सुश्रुत संहिता चौखम्बा — पृष्ठ 621–630

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 621–630

पृष्ठ 621

सुश्रुत संहिता चौखम्बा, पृष्ठ 621 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized on, Chennai and eGangotri

by Arya झाशीपस्थानम् । ४६३

मारयन्ति ॥ २३ ॥

अत ऊर्ध्वं प्रत्येकशो मर्मस्थानानि व्याख्यास्यामः -तत्र, पाद-स्याङ्गुष्ठाङ्गुल्योर्मध्ये॒ ति॑िप्रं नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणम् । मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलैहृदयं नाम, तत्रापि रुजाभिर्मरणम् । क्षिप्रस्योपरिष्टादुभयतः कूर्चे नाम, तत्र पादस्य भ्रमणवेपने भवतः । गुल्फसन्धेरध उभयतः कूर्चशिंरो नाम, तत्र रुजाशोफौ । पादजङ्घयोः सन्धाने गुल्फो नाम, तत्र रुजः स्तब्ध-पादता खञ्जता वा । पाणि प्रतिजङ्घामध्ये इन्द्रबस्तिर्नाम, तत्र शोणितक्षयेण मरणम् । जङ्घोर्वोः सन्धाने जानुं नाम, तत्र खञ्जता । जानुन ऊर्ध्वमुभयतस्त्र्यङ्गुलमणी नाम, तत्र शोफाभिवृद्धिः स्त-ब्धसक्थिता च । ऊरुमध्ये ऊर्वी नाम, तत्र शोणितक्षयात् सक्थि-शोषः । ऊर्ध्या ऊर्ध्वमधो वङ्ङ्क्षरणसन्धेरूरुमूले “ लोहिताक्षं नाम, त लोहितक्षयेण पक्षाघातः सक्थिशोषो वा । वङ्ङ्क्षणवृषणयोर-न्तरे " विटपं नाम, तत्र षाण्ठ्यमल्पशुक्रता वा भवति । एवमेतानि एकादश सक्थिमर्माणि व्याख्यातानि । एतेनेतरसक्थि बाहू च व्याख्यातौ । विशेषतस्तु यानि सक्थिन गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूर्परकक्षधराणि " । यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धेत एवोपद्रवाः । १ इदं स्नायुमर्म अर्धाङ्गुलं कालान्तरप्राणहरम् । २ इदं मांसममं अर्धाङ्गुलं कालान्तर-प्राणहरम् । ३ ‘ द्वयङ्गुले ' इति शेषः । तदुक्तं वाग्भटे - " तस्योर्ध्वं द्वयङ्गुले कूर्चः ” इति । उभयतः = ऊर्ध्वमधश्च, कूर्च: स्नायुमर्म चतुरङ्गुलं वैकल्यकरम् । ४ इदमपि स्नायुमर्म एकाङ्गुलप्रमाणं वैकल्पकरम् । ५ इदं सन्धिमर्म द्वयङ्गुलप्रमाणं वैकल्यकरम् ॥ ६ इदं मांसमर्म, अर्धाङ्गुलप्रमाणं पाणि प्रति द्वादशाङ्गुले स्थितं कालान्तरप्राणहरम्, भोजमतेऽस्य ७ इदं सन्धिमर्म त्र्यङ्गुलप्रमाणं वैकल्यकरम् । इदमपि प्रमाणं द्व्यङ्गुलम् । स्नायुमर्म अर्धाङ्गुलप्रमाणं वैकल्यकरम् । ९ इदं सिराम एकाङ्गुलप्रमाणं वैकल्य • करम् । १० इदमपि सिरामर्म अर्धाङ्गुलप्रमाणं वैकल्यकरं च । ११ इदं स्नायुमर्म एकाङ्गुलप्रमाणं वैकल्यकरम् । १२ तत्स्थाने बाहौ मणिबन्धकूर्परकक्षधराख्यानि बोद्धया-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 622

