सुश्रुत संहिता चौखम्बा — पृष्ठ 691–700
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 691–700
पृष्ठ 691
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by A म्बिकाल्सास्थानम् Ghennai and eGangotri ५३३
तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् ।
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ॥ ७५ ॥
पक्कं सद्योत्रणेपूक्तं तैलं रोपणमुत्तमम् ।
क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ॥ ७६ ॥
घृष्ठे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम् ।
विश्लिष्टदेहं पतितं मथितं हतमेव च ॥ ७७ ॥
वासयेत्तैलपूर्णायां द्रोण्यों मांसरसाशनम् ।
अयमेव विधिः कार्यः क्षोणे मर्महते तथा ॥ ७८ ॥
रोपणे सपरीषेके पाने च त्रणिनां सदा ।
तैलं घृतं वा संयोज्यं शरीरतूनवेक्ष्य हि ॥ ७ ९ ॥
घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ ।
सद्योव्रणेषु देयानि तानि वैद्येन जानता ॥ ८० ॥।
सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् ।
सर्पिषा नातिशीतेन बलातैलेन वा पुनः ॥ ८१ ॥
समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् ।
पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकम् ॥ ८२ ॥
तालीशपत्रं नलं चन्दनं पद्मकेशरम् ।
मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ॥ ८३ ॥
प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च ।
यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ॥ ८४ ॥
सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् । १ श्रन्यदपि रोपणार्थं तैलं निर्दिशति — तालीशमिति । २ क्षतसामान्यो विधिः क्षतविधिः, क्षौद्रघृततैलाभ्यङ्गादिः सर्वः । ३ चूर्णैः = मिश्रकोक्तकङ्गुकात्रि-फलारोघ्रादिकृतैरित्यर्थः । ४ प्रसङ्गाद् विश्लष्टदेद्दादीनां चिकित्सां ब्रवीति - वि. श्लिष्टेति । विश्लिष्टदेहं = नमनाकर्षणारोहणादिभिः स्वस्थानच्युतावयवदेहम्, पति • तं = वृक्षादितः पतनॆन प्रपीडितम्, मथितं = इस्त्यादिभिर्व्यथितम् इतं = दण्डमु • ष्टयादिभिराइतम् । ५ द्रोणी काष्ठनिर्मिता लघुनौरिव, ' द्रोणी काष्ठाम्बुवाहिनी ' इत्य-मरः । ' कठौता ' ' टब ' इति वा बोध्यम् । ६ क्षीणे = श्रध्वादिक्षीणे । ७ अस्यैव CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 692
पाठ पढ़ें पाठ छिपाएँ
५३४ by Arya Samaj Fo सुश्रुतसंहताना neGangotri [ अ ०२ कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत् ॥ ८५ ॥
सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् ।
दुष्टव्रणेषु कर्त्तव्यमूर्ध्वं चाधश्च शोधनम् ॥ ८६ ॥
विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् ।
कषायं राजंवृक्षादौ सुरसादौ च धावनम् ॥ ८७ ॥।
तयोरेव कषायेण तैलं शोधनमिष्यते ।
क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ॥ ८८ ॥
द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च ।
पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ॥ ८ ९ ॥
त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः ।
भूमिकँदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ॥ ९ ० ॥
नैपाली जालिनी चैव मदयन्ती मृगादनी ।
सुधामूर्वाऽर्क कीटारिहरितालकरञ्जिकाः ॥ ९ १ ