सुश्रुत संहिता चौखम्बा — पृष्ठ 541–550
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 541–550
पृष्ठ 541
पाठ पढ़ें पाठ छिपाएँ
अ ० ११ ] Digitized by A निदानस्थानम् " " Chennai and eGangotri ३८१
चातेः कफश्चैव गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः ।
कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलेगण्डमाहुः ॥ २२ ॥
3 तोदान्वितः कृष्णसिराऽवनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु ।
मेदोऽन्वितश्चोपचितश्च कालाद्भवे दतिस्निग्धतरोऽरुजैश्च ॥ २३ ॥
पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छ्या पाकमियात् कदाचित् ।
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ॥ २४ ॥
स्थिरः सर्वैर्णोऽल्परुगुग्रकण्डुः शीतो महांश्चापि कफात्मकस्तु ।
चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित् ॥ २५ ॥
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ॥
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डुः ॥ २६ ॥
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः ।
स्निग्ध।स्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् ॥ २७ ॥
कृच्छ्रच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीत मरोचकार्तम् ।
क्षीणं च वैद्यो गलगण्डिनं तं " भिन्नस्वरं चैव विवर्जयेत्तु ॥ २८ ॥
निबद्धः श्वयथुर्यस्य " मुकवल्लम्बते गले । II महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ॥ २ ९ ॥ इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालाऽपच्यर्बुदनिदानं नाम एकादशोऽध्यायः ॥ ११ ॥
१ अथ क्रमागतगलगण्डस्य सम्प्राप्तिं दर्शयति - वात इति । वातेन कफेन च गलगण्डो भवति, न च पित्तेनेति बोध्यम् । २ भोज: - " महान्तं शोथमल्पं वा हनुमन्यागलाश्रयम् । लम्बन्तं मुष्कवद् दृष्ट्वा गलगण्डं विनिर्दिशेत् ॥ ” इति । ३ श्ररुज इति सोऽपि वातगलगण्डो यदा कालात् कालेन कृत्वा मेदोऽन्वितो भवति, तदा अरुजो-भवतीत्यर्थः ' इति डल्हणः । ४ यदृच्छया अज्ञातहेतुनियमेन पाकमियात् गच्छेत्, कदाचिद् न सर्वकालम् । ५ सवर्णः = प्रकृतिसमवर्णः । ६ प्रलेपः = श्लेष्मणा लिप्त । इव । ७ देहक्षये क्षयं, देहवृद्धौ च वृद्धिं यातीत्यर्थः ८ अनुशब्दम् = अनु. नादं, प्रतिशब्दमित्यर्थः । ९ गलगण्डस्या साध्यतामभिधत्ते - कृच्छ्रादिति । १० भिन्न-स्वरं = स्वरभेदवन्तम् । ११ मुष्कवत् = अण्डकोशवत् । इति सुश्रुतसंहिताया निदानस्थानीय सुधाऽऽख्यटिप्पन्यामेकादशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 542
पाठ पढ़ें पाठ छिपाएँ
३८२ Digitized by Arya Siachennai and eGangotri द्वादशोऽध्यायः । [ अ ० १२ अथातो वृद्ध्युपदंशश्लीपदानां निदानं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वातपित्तश्लेष्मशोणितमे दोमूत्रान्त्रनिमित्ताः सप्त वृद्धयः । तासां मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः ॥ ३ ॥
अधः प्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोशयोर्वृद्धिं जनयति, तां वृद्धिमित्याचक्षते ॥ ४ ॥
तासां भविष्यतीनां पूर्वरूपाणि - वस्तिकटीमुष्कमेद ेषु वेदना मारुतनिग्रैहः फलकोशशोफश्चेति ॥ ५ ॥