सुश्रुत संहिता चौखम्बा, पृष्ठ 622 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६४, B Digitized by Arya Samaj सुश्रुतसंहितायां Shehnai and eGangotri [ अ ० ६ विशेषतस्तु मणिबन्धे कुण्ठेता, कूर्पराख्ये कुणिः, कक्षधरे पक्षा-घातः । एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि || २४ || अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यास्यामः – तत्र वातवर्ची-निरेसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणम् । अल्प-मांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिर्नाम, तत्रापि सद्यो -मरणमश्मरीब्रणादृते । तत्राप्युभयतो भिन्ने न जीवति एकतो भिन्ने मूत्रस्रावी व्रणो भवति । स तु यत्नेनोपक्रान्तो रोहति । पक्कामाश-ययोर्मध्ये सिराप्रभवा नाभिर्नाम, तन्त्रापि सद्योमरणम् । स्तनयोर्म-ध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्रापि सद्य एव मरणम् । स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः, स्तन-मूले नाम मर्मणी; तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते । स्तनचूचुकयोरूर्ध्वं द्वचङ्गुलमुभयतः स्तनॅरोहितौ नाम, तत्र लोहित-पूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते । अंसकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणम् । उभयत्रोरसो नाड्यौ वातव हे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठत या कासश्वासाभ्यां च मरणम् । एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि ॥ २५ ॥

नीति तात्पर्यम्। १ कुण्ठता = करस्याकर्मण्यतेत्यर्थः । २ निरसनं = प्रेरकम्, स्थूलान्त्रप्रतिबद्धं = स्थूलान्त्राभिमुखे संसक्तम्, गुदं नाम ममइदं मांस मर्म चतुरङ्गुल. प्रमाणं सद्योमारकं च । ३ “ नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशैफसाम् । एकद्वारस्तनुत्वको मध्ये बस्तिरधो. मुखः ॥ ” इति तन्त्रान्तरीयात् कट्यामिति नाम्यादीनामुपलक्षणम् । मूत्राशयो बस्ति-रिति स्नायुमर्म चतुरङ्गुलं सद्योमारकम् । ४ सिरामर्मेदं चतुरङ्गुलम् । ५ इदमपि सिरामर्म कमलमुकुलाकारमधोमुखं चतुरङ्गुलं च । ६ इमे सिरामर्मणी द्वथङ्गुल-प्रमाणे कालान्तरप्राणहरे च । ७ “ स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलात् स्तनरोहिते । अर्धाङ्गुलमिते मांसमर्मणी परिकीर्तिते ॥ रक्तपूरितकोष्ठस्य कालान्मरणकारिणी ॥ ” इति । ८ सिराममणी अर्धाङ्गुले कालान्तरेण प्राणहरे । ९ इमे श्रपि सिरामर्मणि अर्थाङ्गुलप्रमाणे कालान्तरप्राणहरे च । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 623

सुश्रुत संहिता चौखम्बा, पृष्ठ 623 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Ary शारीरस्थानम् Feration । Chennai and Gangotri ४६५ अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामः- तत्र, पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे नाम मर्मणी, तंत्र शोणित-क्षयात् पाण्डुर्विवण हीनरूपश्च म्रियते । पार्श्वजघनबहिर्भागे ` पृष्टवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्मणी, तत्र स्पर्शाज्ञानम-धः काये चेष्टोपघातश्च । श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पाव-न्तरप्रतिबद्धौ नितम्बौ नाम, तत्राधः कायशोषो दौर्बल्याच्च मरणम् । अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूलादृ-जूभयतः पृष्ठवंशस्य बृहत्यौ नाम, तत्र शोणितातिप्रवृत्तिनिमित्तैरु-पद्रवैर्व्रियते । पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिसम्बद्धे अंसफलके नाम, तत्र बाह्वोः स्वापशोषौ । वाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धनिबन्धना-चंसौ नाम, तत्र स्तब्धवाहुता । एवमेतानि चतुर्दश पृष्ठभर्माणि व्याख्यातानि ॥ २६ ॥

अत्र ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः-: - तत्र कण्ठनाडीमु-भयतश्चतस्रो धर्म॑न्यो द्वे नीले द्वे च मन्ये " व्यत्यासेन, तत्र मूकता १ पृष्ठवंशमुभयतः = मेरुदण्डपार्श्वद्वये, प्रतिश्रोणीकाण्डं = श्रोण्याः सव्यापसव्य-भागे, अस्थिनी = अस्थिमर्मणी, अर्धाङ्गुले कालान्तरेण प्राणहरे च । २ पार्श्वयोः = सव्या • पसव्ययोः जघनबहिर्भागे कटयाः पश्चाद्भागे । ३ इमे सन्धिमर्मणी अर्धाङ्गुलप्रमाणे वैं कल्यकरेच । ४ पार्श्वान्तरप्रतिबद्धौ पार्श्वमध्ये प्रतिबद्धौ । श्रीहाराणचन्द्रस्तु— अन्यानि पार्श्वाणि पार्श्वान्तराणि श्रोणिकाण्डगतयोरस्थनोश्चतुष्पार्श्वानीति यावत्, तैर्दृढ-मासक्तौ पार्श्वान्तरप्रतिबद्धौ ऊर्ध्वाधः संयोगसचिव नितम्बौ । अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च । ५ जवनादिति ल्यब्लोपे पञ्चमी, जघनपश्चाद्भागमाश्रित्य स्थितावित्यर्थः । पार्श्व सन्धी सिरामर्मणी अर्धाङ्गुले कालान्तरेण प्राणहरे च । ६ सिरा • मर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च । ७ ग्रीवाया श्रंसद्वयस्य संयोगस्त्रिकस्तत्र सम्बद्धे अंसफलके, अस्थिमर्मणी अर्धाङ्गुले वैकल्यकरे च । - स्नायुमणी अर्धाङ्गुले वैकल्यकरे च । ८ ९ सिरे च धमन्यौ चेति धमन्यः ' विरूपाणामपि समानार्थानाम् ' इत्येकशेषः । सि-राधमन्योः समानार्थता धमनीव्याकरणे व्यक्ती भविष्यति । १० व्यत्यासेन = वैपरी-रीत्येन, अर्थादेकस्मिन् पार्श्वे नीला मन्या, अपरस्मिन् पार्श्वे च नीला मन्येति विभागे-३० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 624

सुश्रुत संहिता चौखम्बा, पृष्ठ 624 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६६ Digitized by Arya Sam सुश्रुतसंहिताय nar and eGangotri [ अ ० ६ स्वरवैकृतमरसग्राहिता च । ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः, तत्र सद्योमरणम् । शिरोग्रीवयोः सन्धाने कृकाटिके नाम, तत्र च-लमूर्द्धता । कर्णष्पृष्ठतोऽधःसंश्रिते विधुरे नाम, तत्र बाधिर्यम् । घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फँणे नाम, तत्र गन्धज्ञानम् । भ्रूपुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम, तत्रान्ध्यं दृष्टचुपघातो वा । भ्रुवोरुपरि निम्नयोरौवत्त नाम, तत्राप्यान्ध्यं दृष्टचुपघातो वा । भ्रुवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्का नाम, तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्त " उत्क्षेपौ नाम, तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः । भ्रुवो-मॅध्ये स्थर्पनी नाम, तत्रोत्क्षेपवत् । पञ्च सन्धयः शिरसि “ विभक्ताः सीमन्ता नाम, तत्रोन्माद्भयचित्तनाशैर्मरणम् । प्राणश्रोत्राक्षि-जिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपात: " शृङ्गाटकानि, तानि चत्वारि मर्माणि, तत्रापि सद्यो मरणम् । मस्तकाभ्यन्तरत उपरिष्टात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः ", तत्रापि सद्य एव । एवमेतानि सप्तत्रिंशदूर्ध्वजत्रु गतानि मर्माणि व्याख्यातानि ॥ २७ ॥

