सुश्रुत संहिता चौखम्बा — पृष्ठ 681–690

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 681–690

पृष्ठ 681

सुश्रुत संहिता चौखम्बा, पृष्ठ 681 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Ary चिकित्सास्थास hennai and eGangotri ५२३

मूलोऽष्टपरिग्राही पञ्चलक्षणलक्षितः ।

षष्टचुपक्रमनिर्दिष्टैश्चतुर्भिः साध्यते ब्रणः ॥ १३४ ॥

योऽल्पौषधकृतो योगो बहुग्रन्थभयान्मया ।

द्रव्याणां तत्समानानां तत्रावापो न दुष्यति ॥ १३५ ॥

प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः । इति । श्रन्यत्र दश यमा उक्ताः-- " ब्रह्मचर्ये दया क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसास्तेयमाधुर्ये यमश्चेति यमाः स्मृताः ॥ ” इति । नियमाः = अक्रोधादयः पञ्च, तदुक्तम् -- ' अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । सततं पञ्चैते अप्रमादश्च नियमाः स्मृताः ॥ ” इति । देवीगीतायां तु दश नियमा उक्ताः-- " तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव हीर्मतिश्च जपो हुतम् ॥ दशै-ते नियमाः प्रोक्ता मया पर्वतनायक! ॥ ” इति । १ वणस्य सङ्क्षेपेण मूलाधिष्ठानलक्षणचिकित्सापदार्थान्निर्दिशति - षण्मूल इति । वातपित्तकफशोणितसन्निपातागन्तवः षडेव मूलं कारणानि यस्य स षण्मूलः, त्वङ्मांस-सिरास्नायुसन्ध्यस्थिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि परिगृह्णातीत्यष्टपरिग्राही, परिग्रहः श्रधिष्ठानम्, आश्रय इति यावत् । पञ्चलक्षणलक्षितः -- पञ्चानां वातपित्तकफसन्निपा-तागन्तूनां लक्षणैर्लक्षितः । षष्टथुपक्रमनिर्दिष्टैः षष्टथुपक्रमा निर्दिष्टा अस्येति षष्टथुप-क्रमनिर्दिष्टेः । ‘ षष्ट्या विधाननिर्दिष्टे: ' इति पाठान्तरम् । चतुर्भिः वैद्यातुरौषधपरिचा-रकैः, व्रणः साध्यते इत्यर्थः । २ अल्पौषधेषु शोधनरोपणादियोगेषु तत्समद्रव्याणामावापविषयमुपदिशति --य इति। ३ तेषां शोधनरोपणद्रव्याणां रसगुणवीर्यविपाकैः समानानि तुल्यानि द्रव्याणि तत्समानानि तेषाम्, आवापः = प्रक्षेप:, तत्र = = तस्मिन् अल्पौषधे योगे न दुष्यतीत्यर्थः । ४ समग्रयोगालाभे यथालाभौषधप्रयोगं प्रतिपादयति - प्रसङ्गेति । प्रसङ्गाभिहितो यो बहुभेषजो दुर्लभभेषजो वा, तत्र यथोपत्ति यथालाभं चिकित्सितं भेषजं कार्यम् । प्रसङ्गाभिहितो यथा - " पिण्डीतकत्रयं रोधं पूर्वं ये च प्रकीर्तिताः । वर्गा स्त्रपः प्रलेपे ते शोफे सर्वकृते हिताः ॥ ” इति । अत्र हि वातपित्तकफशोथोक्तौषधगणत्रयं प्रकरणसमानत्वात् सन्निपातौषधप्रसङ्गाभिहितम् । तत्र यथालाभं भेषजानां चिकि-त्सितं कार्यम् । बहुभेषजो यथा - " आधे द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः ” इति । अत्र भद्रदार्वादिगणस्य बहुभेषजत्वाद् यथालाभमेव चिकित्सितं कार्यम् । दुर्ल-भभेषजो यथा - किञ्चिदेव भेषजं क्वचिदुद्देशकालादौ दुर्लभम् । तत्र यथालाभं चिकि-त्सितं कार्यमिति निबन्ध सङ्ग्रहव्याख्याकारः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 682

