श्रीगणेशाय नमः।
सुश्रुत संहिता चौखम्बा — पृष्ठ 611–620
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 611–620
पृष्ठ 611
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by A शाश्वे रुकथवनक् Chennai and eGangotri ४५३
शाखासु हेन्वोः कटयां च चेष्टावन्तस्तु सन्धयः ।
शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः ॥ २४ ॥
सङ्ख्यातस्तु दशोत्तरे द्वे शते । तेषां शाखास्वष्टषष्टिः, एकोन-षष्टिः कोष्ठे, ग्रीवां प्रत्यध्व व्यशीतिः । एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः, द्वावङ्गुष्ठे, ते चतुदश । जानुगुल्फवङक्षणेष्वेकैकः, एवं सप्तदशैकक-स्मिन् सक्थिन भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ । त्रयः कटीकपालेषु, चतुर्विंशतिः पृष्ठवंशे, तावन्त एव पार्श्वयोः उरस्यष्टौ । तान्त एव ग्रीवायां 9 त्रयः कण्ठे, नाडीषु हृदयक्लोम निबद्धास्वष्टादश, दन्तपरिमाणा दन्तमूलेषु, एकः कालके नासायांच, द्वौ वर्त्ममण्ड • लजौ नेत्राश्रयौ, गण्डकर्णशङ्खेष्वेकैकः द्वौ हनुसन्धी, द्वावुप-रिष्टाद् भ्रुवोः शङ्खयोश्च पञ्च शिरःकपालेषु, एको मूर्ध्नि ॥ २६ ॥
त एते सन्धयोऽष्टविधा: -- कोरोलूखल सामुद्गप्रतर तुन्नसेवनी-वायसतुण्डमण्डलशङ्खावर्ताः । तेषामङ्गुलिमणिबन्धगुल्फजानुकूप-रेषु कोराः सन्धयः, कक्षावङ्क्षगदशने पूलूखलाः, अंसपीठगुदभग-नितम्बेषु सामुद्गाः, ग्रीवापृष्ठवंशयोः प्रतराः, शिरःकटीकपालेषु तुन्न-दर्शयति - सन्धयस्त्विति । १ हन्वोः = हनुमूलयोः, कट्यां चेति चकाराद् ग्रीवाया-मपि चेष्टावन्तश्चला इत्यर्थः । २ ' एकोननवतिः कोष्ठे, ग्रीवां प्रत्यूर्ध्व त्रिपञ्चाशत् ' इति हाराणचन्द्रः । ३ शाखास्वष्टषष्टिं विवृणोति - एकैकस्यामिति । ४ कोष्ठगता. नाह - त्रय इति । ५ ग्रीवोर्ध्वगतानाह -- -- तावन्त त इति । तावन्तः = श्रष्टावित्यर्थः । ६ काकलके = घण्टिकायामित्यर्थः । ७ शङ्खयोश्चोपरिष्टाद् द्वावित्यर्थः । तदुक्तं तन्त्रान्तरे - " ग्रीवास्वष्टौ त्रयः कण्ठे कण्ठनाडयां नवद्वयम् । वत्ममण्डलगण्डाकर्णशङ्खहनुद्वये ॥ भ्रू शङ्खद्वितयस्योर्ध्व सप्तस्वेषु द्वयं द्वयम् । कपाले पञ्च मूयेको नासाकाकलयोर्द्वयम् । द्वात्रिंशता त्र्यशीतिः स्यादॆवं दन्ताश्रितैः सह ॥ ” इति । = कोरः = गर्तः, कपाटादिनिबन्धनार्थो यन्त्रभेद ‘ कबजा ’ इत्याख्यायत इति सुश्रुतार्थसन्दीपनम् । उलूखलः प्रसिद्ध:, समुद्गः सम्पुट:, समुद्र एव सामुद्गः, प्रतरत्यनेनेति प्रतरः वेलकः, छिन्नानामल्पं सेवनं स्यूतं तुन्न-सेवनी, तूणसेवनीति नामान्तरम्, तत्र तूणस्य तूणीरस्येव सेवनीत्यर्थो बोध्यः । वाय-सतुण्डं काकमुखम्, मण्डल: गोलः, शङ्खस्यावर्तः शङ्खावर्तः, एते यथानामप्रकृतयः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 612
पाठ पढ़ें पाठ छिपाएँ
४५४ Digitized by Arya Samaj त्सुश्रुतसहिताया and eGangotri [ अ ०५ सेवन्यः, नोरुभयतस्तु वायसतुण्डः, कण्ठहृदयनेत्रक्लोमे॑नाडीषु मण्डलाः, श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ॥ २७ ॥
अस्थनां तु सन्धयो ह्येते केवलाः परिकीर्त्तिताः ।
पेशी॒स्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते ॥ २८ ॥
नव स्नायुशतानि । तासां शाखासु षट्शतानि, द्वे शते त्रिंशच्च कोष्ठे, ग्रीवां प्रत्यूध्व सप्ततिः । एकैकस्यान्तु पादाङ्गुल्यां षट् निचि-ताः, तास्त्रिंशत् तावत्य एव तलकूर्चगुल्फेषु तावत्य एव जङ्घायाम्, दश जानुनि चत्वारिंशदूरौ, दश वक्षणे, शतमध्यर्द्धमेवमेक-स्मिन् सक्थ्नि भवन्ति । एतेनतरसक्थि बाहू च व्याख्यातौ । पैंष्टिः कट्याम्, पृष्ठेऽशीतिः, पार्श्वयोः षष्टिः, उरसि त्रिंशत्, * टत्रिंशद् ग्रीवायाम्, मूर्ध्नि चतुस्त्रिंशत् । एवं नव स्नायुशतानि व्याख्यातानि ॥ २ ९ ॥ भवन्ति चात्र ।
स्नायूचतुर्विधा विद्यात्तास्तु सर्वा निबोध मे ।
प्रतीनवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ॥ ३० ॥
प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ ।
वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह ॥ ३१ ॥
आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु ।
पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥ ३२ ॥
सन्धयो बोध्याः । १ फुप्फुस नाडीष्विति पाठान्तरम् । श्वासनाढीष्विति तदर्थः । २ स्नायूनां स्वरूपादिकमाद्द तन्त्रान्तरे - " स्नायत्रः सूत्रवत्सूक्ष्माः शुभ्रा निखिलदेहगाः । कारणानि चेतनानां सदा चैतन्यसाधने ॥ सुखदुःखावबोधे च प्रवृत्तौ च निवर्तने ॥ " इत्यादि । ३ शाखासु षट्शतानि स्नायुसंख्या दर्शयति - एकैकस्यामिति । ४ त्रिंश-दधिकद्विशतं कोष्ठगताः स्नायु संख्या दर्शयति- षष्टिरिति । ५ ग्रीवोर्ध्वगताः सप्तति-स्नायुसंख्या आह - पडिति । ६ प्रतानवत्यः = शाखा प्रशाखभिविस्तारवत्यः । ७ शुषिराः = सच्छिद्राः । ८ कण्डराः = स्थूलाः स्नायवः, ता श्रपि शाखासु सर्व-सन्धिषु चेति सम्बन्धः । ९ पृथुला: – पृथुलसंज्ञका इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 613
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by Arya Bambeidh Chennai and eGangotri नौर्यथा फलेकास्ती बन्धनैर्बहुभिर्युता ।: भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ॥ ३३ ॥
एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ।
स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ॥ ३४ ॥
न स्थीनि न वा पेश्यो न सिरा न च सन्धयः ।
व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ॥। ३५ ॥
यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा । ४५५ स गूढं शल्यमाहर्त्तु देहाच्छक्नोति देहिनाम् ॥ ३६ ॥
पञ्च पेशीशतानि भवन्ति । तासां चत्वारि शतानि शाखासु, कोष्ठे पट्षष्टिः, ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत् । एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश, दश प्रपदे, पादोपरि कूर्चसन्निविष्टास्तावत्य एव, दश गुल्फतलयोः, गुल्फजान्वन्तरे विंशतिः, पञ्च जानुनि, विंशतिरूरौ, दश वक्षणे, शतमेवमेकस्मिन् सक्थ्ति भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ । तिस्रः 8 पायौ, एका मेढे, सेव-न्यां चापरा, द्वे वृषणयो:, स्फिचोः पञ्च पञ्च, द्वे बस्तिशिरसि, पञ्चोदरे, नाभ्यामेका, पृष्ठेोर्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः, पट् पार्श्वयोः, दश वक्षसि, अक्षकांसौ प्रति समन्तात् सप्त, द्वे हृदया-माशययोः, षट् यकृत्प्लोहोण्डुकेषु, ग्रीवायां चतस्रः, अष्टौ हन्वोः, एकैका काकलकगलयोः, द्वे तालुनि, एका जिह्वायाम्, ओष्ठयोर्द्व, नासायां द्वे, द्वे नेत्रयोः, गण्डयोश्चतस्रः, कर्णयोर्छे, चतस्रो ललाटे, एका शिरसीति । एवमेतानि पञ्च पेशीशतानि ॥ ३७ ॥