तत्रानिलपरिपूर्णां बस्तिमिवार्ततां परुषामनिमित्तानिलरुजं बात-वृद्धिमाचक्षते । पकोडुम्बरसङ्काशां ज्वरदाहोष्मवर्ती चाशुसमुत्थान-पाकां पित्तवृद्धिम् । कठिनामल्पवेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिम् । कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां रक्तवृद्धिम् । मृदुस्निग्धां कण्डूमतीम-ल्पवेदनां तालफलप्रकाशां मेदोवृद्धिम् । मूत्रसन्धारणशीलस्य मूत्रवृ-द्धिर्भवति, सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ्रं वेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति, तां मूत्रवृद्धिं विद्यात्, भारहर-णबलवद्विग्रहवृक्षप्रपतनादिभिरायास विशेषैर्वायुरतिप्रवृद्धः प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं विगुणमादायाधो गत्वा बङ्ङ्क्षणसन्धि-मुपेत्य ग्रन्थिरूपेण स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य मुष्कशोफमापादयति, आध्मातो बस्तिरिवाततः ” प्रदीर्घः द्वादशोऽध्यायः । १ वृद्धिः = वृषणवृद्धिः, उपदंशः = मेढ्रगतरोगविशेषः, श्लीपदं = पादवल्मीकम् । २ संख्येयग्रद्दणेनैव सप्तसंख्यासिद्धौ पुनः सप्तेति संख्यानं द्वन्द्वजादिवृद्धिप्रतिषेधार्थम् । ३ मूत्रान्त्ररूप इत्यर्थः । ४ फलकोशवाहिनीः = अण्डकोशानुसारिणीः । ५ मारुत-निग्रहः = अधोवातावरोधः । ६ आतताम् = आध्माताम्, परुषां = रूक्षाम्, अनि-मित्तानिलरुजं = कारणरहितवातवेदनाम् । ७ तालफलप्रकाशां = पक्कतालफल सवर्णा-मित्यर्थः । = ८ क्षुभ्यति = सञ्चलति । ९ इतरस्य = क्षुद्रान्त्रस्य । १० श्राततः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 543
पाठ पढ़ें पाठ छिपाएँ
अ ० १२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् ३८३ सशोफो भवति, सशब्दमवपीडितश्चोर्ध्वमुपैति विमुक्तश्च पुनराध्मा-यते, तामन्त्रवृद्धिमसाध्यामित्याचक्षते ॥ ६ ॥
तत्रोतिमैथुनादतिब्रह्मचर्य्याद्वा तथाऽतिब्रह्मचारिणीं चिरो-त्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां निगूढरोमामल्प-द्वारां महाद्वारामप्रियामकामाम चौक्ष्यसलिलप्रक्षालितयोनिमप्रक्षालि-तयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारी-मत्यर्थमुपसेवमानस्य तथा करजदशनविषशूकनिपातनाद्बन्धनाद्ध-स्ताभिघाताच्चतुष्पदीगमनाद चौक्ष्यसलिलप्रक्षालनादवपीडनाच्छुक्र-मूत्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्मेद्र मागम्य प्रकुपिताः दोषाः क्षतेऽर्क्षते वा श्वयथुमुपजनयन्ति, तमुपदंशमित्याचक्षते ॥७ ॥
र्सं पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा चैकः ॥ ८ ॥
तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तव्धमेढ़ता परुषशोफता विस्तीर्णः । १ उपैति = उद्गच्छति । २ उपदंशानां निदानं सम्प्राप्ति च निर्दिशति – तत्रेति । ब्रह्मचर्यस्य मैथुनरा-हित्यस्यातिक्रमणं सहसा परित्यागोऽतिब्रह्मचर्यं तस्मात् । तदुक्तमष्टाङ्गसङ्ग्रहे- “ स्त्रीव्य • वायनिवृत्तस्य सहसा भजतोऽथवा " इति । भजतो मैथुनं कुर्वत इति तदर्थः । श्रुतिब्र-ह्मचारिणीं = मैथुनातिनिवृत्या ब्रह्मचर्यव्रतधारिणीम्, चिरोत्सृष्टां = प्रभूतकालं व्यवा-येन परित्यक्ताम् । ३ सङ्कीर्णरोमां = घनरोमाम्, निगूढरोमाम् = अभ्यन्तररोमाम् । ४ श्रचौक्ष्यसलिलप्रक्षालितयोनिम् = अशुचिजलप्रक्षालितभगम् । ५ दुष्टयोनिं = वातादिदोषाध्युषितयोनिम्, वियोर्नि = विकृत योनिम्, हस्तजङ्घान्त-रमिति ढल्हणः । पारुष्यादिदोषदुष्टयोनिमिति हाराणचन्द्रः । ६ करे जाताः करजाः नखाः, दशनाः = दन्ताः, शुकः सविषजलमलोद्भवस्वल्पडुण्डुभादिजन्तुस्तस्य निपातना लिङ्गादिशरीरे पातनात्, अथवा शूकप्रधानलिङ्गादिवृद्धि करवात्स्यायनाद्युक्तलेपादि तस्य निपातनात् प्रयोगात् । ७ अवपीडनात् = रज्ज्वादिभिर्बन्धनात् ताडनाद्वा । ८ मेढेइति शेषः । तन्त्रान्वरे विशेष: - ' मेढ्रसन्धौ व्रणाः केचित् केचित् सर्वाश्रयाः स्मृताः । कुलत्थाकृतयः केचित् केचिन्मुद्गदलोपमाः ॥ रुजादाहपरीताश्च तृष्णामोहस-मन्विताः । शीघ्रं केचिद्विसर्पन्ति शनैः केचित्तथाऽपरे ॥ स्त्रीणां च पुंसां जायन्ते उप-दंशाः सुदारुणाः । " इति । ९ उपदंशानां पञ्चविधसंख्यां निर्दिशति - स इति । १० वातजाद्युपदंशानां लक्षणानि दर्शयति - तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 544
पाठ पढ़ें पाठ छिपाएँ
३८४ Digitized by Arya अनुश्रुतसंहितायां Themnai and eGangotri [ अ ० १२ विविधाश्च वातवेदनाः । पैत्तिके ज्वरः श्वयथुः पक्वोडुम्बरसङ्काश-स्तीव्रदाहः क्षिप्रपाकः पित्तवेदनाश्च । श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च । रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थ-मसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैव कदा-चित् । सर्वजे सर्वलिङ्गदर्शनमवदरणं च शेफसः कृमिप्रादुर्भावो मरणं चेति ॥ ९ ॥
कुपितास्तु दोषा वातपित्तश्लेष्माणोऽधः प्रपन्ना वङ्क्षगोरुजानु-जङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शोफं जन-यन्ति, तं श्लीपदमित्याचक्षते । तत् त्रिविधं — वातपित्तकफनिमि-त्तमिति ॥ १० ॥
तत्र, वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं परिस्फुटैति च बहुशः । पित्तजं तु पीतावभासमीषन्मृदुज्वरदाहप्रायं च । श्लेष्मजं तु श्वेतं स्निग्धावभासं मन्दवेदनं भारिकं महान्थिकं कण्टकैरुप-चितं च ॥ ११ ॥
तत्र संवत्सरातीतमतिमहद्वल्मीकैजातं प्रसृतमिति वर्जनीयानि १२ भवन्ति चात्र ।
त्रीर्ण्यप्येतानि जानीयात् च्छ्लीपदानि कफोच्छ्रयात् ।
गुरुत्वं च महत्त्वं च यस्मान्नास्ति विना कफात् ॥ १३
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः ।
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥ १४ ॥
१ क्रमागतस्य श्लीपदस्य सम्प्राप्तिं सख्यां चोपपादयति — कुपिता इति । २ सज्वरं शोफं जनयन्तीति बोध्यम् । तदुक्तम् — “ यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण " इति । शिलावत् पदं श्लीपदमिति केचित् । ३ परिस्फु-| टति = अवदीर्यते । ४ महाग्रथिकं = बृहदाकारैर्ग्रन्थिभिरनुविद्धम्, कण्टकैः = अङ्कुरैः । ५ वल्मीकजातं = वल्मीकत्रद् बहुशिखराकारत्वेनोत्पन्नमित्यर्थः, प्रसृतं = यत्र त्वचो विदीर्णेन लसिका स्रवति । ६ श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यं दर्शयति — त्रीणीति ७ श्लीपद-सम्भवहेतुं देशं निर्दिशति - पुराणेति । ८ देशाः = अनूपदेशाः । तदुक्तमष्टाङ्गस-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 545
पाठ पढ़ें पाठ छिपाएँ
अ ० १३ ] Digitized by Arya Saranqnnai and eGangotri
पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम् ।
कर्णाक्षिनासिकौष्ठेषु केचिदिच्छन्ति तद्विदः ॥ १५ ॥
इति सुश्रुतसंहितायां निदानस्थाने वृद्धुपदंशश्लीपदनिदानं नाम द्वादशोऽध्यायः ॥ १२ ॥
त्रयोदशोऽध्यायः ।
अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
