सुश्रुत संहिता चौखम्बा — पृष्ठ 611–620

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 611–620

पृष्ठ 611

सुश्रुत संहिता चौखम्बा, पृष्ठ 611 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by A शाश्वे रुकथवनक् Chennai and eGangotri ४५३

शाखासु हेन्वोः कटयां च चेष्टावन्तस्तु सन्धयः ।

शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः ॥ २४ ॥

सङ्ख्यातस्तु दशोत्तरे द्वे शते । तेषां शाखास्वष्टषष्टिः, एकोन-षष्टिः कोष्ठे, ग्रीवां प्रत्यध्व व्यशीतिः । एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः, द्वावङ्गुष्ठे, ते चतुदश । जानुगुल्फवङक्षणेष्वेकैकः, एवं सप्तदशैकक-स्मिन् सक्थिन भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ । त्रयः कटीकपालेषु, चतुर्विंशतिः पृष्ठवंशे, तावन्त एव पार्श्वयोः उरस्यष्टौ । तान्त एव ग्रीवायां 9 त्रयः कण्ठे, नाडीषु हृदयक्लोम निबद्धास्वष्टादश, दन्तपरिमाणा दन्तमूलेषु, एकः कालके नासायांच, द्वौ वर्त्ममण्ड • लजौ नेत्राश्रयौ, गण्डकर्णशङ्खेष्वेकैकः द्वौ हनुसन्धी, द्वावुप-रिष्टाद् भ्रुवोः शङ्खयोश्च पञ्च शिरःकपालेषु, एको मूर्ध्नि ॥ २६ ॥

त एते सन्धयोऽष्टविधा: -- कोरोलूखल सामुद्गप्रतर तुन्नसेवनी-वायसतुण्डमण्डलशङ्खावर्ताः । तेषामङ्गुलिमणिबन्धगुल्फजानुकूप-रेषु कोराः सन्धयः, कक्षावङ्क्षगदशने पूलूखलाः, अंसपीठगुदभग-नितम्बेषु सामुद्गाः, ग्रीवापृष्ठवंशयोः प्रतराः, शिरःकटीकपालेषु तुन्न-दर्शयति - सन्धयस्त्विति । १ हन्वोः = हनुमूलयोः, कट्यां चेति चकाराद् ग्रीवाया-मपि चेष्टावन्तश्चला इत्यर्थः । २ ' एकोननवतिः कोष्ठे, ग्रीवां प्रत्यूर्ध्व त्रिपञ्चाशत् ' इति हाराणचन्द्रः । ३ शाखास्वष्टषष्टिं विवृणोति - एकैकस्यामिति । ४ कोष्ठगता. नाह - त्रय इति । ५ ग्रीवोर्ध्वगतानाह -- -- तावन्त त इति । तावन्तः = श्रष्टावित्यर्थः । ६ काकलके = घण्टिकायामित्यर्थः । ७ शङ्खयोश्चोपरिष्टाद् द्वावित्यर्थः । तदुक्तं तन्त्रान्तरे - " ग्रीवास्वष्टौ त्रयः कण्ठे कण्ठनाडयां नवद्वयम् । वत्ममण्डलगण्डाकर्णशङ्खहनुद्वये ॥ भ्रू शङ्खद्वितयस्योर्ध्व सप्तस्वेषु द्वयं द्वयम् । कपाले पञ्च मूयेको नासाकाकलयोर्द्वयम् । द्वात्रिंशता त्र्यशीतिः स्यादॆवं दन्ताश्रितैः सह ॥ ” इति । = कोरः = गर्तः, कपाटादिनिबन्धनार्थो यन्त्रभेद ‘ कबजा ’ इत्याख्यायत इति सुश्रुतार्थसन्दीपनम् । उलूखलः प्रसिद्ध:, समुद्गः सम्पुट:, समुद्र एव सामुद्गः, प्रतरत्यनेनेति प्रतरः वेलकः, छिन्नानामल्पं सेवनं स्यूतं तुन्न-सेवनी, तूणसेवनीति नामान्तरम्, तत्र तूणस्य तूणीरस्येव सेवनीत्यर्थो बोध्यः । वाय-सतुण्डं काकमुखम्, मण्डल: गोलः, शङ्खस्यावर्तः शङ्खावर्तः, एते यथानामप्रकृतयः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 612

सुश्रुत संहिता चौखम्बा, पृष्ठ 612 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५४ Digitized by Arya Samaj त्सुश्रुतसहिताया and eGangotri [ अ ०५ सेवन्यः, नोरुभयतस्तु वायसतुण्डः, कण्ठहृदयनेत्रक्लोमे॑नाडीषु मण्डलाः, श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ॥ २७ ॥

अस्थनां तु सन्धयो ह्येते केवलाः परिकीर्त्तिताः ।

पेशी॒स्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते ॥ २८ ॥

नव स्नायुशतानि । तासां शाखासु षट्शतानि, द्वे शते त्रिंशच्च कोष्ठे, ग्रीवां प्रत्यूध्व सप्ततिः । एकैकस्यान्तु पादाङ्गुल्यां षट् निचि-ताः, तास्त्रिंशत् तावत्य एव तलकूर्चगुल्फेषु तावत्य एव जङ्घायाम्, दश जानुनि चत्वारिंशदूरौ, दश वक्षणे, शतमध्यर्द्धमेवमेक-स्मिन् सक्थ्नि भवन्ति । एतेनतरसक्थि बाहू च व्याख्यातौ । पैंष्टिः कट्याम्, पृष्ठेऽशीतिः, पार्श्वयोः षष्टिः, उरसि त्रिंशत्, * टत्रिंशद् ग्रीवायाम्, मूर्ध्नि चतुस्त्रिंशत् । एवं नव स्नायुशतानि व्याख्यातानि ॥ २ ९ ॥ भवन्ति चात्र ।

स्नायूचतुर्विधा विद्यात्तास्तु सर्वा निबोध मे ।

प्रतीनवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ॥ ३० ॥

प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ ।

वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह ॥ ३१ ॥

आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु ।

पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥ ३२ ॥

सन्धयो बोध्याः । १ फुप्फुस नाडीष्विति पाठान्तरम् । श्वासनाढीष्विति तदर्थः । २ स्नायूनां स्वरूपादिकमाद्द तन्त्रान्तरे - " स्नायत्रः सूत्रवत्सूक्ष्माः शुभ्रा निखिलदेहगाः । कारणानि चेतनानां सदा चैतन्यसाधने ॥ सुखदुःखावबोधे च प्रवृत्तौ च निवर्तने ॥ " इत्यादि । ३ शाखासु षट्शतानि स्नायुसंख्या दर्शयति - एकैकस्यामिति । ४ त्रिंश-दधिकद्विशतं कोष्ठगताः स्नायु संख्या दर्शयति- षष्टिरिति । ५ ग्रीवोर्ध्वगताः सप्तति-स्नायुसंख्या आह - पडिति । ६ प्रतानवत्यः = शाखा प्रशाखभिविस्तारवत्यः । ७ शुषिराः = सच्छिद्राः । ८ कण्डराः = स्थूलाः स्नायवः, ता श्रपि शाखासु सर्व-सन्धिषु चेति सम्बन्धः । ९ पृथुला: – पृथुलसंज्ञका इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 613

सुश्रुत संहिता चौखम्बा, पृष्ठ 613 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by Arya Bambeidh Chennai and eGangotri नौर्यथा फलेकास्ती बन्धनैर्बहुभिर्युता ।: भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ॥ ३३ ॥

एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ।

स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ॥ ३४ ॥

न स्थीनि न वा पेश्यो न सिरा न च सन्धयः ।

व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ॥। ३५ ॥

यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा । ४५५ स गूढं शल्यमाहर्त्तु देहाच्छक्नोति देहिनाम् ॥ ३६ ॥

पञ्च पेशीशतानि भवन्ति । तासां चत्वारि शतानि शाखासु, कोष्ठे पट्षष्टिः, ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत् । एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश, दश प्रपदे, पादोपरि कूर्चसन्निविष्टास्तावत्य एव, दश गुल्फतलयोः, गुल्फजान्वन्तरे विंशतिः, पञ्च जानुनि, विंशतिरूरौ, दश वक्षणे, शतमेवमेकस्मिन् सक्थ्ति भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ । तिस्रः 8 पायौ, एका मेढे, सेव-न्यां चापरा, द्वे वृषणयो:, स्फिचोः पञ्च पञ्च, द्वे बस्तिशिरसि, पञ्चोदरे, नाभ्यामेका, पृष्ठेोर्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः, पट् पार्श्वयोः, दश वक्षसि, अक्षकांसौ प्रति समन्तात् सप्त, द्वे हृदया-माशययोः, षट् यकृत्प्लोहोण्डुकेषु, ग्रीवायां चतस्रः, अष्टौ हन्वोः, एकैका काकलकगलयोः, द्वे तालुनि, एका जिह्वायाम्, ओष्ठयोर्द्व, नासायां द्वे, द्वे नेत्रयोः, गण्डयोश्चतस्रः, कर्णयोर्छे, चतस्रो ललाटे, एका शिरसीति । एवमेतानि पञ्च पेशीशतानि ॥ ३७ ॥

भवति चात्र । सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम् । १ फलकैः काष्ठपट्ट्ः आस्तीर्णा व्याप्तेत्यर्थः । २ “ पञ्चपेशीशतान्येव स्त्रीवर्जे विद्धि भूमिप । श्रतश्च तिस्रो हीयन्ते स्त्रीणां शेफसि मुष्कयोः ॥ ” इति भोजवचनं सुश्रु-तविरोधादुपेक्ष्यम्, यतः शिश्नमुष्कगतानां तिसृणां पेशीनां तस्या गर्भाशयेऽवस्थानॆन पञ्चशतसंख्यापूरणात् । ३ शाखासु पेशीनां चतुः शतसंख्या दर्शयति - एकैकस्या-मिति । ४ कोष्ठगतषट्षष्टिसंख्या निर्दिशति - तिस्र इति । ५ ग्रीवोर्ध्वगतचतु-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 614

सुश्रुत संहिता चौखम्बा, पृष्ठ 614 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४५६ Digitized by Arya Sama सुश्रुतसंहिताय arand eGangotri --[ अ ०५ पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ॥ ३८ ॥

स्त्रीणां तु विंशतिरधिका । दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति यौवने तासां परिवृद्धिः । अपत्यपथे चतस्रः – तासां प्रेसृतेऽ भ्यन्तरतो द्वे, मुखाश्रिते बाह्ये च वृत्ते द्वे, गर्भच्छिद्र संश्रितास्तिस्रः, शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव । पित्तपक्वाशययोर्मध्ये गर्भशय्या, यत्र गर्भस्तिष्ठति ॥ ३ ९ ॥ ' तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्क-शभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति ॥ ४० ॥

भवति चात्र ।

" पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः ।

स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥ ४१ ॥

मर्मसिराधमनीस्रोतसामन्यंत्र प्रविभागः ॥ ४२ ॥

शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा प्रकीर्तिता ।

तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ॥ ४३ ॥

यथा रोहितमत्स्यस्य मुखं भवति रूपतः ।

तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ॥ ४४ ॥

आँभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः ।

स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ॥ ४५ ॥

त्वक्पर्यंन्तस्य देहस्य योऽयमङ्गविनिश्चयः । स्त्रिंशत्संख्या दर्शयति — ग्रीवायामिति । १ प्रसृते योनेरभ्यन्तरतः प्रसारिते मूत्र-स्रोतःस्वरूपे द्वे द्वे च योनिमुखाश्रिते बाह्ये गोले इत्यर्थः । २ गर्भच्छिद्रसंश्रिताः = = श्रावर्तत्रयरूपेण गर्भाशयमार्गमाश्रिता इत्यर्थः । ३ पेशीनां स्थानवशान्नानास्वरूपमभिदधाति – तासामिति । वहला = दृढा बहुतरा वा, पेलवा = श्रतिकोमला अल्पा वा । ४ इलचणाः = चिक्कणा स्पर्शसुखा इत्यर्थः । ५ पुंसां मेहनमुष्कयोश्च यास्तिस्रो मांसपेश्यः पूर्वमुक्तास्ताः स्त्रीणां मैइन-मुष्काभावादन्तर्गतं फलं गर्भाशयमावृत्य तिष्ठन्तीत्यर्थः । ६ अन्यत्र = षष्ठसप्तमनव-माध्यायेष्वित्यर्थः । ७ श्रभुग्नः = कुटिलीकृताङ्गः, सङ्कुचिताङ्ग इति यावत् । अभि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 615

सुश्रुत संहिता चौखम्बा, पृष्ठ 615 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by / शारीरस्थान ation Chennai and eGangotri ४५७ शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ॥ ४६ ॥

तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता ।

शोधयित्वा ' मृतं सम्यग् द्रष्टव्योऽङ्गविनिश्चयः ॥ ४७ ॥

प्रत्यक्षतो हि यद् दृष्टं शास्त्रदृष्टञ्च यद्भवेत् ।

समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ॥ ४८ ॥

तेस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितम वर्षशतिकं निःसृष्टान् पुरीषं पुरुषमवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्क-लकुशशणादीनामन्यतमेनावेष्टिताङ्गप्रत्यङ्गमप्रकाशे देशे कोथयेत् । सम्यक्प्रकुथितं चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुवल्कल-कूर्चानामन्यतमेन शनैः शनैरववर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्य-न्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा ॥ ४ ९ ॥

श्लोकौ चात्र भवतः ।

न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः ।

दृश्यते ज्ञानचक्षुर्भिस्तपञ्चक्षुर्भिरेव च ॥ ५० ॥

शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः ।

दृष्टश्रुताभ्यां सन्देह पोह्याचरेत् क्रियाः ॥ ५१ ॥

इति सुश्रुतसंहितायां शारीरस्थाने शरीरसंख्याव्याकरणशारीरं नाम पञ्चमोऽध्यायः ॥ ५ ॥

मुखः = मातुः पृष्ठाभिमुखः । १ मृतं = शवमित्यर्थः । २ शास्त्रदृष्टाभ्यान्तरशारीरस्य प्रत्यक्षीकरणोपायमाख्याति — तस्मादिति । ३ अन्त्रगतं पुरीषमन्त्रपुरीषम् । ४ अन्यथा मत्स्यादिना भक्षितत्वादसम्पूर्णावयवता स्यादिति भावः । ५ प्रकुथितं = शटितम् । ६ सूक्ष्मतमः परमसूक्ष्मः, ' बालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः ' इति श्रुतिः । विभुः = आत्मा । ७ अव।पोह्य == दूरीकृत्येत्यर्थः । इति सुश्रुतसंहितायाः शारीरस्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । -CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 616

सुश्रुत संहिता चौखम्बा, पृष्ठ 616 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां [ अ ० ६ ४५८ Digitized by Arya Samaj Boundation Chennai and eGangotri

षष्ठोऽध्यायः ।

अथातः प्रत्येक मर्मनिर्देशं शारीरं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सप्तोत्तरं मर्मशतम् 1 । तानि मर्माणि पञ्चात्मकानि भवन्ति । तद्यथा - मांसमैर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि, सन्धिमर्माणि चेति, न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरे के-णान्यानि मर्माणि भवन्ति यस्मान्नोपलभ्यन्ते ॥ ३ ॥

तत्रैकादश मांसमर्माणि, एकचत्वारिंशत् सिरामर्माणि, सप्त-षष्ठोऽध्यायः । १ म्रियते येनाङ्गमुपहते इति मर्म ' सर्वधातुभ्यो मनिन् ' उणादिः, प्रत्येकमेकैकॆषां मर्मणां निर्देशो विवरणं विद्यते यस्मिन्नध्याये तम् । शेषं पूर्ववत् । मर्माणि मांससि • राऽऽदि संश्रितानीति पूर्वाध्याये शरीरसंख्याव्याकरणे एव व्याख्यातुमुचितानि तथा-ऽपि बहुवक्तव्यत्वात्तृथगुच्यन्ते । २ मांसबहुलानि मर्माणि मांसमर्माणीत्यर्थः । एवमेव शैषं व्याख्येयम् । यतो वच्यति - " मर्माणि नाम मांससिरास्नाय्वस्थिसन्धि सन्निपाताः ” ३ एकादश ११ मांसमर्माणि । मनामानि स्थपनी फणे सं ० मनामानि सं ० १ तल हृदयानि ४ २ इन्द्रबस्तीनि ४ स्तनमूले २ गुदम् १ अपस्तम्भौ २ स्तनरोहिते २ अपलापौ ११ हृदयम् एकचत्वारिंशत् ४१ सिरामर्माणि । नाभिः मर्मनामानि II I पार्श्वसन्धी २ नीलधमन्यः वृइत्यौ ४ लोहिताक्षाणि मातृकाः ८ शृङ्गाटकानि अपाङ्गे ऊर्व्यः ४ ४ २ ४१ CÇ - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 617

सुश्रुत संहिता चौखम्बा, पृष्ठ 617 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Arya शारीरस्थानम् ।Chennai and eGangotri ४५ ९ विंशतिः स्नायुमर्माणि, अष्टावस्थिमर्मारिण, विंशतिः सन्धिमर्माणि चेति । तदेतत् सप्तोत्तरं मर्मशतम् ॥ ४ ॥

तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ॥ ५ ॥

तत्र सक्थिमर्माणि क्षिप्रेत लहृदय कूर्चकूचं शिरोगुल्फेन्द्रबस्ति-जान्वाण्यूर्वीलोहिताक्षाणि विटपं चेति । एतेनेतरत् सक्थि व्या-ख्यातम् । उदरोरसोस्तु गुदवस्तिनाभिहृदयस्तनमूलस्तन रोहितापला-पान्यपस्तम्भौ चेति । पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपा-र्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति । बाहुमर्माणि तु क्षिप्रतलहृद-यकूर्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूर्पराण्यूर्वी लोहिताक्षाणि कक्षधरं सप्तविंशतिः २७ स्नायुमर्माणि । मनामानि मर्मनामानि आप्यः सं ४ अंसफलके २ २ विटपौ २ कक्षधरौ २ कूर्चा: कूर्चशिरांसि ४ ८ विंशतिः २० सन्धिमर्माणि । मर्मनामानि सं ० बस्तिः १ जानुनी २ क्षिप्राणि ४ कूर्परी २ अंसौ २ विधुरे २ सीमन्ताः श्रधिपतिः ५ , उत्क्षेपौ २ गुल्फौ २ मणिबन्धौ २ २७ अष्टौ ८ अस्थिमर्माणि । कुकुन्दरे मर्मनामानि आवर्ती २ सं ० कटीकतरुणे काटि २ २ नितम्बौ २ २० १ क्षिप्रादीनां मर्मणां लक्षणमग्रे वचयति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 618

सुश्रुत संहिता चौखम्बा, पृष्ठ 618 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां mali and eGangotri ४६० Digitized by Arya Samaj Boundation [ अ ० ६ चेति । एतेनेतरो बाहुर्व्याख्यातः । जत्रुण ऊर्ध्वं मर्माणि चतस्रो धम-न्योऽष्टौ मातृका द्वे कृकाटिके हे विधुरे े द्व फणे द्वावपाङ्गौ द्वावा-वर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ॥ ६ ॥

तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलध-मनीमातृकाशृङ्गाटकापाङ्गस्थपनी फणस्तनमूलापलापापस्तम्भहृदय-नाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिराममणि, आणीविटप-कक्षधरकूर्च कूर्च शिरोवस्तिक्षिप्रांसविधुरोत्क्षेपाः नामर्माणि कटीकत रुणनितम्बांस फलकशास्त्वस्थिमर्माणि जानुकूर्परसीम-न्ताधिपतिगुल्फमणिबन्ध कुकुन्दरावर्त्तकृका टिकाश्चेति सन्धिम-र्माणि ॥ ७ ॥

तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति । तद्यथा- - सद्यः-प्राणहराणि, कालान्तरप्राणहराणि विशल्यघ्नानि, वैकल्यकरारिण, रुजाकराणीति । तत्र सद्यः प्राणहराण्ये कोनविंशतिः, कालान्तरप्रा-णहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिशद्वैकल्य-कराणि, अष्टौ रुजाकराणीति ॥ ८ ॥

भवन्ति चात्र ।

शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठँसिरा गुदम् ।

हृदयं बस्तिनाभी च घ्नन्ति सद्योहतानि तु ॥ ९ ॥

वक्षोमर्माणि सीमन्ततलैक्षिप्रन्द्रवस्तयः ।

कटीकतरुणे सन्धी पार्श्वजौ बृहती च या ॥। १० ॥

१ तलहृदयादिसंज्ञकादीनां मांसादिमर्मणां पृथक् पृथक् संख्याः प्राक् चतुर्थगद्ये प्रदर्शिताः । २ यद्यपि सद्यःशब्दस्तत्क्षणवाची, तथाऽप्यत्र सप्तरात्रपरकोऽयम् । एकोनविंशत्यादिकाः संख्या नामानुसारेण पूर्वप्रदर्शिततत्तन्मर्म संख्यातोऽवसेयाः । कालान्तरशब्देन पक्षो मासश्च बोध्यत इत्यग्रे व्यक्तीभविष्यति निर्हृतशल्यं घ्नन्तीति विशल्यघ्नानि । ३ सद्यःप्राणहरादीनि मर्माणि दर्शयति = शृङ्गाटकानीत्यादिना । ४ कण्ठ सिराः = मातृकाः, ताश्चाष्टौ । ५ तलानि = तलहृदयानि तानि चत्वारि । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 619

सुश्रुत संहिता चौखम्बा, पृष्ठ 619 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ' शारीरस्थानम् Thenne

- नितम्बाविति चैतानि कालान्तरहराणि तु ।

उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ॥ ११ ॥

लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः ।

कुकुन्द रे कक्षधरे विधुरे सकृकाटिके ॥ १२ ॥

अंसांसफलकापाङ्गा नोले मन्ये फणे तथा ।

वैकल्यकरणान्याहुरावत द्वौ तथैव च ॥ १३ ॥

गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च । रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् । ४६१ क्षिप्राणि विद्वमात्राणि घ्नन्ति कालान्तरेण च ॥ १४ ॥

मर्माणि नाम मांससिरास्नाय्वस्थिसन्धिसन्निपाताः । तेषु स्वभावत एव विशेषेण प्राणस्तिष्ठन्ति । तस्मान्मर्मस्वभिहतास्तां-स्तान् भावानापद्यन्ते ॥ १५ ॥

तत्रं सद्यःप्राणाहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षप-यन्ति । कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्यप्रा-हराणि वायव्यानि शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति ताव-जीवति, उद्घृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवति उत्धृतशल्यो म्रियते पाकात्पतितशल्यो वा जीवति । वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति, रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेष-तश्च " तौ रुजाकरौ, पाञ्चभौतिकीं च रुजामाहुरेके ॥ १६ ॥

केचिंदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां च सम-१ मांसादीनां यथा सम्भवं व्यस्तसमस्तरूपेण मेलनं सन्निपातः । २ प्राणाः = अग्नीषोमादयः । ३ इन्द्रियाणां स्वस्वविषयाग्रहणमनोबुद्धिविपर्यय विविधवेदनाऽऽदि-कान् भावानित्यर्थः । ४ मर्मणां सद्यः प्राणहरादिकर्मविशेषाः कथं भवन्तीति दर्श-यति - तत्रेति । आग्नेयानि = अग्निगुणभूयिष्ठानीत्यर्थः । एवमन्यत्रापि बोध्यम् । ५ तौ = श्रग्निवायू । ६ सद्यःप्राणहरादिकर्मविशेषस्य मतान्तरीयां व्यवस्थां निर्दिशति — केचिदिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 620

सुश्रुत संहिता चौखम्बा, पृष्ठ 620 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६२ Digitized by Arya Sama सुश्रुत संहितायां and eGangotri [ अ ० ६ वार्यात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा कालान्तरप्राण-हरारिण, द्विहीनानां विशल्यप्राणहराणि त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति नैवं यतोऽस्थिमर्मस्वभिहतेषु शोणिताग-मनं भवति ॥ १७ ॥

भवन्ति चात्र ।

चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता ममसु सन्निविष्टाः ।

स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतिपालयन्ति ॥ १८ ।

ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति ।

विवर्द्धमानस्तु स मातरिश्वा रुजः सुतीत्राः प्रतनोति काये ॥ १ ९ ॥

रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा ।

अतो हि शल्यं विनिहर्त्तमिच्छन मर्माणि यत्नेन परीक्ष्य कर्पेत् ॥

एतेन शेषं व्याख्यातम् ॥। २१ ॥

तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्त-वैकल्य-रप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यप्राणहरं च, करं कालान्तरं क्लेशयति रुजां च करोति, रुजाकरमतीव्रवेदनं भवति ॥ २२ ॥

“ तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति, कालान्त-रप्राणहराणि पक्षान्मासाद्वा, तेष्वपि क्षिप्राणि कदाचिदाशु मार-यन्ति विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि १ गुदवस्तिनाभिहृदयेषु सद्यः प्राणहरमर्मस्वस्थिन अव्यक्तेष्वपि अव्यक्तास्थनां शक्त्या पश्चानां समवायोऽस्त्येवेति न दोषः । २ शोणितागमनं रक्तदर्शनं भवति, अतः प्रत्यक्षप्रमाणान्मांसादीनि सर्वाणि सर्वत्र मर्मणि भवन्तीति बोद्धयम् । ३ सि · राणां स्नाय्वस्थिमांससन्धिगतत्वमुपसंहरति- चतुर्विधा इति । चतुर्विधाः = वातपित्त-कफरक्तवद्दाः । ४ शल्योद्धरणे मर्मणां यत्नेन रक्षाकरणार्थमुपदिशति - तत इति । ५ श्रभिस्तृणोति = श्राच्छादयति । ६ प्रलीयते = शरीरयन्त्रं विघट्ट्यति । ७ क र्धेत् = बहिर्निष्कासयेदित्यर्थः । ८ अन्ते = समीपे, मध्ये विद्धं तु सद्य एव मारय-तीति तात्पर्यम् । ९ सद्यःप्राणहरादिमर्मणा मारणे कालावधिमभिधत्ते — तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar