सुश्रुत संहिता चौखम्बा — पृष्ठ 601–610
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 601–610
पृष्ठ 601
पाठ पढ़ें पाठ छिपाएँ
-50 अ ० ४ ] Digitized by Arya Salon Chennai and eGangotri
वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः ।
न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत् ॥ ५४ ॥
आर्द्रचर्मावनद्धं हि यो गात्रमभिमन्यते । ४४३ तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत् ॥ ५५ ॥
मूर्च्छा पित्ततमःप्राया, रजःपित्तानिलाद् भ्रमः ।
तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा ॥ ५६ ॥
गर्भस्य खलु रसनिमित्ता मारुताध्मोन निमित्ता च परि-बृद्धिर्भवति ॥ ५७ ॥
भवन्ति चात्र ।
तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् ।
तदार्धंमति वातस्तु देहस्तेनास्य वर्धते ॥ ५८ ॥
ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः ।
ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा ॥ ५ ९ ॥
दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन ।
ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ॥ ६० ॥
शरीरे क्षीयमाणेऽपि वर्द्धेते द्वाविमौ सदा ।
स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ॥ ६१ ॥
सप्त प्रकृतयो भवन्ति - दोषैः पृथक्, द्विशः, समस्तैश्च ॥६२ ॥
शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः ।
प्रकृतिर्जायते तेन तस्या में लक्षणं शृणु ॥ ६३ ॥
५१ V तंत्र यः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो " गा-न्धर्वचित्तः स्फुटितकरचरणोऽल्परूक्षश्मश्रुनखकेशः " क्राथी दन्तनख-कः = श्रास्यस्रवणम् । १ हृदये बन्धनमित्र वेदनाविशेषो हृदयोद्वेष्टनम् । २ मा रुतेन वातेन श्रध्मानं स्रोतसां पूरणं तदेव निमित्तं कारणं यस्यां सा तथोक्ता । ३ ज्योतिः = श्रग्निः । ४ श्रधमति = प्रज्वलितं करोति । ५ दारयति = विस्तार-यति । ६ ध्रुवाणि = निश्चलानि । ७ प्रकृति = कारणमित्यर्थः । ८ उत्कटः = प्रबलः । ९ वात प्रकृतेर्लक्षणं प्रतिपादयति - तत्रेति । न्धर्वचित्तः गान्धर्वे सङ्गीते चित्तं यस्य स तथोक्तः । १० श्रनार्य्यः श्रसज्जनः, गा-= ११ क्राथी = हिंसाशीलः, अत्र CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 602
पाठ पढ़ें पाठ छिपाएँ
४४४ Digitized by Arya Sama सुश्रुतसंहितायां ] an dation Chennai and eGangotri [ अ ० ४ खादी च भवति ॥ ६४ ॥
. अधृतिरदृढसौर्हृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापी । द्रुतगतिरटनोऽनवस्थितात्मा वियति च गच्छति सम्भ्रमेण सुप्तः ६५
. अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसञ्चयमित्रः ।
किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ॥ ६६ ॥
• वातिकाश्चाजगोमायुशशाखूष्ट्रशनां तथा ।