३८५ समासेन चतुश्चत्वारिंशत् क्षुद्ररोगाः भवन्ति । तद्यथा — अज-गल्लिका, यवप्रख्या, अन्धालजी, विवृता, कच्छपिका, वल्मीकं, इन्द्रवृद्धा, पनसिका, पाषाणगर्दभः, जालगर्दभः, कक्षा, विस्फोटकः, अग्निरोहिणी, चिप्पं, कुनखः, अनुशयी, विदारिका, शर्कराऽर्बुद, पामा, विचर्चिका, रकसा, पाददारिका, कदरम्, अलसेन्द्रलुप्तौ, दारु-एकः, अरुंपिका, पलितं, मसूरिका, यौवनपिडका, पद्मिनीकण्टको, जतुमणिः, मशकः, चर्मकीलः. तिलकालकः, न्यच्छं, व्यङ्गः, परिव-र्त्तिका, अवपाटिका, निरुद्धप्रकशः, सन्निरुद्धगुदः, अहिपूतनं, वृप-एकच्छूः, गुदभ्रंशश्चेति ॥ ३ ॥
स्निग्धा सवर्णा ग्रथिता नीरुजा ग्रन्थिसन्निभा । ङ्ग्रहे— “ श्लीपदं जायते तच्च देशेऽनूपे भृशं श्रमात् ” इति । १ तन्त्रान्तरेऽप्युक्तम्-“ तच्छ्लीपदं स्यात् करकर्णनेत्र शिश्नौष्ठनासा स्वपि केचिदाहुः ” इति । इति सुश्रुतसंहिताया निदानस्थानीयसुधा ss ख्य टिप्पन्यां द्वादशोऽध्यायः । त्रयोदशोऽध्यायः । २ क्षुद्रा लघवः तिलकालकाभिप्रायेण, अग्निरोहिणी वल्मीकप्रभृतीनामभिप्रा. येण क्षुद्रास्तीक्ष्णाः; अथवा पूर्वाचार्यपठिता पारिभाषिकीयं संज्ञा, क्काथपाक्यसंज्ञा-वदिति वाचस्पतिः । ३ विस्तरेण तु प्रमाणाभावः । अत्र संख्यायां संज्ञासु च न्यूना • धिक्यं वाग्भटे द्रष्टव्यम् । ४ अजगल्लिकादीनां चतुश्चत्वारिंशत्क्षुद्ररोगाणां यथाक्रमं २५ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 546
पाठ पढ़ें पाठ छिपाएँ
३८६ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri ! कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥ ४ ॥
[ अ ० १३
यवाकारा सुकठिना ग्रथिता मांससंश्रिता ।
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥ ५ ॥
घनामवक्रां पिडकामुन्नतां परिमण्डलाम् ।
अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ॥ ६ ॥
विवृतास्यां महादाहां पक्कोडुम्बरसन्निभाम् विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ॥ ७ ॥
ग्रन्थयः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः ।
कफानिलाभ्यामुद्भूतां विद्यात्तां कच्छपीमिति ॥ ८ ॥
पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि ।
प्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ॥ ९ ॥
तोदक्लेदपरीदाहकण्डूमद्भिर्ब्रणैर्वृतः ।
व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः ॥ १० ॥
पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम् ।
इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ॥ ११ ॥
कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् ।
शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् ॥ १२ ॥
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् । लक्षणानि निर्दिशति - स्निग्धेति । १ बालानामिति प्रायोभावित्वादुक्तं, तेनावाला-नामपि दृश्यमानाः सङ्गच्छन्त इति श्रीकण्ठः । २ यवाकारा = यववन्मध्ये स्थूलेत्यर्थः । ३ अन्धालजीं स्नायुगतामाह भोजे – “ इले मानिलौ श्रितौ स्नायुं पिडकां परि-मण्डलाम् । दुष्टौ जनयतोऽवक्रामत्ग्यामकण्डुराम् । श्रामोदुम्बरसङ्काशां विद्यादन्धा-तु ताम् । " इति । ४ पित्तेनातितरां पाकाद् व्यात्तमुखतायां विवृता संज्ञा । ५ मध्ये उन्नतत्वेत पर्यन्ते नतत्वेन च कच्छपिका संज्ञा । ६ वल्मीकवदित्यनेन प्रचुर-शिखरत्वेन समुच्छ्रितत्वं दूरावगाढमूलत्वं च ख्याप्यते । श्रत एव चिकित्सायामवगाढ-मूलशोधनार्थमग्निक्षाराभ्यां चिकित्सेदित्युक्तमिति विजयरक्षितः । ७ पद्मपुष्करवत् = पद्मबीजकोशवदित्यर्थः ‘ पद्मकर्णिकवत् ' इति पाठान्तरम् । कणिकेत्यत्राकारलोप आर्षः । ८ शालूकवत् = कमलकन्दवत् कठिनां तदकारां वा । तदुक्तमष्टाङ्गसंग्रहे " कठिनो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 547
पाठ पढ़ें पाठ छिपाएँ
atien अ ० १३ ] Digitized by Arya fra निस्थानम् hennai and eGangotri पाषाणगर्दभ विद्याद्वलास पवनात्मकम् ॥ १३ ॥
विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः ।
अपौकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः ॥ १४ ॥
पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् ।
र्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ॥ १५ ॥
बाहुपार्श्वासकक्षासु कृष्णस्फोटां सवेदनाम् ।
पित्तप्रकोपसम्भूतां कक्षामिति विनिर्दिशेत् ॥ १६ ॥
एकमेवंविधां पिटिकां स्फोटसन्निभाम् ।
त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ॥ १७ ॥
अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्ततः ।
क्वचित् सर्वत्र वा देहे स्मृता विस्फोटक इति ॥। १८ ॥
कक्षाभागेषु ये स्फोटा जायन्ते मांसहारणाः ।
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ॥ ६ ९ ॥
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा न्नन्ति मानवम् ।
तामग्निरोहिणी " विद्यादसाध्यां सन्निपाततः ॥ २० ॥
३८७ ग्ररुक् । शालूकाभा पनसिका ” इति । ' शालूकमेषां कन्दः स्यात् ' इत्यमरः । १ पाषाणवत् काठिन्यात् पाषाणगर्दभ इति विजयरक्षितः । २ बलासः = श्लेष्मा । ३ अपाकः ईषत्पाकः । ४ पित्ताद् = उद्भूतपित्तात् तेन भोजोक्तं पित्तोल्वणदोष त्रयजन्यत्वमस्या-विरुद्धं भवति । स यदाइ — " पित्तोत्कटास्त्रयो दोषा जनयन्ति त्वगाश्रिताः । श्यावं रक्तं तनुं शोथमपाकं बहुवेदनम् ॥ विसर्पिणं सदाहं च तृष्णाज्वरसमन्वितम् । विसर्पमाद्दुस्त व्याधिमपरे जालगर्दभम् ॥ ” इति विजयरक्षितः । ५ उत्तमाङ्गस्थां = शिरोगताम् । ६ सर्वात्मिकां = सर्वदोषजाम् । सर्वात्मिकामित्यनेनैव सर्वलिङ्गत्वे सिद्धे पुनः सर्वलिङ्गामिति वचनं विकृतिविषमसमवायारब्धलिङ्गव्यतिरेकेण प्रत्येकदोष लिङ्गयुक्ततां ख्यापयतीति मधुकोषव्याख्याकारौ । ७ श्रष्टाङ्गसङ्ग्रहे वातपित्तोभयजन्या सूक्ष्मा नानापिटकाता च कक्षा उक्ता – " कदयेति कक्षासन्नेषु प्रायो देशेषु सानिलात् । पित्ताद् भवन्ति पिटकाः सूक्ष्मा लाजोपमा घनाः ॥ ” इति । ८ एकां = कक्षोक्तैककृष्ण-स्फोटसदृशीमित्यर्थः । ९ अत्र माधवोक्तं विशिष्टलक्षणम् – “ खचमाश्रित्य ते रक्तं मांसास्थीनि प्रदूष्य च । घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरः सरान् ॥ ” इति । १० कक्षाभागेषु CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 548
पाठ पढ़ें पाठ छिपाएँ
३८८ सुश्रुतसंहितायां-[ अ ० १३ Digitized by Arya Sama Foundation Chennai and eGangotri
नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम् ।
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ॥ २१ ॥
तदेव चतरोगाख्यं तथोपनखमित्यपि ।
अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ॥ २२ ॥
भवेत्तं कुनखं विद्यात् कुलीनमिति संज्ञितम् ।
गम्भीरामल्पैसंरम्भां सवर्णामुपरिस्थिताम् ॥ २३ ॥
कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक् ।
विदारीकन्दवद् वृत्तां कक्षावृङ्क्षणसन्धिषु ॥ २४ ॥
रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम् ।
प्राप्य मांससिरास्नायूः श्लेष्मा मेदस्तथाऽनिलः ॥ २५ ॥
ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम् ।
स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ॥ २६ ॥
मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः ।
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः ॥ २७ ॥
स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करावदम् । प्रदीप्ताङ्गारसन्निभाः स्फोटा अग्निरोहिणीशब्दवाच्याः । १ चिप्पमङ्गुलोवेष्टकमिति तन्त्रान्तरे ख्यातम् । अक्षतनामायं विकारः “ रोगः क्षतश्चर्मनखान्तरे स्यान्मांसा-स्रदूषी भृशदाहपाकः ” इति तन्त्रान्तरम् । चर्मनखान्तरे चर्मनखसन्धाविति तदर्थः । २ अल्पसंरम्भाम् = अल्पशोथामित्यर्थः । ३ मस्तकोपरिस्थितामित्यर्थः । श्लोकस्या-स्योत्तरार्धे— “ पादस्यानुशय तां तु विद्यादन्तःप्रपाकिनीम् " इत्यन्यत्र । तदा पादस्यो-परि स्थितामिति सम्बन्धः । ४ सर्वजा = सन्निपातजा, सन्निपातजन्याऽपीयं साध्यैव । चरके त्वियं वातकफजन्या पठिता- " ज्वरान्विता वङ्क्षणकक्ष सन्धौ वर्तिर्निरर्तिः कठिना मता या । विदा रिका सा कफमारुताभ्याम् " इति तस्माद्वातकफाधिक्येन ज्वरयोगेनाल्पपित्ततया अस्या उत्पत्तिर्बोध्या । तदुक्तं वाग्भटे – “ ऊष्मा पित्तादृते नास्ति ज्वरों नास्त्यूष्मणा विना " इति । ५ नानावर्णे = घृतमेदोवसावर्णमित्यर्थः । भोजेऽप्युक्तम् — “ तमेव भिन्नं दुर्गन्धं घृतमेदोनिभं सिराः । स्रवन्ति स्रावमनिशं तदा स्याच्छर्करार्बुदम् ॥ ” इति । तमेव ग्रन्थि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 549
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् पामविचच्यौं कुष्ठेषु रकसा च प्रकीत्तिता ॥ २८ ॥
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः ।
पादयोः कुरुते दौरों सरुजां तलसंश्रिताम् ॥ २ ९ ॥
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।
मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ॥ ३० ॥
सकी कठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा ।
कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ॥ ३१ ॥
क्लिन्नाङ्गल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ ।
दुष्टकर्दमसंस्पर्शादर्लंसं तं विनिर्दिशेत् ॥ ३२ ॥
रोमकूपानुगं पित्तं वातेन सह मूच्छितम् ।
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥ ३३ ॥
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः ।
तदिन्द्रलुप्तं खालित्यं रुँरुज्येति च विभाव्यते ॥ ३४ ॥
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपास्यते ।
कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ॥ ३५ ॥
३८ ९. मेवेति तदर्थः । ततः = शर्करार्बुदात् । १ पामा विचर्चिका रकसा कुष्ठभेदेषु दर्शि ताः क्षुद्ररोगमधिकृत्येह लिखितेति न दोषः । २ परिक्रमणशीलस्य = सर्वतो भ्रमण-स्वभावस्येत्यर्थः । ३ दारीं = विपादिकाम् । विपादिकाकुष्ठं तु पिडका सविदारणेति भेदः । ४ शर्कराभिः घटकर्परखण्डादिभिरुन्मथिते पीडिते, पाढे, हस्तयोरपीति भोज: -“ हस्तयोः पादयोश्चापि गम्भीरानुगतं खरम् । मांसकीलं जनयतः कुपितौ कफमारुतौ सशल्यमिव तं देशं मन्यते तेन पीडितः । शर्कराकदरं केचिन्मन्यन्ते वातकण्टकम् ॥ ” इति । ५ कीलेन शङ्कुना सदृशं सकीलं, सकीलं चासौ कठिनश्च सकीलकठिनः । ६ पा-दाङ्गुलिपु दुष्टकर्दम संस्पर्शत्वेन यत् क्लिन्नभावं सोऽलसशब्दवाच्यः । ७ इन्द्रलुप्तस्य खालित्यं रुज्येति पर्यायकथनम् । वाग्भटोक्त्या इन्द्रलुप्ते सहसा केशाः पतन्ति, खालि -त्ये शनैः शनैरिति विशेषः । अत्र श्रीकण्ठः - ' कार्तिकस्त्वाइ – “ इन्द्रलुप्तं श्मश्रुणि भवत खालित्यं शिरस्येव, रुह्या च सर्वदेहे " इति । श्रागमस्त्वत्र नास्ति ' । रुज्या, रूढया, ह्या इति नामभेदः । ८ अष्टाङ्गसङ्ग्रहेऽस्य विशेषलक्षणमुक्तम् — “ कण्डू केशच्युतिस्वाप रौक्ष्य कृत् स्फु--टनं त्वचः । सुसूक्ष्मं कफवाताभ्यां विद्याद् दारुणकं तु तत् ॥ ” इति विदेहवचनात् पि--CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 550
पाठ पढ़ें पाठ छिपाएँ
३ ९ ० सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १३
अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्धनि ।
कफासृक्कृमिकोपेन नृणां विद्यादरूंषिकाम् ॥ ३६ ॥
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः ।
पित्तं ५ च केशान् पचति पलितं तेन जायते ॥ ३७ ॥
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः ।
गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ॥ ३८ ॥
शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः ।
जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ॥ ३ ९ ॥
कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम् ।
पद्मिनीकण्टकप्रख्यैस्तँदाख्यं कफवातजम् ॥ ४० ॥
नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम् ।
सहजं रक्तमीषच्च श्लक्ष्णं जतुमरिंग विदुः ॥ ४१ ॥
अवेदनं स्थिरञ्चैव यस्य गात्रेषु दृश्यते ।
माषवत्कृष्णमुत्सन्नमर्निलान्मषकं वदेत् ॥ ४२ ॥
त्तरक्तानुबन्धोऽप्यत्र द्रष्टव्यः - " यदत्र पटलाभासं सरुजस्कं शिरस्त्वचि । परुषं जायते जन्तोस्तस्य रूपं विशेषतः ॥ तोदैः समन्वितं वातात् सकण्डूगौरवं कफात् । सपिपासं सदाहार्तिरागं पित्तास्रजं तथा ॥ " इत्यत्र वचने सदाहरागं च पित्तात्, सातिं तु रक्तात्, अतिहिं रक्तजाऽपि भवतीति श्रीकण्ठः । १ चरकोक्तया दोषत्रयसहितशरी-- रोष्मा पलितहेतुर्न तु केवलं पित्तमेवेति बोध्यम् । तदुक्तं तत्र - " तेजोऽनिलाद्यैः सह केशभूमिं दग्ध्वा तु कुर्यात् खलितिं नरस्य । किञ्चित्तु दग्ध्वा पलितानि कुर्याद्धरित्प्र-भत्वं च शिरोरुहाणाम् ॥ ” इति । २ तन्त्रान्तरे - " पित्तं शोणिसंसृष्टं यदा दूषयति त्वचम् । तदा करोति पिडकाः -सर्वगात्रेषु देहिनः । मसूरमुद्गमाषाणां तुल्याः कोलोपमा अपि । मसूरिकास्तु विज्ञेयाः पिढका रक्तपित्तजाः ” ॥ इति । अस्या विस्तरशो वर्णनमन्यत्र द्रष्टव्यम् । ३ मुखका-तिहारकत्वेन मुखदूषिका ' मुंहासा ' शब्दवाच्याः । ४ कमिलिनीकण्टकसदृशैः कण्ट-कैर्व्याप्तं वृत्तादिलक्षणं पद्मिनीकण्टकाख्यं बोध्यम् । ५ कफरक्तज मिति सामान्येनो-क्तम्, तेन चरकोक्तं त्रिदोषजत्वमप्यस्योपपन्नं भवति । तथा हि- " कृष्णः स्निग्धो - जतुमणिर्ज्ञेयो वातोत्तरैस्त्रिभिः । अरुजं त्वपरैरुक्तं लक्ष्मेत्याहुभिषग्वराः ॥ ” इति । ६ भोजः– “ वातेरिते त्वचि यदा दूष्येते कफमेदसी । इलक्षणं मृदु सवर्णे च कुरुतो CC - 0. Gurukul Kangri Collection, Haridwar