भवन्ति चात्र । " ऊर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गलमितं स्तनपूर्वमूलम् । नैति भावः । सिरामर्मणी चतुरङ्गुले वैकल्यकरे च । १२ II १ एकस्मिन्नेकस्मिन् पार्श्वे -चतस्रश्चतस्र इत्यर्थः । सिरामर्माणि चतुरङ्गुलप्रमाणानि । २ सन्धिमर्मणी अर्धाङ्गुले वैकल्यकरे च । ३ स्नायुमणी किञ्चिन्निम्नाकारे वैकल्यकारिणी च । ४ सिराममणी श्रर्थाङ्गुले वैकल्यकारिणी च । ५ सिराममणी अर्धाङ्गुले वैकल्यकरे च । ६ सन्धि · स्नायुमणी मर्मणी अर्धाङ्गुले वैकल्यकारिणी च । ७ अस्थिमर्मणी अर्धाङ्गुले । अर्धाङ्गुले विशल्यप्राणहरे च । ९ सिराम अर्धाङ्गुलं विशल्यध्नं च । १० विभक्ताः शरीरसंख्याव्याकरणे ते सीमन्ताः सन्धिमर्माणि चतुरङ्गुलप्रमाणानि कालान्तर • प्राणहराणि च । ११ सिरामर्माणि चतुरङ्गुलप्रमाणानि । १२ इदं सन्धिमर्म अर्धा-ङ्गुलप्रमाणं च । १३ सर्वेषां मर्मणां सङ्क्षेपेण मानं दर्शयति – ऊर्व्य इति । कक्षयोः समीपभ-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 625

सुश्रुत संहिता चौखम्बा, पृष्ठ 625 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

I श्र ० ६ ] Digitized by शारीरुथा dation Chennai and _४६७ विद्धयङ्गुलयमितं मणिबन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम् ॥ २८ ॥

हृद्वस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे 1 तानि स्वपाणित लकुञ्चितसम्मितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् ॥ २ ९ ॥ एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम् । पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ॥ ३० ॥

छिन्नेषु ' पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति ।

प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्नशाख तरुवन्निधनं न यान्ति ॥

क्षिप्रेषु तत्रं सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति । एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः ३२ " तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्ध नगुल्फदेशे । मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ३३ जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि । सम्भिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः ३४ छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मपतिता विविधाः प्रहाराः ।

सोर्मंमारुततेजांसि रजःसत्त्वतमांसि च ।

मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ॥ ३५ ॥

मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः । वाभ्यां कक्षधराभ्यां सह वर्तमाने सकक्षपार्श्वे । १ स्वपाणितलकुञ्चितसम्मितानि = मुष्टिप्रमाणानीत्यर्थः । २ करचरणाद्यवयवच्छेदे जीवन्ति तदन्तर्गतमर्मच्छेदे तु म्रियन्त इति विशेषं निदर्शयति- छिन्नेष्विति । ३ तत्र = पाण्योः पादयोर्वा । ४ मर्मसु हता यदि जीवन्ति तदा विकला भवन्तीति दर्शयति - मर्माणीति । ५ श्रमर्मह-तास्तु छेदभेदादिभिरपि न म्रियन्त इति प्रतिपादयति - सम्भिन्नेति । ६ मर्मस्व-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 626

सुश्रुत संहिता चौखम्बा, पृष्ठ 626 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ अ ० ७ * ४६८० by Arya Sama सुश्रुतसंहिबा ar and eGangotri इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्ययः ॥ ३६ ॥

रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते ।

हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् ॥ ३७ ॥

ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति ।

हते वैकल्यजनने केवलं वैद्यनैपुणात् ॥ ३८ ॥

शरीरं क्रियया युक्तं विकुलत्वमवाप्नुयात् ।

विशल्यध्नेषु विज्ञेयं पूर्वोक्तं यच्च कारणम् ॥ ३ ९ ॥

रुजाकराणि मर्माणि क्षतानि विविधा रुजः ।

कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ॥ ४० ॥

छेदभेदाभिघातेभ्यो दहनाद्दाररणादपि ।

उपघातं विजानीयान् मर्मणां तुल्यलक्षणम् ॥। ४१ ॥

मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा ।

प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथ वा म्रियन्ते ॥४२ ॥

मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् ।

प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ॥४३ ॥

इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येक मर्मनिर्देशशारीरं नाम षष्टोऽध्यायः ॥६ ॥

सप्तमोऽध्यायः ।

अथातः सिरावर्णविभक्तिं नाम शारीरं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान धन्वन्तरिः ॥ २ ॥

सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमारा-भिहता न जीवन्तीत्यंत्र हेतुमुपपादयति- सोमेति । १ सद्यःप्राणइरादिमर्मपञ्चक · हतस्य लक्षणं ब्रवीति — इन्द्रियार्थेष्विति । २ मर्मसमीपदेशघातेऽप्यनर्थकरं दर्श-ति - छेदेति । ३ मूर्च्छन्ति = समुच्छ्रायं प्राप्नुवन्ति । इति सुश्रुतसंहितायाः शारीरस्थानीयसुधाऽऽख्यटिप्पन्यां षष्ठोऽध्यायः । सप्तमोऽध्यायः । ४ “ मर्मसिरास्नायुधमनीः परिहरन् " इत्यादी मर्मानन्तरं सिराणां निर्देशात् सिरा-वर्णविभागशारीरमारभ्यते । सिराणां वातादिवद्दानां तद्वर्णानां च रक्तनील शुक्ललोहि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 627

सुश्रुत संहिता चौखम्बा, पृष्ठ 627 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Arya शारीरस्थानम् Fhennai and eGangotri ४६ ९ म इव जलहारिणीभिःः केदार इव च कुल्याभिरुपस्निह्यतेऽनु-गृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः । द्रुमपत्रसेवनीनामिव च तासां प्रतानाः । तासां नाभिर्मूलं, ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च॥३ ॥

भवतश्चात्र ।

यावत्यस्तु सिराः काये सम्भवन्ति शैरीरिणाम् ।

नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ॥ ४ ॥

नाभिस्था प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता ।

सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥ ५ ॥

तासां मूलसिराश्चत्वारिंशत् । तासां वातवाहिन्यो दश, पित्त-वाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः । तासां तु वात-वाहिनीनां वावस्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफ़वाहिन्यश्च कफस्थाने, रक्तवाहिन्यश्च यकृत्प्लोह्रोः। एवमेतानि । सप्त सिराशतानि ॥ ६ ॥

तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थिन पञ्चविंशतिः । एतेनेतरसक्थि बाहू च व्याख्यातौ । विशेषतस्तु कोष्ठे चतुस्त्रिंशत् । तासां गुद्मेढ्राश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः, षटू पृष्ठे, तावत्य एव चोदरे, दश वक्षसि । एकचत्वारिशत् जत्रुरण ऊर्ध्वम् । तासां च-तुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायां, षट् नासिकायां, अष्टौ नेत्रयोः, एवमेतत् पञ्चसप्ततिशतं वातवहानां सिराणां व्या-ख्यातं भवति । एष एव विभागः शेषाणामपि । विशेषतस्तु पित्तवा-ताना॑ विभक्तिर्विभागो विद्यते यस्मिन् तत्तथोक्तम् । शेषं पूर्ववत् । आरामः = उपव • नम्, जलहारिणीभिः = प्रणालिकाभिः, केदारः = क्षेत्रम्, कुल्याभिः = कृत्रिमाल्प-सरिद्भिः । १ सेवनीनां = सेवनीसदृशानाम् । २ शरीरिशब्देन गर्भोऽभिप्रेतः, यतः सिरा गर्भावस्थायामेवोत्पद्यन्ते न तूर्ध्वमेव । ३ प्रतन्वन्ति = शरीरे ऊर्ध्वमधस्तिर्यक् च विस्तृन्वन्ति । ४ नाभिस्थाः नाभ्याघारकासु सिरास्ववस्थिताः, प्राणिनां प्रकृतत्वात् प्राणवतां गर्भाणामित्यर्थः । ५ श्ररकैः निखातै नैमिप्रसक्तैः काष्ठैः चक्रनाभिः चक्रपि-ण्डिकेव । ६ विभागः = वातवाहिसिराविभागः, शेषाणां = पित्तश्लेष्मरक्तवद्दानाम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 628

सुश्रुत संहिता चौखम्बा, पृष्ठ 628 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४७० Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ० ७ निन्यो नेत्रयोर्दश, कर्णयोर्द्व । एवं रक्तवहाः कफवहाश्च । एवमेता-नि सप्त सिराशतानि सविभागानि व्याख्यातानि ॥ ७ ॥