गृध्रकाकखरादीना ' नूकैः कीर्तिता नराः ॥ ६७ ॥
स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिहौष्ठपा-णिपादतलो दुर्भगो वलिपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्र-कोपप्रसादो मध्यमबलो मध्यमायुश्च भवति ॥ ६८ ॥
मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः ।
सुप्तःसन्कनकपलाशकर्णिकारान्सम्पश्येदपि च हुताशविद्युदुल्काः ६ ९ ॥
न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिः ।
भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः ॥ ७० ॥
- भुजङ्गोलूकगन्धर्वयक्ष मार्जारवानरैः । V व्याघ्नर्त्तनकुलानूकैः पैत्तिकास्तु नराः स्मृताः ॥ ७१ ॥
दूर्वेन्दीवरनिखिशार्द्रारिष्टकशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो ' धृतिमान् सहिष्णुरलोलुपो बलवां-श्विरग्राही दृढवैरश्च भवति ॥ ७२ ॥
V शुक्लाक्षः स्थिरकुटिलालिनीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः । ' क्रोधी ' इति पाठान्तरम्, दन्तनखखादी दन्तखादी नखखादीति सम्बन्धः । तत्र दन्त-खादी इत्यस्य सुप्ते दन्तान् किटकिटायते इत्यर्थो बोध्यः । १ अनवस्थितात्मा = अनव-स्थितचित्त इत्यर्थः । ' आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ' इति धरणिः । २ वातिका नरा अजादीनाम् अनूकैः शीलैः कीर्तिता इत्यर्थः । ३ पित्तप्रकृतेर्लक्षणं ब्रवीति - स्वेदन इति । ४ कफप्रकृतेर्लक्षण • मभिदधाति — दूर्वेति । इन्दीवरं = नीलकमलम्, निस्त्रिंशः = असिः अरिष्टः = ' रीठा ' इति ख्यातः, तस्य विशेषणमार्द्र इति । ५ चिरात् परिचितत्वेन मित्रत्वेन वा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 603
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by AryaFation Chennai and eGangotri ४४५ सुप्तः सन् सकमलहंसचक्रवाकान् सम्पश्येदपि च जलाशयान् मनोज्ञान् ॥ ७३ ॥
रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः ।
क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः ॥७४ ॥
दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु ।
परिनिश्चितवाक्यपदः सततं गुरुमानैकरश्च भवेत्स सदा ॥ ७५ ॥
ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः ।
तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः ॥ ७६ ॥
-योर्वा तिसृणां वाऽपि प्रकृतीनां तु लक्षणैः ।
ज्ञात्वा संसगंजा वैद्यः प्रकृतीरभिनिर्दिशेत् ॥ ७७ ॥
प्रकोपो वाऽन्यभावो वा क्षयो वा नोपजायते ।
प्रकृतीनां स्वभावेन जायते तु गतायुषः ॥ ७८ ॥
विषजातो यथा कीटो न विषेण विपद्यते ।
तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति नं बाधितुम् ॥ ७ ९ ॥
प्रकृतिमिह नराणां भौतिकीं केचिदाहुः पवनदद्दनतोयैः कीर्त्तितास्तास्तु तिस्रः । स्थिरविपुलशरीरः पार्थिवश्च क्षमावान् शुचिरथ चिरजीवी नाभसः खैर्महद्भिः ॥ ८० ॥
