सुश्रुत संहिता चौखम्बा — पृष्ठ 541–550

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 541–550

पृष्ठ 541

सुश्रुत संहिता चौखम्बा, पृष्ठ 541 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ११ ] Digitized by A निदानस्थानम् " " Chennai and eGangotri ३८१

चातेः कफश्चैव गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः ।

कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलेगण्डमाहुः ॥ २२ ॥

3 तोदान्वितः कृष्णसिराऽवनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु ।

मेदोऽन्वितश्चोपचितश्च कालाद्भवे दतिस्निग्धतरोऽरुजैश्च ॥ २३ ॥

पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छ्या पाकमियात् कदाचित् ।

वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ॥ २४ ॥

स्थिरः सर्वैर्णोऽल्परुगुग्रकण्डुः शीतो महांश्चापि कफात्मकस्तु ।

चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित् ॥ २५ ॥

माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ॥

स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डुः ॥ २६ ॥

प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः ।

स्निग्ध।स्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् ॥ २७ ॥

कृच्छ्रच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीत मरोचकार्तम् ।

क्षीणं च वैद्यो गलगण्डिनं तं " भिन्नस्वरं चैव विवर्जयेत्तु ॥ २८ ॥

निबद्धः श्वयथुर्यस्य " मुकवल्लम्बते गले । II महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ॥ २ ९ ॥ इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालाऽपच्यर्बुदनिदानं नाम एकादशोऽध्यायः ॥ ११ ॥

१ अथ क्रमागतगलगण्डस्य सम्प्राप्तिं दर्शयति - वात इति । वातेन कफेन च गलगण्डो भवति, न च पित्तेनेति बोध्यम् । २ भोज: - " महान्तं शोथमल्पं वा हनुमन्यागलाश्रयम् । लम्बन्तं मुष्कवद् दृष्ट्वा गलगण्डं विनिर्दिशेत् ॥ ” इति । ३ श्ररुज इति सोऽपि वातगलगण्डो यदा कालात् कालेन कृत्वा मेदोऽन्वितो भवति, तदा अरुजो-भवतीत्यर्थः ' इति डल्हणः । ४ यदृच्छया अज्ञातहेतुनियमेन पाकमियात् गच्छेत्, कदाचिद् न सर्वकालम् । ५ सवर्णः = प्रकृतिसमवर्णः । ६ प्रलेपः = श्लेष्मणा लिप्त । इव । ७ देहक्षये क्षयं, देहवृद्धौ च वृद्धिं यातीत्यर्थः ८ अनुशब्दम् = अनु. नादं, प्रतिशब्दमित्यर्थः । ९ गलगण्डस्या साध्यतामभिधत्ते - कृच्छ्रादिति । १० भिन्न-स्वरं = स्वरभेदवन्तम् । ११ मुष्कवत् = अण्डकोशवत् । इति सुश्रुतसंहिताया निदानस्थानीय सुधाऽऽख्यटिप्पन्यामेकादशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 542

सुश्रुत संहिता चौखम्बा, पृष्ठ 542 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८२ Digitized by Arya Siachennai and eGangotri द्वादशोऽध्यायः । [ अ ० १२ अथातो वृद्ध्युपदंशश्लीपदानां निदानं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वातपित्तश्लेष्मशोणितमे दोमूत्रान्त्रनिमित्ताः सप्त वृद्धयः । तासां मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः ॥ ३ ॥

अधः प्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोशयोर्वृद्धिं जनयति, तां वृद्धिमित्याचक्षते ॥ ४ ॥

तासां भविष्यतीनां पूर्वरूपाणि - वस्तिकटीमुष्कमेद ेषु वेदना मारुतनिग्रैहः फलकोशशोफश्चेति ॥ ५ ॥

तत्रानिलपरिपूर्णां बस्तिमिवार्ततां परुषामनिमित्तानिलरुजं बात-वृद्धिमाचक्षते । पकोडुम्बरसङ्काशां ज्वरदाहोष्मवर्ती चाशुसमुत्थान-पाकां पित्तवृद्धिम् । कठिनामल्पवेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिम् । कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां रक्तवृद्धिम् । मृदुस्निग्धां कण्डूमतीम-ल्पवेदनां तालफलप्रकाशां मेदोवृद्धिम् । मूत्रसन्धारणशीलस्य मूत्रवृ-द्धिर्भवति, सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ्रं वेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति, तां मूत्रवृद्धिं विद्यात्, भारहर-णबलवद्विग्रहवृक्षप्रपतनादिभिरायास विशेषैर्वायुरतिप्रवृद्धः प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं विगुणमादायाधो गत्वा बङ्ङ्क्षणसन्धि-मुपेत्य ग्रन्थिरूपेण स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य मुष्कशोफमापादयति, आध्मातो बस्तिरिवाततः ” प्रदीर्घः द्वादशोऽध्यायः । १ वृद्धिः = वृषणवृद्धिः, उपदंशः = मेढ्रगतरोगविशेषः, श्लीपदं = पादवल्मीकम् । २ संख्येयग्रद्दणेनैव सप्तसंख्यासिद्धौ पुनः सप्तेति संख्यानं द्वन्द्वजादिवृद्धिप्रतिषेधार्थम् । ३ मूत्रान्त्ररूप इत्यर्थः । ४ फलकोशवाहिनीः = अण्डकोशानुसारिणीः । ५ मारुत-निग्रहः = अधोवातावरोधः । ६ आतताम् = आध्माताम्, परुषां = रूक्षाम्, अनि-मित्तानिलरुजं = कारणरहितवातवेदनाम् । ७ तालफलप्रकाशां = पक्कतालफल सवर्णा-मित्यर्थः । = ८ क्षुभ्यति = सञ्चलति । ९ इतरस्य = क्षुद्रान्त्रस्य । १० श्राततः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 543

सुश्रुत संहिता चौखम्बा, पृष्ठ 543 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् ३८३ सशोफो भवति, सशब्दमवपीडितश्चोर्ध्वमुपैति विमुक्तश्च पुनराध्मा-यते, तामन्त्रवृद्धिमसाध्यामित्याचक्षते ॥ ६ ॥

तत्रोतिमैथुनादतिब्रह्मचर्य्याद्वा तथाऽतिब्रह्मचारिणीं चिरो-त्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां निगूढरोमामल्प-द्वारां महाद्वारामप्रियामकामाम चौक्ष्यसलिलप्रक्षालितयोनिमप्रक्षालि-तयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारी-मत्यर्थमुपसेवमानस्य तथा करजदशनविषशूकनिपातनाद्बन्धनाद्ध-स्ताभिघाताच्चतुष्पदीगमनाद चौक्ष्यसलिलप्रक्षालनादवपीडनाच्छुक्र-मूत्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्मेद्र मागम्य प्रकुपिताः दोषाः क्षतेऽर्क्षते वा श्वयथुमुपजनयन्ति, तमुपदंशमित्याचक्षते ॥७ ॥

र्सं पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा चैकः ॥ ८ ॥

तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तव्धमेढ़ता परुषशोफता विस्तीर्णः । १ उपैति = उद्गच्छति । २ उपदंशानां निदानं सम्प्राप्ति च निर्दिशति – तत्रेति । ब्रह्मचर्यस्य मैथुनरा-हित्यस्यातिक्रमणं सहसा परित्यागोऽतिब्रह्मचर्यं तस्मात् । तदुक्तमष्टाङ्गसङ्ग्रहे- “ स्त्रीव्य • वायनिवृत्तस्य सहसा भजतोऽथवा " इति । भजतो मैथुनं कुर्वत इति तदर्थः । श्रुतिब्र-ह्मचारिणीं = मैथुनातिनिवृत्या ब्रह्मचर्यव्रतधारिणीम्, चिरोत्सृष्टां = प्रभूतकालं व्यवा-येन परित्यक्ताम् । ३ सङ्कीर्णरोमां = घनरोमाम्, निगूढरोमाम् = अभ्यन्तररोमाम् । ४ श्रचौक्ष्यसलिलप्रक्षालितयोनिम् = अशुचिजलप्रक्षालितभगम् । ५ दुष्टयोनिं = वातादिदोषाध्युषितयोनिम्, वियोर्नि = विकृत योनिम्, हस्तजङ्घान्त-रमिति ढल्हणः । पारुष्यादिदोषदुष्टयोनिमिति हाराणचन्द्रः । ६ करे जाताः करजाः नखाः, दशनाः = दन्ताः, शुकः सविषजलमलोद्भवस्वल्पडुण्डुभादिजन्तुस्तस्य निपातना लिङ्गादिशरीरे पातनात्, अथवा शूकप्रधानलिङ्गादिवृद्धि करवात्स्यायनाद्युक्तलेपादि तस्य निपातनात् प्रयोगात् । ७ अवपीडनात् = रज्ज्वादिभिर्बन्धनात् ताडनाद्वा । ८ मेढेइति शेषः । तन्त्रान्वरे विशेष: - ' मेढ्रसन्धौ व्रणाः केचित् केचित् सर्वाश्रयाः स्मृताः । कुलत्थाकृतयः केचित् केचिन्मुद्गदलोपमाः ॥ रुजादाहपरीताश्च तृष्णामोहस-मन्विताः । शीघ्रं केचिद्विसर्पन्ति शनैः केचित्तथाऽपरे ॥ स्त्रीणां च पुंसां जायन्ते उप-दंशाः सुदारुणाः । " इति । ९ उपदंशानां पञ्चविधसंख्यां निर्दिशति - स इति । १० वातजाद्युपदंशानां लक्षणानि दर्शयति - तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 544