भवन्ति चात्र ।

' क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् ।

करोत्यन्यौन् गुणांश्चापि स्वाः सिराः पवनश्चरन् ॥ ८ ॥

यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते ।

तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः ॥ ९ ॥

भ्रौजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् ।

संसर्पत्स्वाः सिराः पित्तं कुर्याच्चान्यान् गुणानपि ॥ १० ॥

यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः ।

तदाऽस्य विविधा रोगा जायन्ते पित्तसम्भवाः ॥। ११ ॥

स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम् ।

करोत्यन्यौन् गुणांश्चापि बलासः स्वाः सिराश्चरन् ॥ १२ ॥

यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते ।

तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥ १३ ॥

धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् ।

' स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि ॥ १४ ॥

यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।

' तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥ १५ ॥

न हि वातं सिराः काश्चिन् न पित्तं केवलं तथा ।

श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः ॥ १६ ॥

१ वातादिव सिरासु वातादीनां प्राकृतं वैकृतं च कर्म निर्दिशति - क्रियाणामि-ति । क्रियाणां = कायिकप्रसारणादिकियाणाम्, श्रप्रतीघातम् = अनवरोधम्, बुद्धिक • र्मणां = बुद्धिकर्मेन्द्रियाणां पञ्चानाम्, अमोदं = दुःखाभावम् । २ अन्यान् = रसादिव्याप -नद्वारा शरीरपोषादीन् । ३ भ्राजिष्णुता = कान्तिमत्वम् । ४ अन्यान् = मेधाबुद्धिदर्शनश-क्त्यादीन् । ५ अन्यान् = सन्धिश्लेषणादिकान् । ६ श्रन्यान् = " रक्तं वर्णप्रसादं मांस-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 629

सुश्रुत संहिता चौखम्बा, पृष्ठ 629 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ७• ] Digitized by Arya ारीरस्थानम् pen dation Chennai and eGangotri ४७१

प्रदुष्टानां हि दोषाणां मूच्छितानां प्रधावताम् ।

ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः ॥ १७ ॥

तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः ।

पित्तादुष्णाश्च नीलाश्च, शीता गौर्यः स्थिराः कफात् ॥१८ ॥

असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ।

अत ऊध्व प्रवक्ष्यामि न विध्येद्याः सिरा भिषक् ।

वैकल्यं मरणं चापि व्यधात् तासां ध्रुवं भवेत् ॥ १ ९ ॥

सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् ।

षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिं च मूर्द्धनि ॥ २० ॥

शाखासु पोडश सिराः कोष्ठे द्वात्रिंशदेव तु ।

पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीत्तिताः ॥ २१ ॥

तन्त्र, सिराशतमेकस्मिन् सक्थिन भवति । तासां जालंधरा त्वे. का, तिस्रश्चाभ्यन्तराः - तंत्रोर्वीसंज्ञे द्वे, लोहिताक्षसंज्ञाचैका एतास्त्व-व्यध्याः । एतेनेतरसक्थि बाहू च व्याख्यातौ । एवमशस्त्रकृत्याः षोडश शाखासु । द्वात्रिंशच्छ्राण्यां, तासामष्टावशस्त्रकृत्याः - द्वे द्वे विटपयोः, कटीकतरुणयोश्च 1 । अष्टावष्टावेकैकस्मिन् पार्श्वे, तासामेकैकामूर्ध्वगां परिहरेत्, पार्श्वसन्धिगते च द्वे । चतस्रो विंशतिश्च पृष्ठे पृष्ठवंशमुभ-यतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परिहरेद् बृहतीसिरे । तावत्य एवो-दरे, तासां मेढोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत् । चत्वारिं-शद् वक्षसि, तासां चतुर्दशाशस्त्रकृत्याः - हृदये द्वे द्वे द्वे स्तनमूले, स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ । एवं द्वात्रिंशदशस्त्रकृत्याः पुष्टिं च करोति ” इत्यादिकान् । १ मूच्छितानाम् = श्रन्योन्यं मिश्रितानाम् । २ रोद्दिण्यः = रक्तवर्णाः । ३ चकाराच्छतमनुकर्षणीयम्, चतुःषष्ट्यधिकं शतमिति निष्कर्षः । ४ प्रत्यङ्गानुसारेण श्रव्यध्याः सिरा विस्तरशो निर्दिशति — तत्रेति । तत्र -चतुःशतेषु मध्ये । ५ जालानीव जालानि मांससिरास्नाय्वस्थिसन्धिजानि कूर्चशिरो-व्यापीनि तानि धारयन्ति यास्ता जालधराः । ६ तत्र = आभ्यन्तरेषु मध्ये, उवलोहि-ताक्षं च द्वे मर्मणी मर्मविभागीयशारीरे निर्दिष्टे । अत्र तदुपलक्षितास्ता द्वधेकाः सिरा उप-चारात् तत्सब्ज्ञयोपदिश्यन्ते । एवमन्यत्रापि कथञ्चिद् भेदविवक्षयाऽनुसन्धेयम् । ७ श्र-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 630

सुश्रुत संहिता चौखम्बा, पृष्ठ 630 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chenhai and eGangotri ४७२ Digitized by Arya Sama सुश्रुतसहिताया [ अ ० ७ पृष्ठोदरोरःसु भवन्ति । चतुःषष्टिसिराशतं जत्रुण ऊर्ध्वं भवति । तत्र षट्पञ्चाशत् शिरोधरायां, तासामष्टौ चतस्रश्च मर्मसंज्ञाः परि-हरेद्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः । हन्वोरुभयतोऽष्टावष्टौ, तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत् । षट्त्रिंशँज्जिह्वायां, तासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे च द्वे । द्विर्द्वादशैँ नासायां, तासामौपनासिक्यञ्चतस्रः परिहरेत्, तासामेव च तालुन्येकां मृदावुद्देशे । अष्टत्रिंशदुभयोर्नेत्रयोः, तासामे-कैकामपाङ्गयोः परिहरेत् । कर्णयोदेश, तासां शब्द वाहिनीमेकैकां परिहरेत् । नार्सानेत्रगतास्तु ललाटे पष्टिः, तासां केशान्तानुगताश्च-तस्रः परिहरेत् । आवर्त्तयोरेकैका, स्थपन्यां चैका परिहर्त्तव्या । शङ्ख-योर्दश, तासां शङ्खसन्धिगतामेकैकां परिहरेत् । इत्येता नासानेत्र-गता बोद्धव्याः । द्वादश मूर्ध्नि, तासामुत्क्षेपयोर्द्वे परिहरेत्, सीम-न्तेष्वेकैकाम्, एकामधिपताविति । एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति ॥ २२ ॥

भवति चात्र । II

व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः ।

प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा " जलम् ॥ २३ ॥

इति सुश्रुतसंहितायां शारीरस्थाने सिरावर्णविभक्तिशारीरं नाम सप्तमोऽध्यायः ॥ ७ ॥

व्यध्याः कोष्ठगताः सिराः प्रतिपादयति - द्वात्रिंशदिति । १ पृष्ठशब्देन श्रोणि पार्श्वानामपि ग्रहणम् । तेन श्रोणिगता अष्टौ पार्श्वगता एकैका, चतस्रः पृष्ठे, चतस्र उदरे, चतुर्दश वक्षसि, एवं द्वात्रिंशदव्यध्याः । २ चतुःषष्टिसिराशतं = चतुःषष्टय • धिकं सिराशतमित्यर्थः । ३ श्रष्टौ मातृकाः, चतस्रः द्वे नीले द्वे मन्ये चैवं द्वादश मर्मसंज्ञाः। ४ जिह्वाया अघः षोडश ऊर्ध्वं विंशतिरेवं षट्त्रिंशदित्यर्थः । ५ द्वि.. दश = चतुर्विंशतिरित्यर्थः । ६ श्रपनासिक्यः = नासासमीपवर्तिन्य इत्यर्थः । नासा तले पार्श्वगता इति तात्पर्यम् । ७ मृदावुद्देशे = नासासमीपे । ८ याश्चतुविंशतिर्नासागता याश्च षट्त्रिंशन्नैत्रगतास्ता एव ललाटे षष्टिः । नैत्रयोरष्टत्रिंशत् सिरासूक्तासु द्वयोरपाङ्गाश्रितत्वमिति नेत्रगताः षट्त्रिंशदेवेति बोध्य-म् । ९ आवर्तमर्मसमीपकेशान्तानुगता इत्यर्थः । १० सीमन्तेषु = पञ्चसु । ११ यथा CC - 0. Gurukul Kangri Collection, Haridwar