शौच मास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् । ग्रहीतुं शीलमस्येति चिरग्राही । १ मानयिता = पूजकः । २ मानकरः - सम्मा-नकरः । ३ संसर्गजप्रकृतेर्लक्षणं निर्दिशति - द्वयोरिति । ४ स्वभावतः प्रकृतीनां प्रकोपो वैपरीत्यं क्षयो वा स्वस्थस्य न भवति, किन्तु सन्निकृष्टमृत्योर्मर्त्यस्यैव भव-तीति तात्पर्यम् । ५ नकारोऽयमोषदर्थे । तेन वातादयो वातादिज करचरणस्फुटनादिकं किञ्चिरकर्तुं शक्नुवन्ति न त्वधिकम् । तन्त्रान्तरेऽपि – “ सर्वान् प्राणभृतो हन्ति नूनं तु कायगं विषम् । श्रस्मिश्चापि समुत्पन्ना दृश्यन्ते क्रिमयो यथा । तथा हि विषयो दोषः प्रकृति-र्नातिबाधते ॥ ” इति । ६ एकीयमते प्रकृतीनां भौतिकत्वं दर्शयति – प्रकृतिमिति । ७ खैः = नासाकर्णादिच्छिद्रैरित्यर्थः । साविककायेषु ब्रह्मकायलक्षणमाह-- शौच-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 604
पाठ पढ़ें पाठ छिपाएँ
४४६Digitized by Arya Samaj सुश्रुतसंहिताया and eGangotri [ अ ० ४ प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ॥ ८१ ॥
माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता ।
भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ॥। ८२ ॥
शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता ।
प्रियवादित्वमित्येतद्वारुणं कायलक्षणम् ॥। ८३ ॥
मध्यस्थता सहिष्णुत्वमर्थस्यागमसञ्चयौ ।
महाप्रैसवशक्तित्वं कौबेरं कायलक्षणम् ॥। ८४ ॥
गन्धमाल्यप्रियत्वं च नृत्यवादिकामिता ।
विहारशीलता चैव गान्धव कायलक्षणम् ॥ ८५ ॥
प्राप्तकौरी दृढोत्थानो निर्भयः स्मृतिमान् शुचिः ।
रागमोहमद द्वेषैर्वर्जितो याम्यसत्त्ववान् ॥ ८६ ॥
जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम् ।
ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ॥ ८७ ॥
सप्तैते सात्त्विकाः काया राजसांस्तु निबोध मे ।
ऐश्वर्यवन्तं रौद्रं च शूर चॅण्डमसूयकम् ॥ ८८ ॥
एकाशिन चौदैरिकमासुरं सत्त्वमीदृशम् ।
तीक्ष्णमायासिनं भीरुं चण्डं मायाऽन्वितं तथा ॥ ८ ९ ॥
विहाराचारचपलं सर्पसत्त्वं विदुनरम् ।
प्रवृद्धकामसेवी चाप्यजस्राहार एव च ॥ ९ ० ॥
अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् ।
एकान्तग्राहिता रौद्रमसूया धर्मबाह्यता ॥ ९ १ ॥
भृशमात्मस्तवश्चापि राक्षसं कायलक्षणम् । मिति। १ पैङ्गल्यं = पिङ्गलाक्षत्लम्, हरिकेशता - कपिलकचत्वम् । २ अत्यन्त • सन्तानोत्पादनशक्तिरित्यर्थः । ३ प्राप्तकारी = युक्तियुक्तकर्मकारी, दृढोत्थानः = दृढोद्यमः । ४ चण्डं = तीव्रकोपम्, ' चण्डस्त्वत्यन्तकोपनः ' इत्यमरः । ५ श्रद • रिकं = बहुभक्षकम् । ६ चण्डं = क्रोधनम्, मायाऽन्वितं = कपटयुक्तम् । ७ अन • वस्थायी = अस्थिरचित्तः । ८ भृशमात्मस्तवः = अत्यन्तमात्मस्तुतिकर्तेत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 605
पाठ पढ़ें पाठ छिपाएँ
२ शारीरस्थानम् Chennai and eGangotri अं ० ४ ] Digitized by Arya Samaj Founda उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा ॥ ९ २ ॥
स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम् ।
अँसंविभागमलसं दुःखशीलमसूयकम् ॥ ९ ३ ॥
लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम् ।
षडेते राजसाः कायास्तामसांस्तु निबोध मे ॥ ९ ४ ॥
दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता ।
निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ॥ ९ ५ ॥
अनवस्थितता मौर्यं भीरुत्वं सलिलार्थिता ।
परस्पराभिर्मैर्दश्च मत्स्य सत्त्वस्य लक्षणम् ॥ ९ ६ ॥
एकस्थानरतिनित्यमाहारे केवले रतः ।
वानस्पत्यो नरः सत्त्वधर्म्मकामार्थवर्जितः ॥ ९ ७ ॥
इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा ।
कौयानां प्रकृतिर्ज्ञात्वा त्वनुरूपां क्रियां चरेत् ॥। ९ ८ ॥
महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः । ४४७ प्रोक्ता लक्षणतः सम्यग् भिषक् ताश्च विभावयेत् ॥ ९९ ॥
इति सुश्रुतसंहितायां शारीरस्थाने गर्भव्याकरणशारीरं नाम चतुर्थोऽध्यायः ॥ ४ ॥
१ असंविभागं = संविभज्य यो न खादति । २ मन्दता = कुटिलता, ' मन्दस्तु कुटिलेऽलसे ' इति कोशः । ३ निराकरिष्णुता = बहिष्करणस्वभावः । ४ अभि-मर्दः = युद्धम्, ‘ अभिमर्दो मन्थनयुद्धयोः ' इति हेमचन्द्रः । ५ प्रकृतिं ज्ञात्वैव क्रिया कार्येश्युपदिशति -- कायानामिति । अनुरूपां यथोचितामित्यर्थः । इति सुश्रुतसंहितायाः शारीरस्थानीय सुधाऽऽख्यटिप्पन्यां चतुर्थोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 606
पाठ पढ़ें पाठ छिपाएँ
४४८ by Arya Samaj F सुश्रुतसंहितायां and eGangotri पञ्चमोऽध्यायः । [ अ ०५ अथातः शरीरैसंख्याव्याकरणं शारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
शुक्रशोणितं गर्भाशयस्थामात्मप्रकृतिविकारसम्मूच्छितं ' गर्भ ' इत्युच्यते । तं चेतनौऽवस्थितं वायुर्विभजति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी संहन्ति, आकाशं विवर्धयति, एवं विवर्द्धितः स यदा हस्तपादजिह्वाघ्राणकर्ण नितम्बादिभिरङ्गैरुपेतस्तदा ' शरीरम् ' इति संज्ञां लभते । तच्च षडङ्गं शौखाश्चतस्रो, मध्यं पञ्चमं, पष्ठं शिर इति ॥ ३ ॥
अतः परं प्रत्यङ्गानि वक्ष्यन्ते - मस्तकोदरपृष्ठनाभिललाटनासा-चिबुकवस्तिग्रीवा इत्येता एकैकाः, कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्ष-स्तनवृषणपार्श्वरिर्फग्जानुबाहूरुप्रभृतयो द्वे द्वे - विंशतिरङ्गुलयः, स्रोतां सि वक्ष्यमाणानि, एष प्रत्यङ्गविभाग उक्तः ॥ ४ ॥
