सुश्रुत संहिता चौखम्बा — पृष्ठ 531–540

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 531–540

पृष्ठ 531

सुश्रुत संहिता चौखम्बा, पृष्ठ 531 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ९ ] Digitized by A ग्नि दीवमधपम ation Chennai and eGangotri

स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः ।

दाहज्वरकरो घोरो जायते रक्तविद्रधिः ॥ २६ ॥ ७

अपि सम्यक् प्रजातानामसृक् कायादनिःसृतम् ।

रक्तजं विद्रधिं कुर्यात् कुक्षौ मल्ल संज्ञितम् ॥ २७ ॥

सप्ताहान्नोपशान्तश्चेत्ततौऽसौ सम्प्रपच्यते ।

विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः ॥ २८ ॥

गुल्मंदोपसमुत्थानाद्विद्रवेर्गुल्मकस्य च ।

कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च ॥ २ ९ ॥

न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः ।

गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते ॥ ३० ॥

विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा ॥ ३१ ॥

एवम्प्रकारो गुल्मस्तु तस्मात्पाकं न गच्छति ।

मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः ॥ ३२ ॥

मांसशोणितहीनत्वाद् गुल्मः पाकं न गच्छति ।

गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मासशोणिते ।

विद्रधिः पच्यते तस्माद् गुल्मश्चापि न पच्यते ॥ ३३ ॥

हृन्नाभिवस्तिजः पक्को वर्ज्यो यश्च त्रिदोषजः ।

अर्थ मज्जपरीपाको घोरः समुपजायते ॥ ३४ ॥

३७१ १ अपप्रजातानां === पतितगर्भाणां, निर्हृतमूढगर्भाणान्चेत्यर्थः, प्रजातानां = यथा · कालं सुखं प्रसूतानां स्त्रीणाम् श्रहितैः = रक्तपित्तप्रकोपिभिः शीतरूक्षाहारविहारैः रक्तविद्रधिर्जायते इति सम्बन्धः । २ सम्प्रपच्यते = पित्तोष्मणाऽन्तः प्रपच्यत इत्यर्थः । ३ ' तुल्यदोषसमुत्थानाद् ' इति पाठान्तरम् । " हृन्न | भ्योरन्तरे ग्रन्थिः सचारी यदि वाऽचलः । वृत्तश्चयापचयवान् स गुल्म इति कीर्तितः ” । ४ इति निश्चित्य बध्नातीति निबन्धो मूलं मांसरक्तादिदूष्य मित्यर्थः । ५ गुल्मे दोषा वातादयः स्वयं गुल्माकारा भवन्ति, विद्रध्यां तु मांसशोणिते विद्रधिर्भवत इत्यर्थः । ६ एवंप्रकारो गुल्मस्तु यथाऽप्सु विवरानुचरो ग्रन्थिर्बुद्बुदको भवति, तथा कोष्ठे आन्त्रविवरानुचरो ग्रन्थिर्गुल्मो भवतीत्यर्थः । ७ असाध्यविद्रधिमाह— हृदिति । अष्टाङ्गसङ्ग्रहे— “ पक्को हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा । पक्क-श्चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः ॥ ” इति । अस्थिगत विद्रधिं निर्दि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 532

सुश्रुत संहिता चौखम्बा, पृष्ठ 532 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७२२ by Arya Samaj त्सुश्रुतसंहिताय indeGangotri [ अ ० १०

सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा ।

ततः स व्याधिना तेन ज्वलनेनेव दह्यते ॥ ३५ ॥

अस्थिमज्जोष्मणा तेन शीर्यते ' दह्यमानवत् ।

विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम् ॥ ३६ ॥।

अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा ।

ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ॥ ३७ ॥

भिन्नेऽस्थ्नि निःस्रवेत् पूयमेतदस्थिगतं विदुः ।

विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम् ॥ ३८ ॥

इति सुश्रुतसंहितायां निदानस्थाने विद्रधिनिदानं नाम नवमोऽध्यायः ॥ ९ ॥

दशमोऽध्यायः ।

अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

त्वंङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम् । शति — अथेति । १ शीर्यते = विनश्यति । २ अथ = पाकानन्तरम्, । कर्मणा = प्राक्तनकर्मणा, शस्त्रकर्मणा वा । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । ३ श्राश्रयग्रहणेनाश्रितस्यापि ग्रहणाद् अत्र त्वक्शब्देन तदाश्रिता लसीकाऽपि गृह्यते । तदुक्तं माधव करेण - " रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः । विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्तधातवः ॥ ” इति । ४ बद्दिरन्तरुभयतो वाऽवयवशः सर्वमङ्गं सर्तुं शीलमस्येति तं सर्वाङ्गसारिणं ' शोफम् ' इत्यस्य विशेषणम् । तथा च चरकः— “ बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः । विसर्पो बलमेतेषां ज्ञेयं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 533

सुश्रुत संहिता चौखम्बा, पृष्ठ 533 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

" अ ० १० ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् । कुवन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्चै विसर्पमाहुः ॥ ३ ॥

• वातात्मको s सितमृदुः परुषोऽङ्गमर्द-सम्भेदतोदपवनज्वरलिङ्गयुक्तः ।

गेण्डैर्यदा तु विषमैरतिदूषितत्वा-द्युक्तः स एव कथितः खलु वर्जनीयः ॥ ४ ॥

पित्तात्मको द्रुतगतिर्ज्वरदाहपाक-स्फोटप्रभेदबहुलः क्षतजप्रकाशः । दोषैप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् ॥ ५ ॥

______ मात्मकः सरति मन्दमशीघ्रपाकः स्निग्धः सितश्वयथुरल्परुगुग्रकण्डुः । सर्वास्त्रविधवरुजोऽवगाढः पक्को न सिध्यति च मांससिराप्रणाशात् ॥ ६ ॥

सद्यःक्षतत्रणमुपेत्य नरस्य पित्तं रक्तञ्च दोषबहुलस्य करोति शोफम् । ३७३. गुरु यथोत्तरम् ॥ ” इति । इह = उत्पत्तिस्थाने, अस्थितम् = अनिश्चलम्, आत्मलिङ्गं = व्यस्तसमस्तवातादिलक्षणम् । १ चकारेण विविधं विसर्पतीत्यर्थः समुच्चीयते । तदुक्तं चरके.— “ विविधं सर्पति यतो विसर्पस्तेन स स्मृतः । परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात् ॥ ” इति । २ गण्डैः = अग्निदग्धदेशसदृशैः स्फोटैर्युक्त इति सम्बन्धः । तदुक्तम् – “ अग्नि-दग्ध इव स्फोटैः शीघ्रगत्वाद्भुतं स च । मर्मानुसारी वीसर्पः स्याद्वातोऽति बल- । स्ततः ॥ ” इति । ३ कफपित्तात्मकविसर्पं ब्रवीति - दोषेति । दोषप्रवृद्धया पित्तक-फाभिवृद्धया इता विनष्टा मांससिरा यत्र स तथोक्तः, स्रोतोजं = सौवीराञ्जनम् । ४ सर्वात्मकः = त्रिदोषजः, सान्निपातिक इति यावत्, त्रिविधानां दोषाणां वर्णाः कृष्णपीतसितादयः, रुजश्च तोददाहकण्ड्वादिवेदनाः । ५ सद्यःक्षतव्रणमुपेत्य दोषबहुलस्य नरस्य पित्तं रक्तं च शोफं करोतीति सम्ब न्धः । क्षतं शस्त्रप्रहारादिना । तदुक्तं भोजेन - " शस्त्र प्रहारैस्तैस्तैस्तु व्याडदन्तन-खैरपि । क्षते वाऽप्यथवा भग्ने बहुदोषस्य देहिनः । रक्तं पित्तं च बहुलं व्रणमाशु प्र ० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 534

सुश्रुत संहिता चौखम्बा, पृष्ठ 534 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७७ by Arya Samaj Four खुश्रुतसंहितायां engotri श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम् ॥ ७ ॥

सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति । पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः ॥ ८ ॥

शोफ े न पक्कमिति पक्कमुपेक्षते यो । यो वा त्रणं प्रचुरपूयमसाधुवृत्तः । अभ्यन्तरं प्रविशति प्रविदार्यं तस्य स्थानानि पूर्वविहितानि ततः स पूयः ॥ ९ ॥

तस्यौतिमात्रगमनाद्गतिरित्यतश्च नाडी यद्वहति तेन मता तु नाडी । दोषैस्त्रिभिर्भवति सा पृथगेकशश्च [ अ ० १० सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या ॥ १० ॥

पद्यते । कुरुतस्ते समेते तु व्रणशोथं सुदारुणम् ॥ श्रचितं तनुविस्फोटः कृष्णैः पीतक • सन्निभैः । पित्तवीसर्पवल्लिङ्गं तस्य शेषं विनिर्दिशेत् ॥ ” इति । अस्य क्षतजन्यविसर्पस्य पित्तजे विसर्पेऽन्तर्भावान्न तन्त्रान्तरोक्त सप्तसंख्याऽऽधिक्यम् । सुश्रुतोक्तवीसर्पातिरिक्ता माधवकरोद्धृता श्रग्निकर्दमग्रन्थिविसस्त्रय निर्दिश्यन्ते – “ आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः । यस्तु कर्दमको घोरः स पित्तकफसम्भवः ॥ ” इति । एतेषां लक्षणानि चरकसंहिताया विसर्पचिकित्सायां द्रष्टव्यानि । १ असाध्यत्वेन कृच्छ्रत्वं बोध्यम् । तथा च भोज: - " वस्तु क्षतजस्तेषां सन्नि पातात्तु यो भवेत् । भिषजा जानता त्याज्याः सर्व एव तु मर्मजाः ॥ ” इति । २ नाडीव्रणनिदानं निर्दिशति – शोफमिति । ३ श्रसाधुवृत्तः = = अनुचित • कर्मतत्परः, अहिताहाराचार इति श्रीकण्ठः । ४ स्थानानि == त्वङ्मांससिरास्नायुस-न्ध्यस्थिकोष्ठमर्माणि व्रणवास्तुशब्दाभिहितानि । ५ तस्य = पूयस्य | ६ नाडीव = प्रणालिकावत् । ७ दोषैः पृथक् तिस्रः, सन्निपतितैरित्यध्याहार्य एकशश्च सन्निपतितैरन्या, अपराश्च तिस्रः, सम्मूच्छितैरपि च द्विदोषसंयोगोत्थाः, अन्यथा अपि चकारो निरर्थकौ स्याताम् । -सम्मूच्छितैः कोऽर्थः? संश्लिष्टेः । श्रतिदेशेनोक्तयोर्द्वन्द्वसन्निपातयोः सर्वत्र अगणनान्नो. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 535

सुश्रुत संहिता चौखम्बा, पृष्ठ 535 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

निदानस्थानम् । Digitized by Arya Samai Foundation Chennai and eGangotri अ ० १० ] ३७५ तत्रानिलात्परूपसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम् । नृतापतोदसदनज्वरभे दहेतुः पीतं स्रवत्यधिकमुष्णमहः सु पित्तात् ॥ ११ ॥

ज्ञेया कफाद्बहुघनौर्जुन पिच्छिलास्रा रात्रिंस्रुतिः स्तिमितरुक्कठिना सकण्डुः । दोपद्वयाभिहितलक्षणदशनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ॥ १२ ॥

दाहज्वरश्वसन मूर्च्छन वक्त्रशोपा यस्यां भवन्त्यभिहितानि च लक्षणानि । तामादिशेत् पवनपित्तकफप्रकोपाद् घोराम सुक्षयकरीमिव कालरात्रिम् ॥ १३ ॥

नष्टं कथञ्चिदनुमार्गमुदीरितेषु ।

स्थानेषु शल्यमचिरेण गतिं करोति ।

सा फेर्निलं मथितमच्छमसृग्विमिश्र-मुष्णं स्रवेत सहसा सरुजा च नित्यम् ॥ १४ ॥

क्तपञ्चसंख्या हानिशङ्काऽवसरः । अन्ये तु – त्रिभिर्दोषैः पृथक् तिस्रः, एकशः सम्मू-च्छितैरन्या सान्निपातिकी, शल्यनिमित्ता च पञ्चमीति पन्चैव नाढ्य इत्येवं व्याख्या-माहुः । १ परुषं कर्कशं सूक्ष्मं मुखं यस्याः सा परुषसूक्ष्ममुखी, सशूला = शूलसहि ता, फेनानुविद्धं = फेनानुगतम्, क्षपायां = रात्रौ स्रवति = शैत्ये वातवृद्धेऽधिकं स्रावयतीत्यर्थः । २ दिनेषु श्रौष्ण्येन पित्तकोपादिति भावः । ३ बहुरधिकः घनः सान्द्रः अर्जुनो धवलः पिच्छिल आत्र आस्रावो यस्यां सा तथोक्ता । ४ शैत्येन इले-मणः प्रकोपादिति भावः, स्तिमितरुक् = मन्दवेदना । ५ व्यतिकरप्रभवाः = द्वन्द्वजाः, तिस्रः = वातपित्तजा पित्तकफजा वातकफजा च, गतीः = नाडीः, विद्यात् । ६ सान्निपातिक नाढीमभिदधाति — दाहेति । ७ अक्षयकरीं = प्राणापहा • रिणीम् । तदाह माधवः -- " नाडी त्रिदोष प्रभवा न सिद्धेच्छेषाश्चतस्रः खलु यत्नसा • ध्याः ' इति । कालरात्रिं = यमभगिनीम्, इव । शल्यनिमित्तां नाडीं निर्दिशति-नष्टमिति । नष्टम् = अन्तः प्रविष्टतयाऽदृश्यमानम् । ९ फेनिलं = फेनवन्तम्, मथि-तम् = उन्मथितम्, उष्णम् = उष्णस्पर्शम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 536

सुश्रुत संहिता चौखम्बा, पृष्ठ 536 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७६ Digitized by Arya Samaj सुश्रुतसंहिता are Gangotri [ अ ० १०

यावत्यो गतयो यैश्च कारणैः सम्भवन्ति हि ।

तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः ॥ १५ ॥

धमन्यः संवृतद्वौराः कन्यानां स्तनसंश्रिता ।

दोषाविसरणात्तासां न भवन्ति स्तनामयाः ॥ १६ ॥

तासामेव प्रजातानां गर्भिणीनां च ताः पुनः ।

स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ॥ १७ ॥

रसप्रसादो मधुरः पक्काहारनिमित्तजः ।

कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ॥ १८ ॥

विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते ।

सर्व देहाश्रितत्वाच्च शुक्रलक्षणमुच्यते ॥ १ ९ ॥

तदेव चेष्टयुवते दर्शनात् स्मरणादपि ।

शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्त्तते ॥ २० ॥

सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते ।

आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः ॥ २१ ॥

" तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि । १ अथ स्तनरोगनिदानमभिधत्ते - यावत्य इति । यावत्यः = यावत्परिमाणाः । २ संवृत द्वाराः = सङ्कुचितद्वाराः, कन्यानाम् = अप्राप्तगर्भाणां स्त्रीणाम्, न तु कुमारी • णामेवेति तात्पर्यम् । ३ अविसरणात् = असञ्चरणात् संवृतद्वारतया ' स्तनामयारम्भ-कदोषाणामप्रवेशादित्यर्थः । ' दोषावितरणात् ' इति हाराणचन्द्रसम्मत पाठः । ४ विवृ-ताः = प्रसृतद्वाराः । ५ स्तन्यं निर्दिशति — रसेति । रसस्य प्रसादः प्रसन्नो भागो रसप्रसादः, कथं-भूतः? मधुरः, पक्काहारो निमित्तमस्येति पक्काहारनिमित्तो रसस्तस्माज्जातः पक्काहार · निमित्तजः । ६ विशस्तेष्वपि = छिन्नेष्वपि । ७ सर्वदेहाश्रितत्वात् शुक्रवत्समस्त-शरीराश्रितत्वात् शुक्रलक्षणमुच्यते स्तन्यमिति शेषः । वक्ष्यति शारीरे - " यथा पयसि सर्पिस्तु गुडश्चेक्षुरसे यथा । शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः ॥ ” इति । ८ शुक्रदृष्टान्तेन स्तन्यस्याभ्यन्तरदर्शनं प्रतिपाद्य तेनैव दृष्टान्तेन बहि: प्रवर्तनं प्रतिपादयति - तदेवेति । तदेव शुक्रं प्रवर्तते बहिर्निःसरतीति सम्बन्धः । ९ संहर्षात् = विशिष्टसङ्कल्पलक्षणात् । संहर्षे हेतुचतुष्टयं निर्दिशति - इष्टयुवतेरित्यादि । १० तदेव स्तन्यं शुक्रवत् सम्प्रवर्तते इत्यग्रेण सम्बन्धः । श्रत्र पुत्रसंस्पर्शादिकारणचतुष्टयं बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 537

सुश्रुत संहिता चौखम्बा, पृष्ठ 537 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ११ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ३७७ निदानस्थानम् ग्रहणाच्च शरीरस्य शुक्रवत् सम्प्रवर्त्तते ॥ २२ ॥

स्नेहो निरन्तरस्तत्र प्र॑स्रवे हेतुरुच्यते ।

तेत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि ॥। २३ ॥

पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः ।

कफाद्धनं पिच्छिलं च जले चाप्यवँसीदति ।

सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति ॥ २४ ॥

र्यंत क्षीरमुदके क्षिप्तमेकीभँवति पाण्डुरम् ।

मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत् ॥ २५ ॥

संक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः ।

रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते ॥ २६ ॥

पञ्चानामपि तेषौं तु हित्वा शोणितविद्रधिम् ।

लक्षणानि " समानानि बाह्यविद्रधिलक्षणैः ॥ २७ ॥

इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्तनरोगनिदानं नाम दशमोऽध्यायः ॥ १० ॥

एकादशोऽध्यायः ।

अथातो ग्रन्थ्यपच्यर्बुद्गलगण्डानां निदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

" वातादयो मांसमसृक् च दुष्टाः सन्दूष्य मेदश्च कफानुविद्धम् । तत्र मूलकारणं स्नेहः । १ प्रस्रवे = स्तन्यस्रवणे । २ स्तन्यदुष्टिलक्षणमाचष्टे - तदिति । ३ अम्भसि क्षिप्ते सति पीतिकाः पीतवर्णाः राज्य: सूत्रवद् रेखा भवन्तीत्यर्थः । ४ अवसीदति = निमज्जतीत्यर्थः । ५ अभि-घातात् = पतनप्रहारशोकक्रोधादिशारीरिक मानसिकाभिघातादित्यर्थः । ६ श्रविकृत-स्तन्यं निर्दिशति - यदिति । ७ एकीभवति = सर्वात्मना जलेन सदैकत्वं याति । ८ सक्षीरौ गर्भवत्याः, अदुग्धौ प्रसूतायाः, प्राप्य = विवृतधमनीमुखेनाविश्य । ९ तेषां = स्तनरोगाणामित्यर्थः । १० समानानि तुल्यानि भवन्तीति शेषः । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां दशमोऽध्यायः । एकादशोऽध्यायः । ११ तत्रादावेकेनैव श्लोकेन ग्रन्थेर्हेतुसम्प्राप्तिलक्षणादीनि निर्दिशति - वातेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 538

सुश्रुत संहिता चौखम्बा, पृष्ठ 538 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७८ by Arya Samaj Four कुश्रुतसहिताच्चा cangotri [ अ ० ११ वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ॥ ३ ॥

आर्यम्यते व्यभ्यत एति तोदं प्रत्यस्येते कृत्यत एति भेदम् ।

कृष्णोऽमृदुर्बस्तिरि ततश्च भिन्नः स्रवेच्चानिलजोऽस्रं मच्छम् ॥४ ॥

दन्दह्यते धूप्यति चोषवांश्च पापच्यते प्रज्वलतीव चापि ।

रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ॥५ ॥

शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत्संहननोपपन्नः ।

चिराभिवृद्धिश्च कफप्रकोपाद् भिन्नः स्रवेच्छुक्लघनं च पूयम् ॥ ३ ॥

शरीवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजोऽतिकण्डूः ।

मेदःकृतो गच्छति चात्र भिन्ने " पिण्याक सापःप्रतिमं तु मेदः ॥७ ॥

" व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि " सिरांप्रतानम् ।

सम्पीड्य सङ्कोच्य विशोष्य चापि ग्रन्थि करोत्युन्नतमाशु वृत्तम् ॥ ८ ॥

ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च ।

अरुक् स एवाप्यचलो महांश्च मर्मोत्थितश्चापि १२ विवर्जनीयः ॥ ९ ॥

वातादयः = वातपित्तकफाः, दुष्टाः = वृद्धिं गताः, " वृद्धिश्चापि विरोधिनाम् ” इति वच-नात् । एतावतांऽशेन हेतूपदेशः मांसमसृक् च सन्दूष्य कफानुविद्धं कफसंसृष्टं मेदश्च चकारात सिराजो ग्रन्थिः शोफं कुर्वन्तीति योजना । इयतांऽशेन सम्प्राप्तिरुपदिष्टा । कथं भूतं शोफं? वृत्तोन्नतं वृत्तं वर्तुलम्, उन्नतमुच्छ्रितम्, विग्रथितं विकृत्या ग्रन्थिने-अतीव कठिनमिति तात्पर्यम् । वृत्तोन्नतमित्यादिना वानुगतम्, लक्षणमुपदिष्टम् । – लोकेन पञ्च ग्रन्थयो बोध्याः । १ वातग्रन्थि प्रतिपादयति- आयम्यत इति । श्रयम्यते = आकृष्य दीर्घीक्रियते, ग्रन्थिरिति शेषः । २ प्रत्यस्यते क्षिप्यते । ३ बस्तिरिवाततः = मूत्राशयवद्दीर्घः । ४ अस्रं = स्रावम् । ५ पित्तग्रन्थिमाख्याति - दन्दह्यत इति । दन्दह्यते = अग्निनेवा-त्यर्थं दह्यते । ६ पापच्यते = क्षारेणेव भृशं पच्यते । ७ कफग्रन्थिमभिधत्ते - शीत इति । श्रविवर्णः = प्रकृतिवर्णः, ईषद्विवर्णो वा । ८ पाषाणवत् कठिन इति शेषः, संहननोपपन्नः = सङ्घातान्वितः, महानिति तात्पर्यम् । ९ मेदोजग्रन्थि ब्रवीति — शरीरेति । शरीरस्य वृद्धिक्षयाभ्यां क्रमशो वृद्धिहानी यस्य स तथोक्तः । १० पिण्याकस्तिलकल्कः, सर्पिरत्र स्त्यानं, तत्सदृशं मेदः स्रवतीत्यर्थः । ११ सिरा-जग्रन्थेः सम्प्राप्तिं दर्शयति - व्यायामेति । तैस्तैः = बलवद्विग्रहादिभिः । १२ सिरा-प्रतानं = सिराभ्यो निर्गतं सूक्ष्मसिराजालम् । १३ चकारेण श्ररुजोऽपि विवर्जनीयः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 539

सुश्रुत संहिता चौखम्बा, पृष्ठ 539 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ११ ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् । हेन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः । ३७ ९ ग्रन्थि स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति ॥ १० ॥

तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्म्याण्ड जालप्रतिमैस्तथाऽन्यैः ।

अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति ॥ ११ ॥

कण्डूयुतास्तेऽल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये ।

मेदःकफाभ्यां खलु रोग एप सुदुस्तरो वर्षेगणानुबन्धी ॥ १२ ॥

गात्रप्रदेशे क्वचिदेव दोषाः सम्मूच्छिता मांसमभिप्रदूष्य । तदुक्तं भोजेन– “ पञ्चैतानरुजो ग्रन्थीन् मर्मजानचलांस्त्यजेत् । कपोलगलमन्यासु दुश्चि-कित्स्याश्च सन्धिषु ॥ ” इति । अष्टाङ्गसङ्ग्रहे तु ग्रन्थेर्नव भेदाः प्रदर्शिताः - " दोषासृ-ङ्मांसमेदोऽस्थिसिराव्रणभवा नव " इति । एतेषां लक्षणानि तत एवावगन्तव्यानि, विस्तरभयान्नात्र प्रदर्शितानि । १ अथ अपच्याः सम्प्राप्त्यादीन् ब्रवीति - हन्विति । हन्वोरस्थि हन्वस्थि, अत्र सन्धिशब्दस्थ हन्वस्थ्यादिभिर्बाह्वन्तैः सह प्रत्येकं सम्बन्धः । कक्षा अंसस्थाधोभागः, अक्षकसन्धिः = कोष्ठकसन्धिः, बाहुसन्धिः = गौण्यावृत्या द्वे वङ्क्षणसन्धी, मन्या = ग्रीवापश्चाद्भागस्था धमनी । २ जाले जालाकारे आधारे मत्स्याण्डं मत्स्याण्डजालं, राजदन्तादिषु परम्, तत्सदृशैर्मत्स्याण्ड जालप्रतिमैः । ३ अनन्यवर्णैः = मेदःकफकृ-तत्वेन समानवर्णैरित्यर्थः । ४ चयप्रकर्षात् = उपचयप्रकर्षात् । ५ अत्र अप्यर्थकः खलुशब्दः । तेन मेदःकफौ वातादिदोषान्तरानुविद्धौ ज्ञेयौ तथा हि भोज: - " वातपित्तकफा वृद्धा मेदश्चापि समाचितम् । जङ्घयो: कण्डराः प्राप्य मत्स्याण्डसदृशान् बहून् । कुर्वन्ति ग्रथितांस्तेभ्यः पुनः प्रकुपितोऽनिलः । तान् दोषा-नूर्ध्वगो वक्षःकक्षामन्यागलाश्रिताः ॥ व्यामिश्रदोषजातस्य कृच्छ्रसाध्याः प्रकीर्तिताः । तासां वातोदरा रूक्षा वातवेदनयाऽन्विता ॥ क्षिप्रपाकसमुत्थाना दाहयुक्ता तु पैत्तिकी गूढा वा पाककठिना कफात्स्निग्धाऽल्परुक्करा ॥ मेदोऽधिका श्लैष्मिकी च विशेषादतिमा-दवा । अपची कण्ठमन्यासु कक्षावङक्षणसन्धिषु ॥ तां तु मालाकृतिं विद्यात् कण्ठहृद्धनु-सन्धिषु । गण्डमालां विजानीयादपचीतुल्यलक्षणाम् ॥ ” इति । चरके गण्डमाला गण्डे एव पठिता — ‘ मेदःकफाच्छोणितसञ्चयोत्थो गण्डस्य पाइर्वे गलगण्ड एकः । स्याद्गण्ड-माला बहुभिश्च गण्डैदींप्तानले यूनि बलान्विते च ॥ साध्या स्मृता पीनसपार्श्वशूलका · सज्वरच्छर्दियुता त्वसाध्या ॥ ” इति ढल्हणः । ६ वर्षगणानुबन्धी = बहुवर्षानुसरणशील इत्यर्थः । ७ अर्बुदानां सम्प्राप्तिमाह-गात्रेति । क्वचिदेव गात्रप्रदेशे दोषाः शोफं कुर्वन्तीति सम्बन्धः । सम्मूर्च्छिताः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 540

सुश्रुत संहिता चौखम्बा, पृष्ठ 540 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation ३८० ९ " सुश्रुतसंहिताया eGangotri [ अ ० ११ वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्धचपाकम् ॥ १३ ॥

कुर्वन्ति मांसोपचयं तु शोफं तददं शास्त्रविदो वदन्ति ।

वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च ॥ १४ ॥

तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति ।

दोषः प्रदुष्टो रुधिरं सिरास्तु सम्पीड्य सङ्कोच्य गतस्तु पाकम् ॥१५ ॥

सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशु वृद्धिम् ।

स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात् ॥ १६ ॥

रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेदर्वदपीडितस्तु ।

मुष्टिप्रहारादिभिर्रादतेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् ॥ १७ ॥

अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् ।

प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसर्पंरायणस्य ॥ १८ ॥

मांसाबुदं त्वेतदसाध्यमुक्तं साध्येष्वपी मानि विवर्जयेत्तु ।

संप्रस्रुतं मर्मणि यच्च जातं स्रोतः सु वा यच्च भवेद्चाल्यम् ॥ १ ९ ॥

यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदर्थ्यर्बुदमर्बुदज्ञैः ।

यद् द्वन्द्वैजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ॥ २० ॥

न पाकमायान्ति कफाधिकत्वान्मेदोऽधिकत्वाच्च विशेषतस्तु ।

" दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ॥ २१ ॥

प्रवृद्धाः । १ अर्बुदस्य लक्षणं दर्शयति - दोष इति । प्रदुष्टो दोषः सिरासु गतो रुधिरं सम्पीडय सङ्कोच्य मांसपिण्डम् उन्नह्यति उन्नतं करोतीति सम्बन्धः । २ मांसज. न्यस्य सम्प्राप्तिमाह — मुष्टीति । ३ श्रश्मोपमं = पाषाणवत् कठिनम् श्रप्रचाल्यं = स्थिरत्वाच्चालनानर्हम् । ४ मांसपरायणस्य = मांसाशनशीलस्य । तस्य चातिमात्रं मांसवृद्धि:, “ मांसं मांसेन वर्धते " इत्यभिधानात् । ५ साध्येष्वपि असाध्यप्रकारान् प्रतिपादयति - साध्वी 1 = ६ सम्प्रस्रुतं स्रावयुक्तम्, स्रावश्चात्रापाकित्वेऽपि त्वगवदरणान्मनागवगन्तव्यः । ७ स्रोतःसु = ना. सादिषु । ८ अधिकमर्बुदमध्यर्बुदम्, एतद्विरर्बुदमेव । ९ द्वन्द्वेन युग्मेन जातं द्वन्द्व · जातम् । १० दोषकार्यस्य मांसोच्छ्रयस्य तेनैव स्वरूपेण चिरकालावस्थितिशीलत्वात्, ग्रंथनात् = ग्रन्थिरूपत्वात् तेषां = मेदः प्रभृतीनाम् । ११ तुशब्दोऽप्यर्थकः, तेन व्याधिस्वभावादपीत्यर्थः । भोजेऽप्युक्तम् – “ न पच्यते स्थिरत्वाच्च ग्रथित्वात्स्वभा वतः ” इति । CC - 0. Gurukul Kangri Collection, Haridwar