भवति चात्र । सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम् । १ फलकैः काष्ठपट्ट्ः आस्तीर्णा व्याप्तेत्यर्थः । २ “ पञ्चपेशीशतान्येव स्त्रीवर्जे विद्धि भूमिप । श्रतश्च तिस्रो हीयन्ते स्त्रीणां शेफसि मुष्कयोः ॥ ” इति भोजवचनं सुश्रु-तविरोधादुपेक्ष्यम्, यतः शिश्नमुष्कगतानां तिसृणां पेशीनां तस्या गर्भाशयेऽवस्थानॆन पञ्चशतसंख्यापूरणात् । ३ शाखासु पेशीनां चतुः शतसंख्या दर्शयति - एकैकस्या-मिति । ४ कोष्ठगतषट्षष्टिसंख्या निर्दिशति - तिस्र इति । ५ ग्रीवोर्ध्वगतचतु-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 614
पाठ पढ़ें पाठ छिपाएँ
४५६ Digitized by Arya Sama सुश्रुतसंहिताय arand eGangotri --[ अ ०५ पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ॥ ३८ ॥
स्त्रीणां तु विंशतिरधिका । दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति यौवने तासां परिवृद्धिः । अपत्यपथे चतस्रः – तासां प्रेसृतेऽ भ्यन्तरतो द्वे, मुखाश्रिते बाह्ये च वृत्ते द्वे, गर्भच्छिद्र संश्रितास्तिस्रः, शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव । पित्तपक्वाशययोर्मध्ये गर्भशय्या, यत्र गर्भस्तिष्ठति ॥ ३ ९ ॥ ' तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्क-शभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति ॥ ४० ॥
भवति चात्र ।
" पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः ।
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥ ४१ ॥
मर्मसिराधमनीस्रोतसामन्यंत्र प्रविभागः ॥ ४२ ॥
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा प्रकीर्तिता ।
तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ॥ ४३ ॥
यथा रोहितमत्स्यस्य मुखं भवति रूपतः ।
तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ॥ ४४ ॥
आँभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः ।
स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ॥ ४५ ॥
त्वक्पर्यंन्तस्य देहस्य योऽयमङ्गविनिश्चयः । स्त्रिंशत्संख्या दर्शयति — ग्रीवायामिति । १ प्रसृते योनेरभ्यन्तरतः प्रसारिते मूत्र-स्रोतःस्वरूपे द्वे द्वे च योनिमुखाश्रिते बाह्ये गोले इत्यर्थः । २ गर्भच्छिद्रसंश्रिताः = = श्रावर्तत्रयरूपेण गर्भाशयमार्गमाश्रिता इत्यर्थः । ३ पेशीनां स्थानवशान्नानास्वरूपमभिदधाति – तासामिति । वहला = दृढा बहुतरा वा, पेलवा = श्रतिकोमला अल्पा वा । ४ इलचणाः = चिक्कणा स्पर्शसुखा इत्यर्थः । ५ पुंसां मेहनमुष्कयोश्च यास्तिस्रो मांसपेश्यः पूर्वमुक्तास्ताः स्त्रीणां मैइन-मुष्काभावादन्तर्गतं फलं गर्भाशयमावृत्य तिष्ठन्तीत्यर्थः । ६ अन्यत्र = षष्ठसप्तमनव-माध्यायेष्वित्यर्थः । ७ श्रभुग्नः = कुटिलीकृताङ्गः, सङ्कुचिताङ्ग इति यावत् । अभि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 615
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by / शारीरस्थान ation Chennai and eGangotri ४५७ शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ॥ ४६ ॥
तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता ।
शोधयित्वा ' मृतं सम्यग् द्रष्टव्योऽङ्गविनिश्चयः ॥ ४७ ॥
प्रत्यक्षतो हि यद् दृष्टं शास्त्रदृष्टञ्च यद्भवेत् ।
समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ॥ ४८ ॥
तेस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितम वर्षशतिकं निःसृष्टान् पुरीषं पुरुषमवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्क-लकुशशणादीनामन्यतमेनावेष्टिताङ्गप्रत्यङ्गमप्रकाशे देशे कोथयेत् । सम्यक्प्रकुथितं चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुवल्कल-कूर्चानामन्यतमेन शनैः शनैरववर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्य-न्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा ॥ ४ ९ ॥