सुश्रुत संहिता चौखम्बा, पृष्ठ 682 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२४ Hehar Digitized by Arya Samaji सुश्रुतसंहिवा and eGangotri [ अ ० २ irand यथोपपत्ति तत्रापि कार्यमेव चिकित्सितम् ॥ १३६ ॥

गंणोक्तमपि यद्द्द्रव्यं भवेद् व्याधावयौगिकम् ।

तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्त्तितम् ॥ १३७ ॥

उपेंद्रवास्तु विविधा व्रणस्य ब्रणितभ्य च ।

तत्र गन्धादयः पञ्च व्रणस्योपद्रवाः स्मृताः ॥ १३८ ॥

ज्वरातिसारौ मूर्च्छा चँ हिक्काच्छदिररोचकः ।

श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु ॥ १३ ९ ॥

व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम् ।

भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते ॥ १४० ॥

इति सुश्रुतसंहितायां शारीरस्थाने द्वित्रणीयचिकित्सितं नाम प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः ।

* अथातः संद्योव्रणचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः ।

विश्वामित्रस्रुतं शिष्यमृषिं सुश्रुतमन्वंशात् ॥ ३ ॥

१ एकत्रैव व्याधौ यौगिकस्य ग्रहणमयौगिकस्य परित्यागं चाचष्टे - गणोक्तमिति । २ उपद्रवान्निर्दिशति - उपद्रवा इति । ३ गन्धादयः = विपरीताविपरीतव्रणविज्ञानी-योक्ताः गन्धवर्णादयः ४ चकाराद् “ विसर्पः विसर्पादीनां समुच्चयः । चरके— पक्षघातश्च सिरास्तम्भोऽपतानकः । मोहोन्मादत्रणरुजो ज्वरस्तृष्णा हनुग्रहः । कास-इछदिरतीसारो हिक्का श्वासः सवेपथुः । षोडशोपद्रवाः प्रोक्ताः व्रणानां व्रणचिन्तकैः ॥ " इति । ५ अन।गतावेक्षणेन व्रणचिकित्सां कथयति - व्रणेति । ६ उपरि सद्योव्रण- ' चिकित्सिते क्रियां वक्ष्यामीति सम्बन्धः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां प्रथमोऽध्यायः । द्वितीयोऽध्यायः । ७ सथोव्रणानां तत्कालीनव्रणानां सामान्यं विशिष्टं च चिकित्सितमिति सद्योव्रणः चिकित्सितम्, तदधिकृत्य कृतोऽध्यायस्तम् । ८ श्रन्वशात् = शिक्षितवानित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 683

सुश्रुत संहिता चौखम्बा, पृष्ठ 683 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by AryETHER चिकित्सा आजम ai Chennai and eGangotri

नानी धारामुखैः शस्त्रैर्नानास्थाननिपातितैः ।

नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ॥ ४ ॥

आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा ।

अर्द्धचन्द्रप्रतीकाशा विशाला: कुटिलास्तथा ॥ ५ ॥

शराव निम्नमध्याश्च यवमध्यास्तथाऽपरे ।

एवम्प्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ॥ ६ ॥

दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः ।

भिषणाकृतिज्ञो हि न मोहमधिगच्छति ॥ ७ ॥

भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि ।

अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ॥ ८ ॥

समासतो लक्षणतः षड्विधः परिकीर्तितः ।

छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ॥ ९ ॥

घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ।

तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् ॥ १० ॥

गार्त्रस्य पातनं चापि छिन्नमित्युपदिश्यते ।

कुन्तशक्त्यष्टिखड्गाविषाणादिभिराशयः ॥ ११ ॥

हतः किञ्चित्स्रवेतद्धि भिन्नलक्षणमुच्यते । ५२५ १ नाना धारा मुखानि च येषां तानि तैः । नानास्थानानि देहस्थानानि तेषु निपातितैर्निक्षिप्तैरिति नानास्थाननिपातितैः । अत्र श्लोके त्रीणि व्रणाकृतिकारणा-न्युक्तानि – नानाप्रकारशस्त्रधारा, नानाप्रकार शस्त्र मुखानि, नानाप्रकारदेहस्थानानि चेति। २ स्वयं भिन्नाः = पक्वभिन्नाः । ३ दुर्दर्शरूपेषु = गोशृङ्गवदुन्नतमांसप्ररोद्दाद्य • दर्शनीयेषु । ४ भिषग्भिः पुरातनः = ब्रह्मादिभिः । षाविध्यं दर्शयति- छिन्नमिति । ५ छिन्न भिन्नं चेति द्वयं तीक्ष्णमुखेन शस्त्रेण, विद्धमिति श्रणुमुखेन शस्त्रेण, क्षतं पिच्चितं घृष्टमिति त्रयं पाषाणलगुडादिभिः । ६ गात्रस्य पातनं = गात्रावयवविशे-षस्य इस्तादेः पातनम् चकारादपातनं च । ७ अग्रशब्दस्य कुन्तादिभिः सह प्रत्येकं सम्बन्धः । विषाणं = दन्तः सृङ्ग च, ' विषाणं तु शृङ्गे कोलेभदन्तयो: ' इति हेमचन्द्रः । आशयः - श्रमादिस्थानम् । ८ किञ्चित्स्रवेत् = किमप्यनिर्दिष्टमित्यर्थः । यस्य मूत्ररु • धिरादेर्य आशयो भिन्नः स तत् स्रवेत् । तेन बस्तिभिन्नो मूत्रं, रुधिराशयो रुधिरमिति CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 684

सुश्रुत संहिता चौखम्बा, पृष्ठ 684 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-५२६ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २ स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ॥ १२ ॥

हृदुण्डकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ।

तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ॥ १३ ॥

मूत्रमार्गगुदास्येभ्यो रक्तं प्रारणाच गच्छति ।

मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च ॥ १४ ॥

विण्मूत्रंवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ।

लोह्गन्धित्वमास्यस्य गात्र दौर्गन्ध्यमेव च ॥ १५ ॥

हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र

शृणु ।

आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ॥ १६ ॥

आध्मानमतिमात्रं च शूलं च भृशदारुणम् ।

पक्काशयगते चापि रुजो गौरवमेव च ॥ १७ ॥

शीतता चाप्यधो नाभेः खेभ्यो ' रक्तस्य चागमः ।

" अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् ॥ १८ ॥

पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् ।

सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वायाद्विना ॥ १ ९ ॥

निष्कर्षः । १ स्थानशब्द आमादिभिः प्रत्येकं सम्बध्यते । तथा च श्रामस्य स्थानमामा-शयः, अग्नैः पच्यमानाशयः, मलस्य पक्वाशयः, मूत्रस्य बस्तिः, रुधिरस्य यकृत्प्लीहानौ, हृद् हृदयम्, उण्डुकः इक्षुरसपाकमल वद्यः शोणितमलस्तज्ज उण्डुकः, स चान्त्रप्रदेशे व्यवस्थितः पुरीषाधानमिति, फुप्फुस इति हृदयस्य वामभागे रक्ताधारः ' फुप्फुस ' इति ख्यातः । २ तस्मिन् = कोष्ठे इत्यर्थ: 1 सर्वत्रैव रक्तस्य विद्यमानत्वाद् रक्तपूर्णे इश्युक्तम् । ३ श्रभक्तच्छन्दः = अनन्नाभिलाषः । ४ विण्मूत्र वातानां सङ्गोऽप्रवृत्तिः, निरोध इति यावत् । ५ हृत्पार्श्वयोः शूलमिति सम्बन्धः । ६ पक्वाशयस्थितस्य रक्तस्य लक्षणमाह - पक्वेत्यादिना । पक्वाशयगते = पक्का • शयस्थे ‘ रुधिरे ’ इति शेषः । रुजः = शुलम्, गौरवमिति नाभेरधो बोद्धव्यम् । ७ खे-भ्यः = स्रोतोभ्यः । ८ यद्वत् पिहितास्ये आच्छादितमुखे घटे सूक्ष्मैः खै रन्ध्ररुदक-पूरणं लक्ष्यते, तद्वद् अभिन्नेऽप्याशये अन्त्राणां सूक्ष्मैः खै रक्तेन रन्ध्रपूरणमित्यर्थः । ९ आशयादुक्तामाद्याशयं विना सूक्ष्मास्येन शल्येन यदङ्गमभिहतम् उत्तुण्डितम् उद्गतं त्वङ्मांसाच्छादितं शल्यमुखम् ईषद् दृष्टमुखं वा, निर्गतं निर्गतशल्यम् । तन्त्रान्तरे-“ विद्धमुत्तुण्डितमनुतुण्डितं भिन्नं निर्भिन्नम् ” इति चतुष्प्रकार विद्धमभिहितम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 685

सुश्रुत संहिता चौखम्बा, पृष्ठ 685 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चिकित्सास्थानम् । अ ० २ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ।

नौतिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ॥ २० ॥

विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् ।

प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ॥ २१ ॥

सास्थि तत्पिच्चितं विद्यान्मज्जैरक्तपरिप्लुतम् ।

विगतत्वग्यदङ्गं हि सङ्घर्षादन्यथाऽपि वा ॥ २२ ॥

उपास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते । २५२७ छिन्ने ' भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् ॥ २३ ॥

करोति पवनो

रक्तक्षयाद्रुज जस्तत्र भृशम् ।

स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ॥ २४ ॥

वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम् ।

धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ॥ २५ ॥

वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते ।

पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ॥ २६ ॥

अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते ।

तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ॥ २७ ॥

शीतमालेपनं कार्यं परिषेकश्च शीतलः ।

षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ॥ २८ ॥

१ नातिच्छिन्नं नावगाढच्छदम्, नातिभिन्नं नातिविदीर्णाशयम्, उभयोर्लक्षणान्वितं स्तोकच्छे दस्तोकावदरणयोगादुभयलक्षणयुक्तम्, विषमं व्रणमङ्गे यद् अङ्गवैषम्यकरं व्रणं यत्तत् क्षतमभिधीयते । २ पृथुतां = चिप्पियतामित्यर्थः । ३ मज्जरक्तपरिप्लुतं = मञ्जरक्तानुपातम् । ४ उषा = ऊ'मनिगंमवद् व्यथाविशेषः । ५ श्रधुना छिन्नादिषु चतुर्षु चिकित्सामाचष्टे - छिन्न इति । ६ वेशवारै: -निरस्थिस्विन्नस्निग्धपिष्टमांसादिभिः । तदुक्तम् - " निरस्थि पिशितं पिष्टं स्विन्नं गुड-घृतान्वितम् । कृष्णामरिचसंयुक्तं वेशवार इति स्मृतः ॥ ” इति । " तिलतण्डुलसम्पक्कः कृशरः सोऽभिधीयते ” । उपनाहनं = बन्धनम् । धान्यस्वेदास्तु - " कोशधान्यानि वा सम्य-गुपस्वेद्यास्तीर्य " इत्यादिना स्वेदाध्याये वक्ष्यन्ते । ७ नाभेरूर्ध्वगतेषु व्रणेषु स्नैह-पानम्, अधोगतेषु वस्तिरिति विवेकः । पिच्चितघृष्टयोश्चिकित्सामाख्याति - पिच्चित इति । CC - 0. Gurukul Kangri Collection, Haridwar ९ श्रगच्छति =

पृष्ठ 686

सुश्रुत संहिता चौखम्बा, पृष्ठ 686 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् । [ अ ०२ ऊर्ध्वं प्रवक्ष्यामि छित्रानां तु चिकित्सितम् ॥ २ ९ ॥

ये व्रणा ` विवृताः केचिच्छिरःपार्श्वावलम्बिनः ।

तानू सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च ॥ ३० ॥

कर्णं स्थानादर्पंहृतं स्थापयित्वा यथास्थितम् ।

सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ॥ ३१ ॥।

कृकोटिकाऽन्ते छिन्ने तु गच्छत्यपि समीरणे ।

• सम्यं निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ॥ ३२ ॥

आजेन सर्पिषा चैव परिषेकं तु कारयेत् ।

उत्तानोऽन्नं समश्नीयाच्छयीत च ' सुयन्त्रितः ॥ ३३ ॥

शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् ।

सीव्येत् सम्यङ् निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ॥ ३४ ॥

बद्ध्वा वेल्लित केनाशु ततस्तैलेन सेचयेत् ।

चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ॥ ३५ ॥

पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् ।

अतोऽन्यथा " चोरसिजे शाययेत् पुरुषं ब्रणे ॥ ३६ ॥

छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् । I बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ॥ ३७ ॥

अस्रवति सति । तस्मिन् = रुधिरे इत्यर्थः । १ मूर्धाद्यवयवाश्रितच्छिन्नचिकित्सा-माह - अत इत्यादिना । २ विवृताः - व्यात्तमुखाः । ३ ऋजुग्रन्थित्वेन सेवन्या-दिना सीव्येदित्यर्थः । ४ अपहृतं = भ्रष्टम्, अनिःशेषत श्छिन्नमिति यावत् । ५ तैलेन = नासासन्धानोक्त विधिसाहचर्यात् कृष्णतिलतैलेन स्रोतः कर्णविवरम्, चकारात् स्थूतप्रदेशश्च । ६ शिरोग्रीवयोः सन्धाने कृकाटिकाऽख्ये द्वे सन्धिमर्मणी, तयोः समीपवर्तिश्वासानिलवाहिनी नाडी कृकाटिकान्तस्तस्मिन् । ७ सम्यङ्निवेश्य -यथास्थानं स्थापयित्वा । ८ उत्तानः = शय्यासंलग्नपृष्ठतयो दूर्ध्वभावापन्नः । ९ सुय-न्त्रितः = शिरश्रादिपरिचालन विरहितत्वे सुसंयतः सन्नित्यर्थः । १० शाखासु -चतसृषु, हस्तयोः पादयोश्चेत्यर्थः । ११ अन्यथा = अधोमुखम् । १२ प्राप्तं = युक्तमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 687

सुश्रुत संहिता चौखम्बा, पृष्ठ 687 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०२ २ ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri

चैन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः ।

हरिद्रा मधुकं चैव पेयः स्यादुत्र चाष्टमम् ॥ ३८ ॥

तैलमेभिर्विपक्कं तु प्रधानं व्रणरोपणम् ।

चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृते ॥ ३ ९ ॥

हरेणवो मृणालं च त्रिफला पद्मोत्पले ।

त्रयोदशाङ्गं त्रिवृत्तमेतद्वा पयसाऽन्वितम् ॥ ४० ॥

तैलं विपक्कं सेकार्थे हितं तु व्रणरोपणे । ५२ ९ ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ॥ ४१ ॥

भिन्नं नेत्रमर्कर्मण्यमभिन्नं लम्बते तु यत् ।

तन्निवेश्य यथास्थानमव्याविद्धंसिरं शनैः ॥ ४२ ॥

पीडयेत्पाणिना सम्यक् पद्मपत्त्रान्तरेण तु ।

ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ॥ ४३ ॥

आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च ।

जीवकर्षभकौ चैव पिष्ट्रा सर्पिर्विपाचयेत् ॥ ४४ ॥

सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते ।

उदरान्मेदसो वर्त्तिर्निर्गता यस्य देहिनः ॥ ४५ ॥

१ रोपणार्थं चन्दनादितैलमाह - चन्दनमिति । २ पयः = दुग्धम्, तच्च. तुर्गुणं ग्राह्यम् । अत्र रोपणतैलेऽष्टमशब्दग्रहणाज्जलं न देयम् । ३ द्वितीयं चन्दना-दितैलं निर्दिशति — चन्दनमिति । कर्कटाख्या = कर्कटशृङ्गी, सहे = माषपर्णीमुद्ग-पण्य, मांसी = जटामांसी नामैकदेशे नाममात्र ग्रहणमित्युक्तेः । श्रमृता = गुडूची, हरे-णवः = रेणुका, मृणालम् = उशीरम् । ४ त्रिभिर्घृतवसामज्जभिर्वृतं त्रिवृतमित्यर्थः । ५ भिन्ननयन चिकित्सितमाख्याति -अत इति । ६ कर्मणि साधु कर्मण्यं ', ' तत्र साधु ' इति यत् । न कर्मण्य मकर्मण्यम्, श्रसाध्यखेनाचिकित्स्य मित्यर्थः । श्रभिन्नम् = श्रस्फुटितमित्यर्थः । ७ श्रव्याविद्धसिरम् = अनाकुलितसिरम् । सुश्रुतार्थसन्दीपनकारस्तु ' अव्याविद्ध-शिरम्’इति पाठं मत्वा शिरःपर्यायोऽयं शिरशब्दोऽदन्तः, निचकर्तं शिरान् द्रोणिरिति-वत्, अवक्रशिरस्कमित्यर्थः । नेत्रविशेषणमेतत् । श्रातुरविशेषणत्वे तु पीडयन्नै • त्रावच्छेद इत्युन्नेयमित्याह । उदरभेदचिकित्सां ब्रवीति - उदरानिति । ३४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 688