सुश्रुत संहिता चौखम्बा, पृष्ठ 544 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८४ Digitized by Arya अनुश्रुतसंहितायां Themnai and eGangotri [ अ ० १२ विविधाश्च वातवेदनाः । पैत्तिके ज्वरः श्वयथुः पक्वोडुम्बरसङ्काश-स्तीव्रदाहः क्षिप्रपाकः पित्तवेदनाश्च । श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च । रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थ-मसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैव कदा-चित् । सर्वजे सर्वलिङ्गदर्शनमवदरणं च शेफसः कृमिप्रादुर्भावो मरणं चेति ॥ ९ ॥

कुपितास्तु दोषा वातपित्तश्लेष्माणोऽधः प्रपन्ना वङ्क्षगोरुजानु-जङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शोफं जन-यन्ति, तं श्लीपदमित्याचक्षते । तत् त्रिविधं — वातपित्तकफनिमि-त्तमिति ॥ १० ॥

तत्र, वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं परिस्फुटैति च बहुशः । पित्तजं तु पीतावभासमीषन्मृदुज्वरदाहप्रायं च । श्लेष्मजं तु श्वेतं स्निग्धावभासं मन्दवेदनं भारिकं महान्थिकं कण्टकैरुप-चितं च ॥ ११ ॥

तत्र संवत्सरातीतमतिमहद्वल्मीकैजातं प्रसृतमिति वर्जनीयानि १२ भवन्ति चात्र ।

त्रीर्ण्यप्येतानि जानीयात् च्छ्लीपदानि कफोच्छ्रयात् ।

गुरुत्वं च महत्त्वं च यस्मान्नास्ति विना कफात् ॥ १३

पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः ।

ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥ १४ ॥

१ क्रमागतस्य श्लीपदस्य सम्प्राप्तिं सख्यां चोपपादयति — कुपिता इति । २ सज्वरं शोफं जनयन्तीति बोध्यम् । तदुक्तम् — “ यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण " इति । शिलावत् पदं श्लीपदमिति केचित् । ३ परिस्फु-| टति = अवदीर्यते । ४ महाग्रथिकं = बृहदाकारैर्ग्रन्थिभिरनुविद्धम्, कण्टकैः = अङ्कुरैः । ५ वल्मीकजातं = वल्मीकत्रद् बहुशिखराकारत्वेनोत्पन्नमित्यर्थः, प्रसृतं = यत्र त्वचो विदीर्णेन लसिका स्रवति । ६ श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यं दर्शयति — त्रीणीति ७ श्लीपद-सम्भवहेतुं देशं निर्दिशति - पुराणेति । ८ देशाः = अनूपदेशाः । तदुक्तमष्टाङ्गस-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 545

सुश्रुत संहिता चौखम्बा, पृष्ठ 545 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १३ ] Digitized by Arya Saranqnnai and eGangotri

पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम् ।

कर्णाक्षिनासिकौष्ठेषु केचिदिच्छन्ति तद्विदः ॥ १५ ॥

इति सुश्रुतसंहितायां निदानस्थाने वृद्धुपदंशश्लीपदनिदानं नाम द्वादशोऽध्यायः ॥ १२ ॥

त्रयोदशोऽध्यायः ।

अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

३८५ समासेन चतुश्चत्वारिंशत् क्षुद्ररोगाः भवन्ति । तद्यथा — अज-गल्लिका, यवप्रख्या, अन्धालजी, विवृता, कच्छपिका, वल्मीकं, इन्द्रवृद्धा, पनसिका, पाषाणगर्दभः, जालगर्दभः, कक्षा, विस्फोटकः, अग्निरोहिणी, चिप्पं, कुनखः, अनुशयी, विदारिका, शर्कराऽर्बुद, पामा, विचर्चिका, रकसा, पाददारिका, कदरम्, अलसेन्द्रलुप्तौ, दारु-एकः, अरुंपिका, पलितं, मसूरिका, यौवनपिडका, पद्मिनीकण्टको, जतुमणिः, मशकः, चर्मकीलः. तिलकालकः, न्यच्छं, व्यङ्गः, परिव-र्त्तिका, अवपाटिका, निरुद्धप्रकशः, सन्निरुद्धगुदः, अहिपूतनं, वृप-एकच्छूः, गुदभ्रंशश्चेति ॥ ३ ॥

स्निग्धा सवर्णा ग्रथिता नीरुजा ग्रन्थिसन्निभा । ङ्ग्रहे— “ श्लीपदं जायते तच्च देशेऽनूपे भृशं श्रमात् ” इति । १ तन्त्रान्तरेऽप्युक्तम्-“ तच्छ्लीपदं स्यात् करकर्णनेत्र शिश्नौष्ठनासा स्वपि केचिदाहुः ” इति । इति सुश्रुतसंहिताया निदानस्थानीयसुधा ss ख्य टिप्पन्यां द्वादशोऽध्यायः । त्रयोदशोऽध्यायः । २ क्षुद्रा लघवः तिलकालकाभिप्रायेण, अग्निरोहिणी वल्मीकप्रभृतीनामभिप्रा. येण क्षुद्रास्तीक्ष्णाः; अथवा पूर्वाचार्यपठिता पारिभाषिकीयं संज्ञा, क्काथपाक्यसंज्ञा-वदिति वाचस्पतिः । ३ विस्तरेण तु प्रमाणाभावः । अत्र संख्यायां संज्ञासु च न्यूना • धिक्यं वाग्भटे द्रष्टव्यम् । ४ अजगल्लिकादीनां चतुश्चत्वारिंशत्क्षुद्ररोगाणां यथाक्रमं २५ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 546

सुश्रुत संहिता चौखम्बा, पृष्ठ 546 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८६ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri ! कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥ ४ ॥

[ अ ० १३

यवाकारा सुकठिना ग्रथिता मांससंश्रिता ।

पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥ ५ ॥

घनामवक्रां पिडकामुन्नतां परिमण्डलाम् ।

अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ॥ ६ ॥

विवृतास्यां महादाहां पक्कोडुम्बरसन्निभाम् विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ॥ ७ ॥

ग्रन्थयः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः ।

कफानिलाभ्यामुद्भूतां विद्यात्तां कच्छपीमिति ॥ ८ ॥

पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि ।

प्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ॥ ९ ॥

तोदक्लेदपरीदाहकण्डूमद्भिर्ब्रणैर्वृतः ।

व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः ॥ १० ॥

पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम् ।

इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ॥ ११ ॥

कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् ।

शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् ॥ १२ ॥

हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् । लक्षणानि निर्दिशति - स्निग्धेति । १ बालानामिति प्रायोभावित्वादुक्तं, तेनावाला-नामपि दृश्यमानाः सङ्गच्छन्त इति श्रीकण्ठः । २ यवाकारा = यववन्मध्ये स्थूलेत्यर्थः । ३ अन्धालजीं स्नायुगतामाह भोजे – “ इले मानिलौ श्रितौ स्नायुं पिडकां परि-मण्डलाम् । दुष्टौ जनयतोऽवक्रामत्ग्यामकण्डुराम् । श्रामोदुम्बरसङ्काशां विद्यादन्धा-तु ताम् । " इति । ४ पित्तेनातितरां पाकाद् व्यात्तमुखतायां विवृता संज्ञा । ५ मध्ये उन्नतत्वेत पर्यन्ते नतत्वेन च कच्छपिका संज्ञा । ६ वल्मीकवदित्यनेन प्रचुर-शिखरत्वेन समुच्छ्रितत्वं दूरावगाढमूलत्वं च ख्याप्यते । श्रत एव चिकित्सायामवगाढ-मूलशोधनार्थमग्निक्षाराभ्यां चिकित्सेदित्युक्तमिति विजयरक्षितः । ७ पद्मपुष्करवत् = पद्मबीजकोशवदित्यर्थः ‘ पद्मकर्णिकवत् ' इति पाठान्तरम् । कणिकेत्यत्राकारलोप आर्षः । ८ शालूकवत् = कमलकन्दवत् कठिनां तदकारां वा । तदुक्तमष्टाङ्गसंग्रहे " कठिनो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 547

सुश्रुत संहिता चौखम्बा, पृष्ठ 547 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

atien अ ० १३ ] Digitized by Arya fra निस्थानम् hennai and eGangotri पाषाणगर्दभ विद्याद्वलास पवनात्मकम् ॥ १३ ॥

विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः ।

अपौकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः ॥ १४ ॥

पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् ।

र्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ॥ १५ ॥

बाहुपार्श्वासकक्षासु कृष्णस्फोटां सवेदनाम् ।

पित्तप्रकोपसम्भूतां कक्षामिति विनिर्दिशेत् ॥ १६ ॥

एकमेवंविधां पिटिकां स्फोटसन्निभाम् ।

त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ॥ १७ ॥

अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्ततः ।

क्वचित् सर्वत्र वा देहे स्मृता विस्फोटक इति ॥। १८ ॥

कक्षाभागेषु ये स्फोटा जायन्ते मांसहारणाः ।

अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ॥ ६ ९ ॥

सप्ताहाद्वा दशाहाद्वा पक्षाद्वा न्नन्ति मानवम् ।

तामग्निरोहिणी " विद्यादसाध्यां सन्निपाततः ॥ २० ॥

३८७ ग्ररुक् । शालूकाभा पनसिका ” इति । ' शालूकमेषां कन्दः स्यात् ' इत्यमरः । १ पाषाणवत् काठिन्यात् पाषाणगर्दभ इति विजयरक्षितः । २ बलासः = श्लेष्मा । ३ अपाकः ईषत्पाकः । ४ पित्ताद् = उद्भूतपित्तात् तेन भोजोक्तं पित्तोल्वणदोष त्रयजन्यत्वमस्या-विरुद्धं भवति । स यदाइ — " पित्तोत्कटास्त्रयो दोषा जनयन्ति त्वगाश्रिताः । श्यावं रक्तं तनुं शोथमपाकं बहुवेदनम् ॥ विसर्पिणं सदाहं च तृष्णाज्वरसमन्वितम् । विसर्पमाद्दुस्त व्याधिमपरे जालगर्दभम् ॥ ” इति विजयरक्षितः । ५ उत्तमाङ्गस्थां = शिरोगताम् । ६ सर्वात्मिकां = सर्वदोषजाम् । सर्वात्मिकामित्यनेनैव सर्वलिङ्गत्वे सिद्धे पुनः सर्वलिङ्गामिति वचनं विकृतिविषमसमवायारब्धलिङ्गव्यतिरेकेण प्रत्येकदोष लिङ्गयुक्ततां ख्यापयतीति मधुकोषव्याख्याकारौ । ७ श्रष्टाङ्गसङ्ग्रहे वातपित्तोभयजन्या सूक्ष्मा नानापिटकाता च कक्षा उक्ता – " कदयेति कक्षासन्नेषु प्रायो देशेषु सानिलात् । पित्ताद् भवन्ति पिटकाः सूक्ष्मा लाजोपमा घनाः ॥ ” इति । ८ एकां = कक्षोक्तैककृष्ण-स्फोटसदृशीमित्यर्थः । ९ अत्र माधवोक्तं विशिष्टलक्षणम् – “ खचमाश्रित्य ते रक्तं मांसास्थीनि प्रदूष्य च । घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरः सरान् ॥ ” इति । १० कक्षाभागेषु CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 548

सुश्रुत संहिता चौखम्बा, पृष्ठ 548 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८८ सुश्रुतसंहितायां-[ अ ० १३ Digitized by Arya Sama Foundation Chennai and eGangotri

नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम् ।

करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ॥ २१ ॥

तदेव चतरोगाख्यं तथोपनखमित्यपि ।

अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ॥ २२ ॥

भवेत्तं कुनखं विद्यात् कुलीनमिति संज्ञितम् ।

गम्भीरामल्पैसंरम्भां सवर्णामुपरिस्थिताम् ॥ २३ ॥

कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक् ।

विदारीकन्दवद् वृत्तां कक्षावृङ्क्षणसन्धिषु ॥ २४ ॥

रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम् ।

प्राप्य मांससिरास्नायूः श्लेष्मा मेदस्तथाऽनिलः ॥ २५ ॥

ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम् ।

स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ॥ २६ ॥

मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः ।

दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः ॥ २७ ॥

स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करावदम् । प्रदीप्ताङ्गारसन्निभाः स्फोटा अग्निरोहिणीशब्दवाच्याः । १ चिप्पमङ्गुलोवेष्टकमिति तन्त्रान्तरे ख्यातम् । अक्षतनामायं विकारः “ रोगः क्षतश्चर्मनखान्तरे स्यान्मांसा-स्रदूषी भृशदाहपाकः ” इति तन्त्रान्तरम् । चर्मनखान्तरे चर्मनखसन्धाविति तदर्थः । २ अल्पसंरम्भाम् = अल्पशोथामित्यर्थः । ३ मस्तकोपरिस्थितामित्यर्थः । श्लोकस्या-स्योत्तरार्धे— “ पादस्यानुशय तां तु विद्यादन्तःप्रपाकिनीम् " इत्यन्यत्र । तदा पादस्यो-परि स्थितामिति सम्बन्धः । ४ सर्वजा = सन्निपातजा, सन्निपातजन्याऽपीयं साध्यैव । चरके त्वियं वातकफजन्या पठिता- " ज्वरान्विता वङ्क्षणकक्ष सन्धौ वर्तिर्निरर्तिः कठिना मता या । विदा रिका सा कफमारुताभ्याम् " इति तस्माद्वातकफाधिक्येन ज्वरयोगेनाल्पपित्ततया अस्या उत्पत्तिर्बोध्या । तदुक्तं वाग्भटे – “ ऊष्मा पित्तादृते नास्ति ज्वरों नास्त्यूष्मणा विना " इति । ५ नानावर्णे = घृतमेदोवसावर्णमित्यर्थः । भोजेऽप्युक्तम् — “ तमेव भिन्नं दुर्गन्धं घृतमेदोनिभं सिराः । स्रवन्ति स्रावमनिशं तदा स्याच्छर्करार्बुदम् ॥ ” इति । तमेव ग्रन्थि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 549

सुश्रुत संहिता चौखम्बा, पृष्ठ 549 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् पामविचच्यौं कुष्ठेषु रकसा च प्रकीत्तिता ॥ २८ ॥

परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः ।

पादयोः कुरुते दौरों सरुजां तलसंश्रिताम् ॥ २ ९ ॥

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।

मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ॥ ३० ॥

सकी कठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा ।

कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ॥ ३१ ॥

क्लिन्नाङ्गल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ ।

दुष्टकर्दमसंस्पर्शादर्लंसं तं विनिर्दिशेत् ॥ ३२ ॥

रोमकूपानुगं पित्तं वातेन सह मूच्छितम् ।

प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥ ३३ ॥

रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः ।

तदिन्द्रलुप्तं खालित्यं रुँरुज्येति च विभाव्यते ॥ ३४ ॥

दारुणा कण्डुरा रूक्षा केशभूमिः प्रपास्यते ।

कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ॥ ३५ ॥

३८ ९. मेवेति तदर्थः । ततः = शर्करार्बुदात् । १ पामा विचर्चिका रकसा कुष्ठभेदेषु दर्शि ताः क्षुद्ररोगमधिकृत्येह लिखितेति न दोषः । २ परिक्रमणशीलस्य = सर्वतो भ्रमण-स्वभावस्येत्यर्थः । ३ दारीं = विपादिकाम् । विपादिकाकुष्ठं तु पिडका सविदारणेति भेदः । ४ शर्कराभिः घटकर्परखण्डादिभिरुन्मथिते पीडिते, पाढे, हस्तयोरपीति भोज: -“ हस्तयोः पादयोश्चापि गम्भीरानुगतं खरम् । मांसकीलं जनयतः कुपितौ कफमारुतौ सशल्यमिव तं देशं मन्यते तेन पीडितः । शर्कराकदरं केचिन्मन्यन्ते वातकण्टकम् ॥ ” इति । ५ कीलेन शङ्कुना सदृशं सकीलं, सकीलं चासौ कठिनश्च सकीलकठिनः । ६ पा-दाङ्गुलिपु दुष्टकर्दम संस्पर्शत्वेन यत् क्लिन्नभावं सोऽलसशब्दवाच्यः । ७ इन्द्रलुप्तस्य खालित्यं रुज्येति पर्यायकथनम् । वाग्भटोक्त्या इन्द्रलुप्ते सहसा केशाः पतन्ति, खालि -त्ये शनैः शनैरिति विशेषः । अत्र श्रीकण्ठः - ' कार्तिकस्त्वाइ – “ इन्द्रलुप्तं श्मश्रुणि भवत खालित्यं शिरस्येव, रुह्या च सर्वदेहे " इति । श्रागमस्त्वत्र नास्ति ' । रुज्या, रूढया, ह्या इति नामभेदः । ८ अष्टाङ्गसङ्ग्रहेऽस्य विशेषलक्षणमुक्तम् — “ कण्डू केशच्युतिस्वाप रौक्ष्य कृत् स्फु--टनं त्वचः । सुसूक्ष्मं कफवाताभ्यां विद्याद् दारुणकं तु तत् ॥ ” इति विदेहवचनात् पि--CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 550

सुश्रुत संहिता चौखम्बा, पृष्ठ 550 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ० सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १३

अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्धनि ।

कफासृक्कृमिकोपेन नृणां विद्यादरूंषिकाम् ॥ ३६ ॥

क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः ।

पित्तं ५ च केशान् पचति पलितं तेन जायते ॥ ३७ ॥

दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः ।

गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ॥ ३८ ॥

शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः ।

जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ॥ ३ ९ ॥

कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम् ।

पद्मिनीकण्टकप्रख्यैस्तँदाख्यं कफवातजम् ॥ ४० ॥

नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम् ।

सहजं रक्तमीषच्च श्लक्ष्णं जतुमरिंग विदुः ॥ ४१ ॥

अवेदनं स्थिरञ्चैव यस्य गात्रेषु दृश्यते ।

माषवत्कृष्णमुत्सन्नमर्निलान्मषकं वदेत् ॥ ४२ ॥

त्तरक्तानुबन्धोऽप्यत्र द्रष्टव्यः - " यदत्र पटलाभासं सरुजस्कं शिरस्त्वचि । परुषं जायते जन्तोस्तस्य रूपं विशेषतः ॥ तोदैः समन्वितं वातात् सकण्डूगौरवं कफात् । सपिपासं सदाहार्तिरागं पित्तास्रजं तथा ॥ " इत्यत्र वचने सदाहरागं च पित्तात्, सातिं तु रक्तात्, अतिहिं रक्तजाऽपि भवतीति श्रीकण्ठः । १ चरकोक्तया दोषत्रयसहितशरी-- रोष्मा पलितहेतुर्न तु केवलं पित्तमेवेति बोध्यम् । तदुक्तं तत्र - " तेजोऽनिलाद्यैः सह केशभूमिं दग्ध्वा तु कुर्यात् खलितिं नरस्य । किञ्चित्तु दग्ध्वा पलितानि कुर्याद्धरित्प्र-भत्वं च शिरोरुहाणाम् ॥ ” इति । २ तन्त्रान्तरे - " पित्तं शोणिसंसृष्टं यदा दूषयति त्वचम् । तदा करोति पिडकाः -सर्वगात्रेषु देहिनः । मसूरमुद्गमाषाणां तुल्याः कोलोपमा अपि । मसूरिकास्तु विज्ञेयाः पिढका रक्तपित्तजाः ” ॥ इति । अस्या विस्तरशो वर्णनमन्यत्र द्रष्टव्यम् । ३ मुखका-तिहारकत्वेन मुखदूषिका ' मुंहासा ' शब्दवाच्याः । ४ कमिलिनीकण्टकसदृशैः कण्ट-कैर्व्याप्तं वृत्तादिलक्षणं पद्मिनीकण्टकाख्यं बोध्यम् । ५ कफरक्तज मिति सामान्येनो-क्तम्, तेन चरकोक्तं त्रिदोषजत्वमप्यस्योपपन्नं भवति । तथा हि- " कृष्णः स्निग्धो - जतुमणिर्ज्ञेयो वातोत्तरैस्त्रिभिः । अरुजं त्वपरैरुक्तं लक्ष्मेत्याहुभिषग्वराः ॥ ” इति । ६ भोजः– “ वातेरिते त्वचि यदा दूष्येते कफमेदसी । इलक्षणं मृदु सवर्णे च कुरुतो CC - 0. Gurukul Kangri Collection, Haridwar