श्लोकौ चात्र भवतः ।
न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः ।
दृश्यते ज्ञानचक्षुर्भिस्तपञ्चक्षुर्भिरेव च ॥ ५० ॥
शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः ।
दृष्टश्रुताभ्यां सन्देह पोह्याचरेत् क्रियाः ॥ ५१ ॥
इति सुश्रुतसंहितायां शारीरस्थाने शरीरसंख्याव्याकरणशारीरं नाम पञ्चमोऽध्यायः ॥ ५ ॥
मुखः = मातुः पृष्ठाभिमुखः । १ मृतं = शवमित्यर्थः । २ शास्त्रदृष्टाभ्यान्तरशारीरस्य प्रत्यक्षीकरणोपायमाख्याति — तस्मादिति । ३ अन्त्रगतं पुरीषमन्त्रपुरीषम् । ४ अन्यथा मत्स्यादिना भक्षितत्वादसम्पूर्णावयवता स्यादिति भावः । ५ प्रकुथितं = शटितम् । ६ सूक्ष्मतमः परमसूक्ष्मः, ' बालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः ' इति श्रुतिः । विभुः = आत्मा । ७ अव।पोह्य == दूरीकृत्येत्यर्थः । इति सुश्रुतसंहितायाः शारीरस्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 616
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां [ अ ० ६ ४५८ Digitized by Arya Samaj Boundation Chennai and eGangotri
षष्ठोऽध्यायः ।
अथातः प्रत्येक मर्मनिर्देशं शारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सप्तोत्तरं मर्मशतम् 1 । तानि मर्माणि पञ्चात्मकानि भवन्ति । तद्यथा - मांसमैर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि, सन्धिमर्माणि चेति, न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरे के-णान्यानि मर्माणि भवन्ति यस्मान्नोपलभ्यन्ते ॥ ३ ॥
तत्रैकादश मांसमर्माणि, एकचत्वारिंशत् सिरामर्माणि, सप्त-षष्ठोऽध्यायः । १ म्रियते येनाङ्गमुपहते इति मर्म ' सर्वधातुभ्यो मनिन् ' उणादिः, प्रत्येकमेकैकॆषां मर्मणां निर्देशो विवरणं विद्यते यस्मिन्नध्याये तम् । शेषं पूर्ववत् । मर्माणि मांससि • राऽऽदि संश्रितानीति पूर्वाध्याये शरीरसंख्याव्याकरणे एव व्याख्यातुमुचितानि तथा-ऽपि बहुवक्तव्यत्वात्तृथगुच्यन्ते । २ मांसबहुलानि मर्माणि मांसमर्माणीत्यर्थः । एवमेव शैषं व्याख्येयम् । यतो वच्यति - " मर्माणि नाम मांससिरास्नाय्वस्थिसन्धि सन्निपाताः ” ३ एकादश ११ मांसमर्माणि । मनामानि स्थपनी फणे सं ० मनामानि सं ० १ तल हृदयानि ४ २ इन्द्रबस्तीनि ४ स्तनमूले २ गुदम् १ अपस्तम्भौ २ स्तनरोहिते २ अपलापौ ११ हृदयम् एकचत्वारिंशत् ४१ सिरामर्माणि । नाभिः मर्मनामानि II I पार्श्वसन्धी २ नीलधमन्यः वृइत्यौ ४ लोहिताक्षाणि मातृकाः ८ शृङ्गाटकानि अपाङ्गे ऊर्व्यः ४ ४ २ ४१ CÇ - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 617
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by Arya शारीरस्थानम् ।Chennai and eGangotri ४५ ९ विंशतिः स्नायुमर्माणि, अष्टावस्थिमर्मारिण, विंशतिः सन्धिमर्माणि चेति । तदेतत् सप्तोत्तरं मर्मशतम् ॥ ४ ॥
तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ॥ ५ ॥
तत्र सक्थिमर्माणि क्षिप्रेत लहृदय कूर्चकूचं शिरोगुल्फेन्द्रबस्ति-जान्वाण्यूर्वीलोहिताक्षाणि विटपं चेति । एतेनेतरत् सक्थि व्या-ख्यातम् । उदरोरसोस्तु गुदवस्तिनाभिहृदयस्तनमूलस्तन रोहितापला-पान्यपस्तम्भौ चेति । पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपा-र्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति । बाहुमर्माणि तु क्षिप्रतलहृद-यकूर्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूर्पराण्यूर्वी लोहिताक्षाणि कक्षधरं सप्तविंशतिः २७ स्नायुमर्माणि । मनामानि मर्मनामानि आप्यः सं ४ अंसफलके २ २ विटपौ २ कक्षधरौ २ कूर्चा: कूर्चशिरांसि ४ ८ विंशतिः २० सन्धिमर्माणि । मर्मनामानि सं ० बस्तिः १ जानुनी २ क्षिप्राणि ४ कूर्परी २ अंसौ २ विधुरे २ सीमन्ताः श्रधिपतिः ५ , उत्क्षेपौ २ गुल्फौ २ मणिबन्धौ २ २७ अष्टौ ८ अस्थिमर्माणि । कुकुन्दरे मर्मनामानि आवर्ती २ सं ० कटीकतरुणे काटि २ २ नितम्बौ २ २० १ क्षिप्रादीनां मर्मणां लक्षणमग्रे वचयति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 618
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां mali and eGangotri ४६० Digitized by Arya Samaj Boundation [ अ ० ६ चेति । एतेनेतरो बाहुर्व्याख्यातः । जत्रुण ऊर्ध्वं मर्माणि चतस्रो धम-न्योऽष्टौ मातृका द्वे कृकाटिके हे विधुरे े द्व फणे द्वावपाङ्गौ द्वावा-वर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ॥ ६ ॥
तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलध-मनीमातृकाशृङ्गाटकापाङ्गस्थपनी फणस्तनमूलापलापापस्तम्भहृदय-नाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिराममणि, आणीविटप-कक्षधरकूर्च कूर्च शिरोवस्तिक्षिप्रांसविधुरोत्क्षेपाः नामर्माणि कटीकत रुणनितम्बांस फलकशास्त्वस्थिमर्माणि जानुकूर्परसीम-न्ताधिपतिगुल्फमणिबन्ध कुकुन्दरावर्त्तकृका टिकाश्चेति सन्धिम-र्माणि ॥ ७ ॥
तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति । तद्यथा- - सद्यः-प्राणहराणि, कालान्तरप्राणहराणि विशल्यघ्नानि, वैकल्यकरारिण, रुजाकराणीति । तत्र सद्यः प्राणहराण्ये कोनविंशतिः, कालान्तरप्रा-णहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिशद्वैकल्य-कराणि, अष्टौ रुजाकराणीति ॥ ८ ॥
भवन्ति चात्र ।
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठँसिरा गुदम् ।
हृदयं बस्तिनाभी च घ्नन्ति सद्योहतानि तु ॥ ९ ॥
वक्षोमर्माणि सीमन्ततलैक्षिप्रन्द्रवस्तयः ।
कटीकतरुणे सन्धी पार्श्वजौ बृहती च या ॥। १० ॥
१ तलहृदयादिसंज्ञकादीनां मांसादिमर्मणां पृथक् पृथक् संख्याः प्राक् चतुर्थगद्ये प्रदर्शिताः । २ यद्यपि सद्यःशब्दस्तत्क्षणवाची, तथाऽप्यत्र सप्तरात्रपरकोऽयम् । एकोनविंशत्यादिकाः संख्या नामानुसारेण पूर्वप्रदर्शिततत्तन्मर्म संख्यातोऽवसेयाः । कालान्तरशब्देन पक्षो मासश्च बोध्यत इत्यग्रे व्यक्तीभविष्यति निर्हृतशल्यं घ्नन्तीति विशल्यघ्नानि । ३ सद्यःप्राणहरादीनि मर्माणि दर्शयति = शृङ्गाटकानीत्यादिना । ४ कण्ठ सिराः = मातृकाः, ताश्चाष्टौ । ५ तलानि = तलहृदयानि तानि चत्वारि । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 619
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ' शारीरस्थानम् Thenne
- नितम्बाविति चैतानि कालान्तरहराणि तु ।
उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ॥ ११ ॥
लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः ।
कुकुन्द रे कक्षधरे विधुरे सकृकाटिके ॥ १२ ॥
अंसांसफलकापाङ्गा नोले मन्ये फणे तथा ।
वैकल्यकरणान्याहुरावत द्वौ तथैव च ॥ १३ ॥
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च । रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् । ४६१ क्षिप्राणि विद्वमात्राणि घ्नन्ति कालान्तरेण च ॥ १४ ॥
मर्माणि नाम मांससिरास्नाय्वस्थिसन्धिसन्निपाताः । तेषु स्वभावत एव विशेषेण प्राणस्तिष्ठन्ति । तस्मान्मर्मस्वभिहतास्तां-स्तान् भावानापद्यन्ते ॥ १५ ॥
तत्रं सद्यःप्राणाहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षप-यन्ति । कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्यप्रा-हराणि वायव्यानि शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति ताव-जीवति, उद्घृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवति उत्धृतशल्यो म्रियते पाकात्पतितशल्यो वा जीवति । वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति, रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेष-तश्च " तौ रुजाकरौ, पाञ्चभौतिकीं च रुजामाहुरेके ॥ १६ ॥
केचिंदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां च सम-१ मांसादीनां यथा सम्भवं व्यस्तसमस्तरूपेण मेलनं सन्निपातः । २ प्राणाः = अग्नीषोमादयः । ३ इन्द्रियाणां स्वस्वविषयाग्रहणमनोबुद्धिविपर्यय विविधवेदनाऽऽदि-कान् भावानित्यर्थः । ४ मर्मणां सद्यः प्राणहरादिकर्मविशेषाः कथं भवन्तीति दर्श-यति - तत्रेति । आग्नेयानि = अग्निगुणभूयिष्ठानीत्यर्थः । एवमन्यत्रापि बोध्यम् । ५ तौ = श्रग्निवायू । ६ सद्यःप्राणहरादिकर्मविशेषस्य मतान्तरीयां व्यवस्थां निर्दिशति — केचिदिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 620
पाठ पढ़ें पाठ छिपाएँ
४६२ Digitized by Arya Sama सुश्रुत संहितायां and eGangotri [ अ ० ६ वार्यात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा कालान्तरप्राण-हरारिण, द्विहीनानां विशल्यप्राणहराणि त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति नैवं यतोऽस्थिमर्मस्वभिहतेषु शोणिताग-मनं भवति ॥ १७ ॥
भवन्ति चात्र ।
चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता ममसु सन्निविष्टाः ।
स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतिपालयन्ति ॥ १८ ।
ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति ।
विवर्द्धमानस्तु स मातरिश्वा रुजः सुतीत्राः प्रतनोति काये ॥ १ ९ ॥
रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा ।
अतो हि शल्यं विनिहर्त्तमिच्छन मर्माणि यत्नेन परीक्ष्य कर्पेत् ॥
एतेन शेषं व्याख्यातम् ॥। २१ ॥
तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्त-वैकल्य-रप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यप्राणहरं च, करं कालान्तरं क्लेशयति रुजां च करोति, रुजाकरमतीव्रवेदनं भवति ॥ २२ ॥
“ तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति, कालान्त-रप्राणहराणि पक्षान्मासाद्वा, तेष्वपि क्षिप्राणि कदाचिदाशु मार-यन्ति विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि १ गुदवस्तिनाभिहृदयेषु सद्यः प्राणहरमर्मस्वस्थिन अव्यक्तेष्वपि अव्यक्तास्थनां शक्त्या पश्चानां समवायोऽस्त्येवेति न दोषः । २ शोणितागमनं रक्तदर्शनं भवति, अतः प्रत्यक्षप्रमाणान्मांसादीनि सर्वाणि सर्वत्र मर्मणि भवन्तीति बोद्धयम् । ३ सि · राणां स्नाय्वस्थिमांससन्धिगतत्वमुपसंहरति- चतुर्विधा इति । चतुर्विधाः = वातपित्त-कफरक्तवद्दाः । ४ शल्योद्धरणे मर्मणां यत्नेन रक्षाकरणार्थमुपदिशति - तत इति । ५ श्रभिस्तृणोति = श्राच्छादयति । ६ प्रलीयते = शरीरयन्त्रं विघट्ट्यति । ७ क र्धेत् = बहिर्निष्कासयेदित्यर्थः । ८ अन्ते = समीपे, मध्ये विद्धं तु सद्य एव मारय-तीति तात्पर्यम् । ९ सद्यःप्राणहरादिमर्मणा मारणे कालावधिमभिधत्ते — तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar