सुश्रुत संहिता चौखम्बा — पृष्ठ 681–690
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 681–690
पृष्ठ 681
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Ary चिकित्सास्थास hennai and eGangotri ५२३
मूलोऽष्टपरिग्राही पञ्चलक्षणलक्षितः ।
षष्टचुपक्रमनिर्दिष्टैश्चतुर्भिः साध्यते ब्रणः ॥ १३४ ॥
योऽल्पौषधकृतो योगो बहुग्रन्थभयान्मया ।
द्रव्याणां तत्समानानां तत्रावापो न दुष्यति ॥ १३५ ॥
प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः । इति । श्रन्यत्र दश यमा उक्ताः-- " ब्रह्मचर्ये दया क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसास्तेयमाधुर्ये यमश्चेति यमाः स्मृताः ॥ ” इति । नियमाः = अक्रोधादयः पञ्च, तदुक्तम् -- ' अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । सततं पञ्चैते अप्रमादश्च नियमाः स्मृताः ॥ ” इति । देवीगीतायां तु दश नियमा उक्ताः-- " तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव हीर्मतिश्च जपो हुतम् ॥ दशै-ते नियमाः प्रोक्ता मया पर्वतनायक! ॥ ” इति । १ वणस्य सङ्क्षेपेण मूलाधिष्ठानलक्षणचिकित्सापदार्थान्निर्दिशति - षण्मूल इति । वातपित्तकफशोणितसन्निपातागन्तवः षडेव मूलं कारणानि यस्य स षण्मूलः, त्वङ्मांस-सिरास्नायुसन्ध्यस्थिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि परिगृह्णातीत्यष्टपरिग्राही, परिग्रहः श्रधिष्ठानम्, आश्रय इति यावत् । पञ्चलक्षणलक्षितः -- पञ्चानां वातपित्तकफसन्निपा-तागन्तूनां लक्षणैर्लक्षितः । षष्टथुपक्रमनिर्दिष्टैः षष्टथुपक्रमा निर्दिष्टा अस्येति षष्टथुप-क्रमनिर्दिष्टेः । ‘ षष्ट्या विधाननिर्दिष्टे: ' इति पाठान्तरम् । चतुर्भिः वैद्यातुरौषधपरिचा-रकैः, व्रणः साध्यते इत्यर्थः । २ अल्पौषधेषु शोधनरोपणादियोगेषु तत्समद्रव्याणामावापविषयमुपदिशति --य इति। ३ तेषां शोधनरोपणद्रव्याणां रसगुणवीर्यविपाकैः समानानि तुल्यानि द्रव्याणि तत्समानानि तेषाम्, आवापः = प्रक्षेप:, तत्र = = तस्मिन् अल्पौषधे योगे न दुष्यतीत्यर्थः । ४ समग्रयोगालाभे यथालाभौषधप्रयोगं प्रतिपादयति - प्रसङ्गेति । प्रसङ्गाभिहितो यो बहुभेषजो दुर्लभभेषजो वा, तत्र यथोपत्ति यथालाभं चिकित्सितं भेषजं कार्यम् । प्रसङ्गाभिहितो यथा - " पिण्डीतकत्रयं रोधं पूर्वं ये च प्रकीर्तिताः । वर्गा स्त्रपः प्रलेपे ते शोफे सर्वकृते हिताः ॥ ” इति । अत्र हि वातपित्तकफशोथोक्तौषधगणत्रयं प्रकरणसमानत्वात् सन्निपातौषधप्रसङ्गाभिहितम् । तत्र यथालाभं भेषजानां चिकि-त्सितं कार्यम् । बहुभेषजो यथा - " आधे द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः ” इति । अत्र भद्रदार्वादिगणस्य बहुभेषजत्वाद् यथालाभमेव चिकित्सितं कार्यम् । दुर्ल-भभेषजो यथा - किञ्चिदेव भेषजं क्वचिदुद्देशकालादौ दुर्लभम् । तत्र यथालाभं चिकि-त्सितं कार्यमिति निबन्ध सङ्ग्रहव्याख्याकारः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 682
पाठ पढ़ें पाठ छिपाएँ
५२४ Hehar Digitized by Arya Samaji सुश्रुतसंहिवा and eGangotri [ अ ० २ irand यथोपपत्ति तत्रापि कार्यमेव चिकित्सितम् ॥ १३६ ॥
गंणोक्तमपि यद्द्द्रव्यं भवेद् व्याधावयौगिकम् ।
तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्त्तितम् ॥ १३७ ॥
उपेंद्रवास्तु विविधा व्रणस्य ब्रणितभ्य च ।
तत्र गन्धादयः पञ्च व्रणस्योपद्रवाः स्मृताः ॥ १३८ ॥
ज्वरातिसारौ मूर्च्छा चँ हिक्काच्छदिररोचकः ।
श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु ॥ १३ ९ ॥
व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम् ।
भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते ॥ १४० ॥
इति सुश्रुतसंहितायां शारीरस्थाने द्वित्रणीयचिकित्सितं नाम प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ।
* अथातः संद्योव्रणचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः ।
विश्वामित्रस्रुतं शिष्यमृषिं सुश्रुतमन्वंशात् ॥ ३ ॥
१ एकत्रैव व्याधौ यौगिकस्य ग्रहणमयौगिकस्य परित्यागं चाचष्टे - गणोक्तमिति । २ उपद्रवान्निर्दिशति - उपद्रवा इति । ३ गन्धादयः = विपरीताविपरीतव्रणविज्ञानी-योक्ताः गन्धवर्णादयः ४ चकाराद् “ विसर्पः विसर्पादीनां समुच्चयः । चरके— पक्षघातश्च सिरास्तम्भोऽपतानकः । मोहोन्मादत्रणरुजो ज्वरस्तृष्णा हनुग्रहः । कास-इछदिरतीसारो हिक्का श्वासः सवेपथुः । षोडशोपद्रवाः प्रोक्ताः व्रणानां व्रणचिन्तकैः ॥ " इति । ५ अन।गतावेक्षणेन व्रणचिकित्सां कथयति - व्रणेति । ६ उपरि सद्योव्रण- ' चिकित्सिते क्रियां वक्ष्यामीति सम्बन्धः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । द्वितीयोऽध्यायः । ७ सथोव्रणानां तत्कालीनव्रणानां सामान्यं विशिष्टं च चिकित्सितमिति सद्योव्रणः चिकित्सितम्, तदधिकृत्य कृतोऽध्यायस्तम् । ८ श्रन्वशात् = शिक्षितवानित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 683
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by AryETHER चिकित्सा आजम ai Chennai and eGangotri
नानी धारामुखैः शस्त्रैर्नानास्थाननिपातितैः ।
नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ॥ ४ ॥
आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा ।
अर्द्धचन्द्रप्रतीकाशा विशाला: कुटिलास्तथा ॥ ५ ॥
शराव निम्नमध्याश्च यवमध्यास्तथाऽपरे ।
एवम्प्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ॥ ६ ॥
दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः ।
भिषणाकृतिज्ञो हि न मोहमधिगच्छति ॥ ७ ॥
भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि ।
अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ॥ ८ ॥
समासतो लक्षणतः षड्विधः परिकीर्तितः ।
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ॥ ९ ॥
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ।
तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् ॥ १० ॥
गार्त्रस्य पातनं चापि छिन्नमित्युपदिश्यते ।
कुन्तशक्त्यष्टिखड्गाविषाणादिभिराशयः ॥ ११ ॥
हतः किञ्चित्स्रवेतद्धि भिन्नलक्षणमुच्यते । ५२५ १ नाना धारा मुखानि च येषां तानि तैः । नानास्थानानि देहस्थानानि तेषु निपातितैर्निक्षिप्तैरिति नानास्थाननिपातितैः । अत्र श्लोके त्रीणि व्रणाकृतिकारणा-न्युक्तानि – नानाप्रकारशस्त्रधारा, नानाप्रकार शस्त्र मुखानि, नानाप्रकारदेहस्थानानि चेति। २ स्वयं भिन्नाः = पक्वभिन्नाः । ३ दुर्दर्शरूपेषु = गोशृङ्गवदुन्नतमांसप्ररोद्दाद्य • दर्शनीयेषु । ४ भिषग्भिः पुरातनः = ब्रह्मादिभिः । षाविध्यं दर्शयति- छिन्नमिति । ५ छिन्न भिन्नं चेति द्वयं तीक्ष्णमुखेन शस्त्रेण, विद्धमिति श्रणुमुखेन शस्त्रेण, क्षतं पिच्चितं घृष्टमिति त्रयं पाषाणलगुडादिभिः । ६ गात्रस्य पातनं = गात्रावयवविशे-षस्य इस्तादेः पातनम् चकारादपातनं च । ७ अग्रशब्दस्य कुन्तादिभिः सह प्रत्येकं सम्बन्धः । विषाणं = दन्तः सृङ्ग च, ' विषाणं तु शृङ्गे कोलेभदन्तयो: ' इति हेमचन्द्रः । आशयः - श्रमादिस्थानम् । ८ किञ्चित्स्रवेत् = किमप्यनिर्दिष्टमित्यर्थः । यस्य मूत्ररु • धिरादेर्य आशयो भिन्नः स तत् स्रवेत् । तेन बस्तिभिन्नो मूत्रं, रुधिराशयो रुधिरमिति CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 684
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-५२६ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २ स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ॥ १२ ॥
हृदुण्डकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ।
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ॥ १३ ॥
मूत्रमार्गगुदास्येभ्यो रक्तं प्रारणाच गच्छति ।
मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च ॥ १४ ॥
विण्मूत्रंवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ।
लोह्गन्धित्वमास्यस्य गात्र दौर्गन्ध्यमेव च ॥ १५ ॥
हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र
शृणु ।
आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ॥ १६ ॥
आध्मानमतिमात्रं च शूलं च भृशदारुणम् ।
पक्काशयगते चापि रुजो गौरवमेव च ॥ १७ ॥
शीतता चाप्यधो नाभेः खेभ्यो ' रक्तस्य चागमः ।
" अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् ॥ १८ ॥
पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् ।
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वायाद्विना ॥ १ ९ ॥
निष्कर्षः । १ स्थानशब्द आमादिभिः प्रत्येकं सम्बध्यते । तथा च श्रामस्य स्थानमामा-शयः, अग्नैः पच्यमानाशयः, मलस्य पक्वाशयः, मूत्रस्य बस्तिः, रुधिरस्य यकृत्प्लीहानौ, हृद् हृदयम्, उण्डुकः इक्षुरसपाकमल वद्यः शोणितमलस्तज्ज उण्डुकः, स चान्त्रप्रदेशे व्यवस्थितः पुरीषाधानमिति, फुप्फुस इति हृदयस्य वामभागे रक्ताधारः ' फुप्फुस ' इति ख्यातः । २ तस्मिन् = कोष्ठे इत्यर्थ: 1 सर्वत्रैव रक्तस्य विद्यमानत्वाद् रक्तपूर्णे इश्युक्तम् । ३ श्रभक्तच्छन्दः = अनन्नाभिलाषः । ४ विण्मूत्र वातानां सङ्गोऽप्रवृत्तिः, निरोध इति यावत् । ५ हृत्पार्श्वयोः शूलमिति सम्बन्धः । ६ पक्वाशयस्थितस्य रक्तस्य लक्षणमाह - पक्वेत्यादिना । पक्वाशयगते = पक्का • शयस्थे ‘ रुधिरे ’ इति शेषः । रुजः = शुलम्, गौरवमिति नाभेरधो बोद्धव्यम् । ७ खे-भ्यः = स्रोतोभ्यः । ८ यद्वत् पिहितास्ये आच्छादितमुखे घटे सूक्ष्मैः खै रन्ध्ररुदक-पूरणं लक्ष्यते, तद्वद् अभिन्नेऽप्याशये अन्त्राणां सूक्ष्मैः खै रक्तेन रन्ध्रपूरणमित्यर्थः । ९ आशयादुक्तामाद्याशयं विना सूक्ष्मास्येन शल्येन यदङ्गमभिहतम् उत्तुण्डितम् उद्गतं त्वङ्मांसाच्छादितं शल्यमुखम् ईषद् दृष्टमुखं वा, निर्गतं निर्गतशल्यम् । तन्त्रान्तरे-“ विद्धमुत्तुण्डितमनुतुण्डितं भिन्नं निर्भिन्नम् ” इति चतुष्प्रकार विद्धमभिहितम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 685
पाठ पढ़ें पाठ छिपाएँ
चिकित्सास्थानम् । अ ० २ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ।
नौतिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ॥ २० ॥
विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् ।
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ॥ २१ ॥
सास्थि तत्पिच्चितं विद्यान्मज्जैरक्तपरिप्लुतम् ।
विगतत्वग्यदङ्गं हि सङ्घर्षादन्यथाऽपि वा ॥ २२ ॥
उपास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते । २५२७ छिन्ने ' भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् ॥ २३ ॥
करोति पवनो
रक्तक्षयाद्रुज जस्तत्र भृशम् ।
स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ॥ २४ ॥
वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम् ।
धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ॥ २५ ॥
वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते ।
पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ॥ २६ ॥
अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते ।
तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ॥ २७ ॥
शीतमालेपनं कार्यं परिषेकश्च शीतलः ।
षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ॥ २८ ॥
१ नातिच्छिन्नं नावगाढच्छदम्, नातिभिन्नं नातिविदीर्णाशयम्, उभयोर्लक्षणान्वितं स्तोकच्छे दस्तोकावदरणयोगादुभयलक्षणयुक्तम्, विषमं व्रणमङ्गे यद् अङ्गवैषम्यकरं व्रणं यत्तत् क्षतमभिधीयते । २ पृथुतां = चिप्पियतामित्यर्थः । ३ मज्जरक्तपरिप्लुतं = मञ्जरक्तानुपातम् । ४ उषा = ऊ'मनिगंमवद् व्यथाविशेषः । ५ श्रधुना छिन्नादिषु चतुर्षु चिकित्सामाचष्टे - छिन्न इति । ६ वेशवारै: -निरस्थिस्विन्नस्निग्धपिष्टमांसादिभिः । तदुक्तम् - " निरस्थि पिशितं पिष्टं स्विन्नं गुड-घृतान्वितम् । कृष्णामरिचसंयुक्तं वेशवार इति स्मृतः ॥ ” इति । " तिलतण्डुलसम्पक्कः कृशरः सोऽभिधीयते ” । उपनाहनं = बन्धनम् । धान्यस्वेदास्तु - " कोशधान्यानि वा सम्य-गुपस्वेद्यास्तीर्य " इत्यादिना स्वेदाध्याये वक्ष्यन्ते । ७ नाभेरूर्ध्वगतेषु व्रणेषु स्नैह-पानम्, अधोगतेषु वस्तिरिति विवेकः । पिच्चितघृष्टयोश्चिकित्सामाख्याति - पिच्चित इति । CC - 0. Gurukul Kangri Collection, Haridwar ९ श्रगच्छति =
पृष्ठ 686
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् । [ अ ०२ ऊर्ध्वं प्रवक्ष्यामि छित्रानां तु चिकित्सितम् ॥ २ ९ ॥
ये व्रणा ` विवृताः केचिच्छिरःपार्श्वावलम्बिनः ।
तानू सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च ॥ ३० ॥
कर्णं स्थानादर्पंहृतं स्थापयित्वा यथास्थितम् ।
सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ॥ ३१ ॥।
कृकोटिकाऽन्ते छिन्ने तु गच्छत्यपि समीरणे ।
• सम्यं निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ॥ ३२ ॥
आजेन सर्पिषा चैव परिषेकं तु कारयेत् ।
उत्तानोऽन्नं समश्नीयाच्छयीत च ' सुयन्त्रितः ॥ ३३ ॥
शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् ।
सीव्येत् सम्यङ् निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ॥ ३४ ॥
बद्ध्वा वेल्लित केनाशु ततस्तैलेन सेचयेत् ।
चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ॥ ३५ ॥
पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् ।
अतोऽन्यथा " चोरसिजे शाययेत् पुरुषं ब्रणे ॥ ३६ ॥
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् । I बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ॥ ३७ ॥
अस्रवति सति । तस्मिन् = रुधिरे इत्यर्थः । १ मूर्धाद्यवयवाश्रितच्छिन्नचिकित्सा-माह - अत इत्यादिना । २ विवृताः - व्यात्तमुखाः । ३ ऋजुग्रन्थित्वेन सेवन्या-दिना सीव्येदित्यर्थः । ४ अपहृतं = भ्रष्टम्, अनिःशेषत श्छिन्नमिति यावत् । ५ तैलेन = नासासन्धानोक्त विधिसाहचर्यात् कृष्णतिलतैलेन स्रोतः कर्णविवरम्, चकारात् स्थूतप्रदेशश्च । ६ शिरोग्रीवयोः सन्धाने कृकाटिकाऽख्ये द्वे सन्धिमर्मणी, तयोः समीपवर्तिश्वासानिलवाहिनी नाडी कृकाटिकान्तस्तस्मिन् । ७ सम्यङ्निवेश्य -यथास्थानं स्थापयित्वा । ८ उत्तानः = शय्यासंलग्नपृष्ठतयो दूर्ध्वभावापन्नः । ९ सुय-न्त्रितः = शिरश्रादिपरिचालन विरहितत्वे सुसंयतः सन्नित्यर्थः । १० शाखासु -चतसृषु, हस्तयोः पादयोश्चेत्यर्थः । ११ अन्यथा = अधोमुखम् । १२ प्राप्तं = युक्तमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 687
पाठ पढ़ें पाठ छिपाएँ
अ ०२ २ ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri
चैन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः ।
हरिद्रा मधुकं चैव पेयः स्यादुत्र चाष्टमम् ॥ ३८ ॥
तैलमेभिर्विपक्कं तु प्रधानं व्रणरोपणम् ।
चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृते ॥ ३ ९ ॥
हरेणवो मृणालं च त्रिफला पद्मोत्पले ।
त्रयोदशाङ्गं त्रिवृत्तमेतद्वा पयसाऽन्वितम् ॥ ४० ॥
तैलं विपक्कं सेकार्थे हितं तु व्रणरोपणे । ५२ ९ ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ॥ ४१ ॥
भिन्नं नेत्रमर्कर्मण्यमभिन्नं लम्बते तु यत् ।
तन्निवेश्य यथास्थानमव्याविद्धंसिरं शनैः ॥ ४२ ॥
पीडयेत्पाणिना सम्यक् पद्मपत्त्रान्तरेण तु ।
ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ॥ ४३ ॥
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च ।
जीवकर्षभकौ चैव पिष्ट्रा सर्पिर्विपाचयेत् ॥ ४४ ॥
सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते ।
उदरान्मेदसो वर्त्तिर्निर्गता यस्य देहिनः ॥ ४५ ॥
१ रोपणार्थं चन्दनादितैलमाह - चन्दनमिति । २ पयः = दुग्धम्, तच्च. तुर्गुणं ग्राह्यम् । अत्र रोपणतैलेऽष्टमशब्दग्रहणाज्जलं न देयम् । ३ द्वितीयं चन्दना-दितैलं निर्दिशति — चन्दनमिति । कर्कटाख्या = कर्कटशृङ्गी, सहे = माषपर्णीमुद्ग-पण्य, मांसी = जटामांसी नामैकदेशे नाममात्र ग्रहणमित्युक्तेः । श्रमृता = गुडूची, हरे-णवः = रेणुका, मृणालम् = उशीरम् । ४ त्रिभिर्घृतवसामज्जभिर्वृतं त्रिवृतमित्यर्थः । ५ भिन्ननयन चिकित्सितमाख्याति -अत इति । ६ कर्मणि साधु कर्मण्यं ', ' तत्र साधु ' इति यत् । न कर्मण्य मकर्मण्यम्, श्रसाध्यखेनाचिकित्स्य मित्यर्थः । श्रभिन्नम् = श्रस्फुटितमित्यर्थः । ७ श्रव्याविद्धसिरम् = अनाकुलितसिरम् । सुश्रुतार्थसन्दीपनकारस्तु ' अव्याविद्ध-शिरम्’इति पाठं मत्वा शिरःपर्यायोऽयं शिरशब्दोऽदन्तः, निचकर्तं शिरान् द्रोणिरिति-वत्, अवक्रशिरस्कमित्यर्थः । नेत्रविशेषणमेतत् । श्रातुरविशेषणत्वे तु पीडयन्नै • त्रावच्छेद इत्युन्नेयमित्याह । उदरभेदचिकित्सां ब्रवीति - उदरानिति । ३४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 688
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri अ ०२
कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् ।
अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ॥ ४६ ॥
बध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते ।
स्नेहपानादृते चापि पयःपानं विधीयते ॥ ४७ ॥
शर्करामधुयष्टिभ्यां लाक्षया वो श्वदंष्ट्रया ।
चित्रासमन्वितं चैव रुजादाहविनाशनम् ॥ ४८ ॥
आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया ।
मेदोग्रन्थौ च यत् तैलं वक्ष्यते तच्च योजयेत् ॥ ४ ९ ॥
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा ।
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ॥ ५० ॥
तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् ।
शीतोच्छ्वासं रक्तनेत्रमार्नं च विवर्जयेत् ॥ ५१ ॥।
आमाशयग्थे रुधिरे वमनं पथ्यमुच्यते ।
पक्वाशयस्थे देयं च विरेचनमसंशयम् ॥ ५२ ॥
आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः ।
यवकोलकुलत्थानां निःस्नेहेन रसेन च ॥ ५३ ॥
भुञ्जीतान्नं यवागूं वा पिवेत् सैन्धवसंयुताम् ।
अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिवेदसृक् ॥ ५४ ॥
स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः ।
व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः ॥ ५५ ॥
१ तां वर्तिमिति शेषः । सूत्रवित् = शास्त्रज्ञ इत्यर्थः । २ वाशब्दाद् योगद्वयं बोद्धव्यम् । यथा यष्टिमधुक्कथिते क्षीरे सशर्करैरण्डतैलं प्रक्षिप्य तस्य पानमिति प्रथमः, द्वितीयस्तु श्वदंष्टाक्कथिते क्षीरे सलाक्षाचित्रातिलतैलं प्रक्षिप्य पीयत इति । वृद्धवाग्भटोऽपि - " सक्षौद्रे च व्रणे वद्धे सुजीर्णेऽन्ने घृतं पिवेत् । क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः श्रुतम् ॥ रुग्दाहजित् सयष्टयाह्नैः. परं पूर्वोदितो विधिः ॥ ” इति । १३ कोष्ठगते वाटोपानाह विद्रध्यादीनिति शल्यापनयनी • योक्तोपद्रवानित्यर्थः । ४ श्रानद्धं - स्वमार्गादप्रवर्तमानदोषमलम् । ५ विगता उपद्रवा ज्वराध्मानादयो यस्य स व्युपद्रवः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 689
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by An चकित्सा Hennai and eGangotri ५३१
अभिन्न॑मन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् ।
पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ॥ ५६ ॥
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः ।
प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ॥ ५७ ॥
प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् ।
अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ॥ ५८ ॥
हस्तपादेषु संगृह्य समुत्थाप्य महाबलाः ।
भवत्यन्तःप्रवेशस्तु यथा " निर्धुनुयुस्तथा ॥ ५ ९ ॥
तथाऽन्त्राणि विशन्त्यन्तः स्वां कैलां पीडयन्ति च ।
व्रणाल्पत्वाद्वहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ॥ ६० ॥
तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् ।
यथास्थानं निविष्टे च ब्रणं सीव्येदतन्द्रितः ॥ ६१ ॥
म्थानादपेतमादत्ते प्राणान् गुम्फितमेव वा ।
वेष्टयित्वा तु पट्टेन घृत सेकं प्रदापयेत् ॥ ६२ ॥
घृतं पिवेत् सुखोष्णं च चित्रातैलसमन्वितम् ।
मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये ॥ ६३ ॥
ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः ।
त्वचोऽश्वकर्णव वयोर्मोचकी मेषशृङ्गयोः ॥ ६४ ॥
शल्लक्यर्जनयोश्चापि विदार्याः क्षीरिणां तथा ।
वलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ॥ ६५ ॥
व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च । १ अधुना कोष्ठगतान्त्र सम्भेदमभिधत्ते - अभिन्नमिति । २ तदपि = भिन्न-मपि, अन्त्रं प्रवेश्यमिति सम्बन्धः । ३ स्वस्थाने आनयनार्थमन्त्रस्योपायत्रयं निर्दि-शति — अङ्गुल्येति । ४ निर्धुनुयुः = शनैः शनैरालोढयेयुः । ५ कलां मल-धराऽख्यामित्यर्थः । ६ दुःप्रवेशस्य चिकित्सामाह - व्रणाल्पत्वादिति । व्रणाल्पत्वात् = • व्रणसौ-दम्यात् । ७ गुम्फितं - परस्परमतिक्रान्तम् । ८ चित्रातैलम् = एरण्डतैलम् । चित्रा दन्तीत्यन्ये। ९ अश्वकर्णः सालवृक्षः, मोचकी शाल्मली । १० यतेत मैथुन • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 690
पाठ पढ़ें पाठ छिपाएँ
५३२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २ पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ॥ ६६ ॥
प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् ।
कार्यो गोफरिणकाबन्धः कट्यामावेश्य यन्त्रकम् ॥ ६७ ॥
न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि ब्रणः ।
कालानुसार्यगुर्वेलाजातीचन्दनपद्मकैः ॥ ६८ ॥
शिलादामृतातुत्यैस्तैलं कुर्वीत रोपणम् ।
शिरसोऽपहृते शल्ये बालवर्ति प्रवेशयेत् ॥ ६ ९ ॥
बालवत्त्र्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ॥ ७० ॥
त्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत् ।
गात्राद्वयपहृतेऽन्यै॑स्मात् स्नेहवत्तिं प्रवेशयेत् ॥ ७१ ॥
कृते निःशोणिते चापि विधिः सद्यःक्षते हितः ।
दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ॥ ७२ ॥
कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् ।
समङ्गां रजनीं पद्मां त्रिर्वंग तुत्थमेव च ॥ ७३ ॥
विडङ्गं कटुकां पॅंथ्यां गुडूचीं सकरञ्जिकाम् ।
संहृत्य विपचेत्काले तैलं रोपणमुत्तमम् ॥ ७४ ॥
व्यायामादि परिहरन् यत्नं कुर्वीत । १ मुष्कभेदचिकित्सामाचष्टे - पादाविति । निरस्तमुष्कस्य = विलम्बिवृषणस्य, कोषान्निर्गतफलस्येति यावत् । ' मुष्कोऽण्डकोषो ॠषण: ' इत्यमरः । २ श्रतः परं विद्धचिकित्सां वक्ति - शिरस इति । अपहृते = कर्षिते । ३ मस्तु-लुङ्गं = मस्तकस्य घृताकारस्नेहः, मस्तिष्कमिति यावत् । ४ श्रन्यस्मात् = शिरोव्य. तिरिक्ताद् गात्रादित्यर्थः । स्नेहवर्ति = घृताक्तपट्टादिवर्त्तिम् । ५ नेत्रेण = व्रणप्रक्षा-लनयन्त्रेण, ‘ पिचकारी ' इति प्रसिद्धेन यन्त्रेणेति यावत् । ६ त्रिवर्ग = त्रिफलाम् । ७ पथ्या = इरीतकी । त्रिवर्गे पथ्याया ग्रहणात् पुनरत्र पथ्याग्रहणं भागद्वयप्रक्षेपार्थम् । यदुक्तम्– “ घृते तैले च योगे च यद् द्रव्यं पुनरुच्यते । तज्ज्ञातव्यमिहाचार्यैर्भागतो द्विगुणं भवेत् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar