्रपच्यत इत्यर्थः । ३ ' तुल्यदोषसमुत्थानाद् ' इति पाठान्तरम् । " हृन्न | भ्योरन्तरे ग्रन्थिः सचारी यदि वाऽचलः । वृत्तश्चयापचयवान् स गुल्म इति कीर्तितः ” । ४ इति निश्चित्य बध्नातीति निबन्धो मूलं मांसरक्तादिदूष्य मित्यर्थः । ५ गुल्मे दोषा वातादयः स्वयं गुल्माकारा भवन्ति, विद्रध्यां तु मांसशोणिते विद्रधिर्भवत इत्यर्थः । ६ एवंप्रकारो गुल्मस्तु यथाऽप्सु विवरानुचरो ग्रन्थिर्बुद्बुदको भवति, तथा कोष्ठे आन्त्रविवरानुचरो ग्रन्थिर्गुल्मो भवतीत्यर्थः । ७ असाध्यविद्रधिमाह— हृदिति । अष्टाङ्गसङ्ग्रहे— “ पक्को हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा । पक्क-श्चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः ॥ ” इति । अस्थिगत विद्रधिं निर्दि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 532
पाठ पढ़ें पाठ छिपाएँ
३७२२ by Arya Samaj त्सुश्रुतसंहिताय indeGangotri [ अ ० १०
सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा ।
ततः स व्याधिना तेन ज्वलनेनेव दह्यते ॥ ३५ ॥
अस्थिमज्जोष्मणा तेन शीर्यते ' दह्यमानवत् ।
विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम् ॥ ३६ ॥।
अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा ।
ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ॥ ३७ ॥
भिन्नेऽस्थ्नि निःस्रवेत् पूयमेतदस्थिगतं विदुः ।
विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम् ॥ ३८ ॥
इति सुश्रुतसंहितायां निदानस्थाने विद्रधिनिदानं नाम नवमोऽध्यायः ॥ ९ ॥
दशमोऽध्यायः ।
अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
त्वंङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम् । शति — अथेति । १ शीर्यते = विनश्यति । २ अथ = पाकानन्तरम्, । कर्मणा = प्राक्तनकर्मणा, शस्त्रकर्मणा वा । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । ३ श्राश्रयग्रहणेनाश्रितस्यापि ग्रहणाद् अत्र त्वक्शब्देन तदाश्रिता लसीकाऽपि गृह्यते । तदुक्तं माधव करेण - " रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः । विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्तधातवः ॥ ” इति । ४ बद्दिरन्तरुभयतो वाऽवयवशः सर्वमङ्गं सर्तुं शीलमस्येति तं सर्वाङ्गसारिणं ' शोफम् ' इत्यस्य विशेषणम् । तथा च चरकः— “ बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः । विसर्पो बलमेतेषां ज्ञेयं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 533
पाठ पढ़ें पाठ छिपाएँ
" अ ० १० ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् । कुवन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्चै विसर्पमाहुः ॥ ३ ॥
• वातात्मको s सितमृदुः परुषोऽङ्गमर्द-सम्भेदतोदपवनज्वरलिङ्गयुक्तः ।
गेण्डैर्यदा तु विषमैरतिदूषितत्वा-द्युक्तः स एव कथितः खलु वर्जनीयः ॥ ४ ॥
पित्तात्मको द्रुतगतिर्ज्वरदाहपाक-स्फोटप्रभेदबहुलः क्षतजप्रकाशः । दोषैप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् ॥ ५ ॥
______ मात्मकः सरति मन्दमशीघ्रपाकः स्निग्धः सितश्वयथुरल्परुगुग्रकण्डुः । सर्वास्त्रविधवरुजोऽवगाढः पक्को न सिध्यति च मांससिराप्रणाशात् ॥ ६ ॥
सद्यःक्षतत्रणमुपेत्य नरस्य पित्तं रक्तञ्च दोषबहुलस्य करोति शोफम् । ३७३. गुरु यथोत्तरम् ॥ ” इति । इह = उत्पत्तिस्थाने, अस्थितम् = अनिश्चलम्, आत्मलिङ्गं = व्यस्तसमस्तवातादिलक्षणम् । १ चकारेण विविधं विसर्पतीत्यर्थः समुच्चीयते । तदुक्तं चरके.— “ विविधं सर्पति यतो विसर्पस्तेन स स्मृतः । परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात् ॥ ” इति । २ गण्डैः = अग्निदग्धदेशसदृशैः स्फोटैर्युक्त इति सम्बन्धः । तदुक्तम् – “ अग्नि-दग्ध इव स्फोटैः शीघ्रगत्वाद्भुतं स च । मर्मानुसारी वीसर्पः स्याद्वातोऽति बल- । स्ततः ॥ ” इति । ३ कफपित्तात्मकविसर्पं ब्रवीति - दोषेति । दोषप्रवृद्धया पित्तक-फाभिवृद्धया इता विनष्टा मांससिरा यत्र स तथोक्तः, स्रोतोजं = सौवीराञ्जनम् । ४ सर्वात्मकः = त्रिदोषजः, सान्निपातिक इति यावत्, त्रिविधानां दोषाणां वर्णाः कृष्णपीतसितादयः, रुजश्च तोददाहकण्ड्वादिवेदनाः । ५ सद्यःक्षतव्रणमुपेत्य दोषबहुलस्य नरस्य पित्तं रक्तं च शोफं करोतीति सम्ब न्धः । क्षतं शस्त्रप्रहारादिना । तदुक्तं भोजेन - " शस्त्र प्रहारैस्तैस्तैस्तु व्याडदन्तन-खैरपि । क्षते वाऽप्यथवा भग्ने बहुदोषस्य देहिनः । रक्तं पित्तं च बहुलं व्रणमाशु प्र ० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 534
पाठ पढ़ें पाठ छिपाएँ
३७७ by Arya Samaj Four खुश्रुतसंहितायां engotri श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम् ॥ ७ ॥
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति । पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः ॥ ८ ॥
शोफ े न पक्कमिति पक्कमुपेक्षते यो । यो वा त्रणं प्रचुरपूयमसाधुवृत्तः । अभ्यन्तरं प्रविशति प्रविदार्यं तस्य स्थानानि पूर्वविहितानि ततः स पूयः ॥ ९ ॥
तस्यौतिमात्रगमनाद्गतिरित्यतश्च नाडी यद्वहति तेन मता तु नाडी । दोषैस्त्रिभिर्भवति सा पृथगेकशश्च [ अ ० १० सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या ॥ १० ॥
पद्यते । कुरुतस्ते समेते तु व्रणशोथं सुदारुणम् ॥ श्रचितं तनुविस्फोटः कृष्णैः पीतक • सन्निभैः । पित्तवीसर्पवल्लिङ्गं तस्य शेषं विनिर्दिशेत् ॥ ” इति । अस्य क्षतजन्यविसर्पस्य पित्तजे विसर्पेऽन्तर्भावान्न तन्त्रान्तरोक्त सप्तसंख्याऽऽधिक्यम् । सुश्रुतोक्तवीसर्पातिरिक्ता माधवकरोद्धृता श्रग्निकर्दमग्रन्थिविसस्त्रय निर्दिश्यन्ते – “ आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः । यस्तु कर्दमको घोरः स पित्तकफसम्भवः ॥ ” इति । एतेषां लक्षणानि चरकसंहिताया विसर्पचिकित्सायां द्रष्टव्यानि । १ असाध्यत्वेन कृच्छ्रत्वं बोध्यम् । तथा च भोज: - " वस्तु क्षतजस्तेषां सन्नि पातात्तु यो भवेत् । भिषजा जानता त्याज्याः सर्व एव तु मर्मजाः ॥ ” इति । २ नाडीव्रणनिदानं निर्दिशति – शोफमिति । ३ श्रसाधुवृत्तः = = अनुचित • कर्मतत्परः, अहिताहाराचार इति श्रीकण्ठः । ४ स्थानानि == त्वङ्मांससिरास्नायुस-न्ध्यस्थिकोष्ठमर्माणि व्रणवास्तुशब्दाभिहितानि । ५ तस्य = पूयस्य | ६ नाडीव = प्रणालिकावत् । ७ दोषैः पृथक् तिस्रः, सन्निपतितैरित्यध्याहार्य एकशश्च सन्निपतितैरन्या, अपराश्च तिस्रः, सम्मूच्छितैरपि च द्विदोषसंयोगोत्थाः, अन्यथा अपि चकारो निरर्थकौ स्याताम् । -सम्मूच्छितैः कोऽर्थः? संश्लिष्टेः । श्रतिदेशेनोक्तयोर्द्वन्द्वसन्निपातयोः सर्वत्र अगणनान्नो. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 535
पाठ पढ़ें पाठ छिपाएँ
निदानस्थानम् । Digitized by Arya Samai Foundation Chennai and eGangotri अ ० १० ] ३७५ तत्रानिलात्परूपसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम् । नृतापतोदसदनज्वरभे दहेतुः पीतं स्रवत्यधिकमुष्णमहः सु पित्तात् ॥ ११ ॥
ज्ञेया कफाद्बहुघनौर्जुन पिच्छिलास्रा रात्रिंस्रुतिः स्तिमितरुक्कठिना सकण्डुः । दोपद्वयाभिहितलक्षणदशनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ॥ १२ ॥
दाहज्वरश्वसन मूर्च्छन वक्त्रशोपा यस्यां भवन्त्यभिहितानि च लक्षणानि । तामादिशेत् पवनपित्तकफप्रकोपाद् घोराम सुक्षयकरीमिव कालरात्रिम् ॥ १३ ॥
नष्टं कथञ्चिदनुमार्गमुदीरितेषु ।
स्थानेषु शल्यमचिरेण गतिं करोति ।
सा फेर्निलं मथितमच्छमसृग्विमिश्र-मुष्णं स्रवेत सहसा सरुजा च नित्यम् ॥ १४ ॥
क्तपञ्चसंख्या हानिशङ्काऽवसरः । अन्ये तु – त्रिभिर्दोषैः पृथक् तिस्रः, एकशः सम्मू-च्छितैरन्या सान्निपातिकी, शल्यनिमित्ता च पञ्चमीति पन्चैव नाढ्य इत्येवं व्याख्या-माहुः । १ परुषं कर्कशं सूक्ष्मं मुखं यस्याः सा परुषसूक्ष्ममुखी, सशूला = शूलसहि ता, फेनानुविद्धं = फेनानुगतम्, क्षपायां = रात्रौ स्रवति = शैत्ये वातवृद्धेऽधिकं स्रावयतीत्यर्थः । २ दिनेषु श्रौष्ण्येन पित्तकोपादिति भावः । ३ बहुरधिकः घनः सान्द्रः अर्जुनो धवलः पिच्छिल आत्र आस्रावो यस्यां सा तथोक्ता । ४ शैत्येन इले-मणः प्रकोपादिति भावः, स्तिमितरुक् = मन्दवेदना । ५ व्यतिकरप्रभवाः = द्वन्द्वजाः, तिस्रः = वातपित्तजा पित्तकफजा वातकफजा च, गतीः = नाडीः, विद्यात् । ६ सान्निपातिक नाढीमभिदधाति — दाहेति । ७ अक्षयकरीं = प्राणापहा • रिणीम् । तदाह माधवः -- " नाडी त्रिदोष प्रभवा न सिद्धेच्छेषाश्चतस्रः खलु यत्नसा • ध्याः ' इति । कालरात्रिं = यमभगिनीम्, इव । शल्यनिमित्तां नाडीं निर्दिशति-नष्टमिति । नष्टम् = अन्तः प्रविष्टतयाऽदृश्यमानम् । ९ फेनिलं = फेनवन्तम्, मथि-तम् = उन्मथितम्, उष्णम् = उष्णस्पर्शम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 536
पाठ पढ़ें पाठ छिपाएँ
३७६ Digitized by Arya Samaj सुश्रुतसंहिता are Gangotri [ अ ० १०
यावत्यो गतयो यैश्च कारणैः सम्भवन्ति हि ।
तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः ॥ १५ ॥
धमन्यः संवृतद्वौराः कन्यानां स्तनसंश्रिता ।
दोषाविसरणात्तासां न भवन्ति स्तनामयाः ॥ १६ ॥
तासामेव प्रजातानां गर्भिणीनां च ताः पुनः ।
स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ॥ १७ ॥
रसप्रसादो मधुरः पक्काहारनिमित्तजः ।
कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ॥ १८ ॥
विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते ।
सर्व देहाश्रितत्वाच्च शुक्रलक्षणमुच्यते ॥ १ ९ ॥
तदेव चेष्टयुवते दर्शनात् स्मरणादपि ।
शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्त्तते ॥ २० ॥
सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते ।
आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः ॥ २१ ॥
" तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि । १ अथ स्तनरोगनिदानमभिधत्ते - यावत्य इति । यावत्यः = यावत्परिमाणाः । २ संवृत द्वाराः = सङ्कुचितद्वाराः, कन्यानाम् = अप्राप्तगर्भाणां स्त्रीणाम्, न तु कुमारी • णामेवेति तात्पर्यम् । ३ अविसरणात् = असञ्चरणात् संवृतद्वारतया ' स्तनामयारम्भ-कदोषाणामप्रवेशादित्यर्थः । ' दोषावितरणात् ' इति हाराणचन्द्रसम्मत पाठः । ४ विवृ-ताः = प्रसृतद्वाराः । ५ स्तन्यं निर्दिशति — रसेति । रसस्य प्रसादः प्रसन्नो भागो रसप्रसादः, कथं-भूतः? मधुरः, पक्काहारो निमित्तमस्येति पक्काहारनिमित्तो रसस्तस्माज्जातः पक्काहार · निमित्तजः । ६ विशस्तेष्वपि = छिन्नेष्वपि । ७ सर्वदेहाश्रितत्वात् शुक्रवत्समस्त-शरीराश्रितत्वात् शुक्रलक्षणमुच्यते स्तन्यमिति शेषः । वक्ष्यति शारीरे - " यथा पयसि सर्पिस्तु गुडश्चेक्षुरसे यथा । शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः ॥ ” इति । ८ शुक्रदृष्टान्तेन स्तन्यस्याभ्यन्तरदर्शनं प्रतिपाद्य तेनैव दृष्टान्तेन बहि: प्रवर्तनं प्रतिपादयति - तदेवेति । तदेव शुक्रं प्रवर्तते बहिर्निःसरतीति सम्बन्धः । ९ संहर्षात् = विशिष्टसङ्कल्पलक्षणात् । संहर्षे हेतुचतुष्टयं निर्दिशति - इष्टयुवतेरित्यादि । १० तदेव स्तन्यं शुक्रवत् सम्प्रवर्तते इत्यग्रेण सम्बन्धः । श्रत्र पुत्रसंस्पर्शादिकारणचतुष्टयं बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 537
पाठ पढ़ें पाठ छिपाएँ
अ ० ११ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ३७७ निदानस्थानम् ग्रहणाच्च शरीरस्य शुक्रवत् सम्प्रवर्त्तते ॥ २२ ॥
स्नेहो निरन्तरस्तत्र प्र॑स्रवे हेतुरुच्यते ।
तेत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि ॥। २३ ॥
पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः ।
कफाद्धनं पिच्छिलं च जले चाप्यवँसीदति ।
सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति ॥ २४ ॥
र्यंत क्षीरमुदके क्षिप्तमेकीभँवति पाण्डुरम् ।
मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत् ॥ २५ ॥
संक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः ।
रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते ॥ २६ ॥
पञ्चानामपि तेषौं तु हित्वा शोणितविद्रधिम् ।
लक्षणानि " समानानि बाह्यविद्रधिलक्षणैः ॥ २७ ॥
इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्तनरोगनिदानं नाम दशमोऽध्यायः ॥ १० ॥
एकादशोऽध्यायः ।
अथातो ग्रन्थ्यपच्यर्बुद्गलगण्डानां निदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
" वातादयो मांसमसृक् च दुष्टाः सन्दूष्य मेदश्च कफानुविद्धम् । तत्र मूलकारणं स्नेहः । १ प्रस्रवे = स्तन्यस्रवणे । २ स्तन्यदुष्टिलक्षणमाचष्टे - तदिति । ३ अम्भसि क्षिप्ते सति पीतिकाः पीतवर्णाः राज्य: सूत्रवद् रेखा भवन्तीत्यर्थः । ४ अवसीदति = निमज्जतीत्यर्थः । ५ अभि-घातात् = पतनप्रहारशोकक्रोधादिशारीरिक मानसिकाभिघातादित्यर्थः । ६ श्रविकृत-स्तन्यं निर्दिशति - यदिति । ७ एकीभवति = सर्वात्मना जलेन सदैकत्वं याति । ८ सक्षीरौ गर्भवत्याः, अदुग्धौ प्रसूतायाः, प्राप्य = विवृतधमनीमुखेनाविश्य । ९ तेषां = स्तनरोगाणामित्यर्थः । १० समानानि तुल्यानि भवन्तीति शेषः । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां दशमोऽध्यायः । एकादशोऽध्यायः । ११ तत्रादावेकेनैव श्लोकेन ग्रन्थेर्हेतुसम्प्राप्तिलक्षणादीनि निर्दिशति - वातेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 538
पाठ पढ़ें पाठ छिपाएँ
३७८ by Arya Samaj Four कुश्रुतसहिताच्चा cangotri [ अ ० ११ वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ॥ ३ ॥
आर्यम्यते व्यभ्यत एति तोदं प्रत्यस्येते कृत्यत एति भेदम् ।
कृष्णोऽमृदुर्बस्तिरि ततश्च भिन्नः स्रवेच्चानिलजोऽस्रं मच्छम् ॥४ ॥
दन्दह्यते धूप्यति चोषवांश्च पापच्यते प्रज्वलतीव चापि ।
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ॥५ ॥
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत्संहननोपपन्नः ।
चिराभिवृद्धिश्च कफप्रकोपाद् भिन्नः स्रवेच्छुक्लघनं च पूयम् ॥ ३ ॥
शरीवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजोऽतिकण्डूः ।
मेदःकृतो गच्छति चात्र भिन्ने " पिण्याक सापःप्रतिमं तु मेदः ॥७ ॥
" व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि " सिरांप्रतानम् ।
सम्पीड्य सङ्कोच्य विशोष्य चापि ग्रन्थि करोत्युन्नतमाशु वृत्तम् ॥ ८ ॥
ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च ।
अरुक् स एवाप्यचलो महांश्च मर्मोत्थितश्चापि १२ विवर्जनीयः ॥ ९ ॥
वातादयः = वातपित्तकफाः, दुष्टाः = वृद्धिं गताः, " वृद्धिश्चापि विरोधिनाम् ” इति वच-नात् । एतावतांऽशेन हेतूपदेशः मांसमसृक् च सन्दूष्य कफानुविद्धं कफसंसृष्टं मेदश्च चकारात सिराजो ग्रन्थिः शोफं कुर्वन्तीति योजना । इयतांऽशेन सम्प्राप्तिरुपदिष्टा । कथं भूतं शोफं? वृत्तोन्नतं वृत्तं वर्तुलम्, उन्नतमुच्छ्रितम्, विग्रथितं विकृत्या ग्रन्थिने-अतीव कठिनमिति तात्पर्यम् । वृत्तोन्नतमित्यादिना वानुगतम्, लक्षणमुपदिष्टम् । – लोकेन पञ्च ग्रन्थयो बोध्याः । १ वातग्रन्थि प्रतिपादयति- आयम्यत इति । श्रयम्यते = आकृष्य दीर्घीक्रियते, ग्रन्थिरिति शेषः । २ प्रत्यस्यते क्षिप्यते । ३ बस्तिरिवाततः = मूत्राशयवद्दीर्घः । ४ अस्रं = स्रावम् । ५ पित्तग्रन्थिमाख्याति - दन्दह्यत इति । दन्दह्यते = अग्निनेवा-त्यर्थं दह्यते । ६ पापच्यते = क्षारेणेव भृशं पच्यते । ७ कफग्रन्थिमभिधत्ते - शीत इति । श्रविवर्णः = प्रकृतिवर्णः, ईषद्विवर्णो वा । ८ पाषाणवत् कठिन इति शेषः, संहननोपपन्नः = सङ्घातान्वितः, महानिति तात्पर्यम् । ९ मेदोजग्रन्थि ब्रवीति — शरीरेति । शरीरस्य वृद्धिक्षयाभ्यां क्रमशो वृद्धिहानी यस्य स तथोक्तः । १० पिण्याकस्तिलकल्कः, सर्पिरत्र स्त्यानं, तत्सदृशं मेदः स्रवतीत्यर्थः । ११ सिरा-जग्रन्थेः सम्प्राप्तिं दर्शयति - व्यायामेति । तैस्तैः = बलवद्विग्रहादिभिः । १२ सिरा-प्रतानं = सिराभ्यो निर्गतं सूक्ष्मसिराजालम् । १३ चकारेण श्ररुजोऽपि विवर्जनीयः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 539
पाठ पढ़ें पाठ छिपाएँ
अ ० ११ ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् । हेन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः । ३७ ९ ग्रन्थि स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति ॥ १० ॥
तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्म्याण्ड जालप्रतिमैस्तथाऽन्यैः ।
अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति ॥ ११ ॥
कण्डूयुतास्तेऽल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये ।
मेदःकफाभ्यां खलु रोग एप सुदुस्तरो वर्षेगणानुबन्धी ॥ १२ ॥
गात्रप्रदेशे क्वचिदेव दोषाः सम्मूच्छिता मांसमभिप्रदूष्य । तदुक्तं भोजेन– “ पञ्चैतानरुजो ग्रन्थीन् मर्मजानचलांस्त्यजेत् । कपोलगलमन्यासु दुश्चि-कित्स्याश्च सन्धिषु ॥ ” इति । अष्टाङ्गसङ्ग्रहे तु ग्रन्थेर्नव भेदाः प्रदर्शिताः - " दोषासृ-ङ्मांसमेदोऽस्थिसिराव्रणभवा नव " इति । एतेषां लक्षणानि तत एवावगन्तव्यानि, विस्तरभयान्नात्र प्रदर्शितानि । १ अथ अपच्याः सम्प्राप्त्यादीन् ब्रवीति - हन्विति । हन्वोरस्थि हन्वस्थि, अत्र सन्धिशब्दस्थ हन्वस्थ्यादिभिर्बाह्वन्तैः सह प्रत्येकं सम्बन्धः । कक्षा अंसस्थाधोभागः, अक्षकसन्धिः = कोष्ठकसन्धिः, बाहुसन्धिः = गौण्यावृत्या द्वे वङ्क्षणसन्धी, मन्या = ग्रीवापश्चाद्भागस्था धमनी । २ जाले जालाकारे आधारे मत्स्याण्डं मत्स्याण्डजालं, राजदन्तादिषु परम्, तत्सदृशैर्मत्स्याण्ड जालप्रतिमैः । ३ अनन्यवर्णैः = मेदःकफकृ-तत्वेन समानवर्णैरित्यर्थः । ४ चयप्रकर्षात् = उपचयप्रकर्षात् । ५ अत्र अप्यर्थकः खलुशब्दः । तेन मेदःकफौ वातादिदोषान्तरानुविद्धौ ज्ञेयौ तथा हि भोज: - " वातपित्तकफा वृद्धा मेदश्चापि समाचितम् । जङ्घयो: कण्डराः प्राप्य मत्स्याण्डसदृशान् बहून् । कुर्वन्ति ग्रथितांस्तेभ्यः पुनः प्रकुपितोऽनिलः । तान् दोषा-नूर्ध्वगो वक्षःकक्षामन्यागलाश्रिताः ॥ व्यामिश्रदोषजातस्य कृच्छ्रसाध्याः प्रकीर्तिताः । तासां वातोदरा रूक्षा वातवेदनयाऽन्विता ॥ क्षिप्रपाकसमुत्थाना दाहयुक्ता तु पैत्तिकी गूढा वा पाककठिना कफात्स्निग्धाऽल्परुक्करा ॥ मेदोऽधिका श्लैष्मिकी च विशेषादतिमा-दवा । अपची कण्ठमन्यासु कक्षावङक्षणसन्धिषु ॥ तां तु मालाकृतिं विद्यात् कण्ठहृद्धनु-सन्धिषु । गण्डमालां विजानीयादपचीतुल्यलक्षणाम् ॥ ” इति । चरके गण्डमाला गण्डे एव पठिता — ‘ मेदःकफाच्छोणितसञ्चयोत्थो गण्डस्य पाइर्वे गलगण्ड एकः । स्याद्गण्ड-माला बहुभिश्च गण्डैदींप्तानले यूनि बलान्विते च ॥ साध्या स्मृता पीनसपार्श्वशूलका · सज्वरच्छर्दियुता त्वसाध्या ॥ ” इति ढल्हणः । ६ वर्षगणानुबन्धी = बहुवर्षानुसरणशील इत्यर्थः । ७ अर्बुदानां सम्प्राप्तिमाह-गात्रेति । क्वचिदेव गात्रप्रदेशे दोषाः शोफं कुर्वन्तीति सम्बन्धः । सम्मूर्च्छिताः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 540
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation ३८० ९ " सुश्रुतसंहिताया eGangotri [ अ ० ११ वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्धचपाकम् ॥ १३ ॥
कुर्वन्ति मांसोपचयं तु शोफं तददं शास्त्रविदो वदन्ति ।
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च ॥ १४ ॥
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति ।
दोषः प्रदुष्टो रुधिरं सिरास्तु सम्पीड्य सङ्कोच्य गतस्तु पाकम् ॥१५ ॥
सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशु वृद्धिम् ।
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात् ॥ १६ ॥
रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेदर्वदपीडितस्तु ।
मुष्टिप्रहारादिभिर्रादतेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् ॥ १७ ॥
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् ।
प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसर्पंरायणस्य ॥ १८ ॥
मांसाबुदं त्वेतदसाध्यमुक्तं साध्येष्वपी मानि विवर्जयेत्तु ।
संप्रस्रुतं मर्मणि यच्च जातं स्रोतः सु वा यच्च भवेद्चाल्यम् ॥ १ ९ ॥
यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदर्थ्यर्बुदमर्बुदज्ञैः ।
यद् द्वन्द्वैजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ॥ २० ॥
न पाकमायान्ति कफाधिकत्वान्मेदोऽधिकत्वाच्च विशेषतस्तु ।
" दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ॥ २१ ॥
प्रवृद्धाः । १ अर्बुदस्य लक्षणं दर्शयति - दोष इति । प्रदुष्टो दोषः सिरासु गतो रुधिरं सम्पीडय सङ्कोच्य मांसपिण्डम् उन्नह्यति उन्नतं करोतीति सम्बन्धः । २ मांसज. न्यस्य सम्प्राप्तिमाह — मुष्टीति । ३ श्रश्मोपमं = पाषाणवत् कठिनम् श्रप्रचाल्यं = स्थिरत्वाच्चालनानर्हम् । ४ मांसपरायणस्य = मांसाशनशीलस्य । तस्य चातिमात्रं मांसवृद्धि:, “ मांसं मांसेन वर्धते " इत्यभिधानात् । ५ साध्येष्वपि असाध्यप्रकारान् प्रतिपादयति - साध्वी 1 = ६ सम्प्रस्रुतं स्रावयुक्तम्, स्रावश्चात्रापाकित्वेऽपि त्वगवदरणान्मनागवगन्तव्यः । ७ स्रोतःसु = ना. सादिषु । ८ अधिकमर्बुदमध्यर्बुदम्, एतद्विरर्बुदमेव । ९ द्वन्द्वेन युग्मेन जातं द्वन्द्व · जातम् । १० दोषकार्यस्य मांसोच्छ्रयस्य तेनैव स्वरूपेण चिरकालावस्थितिशीलत्वात्, ग्रंथनात् = ग्रन्थिरूपत्वात् तेषां = मेदः प्रभृतीनाम् । ११ तुशब्दोऽप्यर्थकः, तेन व्याधिस्वभावादपीत्यर्थः । भोजेऽप्युक्तम् – “ न पच्यते स्थिरत्वाच्च ग्रथित्वात्स्वभा वतः ” इति । CC - 0. Gurukul Kangri Collection, Haridwar