सुश्रुत संहिता चौखम्बा — पृष्ठ 621–630
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 621–630
पृष्ठ 621
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized on, Chennai and eGangotri
by Arya झाशीपस्थानम् । ४६३
मारयन्ति ॥ २३ ॥
अत ऊर्ध्वं प्रत्येकशो मर्मस्थानानि व्याख्यास्यामः -तत्र, पाद-स्याङ्गुष्ठाङ्गुल्योर्मध्ये॒ ति॑िप्रं नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणम् । मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलैहृदयं नाम, तत्रापि रुजाभिर्मरणम् । क्षिप्रस्योपरिष्टादुभयतः कूर्चे नाम, तत्र पादस्य भ्रमणवेपने भवतः । गुल्फसन्धेरध उभयतः कूर्चशिंरो नाम, तत्र रुजाशोफौ । पादजङ्घयोः सन्धाने गुल्फो नाम, तत्र रुजः स्तब्ध-पादता खञ्जता वा । पाणि प्रतिजङ्घामध्ये इन्द्रबस्तिर्नाम, तत्र शोणितक्षयेण मरणम् । जङ्घोर्वोः सन्धाने जानुं नाम, तत्र खञ्जता । जानुन ऊर्ध्वमुभयतस्त्र्यङ्गुलमणी नाम, तत्र शोफाभिवृद्धिः स्त-ब्धसक्थिता च । ऊरुमध्ये ऊर्वी नाम, तत्र शोणितक्षयात् सक्थि-शोषः । ऊर्ध्या ऊर्ध्वमधो वङ्ङ्क्षरणसन्धेरूरुमूले “ लोहिताक्षं नाम, त लोहितक्षयेण पक्षाघातः सक्थिशोषो वा । वङ्ङ्क्षणवृषणयोर-न्तरे " विटपं नाम, तत्र षाण्ठ्यमल्पशुक्रता वा भवति । एवमेतानि एकादश सक्थिमर्माणि व्याख्यातानि । एतेनेतरसक्थि बाहू च व्याख्यातौ । विशेषतस्तु यानि सक्थिन गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूर्परकक्षधराणि " । यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धेत एवोपद्रवाः । १ इदं स्नायुमर्म अर्धाङ्गुलं कालान्तरप्राणहरम् । २ इदं मांसममं अर्धाङ्गुलं कालान्तर-प्राणहरम् । ३ ‘ द्वयङ्गुले ' इति शेषः । तदुक्तं वाग्भटे - " तस्योर्ध्वं द्वयङ्गुले कूर्चः ” इति । उभयतः = ऊर्ध्वमधश्च, कूर्च: स्नायुमर्म चतुरङ्गुलं वैकल्यकरम् । ४ इदमपि स्नायुमर्म एकाङ्गुलप्रमाणं वैकल्पकरम् । ५ इदं सन्धिमर्म द्वयङ्गुलप्रमाणं वैकल्यकरम् ॥ ६ इदं मांसमर्म, अर्धाङ्गुलप्रमाणं पाणि प्रति द्वादशाङ्गुले स्थितं कालान्तरप्राणहरम्, भोजमतेऽस्य ७ इदं सन्धिमर्म त्र्यङ्गुलप्रमाणं वैकल्यकरम् । इदमपि प्रमाणं द्व्यङ्गुलम् । स्नायुमर्म अर्धाङ्गुलप्रमाणं वैकल्यकरम् । ९ इदं सिराम एकाङ्गुलप्रमाणं वैकल्य • करम् । १० इदमपि सिरामर्म अर्धाङ्गुलप्रमाणं वैकल्यकरं च । ११ इदं स्नायुमर्म एकाङ्गुलप्रमाणं वैकल्यकरम् । १२ तत्स्थाने बाहौ मणिबन्धकूर्परकक्षधराख्यानि बोद्धया-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 622
पाठ पढ़ें पाठ छिपाएँ
४६४, B Digitized by Arya Samaj सुश्रुतसंहितायां Shehnai and eGangotri [ अ ० ६ विशेषतस्तु मणिबन्धे कुण्ठेता, कूर्पराख्ये कुणिः, कक्षधरे पक्षा-घातः । एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि || २४ || अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यास्यामः – तत्र वातवर्ची-निरेसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणम् । अल्प-मांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिर्नाम, तत्रापि सद्यो -मरणमश्मरीब्रणादृते । तत्राप्युभयतो भिन्ने न जीवति एकतो भिन्ने मूत्रस्रावी व्रणो भवति । स तु यत्नेनोपक्रान्तो रोहति । पक्कामाश-ययोर्मध्ये सिराप्रभवा नाभिर्नाम, तन्त्रापि सद्योमरणम् । स्तनयोर्म-ध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्रापि सद्य एव मरणम् । स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः, स्तन-मूले नाम मर्मणी; तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते । स्तनचूचुकयोरूर्ध्वं द्वचङ्गुलमुभयतः स्तनॅरोहितौ नाम, तत्र लोहित-पूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते । अंसकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणम् । उभयत्रोरसो नाड्यौ वातव हे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठत या कासश्वासाभ्यां च मरणम् । एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि ॥ २५ ॥
नीति तात्पर्यम्। १ कुण्ठता = करस्याकर्मण्यतेत्यर्थः । २ निरसनं = प्रेरकम्, स्थूलान्त्रप्रतिबद्धं = स्थूलान्त्राभिमुखे संसक्तम्, गुदं नाम ममइदं मांस मर्म चतुरङ्गुल. प्रमाणं सद्योमारकं च । ३ “ नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशैफसाम् । एकद्वारस्तनुत्वको मध्ये बस्तिरधो. मुखः ॥ ” इति तन्त्रान्तरीयात् कट्यामिति नाम्यादीनामुपलक्षणम् । मूत्राशयो बस्ति-रिति स्नायुमर्म चतुरङ्गुलं सद्योमारकम् । ४ सिरामर्मेदं चतुरङ्गुलम् । ५ इदमपि सिरामर्म कमलमुकुलाकारमधोमुखं चतुरङ्गुलं च । ६ इमे सिरामर्मणी द्वथङ्गुल-प्रमाणे कालान्तरप्राणहरे च । ७ “ स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलात् स्तनरोहिते । अर्धाङ्गुलमिते मांसमर्मणी परिकीर्तिते ॥ रक्तपूरितकोष्ठस्य कालान्मरणकारिणी ॥ ” इति । ८ सिराममणी अर्धाङ्गुले कालान्तरेण प्राणहरे । ९ इमे श्रपि सिरामर्मणि अर्थाङ्गुलप्रमाणे कालान्तरप्राणहरे च । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 623
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by Ary शारीरस्थानम् Feration । Chennai and Gangotri ४६५ अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामः- तत्र, पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे नाम मर्मणी, तंत्र शोणित-क्षयात् पाण्डुर्विवण हीनरूपश्च म्रियते । पार्श्वजघनबहिर्भागे ` पृष्टवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्मणी, तत्र स्पर्शाज्ञानम-धः काये चेष्टोपघातश्च । श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पाव-न्तरप्रतिबद्धौ नितम्बौ नाम, तत्राधः कायशोषो दौर्बल्याच्च मरणम् । अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूलादृ-जूभयतः पृष्ठवंशस्य बृहत्यौ नाम, तत्र शोणितातिप्रवृत्तिनिमित्तैरु-पद्रवैर्व्रियते । पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिसम्बद्धे अंसफलके नाम, तत्र बाह्वोः स्वापशोषौ । वाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धनिबन्धना-चंसौ नाम, तत्र स्तब्धवाहुता । एवमेतानि चतुर्दश पृष्ठभर्माणि व्याख्यातानि ॥ २६ ॥
अत्र ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः-: - तत्र कण्ठनाडीमु-भयतश्चतस्रो धर्म॑न्यो द्वे नीले द्वे च मन्ये " व्यत्यासेन, तत्र मूकता १ पृष्ठवंशमुभयतः = मेरुदण्डपार्श्वद्वये, प्रतिश्रोणीकाण्डं = श्रोण्याः सव्यापसव्य-भागे, अस्थिनी = अस्थिमर्मणी, अर्धाङ्गुले कालान्तरेण प्राणहरे च । २ पार्श्वयोः = सव्या • पसव्ययोः जघनबहिर्भागे कटयाः पश्चाद्भागे । ३ इमे सन्धिमर्मणी अर्धाङ्गुलप्रमाणे वैं कल्यकरेच । ४ पार्श्वान्तरप्रतिबद्धौ पार्श्वमध्ये प्रतिबद्धौ । श्रीहाराणचन्द्रस्तु— अन्यानि पार्श्वाणि पार्श्वान्तराणि श्रोणिकाण्डगतयोरस्थनोश्चतुष्पार्श्वानीति यावत्, तैर्दृढ-मासक्तौ पार्श्वान्तरप्रतिबद्धौ ऊर्ध्वाधः संयोगसचिव नितम्बौ । अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च । ५ जवनादिति ल्यब्लोपे पञ्चमी, जघनपश्चाद्भागमाश्रित्य स्थितावित्यर्थः । पार्श्व सन्धी सिरामर्मणी अर्धाङ्गुले कालान्तरेण प्राणहरे च । ६ सिरा • मर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च । ७ ग्रीवाया श्रंसद्वयस्य संयोगस्त्रिकस्तत्र सम्बद्धे अंसफलके, अस्थिमर्मणी अर्धाङ्गुले वैकल्यकरे च । - स्नायुमणी अर्धाङ्गुले वैकल्यकरे च । ८ ९ सिरे च धमन्यौ चेति धमन्यः ' विरूपाणामपि समानार्थानाम् ' इत्येकशेषः । सि-राधमन्योः समानार्थता धमनीव्याकरणे व्यक्ती भविष्यति । १० व्यत्यासेन = वैपरी-रीत्येन, अर्थादेकस्मिन् पार्श्वे नीला मन्या, अपरस्मिन् पार्श्वे च नीला मन्येति विभागे-३० CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 624
पाठ पढ़ें पाठ छिपाएँ
४६६ Digitized by Arya Sam सुश्रुतसंहिताय nar and eGangotri [ अ ० ६ स्वरवैकृतमरसग्राहिता च । ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः, तत्र सद्योमरणम् । शिरोग्रीवयोः सन्धाने कृकाटिके नाम, तत्र च-लमूर्द्धता । कर्णष्पृष्ठतोऽधःसंश्रिते विधुरे नाम, तत्र बाधिर्यम् । घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फँणे नाम, तत्र गन्धज्ञानम् । भ्रूपुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम, तत्रान्ध्यं दृष्टचुपघातो वा । भ्रुवोरुपरि निम्नयोरौवत्त नाम, तत्राप्यान्ध्यं दृष्टचुपघातो वा । भ्रुवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्का नाम, तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्त " उत्क्षेपौ नाम, तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः । भ्रुवो-मॅध्ये स्थर्पनी नाम, तत्रोत्क्षेपवत् । पञ्च सन्धयः शिरसि “ विभक्ताः सीमन्ता नाम, तत्रोन्माद्भयचित्तनाशैर्मरणम् । प्राणश्रोत्राक्षि-जिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपात: " शृङ्गाटकानि, तानि चत्वारि मर्माणि, तत्रापि सद्यो मरणम् । मस्तकाभ्यन्तरत उपरिष्टात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः ", तत्रापि सद्य एव । एवमेतानि सप्तत्रिंशदूर्ध्वजत्रु गतानि मर्माणि व्याख्यातानि ॥ २७ ॥
भवन्ति चात्र । " ऊर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गलमितं स्तनपूर्वमूलम् । नैति भावः । सिरामर्मणी चतुरङ्गुले वैकल्यकरे च । १२ II १ एकस्मिन्नेकस्मिन् पार्श्वे -चतस्रश्चतस्र इत्यर्थः । सिरामर्माणि चतुरङ्गुलप्रमाणानि । २ सन्धिमर्मणी अर्धाङ्गुले वैकल्यकरे च । ३ स्नायुमणी किञ्चिन्निम्नाकारे वैकल्यकारिणी च । ४ सिराममणी श्रर्थाङ्गुले वैकल्यकारिणी च । ५ सिराममणी अर्धाङ्गुले वैकल्यकरे च । ६ सन्धि · स्नायुमणी मर्मणी अर्धाङ्गुले वैकल्यकारिणी च । ७ अस्थिमर्मणी अर्धाङ्गुले । अर्धाङ्गुले विशल्यप्राणहरे च । ९ सिराम अर्धाङ्गुलं विशल्यध्नं च । १० विभक्ताः शरीरसंख्याव्याकरणे ते सीमन्ताः सन्धिमर्माणि चतुरङ्गुलप्रमाणानि कालान्तर • प्राणहराणि च । ११ सिरामर्माणि चतुरङ्गुलप्रमाणानि । १२ इदं सन्धिमर्म अर्धा-ङ्गुलप्रमाणं च । १३ सर्वेषां मर्मणां सङ्क्षेपेण मानं दर्शयति – ऊर्व्य इति । कक्षयोः समीपभ-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 625
पाठ पढ़ें पाठ छिपाएँ
I श्र ० ६ ] Digitized by शारीरुथा dation Chennai and _४६७ विद्धयङ्गुलयमितं मणिबन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम् ॥ २८ ॥
हृद्वस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे 1 तानि स्वपाणित लकुञ्चितसम्मितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् ॥ २ ९ ॥ एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम् । पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ॥ ३० ॥
छिन्नेषु ' पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति ।
प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्नशाख तरुवन्निधनं न यान्ति ॥
क्षिप्रेषु तत्रं सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति । एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः ३२ " तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्ध नगुल्फदेशे । मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ३३ जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि । सम्भिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः ३४ छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मपतिता विविधाः प्रहाराः ।
सोर्मंमारुततेजांसि रजःसत्त्वतमांसि च ।
मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ॥ ३५ ॥
मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः । वाभ्यां कक्षधराभ्यां सह वर्तमाने सकक्षपार्श्वे । १ स्वपाणितलकुञ्चितसम्मितानि = मुष्टिप्रमाणानीत्यर्थः । २ करचरणाद्यवयवच्छेदे जीवन्ति तदन्तर्गतमर्मच्छेदे तु म्रियन्त इति विशेषं निदर्शयति- छिन्नेष्विति । ३ तत्र = पाण्योः पादयोर्वा । ४ मर्मसु हता यदि जीवन्ति तदा विकला भवन्तीति दर्शयति - मर्माणीति । ५ श्रमर्मह-तास्तु छेदभेदादिभिरपि न म्रियन्त इति प्रतिपादयति - सम्भिन्नेति । ६ मर्मस्व-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 626
पाठ पढ़ें पाठ छिपाएँ
[ अ ० ७ * ४६८० by Arya Sama सुश्रुतसंहिबा ar and eGangotri इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्ययः ॥ ३६ ॥
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते ।
हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् ॥ ३७ ॥
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति ।
हते वैकल्यजनने केवलं वैद्यनैपुणात् ॥ ३८ ॥
शरीरं क्रियया युक्तं विकुलत्वमवाप्नुयात् ।
विशल्यध्नेषु विज्ञेयं पूर्वोक्तं यच्च कारणम् ॥ ३ ९ ॥
रुजाकराणि मर्माणि क्षतानि विविधा रुजः ।
कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ॥ ४० ॥
छेदभेदाभिघातेभ्यो दहनाद्दाररणादपि ।
उपघातं विजानीयान् मर्मणां तुल्यलक्षणम् ॥। ४१ ॥
मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा ।
प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथ वा म्रियन्ते ॥४२ ॥
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् ।
प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ॥४३ ॥
इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येक मर्मनिर्देशशारीरं नाम षष्टोऽध्यायः ॥६ ॥
सप्तमोऽध्यायः ।
अथातः सिरावर्णविभक्तिं नाम शारीरं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान धन्वन्तरिः ॥ २ ॥
सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमारा-भिहता न जीवन्तीत्यंत्र हेतुमुपपादयति- सोमेति । १ सद्यःप्राणइरादिमर्मपञ्चक · हतस्य लक्षणं ब्रवीति — इन्द्रियार्थेष्विति । २ मर्मसमीपदेशघातेऽप्यनर्थकरं दर्श-ति - छेदेति । ३ मूर्च्छन्ति = समुच्छ्रायं प्राप्नुवन्ति । इति सुश्रुतसंहितायाः शारीरस्थानीयसुधाऽऽख्यटिप्पन्यां षष्ठोऽध्यायः । सप्तमोऽध्यायः । ४ “ मर्मसिरास्नायुधमनीः परिहरन् " इत्यादी मर्मानन्तरं सिराणां निर्देशात् सिरा-वर्णविभागशारीरमारभ्यते । सिराणां वातादिवद्दानां तद्वर्णानां च रक्तनील शुक्ललोहि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 627
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] Digitized by Arya शारीरस्थानम् Fhennai and eGangotri ४६ ९ म इव जलहारिणीभिःः केदार इव च कुल्याभिरुपस्निह्यतेऽनु-गृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः । द्रुमपत्रसेवनीनामिव च तासां प्रतानाः । तासां नाभिर्मूलं, ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च॥३ ॥
भवतश्चात्र ।
यावत्यस्तु सिराः काये सम्भवन्ति शैरीरिणाम् ।
नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ॥ ४ ॥
नाभिस्था प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता ।
सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥ ५ ॥
तासां मूलसिराश्चत्वारिंशत् । तासां वातवाहिन्यो दश, पित्त-वाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः । तासां तु वात-वाहिनीनां वावस्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफ़वाहिन्यश्च कफस्थाने, रक्तवाहिन्यश्च यकृत्प्लोह्रोः। एवमेतानि । सप्त सिराशतानि ॥ ६ ॥
तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थिन पञ्चविंशतिः । एतेनेतरसक्थि बाहू च व्याख्यातौ । विशेषतस्तु कोष्ठे चतुस्त्रिंशत् । तासां गुद्मेढ्राश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः, षटू पृष्ठे, तावत्य एव चोदरे, दश वक्षसि । एकचत्वारिशत् जत्रुरण ऊर्ध्वम् । तासां च-तुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायां, षट् नासिकायां, अष्टौ नेत्रयोः, एवमेतत् पञ्चसप्ततिशतं वातवहानां सिराणां व्या-ख्यातं भवति । एष एव विभागः शेषाणामपि । विशेषतस्तु पित्तवा-ताना॑ विभक्तिर्विभागो विद्यते यस्मिन् तत्तथोक्तम् । शेषं पूर्ववत् । आरामः = उपव • नम्, जलहारिणीभिः = प्रणालिकाभिः, केदारः = क्षेत्रम्, कुल्याभिः = कृत्रिमाल्प-सरिद्भिः । १ सेवनीनां = सेवनीसदृशानाम् । २ शरीरिशब्देन गर्भोऽभिप्रेतः, यतः सिरा गर्भावस्थायामेवोत्पद्यन्ते न तूर्ध्वमेव । ३ प्रतन्वन्ति = शरीरे ऊर्ध्वमधस्तिर्यक् च विस्तृन्वन्ति । ४ नाभिस्थाः नाभ्याघारकासु सिरास्ववस्थिताः, प्राणिनां प्रकृतत्वात् प्राणवतां गर्भाणामित्यर्थः । ५ श्ररकैः निखातै नैमिप्रसक्तैः काष्ठैः चक्रनाभिः चक्रपि-ण्डिकेव । ६ विभागः = वातवाहिसिराविभागः, शेषाणां = पित्तश्लेष्मरक्तवद्दानाम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 628
पाठ पढ़ें पाठ छिपाएँ
४७० Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ० ७ निन्यो नेत्रयोर्दश, कर्णयोर्द्व । एवं रक्तवहाः कफवहाश्च । एवमेता-नि सप्त सिराशतानि सविभागानि व्याख्यातानि ॥ ७ ॥
भवन्ति चात्र ।
' क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् ।
करोत्यन्यौन् गुणांश्चापि स्वाः सिराः पवनश्चरन् ॥ ८ ॥
यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते ।
तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः ॥ ९ ॥
भ्रौजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् ।
संसर्पत्स्वाः सिराः पित्तं कुर्याच्चान्यान् गुणानपि ॥ १० ॥
यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः ।
तदाऽस्य विविधा रोगा जायन्ते पित्तसम्भवाः ॥। ११ ॥
स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम् ।
करोत्यन्यौन् गुणांश्चापि बलासः स्वाः सिराश्चरन् ॥ १२ ॥
यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते ।
तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥ १३ ॥
धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् ।
' स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि ॥ १४ ॥
यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।
' तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥ १५ ॥
न हि वातं सिराः काश्चिन् न पित्तं केवलं तथा ।
श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः ॥ १६ ॥
१ वातादिव सिरासु वातादीनां प्राकृतं वैकृतं च कर्म निर्दिशति - क्रियाणामि-ति । क्रियाणां = कायिकप्रसारणादिकियाणाम्, श्रप्रतीघातम् = अनवरोधम्, बुद्धिक • र्मणां = बुद्धिकर्मेन्द्रियाणां पञ्चानाम्, अमोदं = दुःखाभावम् । २ अन्यान् = रसादिव्याप -नद्वारा शरीरपोषादीन् । ३ भ्राजिष्णुता = कान्तिमत्वम् । ४ अन्यान् = मेधाबुद्धिदर्शनश-क्त्यादीन् । ५ अन्यान् = सन्धिश्लेषणादिकान् । ६ श्रन्यान् = " रक्तं वर्णप्रसादं मांस-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 629
पाठ पढ़ें पाठ छिपाएँ
श्र ० ७• ] Digitized by Arya ारीरस्थानम् pen dation Chennai and eGangotri ४७१
प्रदुष्टानां हि दोषाणां मूच्छितानां प्रधावताम् ।
ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः ॥ १७ ॥
तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः ।
पित्तादुष्णाश्च नीलाश्च, शीता गौर्यः स्थिराः कफात् ॥१८ ॥
असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ।
अत ऊध्व प्रवक्ष्यामि न विध्येद्याः सिरा भिषक् ।
वैकल्यं मरणं चापि व्यधात् तासां ध्रुवं भवेत् ॥ १ ९ ॥
सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् ।
षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिं च मूर्द्धनि ॥ २० ॥
शाखासु पोडश सिराः कोष्ठे द्वात्रिंशदेव तु ।
पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीत्तिताः ॥ २१ ॥
तन्त्र, सिराशतमेकस्मिन् सक्थिन भवति । तासां जालंधरा त्वे. का, तिस्रश्चाभ्यन्तराः - तंत्रोर्वीसंज्ञे द्वे, लोहिताक्षसंज्ञाचैका एतास्त्व-व्यध्याः । एतेनेतरसक्थि बाहू च व्याख्यातौ । एवमशस्त्रकृत्याः षोडश शाखासु । द्वात्रिंशच्छ्राण्यां, तासामष्टावशस्त्रकृत्याः - द्वे द्वे विटपयोः, कटीकतरुणयोश्च 1 । अष्टावष्टावेकैकस्मिन् पार्श्वे, तासामेकैकामूर्ध्वगां परिहरेत्, पार्श्वसन्धिगते च द्वे । चतस्रो विंशतिश्च पृष्ठे पृष्ठवंशमुभ-यतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परिहरेद् बृहतीसिरे । तावत्य एवो-दरे, तासां मेढोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत् । चत्वारिं-शद् वक्षसि, तासां चतुर्दशाशस्त्रकृत्याः - हृदये द्वे द्वे द्वे स्तनमूले, स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ । एवं द्वात्रिंशदशस्त्रकृत्याः पुष्टिं च करोति ” इत्यादिकान् । १ मूच्छितानाम् = श्रन्योन्यं मिश्रितानाम् । २ रोद्दिण्यः = रक्तवर्णाः । ३ चकाराच्छतमनुकर्षणीयम्, चतुःषष्ट्यधिकं शतमिति निष्कर्षः । ४ प्रत्यङ्गानुसारेण श्रव्यध्याः सिरा विस्तरशो निर्दिशति — तत्रेति । तत्र -चतुःशतेषु मध्ये । ५ जालानीव जालानि मांससिरास्नाय्वस्थिसन्धिजानि कूर्चशिरो-व्यापीनि तानि धारयन्ति यास्ता जालधराः । ६ तत्र = आभ्यन्तरेषु मध्ये, उवलोहि-ताक्षं च द्वे मर्मणी मर्मविभागीयशारीरे निर्दिष्टे । अत्र तदुपलक्षितास्ता द्वधेकाः सिरा उप-चारात् तत्सब्ज्ञयोपदिश्यन्ते । एवमन्यत्रापि कथञ्चिद् भेदविवक्षयाऽनुसन्धेयम् । ७ श्र-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 630
पाठ पढ़ें पाठ छिपाएँ
Chenhai and eGangotri ४७२ Digitized by Arya Sama सुश्रुतसहिताया [ अ ० ७ पृष्ठोदरोरःसु भवन्ति । चतुःषष्टिसिराशतं जत्रुण ऊर्ध्वं भवति । तत्र षट्पञ्चाशत् शिरोधरायां, तासामष्टौ चतस्रश्च मर्मसंज्ञाः परि-हरेद्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः । हन्वोरुभयतोऽष्टावष्टौ, तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत् । षट्त्रिंशँज्जिह्वायां, तासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे च द्वे । द्विर्द्वादशैँ नासायां, तासामौपनासिक्यञ्चतस्रः परिहरेत्, तासामेव च तालुन्येकां मृदावुद्देशे । अष्टत्रिंशदुभयोर्नेत्रयोः, तासामे-कैकामपाङ्गयोः परिहरेत् । कर्णयोदेश, तासां शब्द वाहिनीमेकैकां परिहरेत् । नार्सानेत्रगतास्तु ललाटे पष्टिः, तासां केशान्तानुगताश्च-तस्रः परिहरेत् । आवर्त्तयोरेकैका, स्थपन्यां चैका परिहर्त्तव्या । शङ्ख-योर्दश, तासां शङ्खसन्धिगतामेकैकां परिहरेत् । इत्येता नासानेत्र-गता बोद्धव्याः । द्वादश मूर्ध्नि, तासामुत्क्षेपयोर्द्वे परिहरेत्, सीम-न्तेष्वेकैकाम्, एकामधिपताविति । एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति ॥ २२ ॥
भवति चात्र । II
व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः ।
प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा " जलम् ॥ २३ ॥
इति सुश्रुतसंहितायां शारीरस्थाने सिरावर्णविभक्तिशारीरं नाम सप्तमोऽध्यायः ॥ ७ ॥
व्यध्याः कोष्ठगताः सिराः प्रतिपादयति - द्वात्रिंशदिति । १ पृष्ठशब्देन श्रोणि पार्श्वानामपि ग्रहणम् । तेन श्रोणिगता अष्टौ पार्श्वगता एकैका, चतस्रः पृष्ठे, चतस्र उदरे, चतुर्दश वक्षसि, एवं द्वात्रिंशदव्यध्याः । २ चतुःषष्टिसिराशतं = चतुःषष्टय • धिकं सिराशतमित्यर्थः । ३ श्रष्टौ मातृकाः, चतस्रः द्वे नीले द्वे मन्ये चैवं द्वादश मर्मसंज्ञाः। ४ जिह्वाया अघः षोडश ऊर्ध्वं विंशतिरेवं षट्त्रिंशदित्यर्थः । ५ द्वि.. दश = चतुर्विंशतिरित्यर्थः । ६ श्रपनासिक्यः = नासासमीपवर्तिन्य इत्यर्थः । नासा तले पार्श्वगता इति तात्पर्यम् । ७ मृदावुद्देशे = नासासमीपे । ८ याश्चतुविंशतिर्नासागता याश्च षट्त्रिंशन्नैत्रगतास्ता एव ललाटे षष्टिः । नैत्रयोरष्टत्रिंशत् सिरासूक्तासु द्वयोरपाङ्गाश्रितत्वमिति नेत्रगताः षट्त्रिंशदेवेति बोध्य-म् । ९ आवर्तमर्मसमीपकेशान्तानुगता इत्यर्थः । १० सीमन्तेषु = पञ्चसु । ११ यथा CC - 0. Gurukul Kangri Collection, Haridwar