तस्य पुनः संख्यानं – र्त्वचः कला धातवो मला दोषा यकृत्प्ली -हानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा पञ्चमोऽध्यायः । १ शरीरस्य संख्या अङ्गप्रत्यङ्गादीनामेकत्वादिपरिमाणं तस्या व्याकरणं विवर-णम् । शेषं पूर्ववत् । २ आत्मा क्षेत्रज्ञः प्रकृतयः विकाराश्च सर्वभूतचिन्ताऽध्यायो-क्तास्तैः सम्मूच्छितमभिव्याप्तमित्यात्मप्रकृति विकारसम्मूच्छितम् । ' सम्मूर्च्छनमभिव्याप्तौ ' इति मेदिनी । ३ चेतनाऽत्रस्थितम् = आत्माधिष्ठितमित्यर्थः । ४ सङ्ग्रहे शरीरस्य प्रमाणम् - " स्वाङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्वयङ्गुलायते । तिस्रो-ऽन्याः क्रमेणोत्तरोत्तरं पञ्चभागहीनास्तन्नखहीना वा चतुरङ्गुलायता: " इत्यादिनाऽङ्ग-प्रत्यङ्गानां प्रत्येकमायामविस्तारौ प्रदर्श्य " सर्वं पुनः शरीरमङ्गुलानि चतुरशीति तदा. यामविस्तारसमं सममुच्यते । यथोक्तपरिमाणमिष्टम् " इत्युक्तम् । ५ शाखा = हस्त-पादम्, मध्यं === कण्ठादिगुदपर्यन्तम्, शिरः = ' ठो. = सग्रीवं मस्तकम् । ६ चिबुकं ढी ' इति लोके । ७ शङ्खः - ' कनपटी ' इति लोके । ८ स्फिक् = ‘ चूतड़ ' इति लोके । ९ पूर्वोक्तं बाह्यमङ्गप्रत्यङ्गादिकं बाह्यतो द्रष्टुं शक्यते, किन्त्वाभ्यन्तरं तच्छवच्छेदन-मन्तरा बाह्यतो द्रष्टुं न शक्यते इति तदपि संख्यातुमारभते - त्वच इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 607
पाठ पढ़ें पाठ छिपाएँ
अ ०.५ ] Digitized by Arya खाली रास्थान on Chennai and eGangotri ४४ ९ जालानि कूर्चा रज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि स-न्धयः स्नायवः पेश्यो मर्माणि सिरा धमन्यो योगवहानि स्रो-तांसि च ॥ ५ ॥
त्वचः सप्त, कलाः सप्त, आशयाः सप्त, धातवः सप्त, सप्त सिरा-शतानि, पञ्च पेशीशतार्नि, नव स्नायुशतानि, त्रीण्यस्थिशतानि, द्वे दशोत्तरे सन्धिशते, सप्तोत्तरं मर्मशतं, चतुर्विंशतिर्धमन्यः, त्रयो दोषाः, त्रयो मलाः, नव स्रोतांसि, षोडश कण्डराः, षोडश जालानि, पट् कूर्चाः, चतस्रो रज्जवः, सप्त सेवन्यः, चतुर्दश सङ्घाताः, चतुर्दश सीमन्ताः, द्वाविंशतिर्योगवहानि स्रोतांसि, द्विकान्यन्त्राणि चेति समासः ॥ ६ ॥
विस्तारोऽत ऊर्ध्वं - त्वचोऽभिहितोः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयं वृक्कौ च ॥ ७ ॥
आशयास्तु -वाताशयः, पित्ताशयः, श्लेष्माशयो, रक्ताशयः, आमाशयः, पक्काशयो, मूत्राशयः, स्त्रीणां गर्भाशयोऽष्टम इति ॥ ८ ॥
सार्धंत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणामर्धव्यामहीनानि ॥ ९ ॥
श्रवणनयनवद्नघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहि-र्मुखान्येतान्येव स्त्रीणामपराणि च त्रीणि द्वे स्तनयोरधस्ताद्रक्त-वहञ्च ॥ १० ॥
१ धमन्या सह योगं वहन्ति यानि स्रोतांसि तानि योगवहानि प्राणोदकान्नादिवाहीनी घमनोव्याकरणे वक्ष्यमाणानि । २ प्राग् गर्भव्याकरणे । ३ श्राशयानुक्रमस्तु वाग्भ-टेनोक्तः— “ रक्तस्याद्यः क्रमात्परे । कफामपित्तपक्कानां वायोर्मूत्रस्य च क्रमात् । गर्भा-शयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरा ॥ ” इति " नाभिस्तनान्तरं जन्तोराहुरामाशयं बुधाः । आमाशयादधः पक्काशयादूर्ध्वन्तु या कला । ग्रहणीनामिका सैव कथितः पाच-काशयः । ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः ॥ तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः । पक्वाशयस्तु तदधः स एव तु मलाशयः ॥ तदधः कथितो बस्तिः स हि मूत्राशयोः मतः ॥ ” इति । ४ पार्श्वतः प्रसारित योर्बाह्वोर्मध्यं व्यामः, ' व्यामो बाहोः सकरयोस्ततयोस्तिर्यग-न्तरम् ' इत्यमरः । ५ अधस्तात् = स्मरात पत्रस्याधोभागे इत्यर्थः । स्मरातपत्रं च २ ९ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 608
पाठ पढ़ें पाठ छिपाएँ
४५० Digitized by Arya Samaj F तत हिताय Gangotri [ अ ०५ षोडश कण्डरा: - तासाञ्चतस्रः पादयोः, तावत्यो हस्तग्रीवा-पृष्ठेषु, तत्र हस्तपाद्गतानां कण्डराणां नखाः प्ररोहाः, ग्रीवाहृदय-निबन्धिनीनामधोभागगतानां मेढू, श्रोणिष्पृष्टनिबन्धिनीनामधो-भागगतानां " बिम्बं, मूर्धोरुवक्षोंऽसपिण्डादीनां च ॥ ११ ॥
मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि चत्वौरि, तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि परस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति, यैर्गवाक्षितमिदं शरीरम् ॥। १२ ॥ षट् कूर्चा: - ते हस्तपादग्रीवा मेढोपु, हस्तयोछौं, पादयोछौं, ग्रीवामेढ्योरेकैकः ॥ १३ ॥
महत्यो मांसरजैवश्चतस्रः- पृष्ठवंशमुभयतः “ पेशीनिबन्धनार्थं द्वे बाह्ये, आभ्यन्तरे च द्वे ॥ १४ ॥
सप्त सेवन्यः – शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैकाः, भगस्योपरिभागे, उक्तं च तन्त्रान्तरे - " विपुलपिप्पलपत्र समाकृतेरवयवस्य शिरस्तलमा -श्रितम् । सकलकामसिरामुखचुम्बितं निगदितं मदनातपवारणम् ॥ ” इति । १ कण्डराः = स्थूलाः स्नायवः, सा श्राकारे वृत्ता इति वच्यति – “ वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिद्द ” इति । २ जननैन्द्रियवाचकोऽयं मेदूशब्द:, तेन पुंसां मेढ्रः स्त्रीणां योनि-रित्यर्थः । ३ बिम्बं मण्डलमर्थान्नितम्बस्येति डल्हणः । हाराणचन्द्रस्तु - ' बिम्ब: ' इति पठित्वा बिम्ब: सच्छिद्रं त्रिकास्थि उच्यते इति व्याख्याति । मूर्धोरुवर्त्तोऽसपिण्डादीनां ' चेत्यत्र पूर्ववाक्याद् ' बिम्बम् ' इत्यनुवर्त्य व्याख्येयम् । द्दाराणचन्द्रस्तु - ' उरुवक्षोऽक्षपि • ण्डादिगतानां च मूर्धा ' इति पाठं मनुते । ४ जालानि निर्दिशति - मांसेति । ५ ए. कस्मिन् मणिबन्धे एकं जालं सिरायाः, अपरं स्नायोः, तृतीयं मांसस्य, चतुर्थमस्थ्नः । एवं चत्वारि चत्वारि जालानि षोढश बोध्यानि । एतेनेतरमणिबन्धो गुल्फौ च व्या-ख्यातौ । ६ गवाक्षा सञ्जाता एषां तानि गवाक्षितानि सञ्जातपरस्परच्छिद्राणीत्यर्थः । ७ गवाक्षितं = विरचितनिरन्तरजालका काररन्ध्रनिकर परिकलितम् । कूर्चा इव कूर्चाः । " कूर्चा अपि सिरास्नायुमांसास्थिप्रभवाः स्मृताः " इति । ९ रज्जवः = बन्धन्य इत्यर्थः । १० पेशीनिबन्धनार्थमित्यनेन प्रयोजनं प्रतिपाद्यते । तदुक्तम् - " पृष्ठवंशस्योभयत्र महत्यो मांसरज्जवः । चतस्रो मांसपेशीनां बन्धनं तत्प्रयोजनम् " | " प्रस्थनां संयो-जिकाः शुभ्राः सौत्रिका रज्जवो मताः । काश्चित् स्थूलाः प्रशस्ताश्च दीर्घा बहुविधा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 609
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] Digitized by A खाक थान ich Chennai and eGangotri ४५१ ताः परिहर्त्तव्याः शस्त्रेण ॥। १'५ ॥ चतुर्दशारथनां सङ्घाताः तेषां त्रयो गुज्फजानुवङ्क्षणेपु, एते-नेतरसक्थि बाहू च व्याख्यातौ । त्रिशिरसोरेकैकः ॥ १६ ॥
चतुर्दश्व सीमन्ताः, ते चास्थिसङ्घातवद् गणनीयाः यतस्तै -र्युक्ता अस्थिसङ्घाताः, ये ह्युक्ताः सङ्घातास्ते खल्वष्टादशैकेषाम् || १७ || त्रीणि सपष्टीन्यस्थिशतानि वेदवादिनो भाषन्ते, शल्यतन्त्रे तु त्रीण्येव शतानि । तेषां सविंशमस्थिशतं शाखासु, सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्टोरःसु, ग्रीवां प्रत्यूर्ध्वं त्रिषष्टिः, एवमस्थ्नां त्रीणि शतानि पूर्यन्ते ॥ १८ ॥
10 " एकैकस्यां तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश, तल-कूचगुल्फसंश्रितानि दश, पार्ल्यामेकम् जङ्घायां द्वे, जानुन्येकम्, एकमूराविति, त्रिंशदेवमेकस्मिन् सक्थिन भवन्ति, एतेनेतरसक्थि स्तथा ॥ ” इति । १ यत एषु स्थानेषु शस्त्रकर्मणा सन्धानं काठिन्येन भवतीति भावः । २ सङ्घाताः = दृढसंयोगाः । ३ अत्र त्रिकपदेन बाहुग्रीवाऽस्थित्रय सङ्घात उच्यते। ४ सीमन्ताः केशवद्विकाशिताः सङ्घातनिबन्धना भावविशेषा इति सुश्रुता-र्थंसन्दीपनम् । “ सङ्घाताः सीविता यैस्तु सीमन्तास्ते प्रकीर्तिताः ” इति तन्त्रान्तरम् । यैरस्थिभिरितितदर्थः । ५ तैः - सीमन्तैः । ६ एकेषां = " चतुर्दशास्थि सङ्घाताः सीमन्ता द्विगुणा नव " इति वाग्भटेनोक्तानाम् । ७ वेदवादिनः याज्ञवल्क्यादयः, " अस्थनां सह षष्टया शतत्रयम् ” इति भाष-न्ते । चरकेऽपि सषष्टीन्यस्थिशतान्युक्तानि । एवं वाग्भटेऽपि — " अस्थनां शतानि षष्टिश्च त्रीणि दन्तनखैः सह " इत्युक्तम् । षट्चत्वारिंशदधिकद्विशत संख्याऽस्थिमयोऽयं नरकङ्काल इति भगवत और भ्रस्य मतम् । केषाञ्चन मतेऽष्टचत्वारिंशदधिकशतद्वयम् । त्रिपञ्चाशदधिकशतद्वयमित्यन्ये । षडधिकद्विशतानीत्याधुनिकपाश्चात्यचिकित्सकाः । ८ स्वमतं दर्शयति-- त्रीण्येव शतानीति । ९ ' तेषामष्टादशोत्तरं शतं शाखासु, पञ्चाधिकं शतं श्रोणिपाश्र्वपृष्ठोरः कण्ठनाडीषु, ग्रीवां प्रत्यूर्ध्व सप्तसप्ततिः, एवमस्थ्नां त्रीणि शतानि पूर्यन्ते ' इति श्रीहाराणचन्द्र सम्मत पाठः । १० विंशत्यधिकशतं शाखागतान्यस्थीनि दर्शयति - एकैकस्यामिति । एकैकस्यां पादाङ्गुल्यां त्रीणि त्रीणि, अङ्गुष्ठे द्वे, तानि चतुर्दश । तलकूर्चगुल्फ संश्रितान्येकादश, पार्ष्णामेकम्, जङ्घायां द्वे, जानुन्येकम्, एकमुराविति त्रिंशदेकस्मिन् सक्थ्नि ' भवन्ति । द्वितीयेऽप्येवम् । एतेनैव च जानुवर्जेन बाहू च व्याख्यातौ ' इति श्रीद्दाराण-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 610
पाठ पढ़ें पाठ छिपाएँ
४५२ Digitized by Arya Samaj सुतसंहित arand eGangotri [ अ ०५ बाहू च व्याख्यातौ । श्रोण्यां पञ्च तेषां गुद्भगनितम्बेषु चत्वारि, त्रिकसंश्रितमेकं पार्श्वे पत्रिंशदेकस्मिन् द्वितीयेऽप्येवम्, पृष्ठे त्रिंशत्, अष्टावुरसि, द्वे अंसफलके, ग्रीवायां नव, कण्ठनाड्यां च त्वारि, द्वे हन्वोः, दन्ता द्वात्रिंशत्, नासायां त्रीणि, एकं तालुनि, गण्डकर्णशङ्खष्वेकैकं, षट् शिरसि ॥ १ ९ ॥ एतानि पञ्चविधानि भवन्ति । तद्यथा- कपालरुचकतरुणवलय-नलकसंज्ञानि । तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपा-लानि, दशनास्तु रुचकानि, नारणकर्णग्रीवाऽक्षिकोषेषु तरुणानि, पार्श्वपृष्ठोरःसु वलयानि, शेषाणि नलकसंज्ञानि ॥ २० ॥
भवन्ति चात्र ।
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः ।
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् ॥। २१ ॥
• तस्माच्चिर विनष्टेषु त्वङ्मांसेषु शरीरिणाम् ।
अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् ॥ २२ ॥
मांसान्यंत्र निबद्धानि सिराभिः स्नायुभिस्तथा ।
अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा ॥ २३ ॥
संन्धयस्तु द्विविधाः - चेष्टावन्तः स्थिराश्च ॥ २४ ॥
चन्द्रसम्मतपाठः । १ सप्तदशोत्तरं शतं पार्श्वादिगतानि दर्शयति- श्रोण्यामिति । श्रोण्यां पञ्च, तेषां गुदभगनितम्बेषु चत्वारि, त्रिकसंश्रितमेकम्, पार्श्वयोरष्टचत्वारिंशत्, पृष्ठे चतुर्विंशतिः, द्वे अंसपीठे, उरसि त्रीणि, अक्षकसंज्ञे द्वे, फुप्फुसनिबद्धायां कण्ठ-संसक्तायां नाढ्यामेकविंशतिः, ग्रीवायाः पुरस्तान्नवकम्, तदूदूर्ध्वमेकम्, अभ्यन्तरतः कर्णशङ्कुल्योरधस्तात् षट्, गण्डकर्णशङ्खेष्वेकैकम्, हनुसमाख्य मे कम्, दन्ता द्वात्रिंशत्, नासायामष्टौ, नासायामुपकनीनकं द्वे, अपाङ्गयोरधस्ताद् द्वे, वर्त्मसंज्ञे द्वे, षट् शिरसि-शिरसोऽभ्यन्तरे च द्वे । ' इति श्रीहाराणचन्द्रसम्मतपाठः । २ त्रिषष्टिः ग्रीवोर्ध्वगतानि निर्दिशति -- ग्रीवायामिति । अक्षिकोषः = ३ अक्षिपिधानं वर्त्म | ४ शेषाणि भोजोक्तानि— “ हस्तपादाङ्गुलितले कूर्चेषु मणि-बन्धयोः । बाहुजङ्ङ्घाद्वये चापि जानीयान्नलकानि तु ॥ ” इति । ५ शरीरधारणेऽस्थनां प्राधान्यं निदर्शयति -- अभ्यन्तरेति । ६ अत्र = अस्थिन । ७ अस्थ्याश्रितसन्धीन् CC - 0. Gurukul Kangri Collection, Haridwar