सुश्रुत संहिता चौखम्बा, पृष्ठ 688 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri अ ०२

कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् ।

अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ॥ ४६ ॥

बध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते ।

स्नेहपानादृते चापि पयःपानं विधीयते ॥ ४७ ॥

शर्करामधुयष्टिभ्यां लाक्षया वो श्वदंष्ट्रया ।

चित्रासमन्वितं चैव रुजादाहविनाशनम् ॥ ४८ ॥

आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया ।

मेदोग्रन्थौ च यत् तैलं वक्ष्यते तच्च योजयेत् ॥ ४ ९ ॥

त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा ।

कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ॥ ५० ॥

तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् ।

शीतोच्छ्वासं रक्तनेत्रमार्नं च विवर्जयेत् ॥ ५१ ॥।

आमाशयग्थे रुधिरे वमनं पथ्यमुच्यते ।

पक्वाशयस्थे देयं च विरेचनमसंशयम् ॥ ५२ ॥

आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः ।

यवकोलकुलत्थानां निःस्नेहेन रसेन च ॥ ५३ ॥

भुञ्जीतान्नं यवागूं वा पिवेत् सैन्धवसंयुताम् ।

अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिवेदसृक् ॥ ५४ ॥

स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः ।

व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः ॥ ५५ ॥

१ तां वर्तिमिति शेषः । सूत्रवित् = शास्त्रज्ञ इत्यर्थः । २ वाशब्दाद् योगद्वयं बोद्धव्यम् । यथा यष्टिमधुक्कथिते क्षीरे सशर्करैरण्डतैलं प्रक्षिप्य तस्य पानमिति प्रथमः, द्वितीयस्तु श्वदंष्टाक्कथिते क्षीरे सलाक्षाचित्रातिलतैलं प्रक्षिप्य पीयत इति । वृद्धवाग्भटोऽपि - " सक्षौद्रे च व्रणे वद्धे सुजीर्णेऽन्ने घृतं पिवेत् । क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः श्रुतम् ॥ रुग्दाहजित् सयष्टयाह्नैः. परं पूर्वोदितो विधिः ॥ ” इति । १३ कोष्ठगते वाटोपानाह विद्रध्यादीनिति शल्यापनयनी • योक्तोपद्रवानित्यर्थः । ४ श्रानद्धं - स्वमार्गादप्रवर्तमानदोषमलम् । ५ विगता उपद्रवा ज्वराध्मानादयो यस्य स व्युपद्रवः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 689

सुश्रुत संहिता चौखम्बा, पृष्ठ 689 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by An चकित्सा Hennai and eGangotri ५३१

अभिन्न॑मन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् ।

पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ॥ ५६ ॥

प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः ।

प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ॥ ५७ ॥

प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् ।

अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ॥ ५८ ॥

हस्तपादेषु संगृह्य समुत्थाप्य महाबलाः ।

भवत्यन्तःप्रवेशस्तु यथा " निर्धुनुयुस्तथा ॥ ५ ९ ॥

तथाऽन्त्राणि विशन्त्यन्तः स्वां कैलां पीडयन्ति च ।

व्रणाल्पत्वाद्वहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ॥ ६० ॥

तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् ।

यथास्थानं निविष्टे च ब्रणं सीव्येदतन्द्रितः ॥ ६१ ॥

म्थानादपेतमादत्ते प्राणान् गुम्फितमेव वा ।

वेष्टयित्वा तु पट्टेन घृत सेकं प्रदापयेत् ॥ ६२ ॥

घृतं पिवेत् सुखोष्णं च चित्रातैलसमन्वितम् ।

मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये ॥ ६३ ॥

ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः ।

त्वचोऽश्वकर्णव वयोर्मोचकी मेषशृङ्गयोः ॥ ६४ ॥

शल्लक्यर्जनयोश्चापि विदार्याः क्षीरिणां तथा ।

वलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ॥ ६५ ॥

व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च । १ अधुना कोष्ठगतान्त्र सम्भेदमभिधत्ते - अभिन्नमिति । २ तदपि = भिन्न-मपि, अन्त्रं प्रवेश्यमिति सम्बन्धः । ३ स्वस्थाने आनयनार्थमन्त्रस्योपायत्रयं निर्दि-शति — अङ्गुल्येति । ४ निर्धुनुयुः = शनैः शनैरालोढयेयुः । ५ कलां मल-धराऽख्यामित्यर्थः । ६ दुःप्रवेशस्य चिकित्सामाह - व्रणाल्पत्वादिति । व्रणाल्पत्वात् = • व्रणसौ-दम्यात् । ७ गुम्फितं - परस्परमतिक्रान्तम् । ८ चित्रातैलम् = एरण्डतैलम् । चित्रा दन्तीत्यन्ये। ९ अश्वकर्णः सालवृक्षः, मोचकी शाल्मली । १० यतेत मैथुन • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 690

सुश्रुत संहिता चौखम्बा, पृष्ठ 690 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५३२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० २ पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ॥ ६६ ॥

प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् ।

कार्यो गोफरिणकाबन्धः कट्यामावेश्य यन्त्रकम् ॥ ६७ ॥

न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि ब्रणः ।

कालानुसार्यगुर्वेलाजातीचन्दनपद्मकैः ॥ ६८ ॥

शिलादामृतातुत्यैस्तैलं कुर्वीत रोपणम् ।

शिरसोऽपहृते शल्ये बालवर्ति प्रवेशयेत् ॥ ६ ९ ॥

बालवत्त्र्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ॥ ७० ॥

त्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत् ।

गात्राद्वयपहृतेऽन्यै॑स्मात् स्नेहवत्तिं प्रवेशयेत् ॥ ७१ ॥

कृते निःशोणिते चापि विधिः सद्यःक्षते हितः ।

दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ॥ ७२ ॥

कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् ।

समङ्गां रजनीं पद्मां त्रिर्वंग तुत्थमेव च ॥ ७३ ॥

विडङ्गं कटुकां पॅंथ्यां गुडूचीं सकरञ्जिकाम् ।

संहृत्य विपचेत्काले तैलं रोपणमुत्तमम् ॥ ७४ ॥

व्यायामादि परिहरन् यत्नं कुर्वीत । १ मुष्कभेदचिकित्सामाचष्टे - पादाविति । निरस्तमुष्कस्य = विलम्बिवृषणस्य, कोषान्निर्गतफलस्येति यावत् । ' मुष्कोऽण्डकोषो ॠषण: ' इत्यमरः । २ श्रतः परं विद्धचिकित्सां वक्ति - शिरस इति । अपहृते = कर्षिते । ३ मस्तु-लुङ्गं = मस्तकस्य घृताकारस्नेहः, मस्तिष्कमिति यावत् । ४ श्रन्यस्मात् = शिरोव्य. तिरिक्ताद् गात्रादित्यर्थः । स्नेहवर्ति = घृताक्तपट्टादिवर्त्तिम् । ५ नेत्रेण = व्रणप्रक्षा-लनयन्त्रेण, ‘ पिचकारी ' इति प्रसिद्धेन यन्त्रेणेति यावत् । ६ त्रिवर्ग = त्रिफलाम् । ७ पथ्या = इरीतकी । त्रिवर्गे पथ्याया ग्रहणात् पुनरत्र पथ्याग्रहणं भागद्वयप्रक्षेपार्थम् । यदुक्तम्– “ घृते तैले च योगे च यद् द्रव्यं पुनरुच्यते । तज्ज्ञातव्यमिहाचार्यैर्भागतो द्विगुणं भवेत् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar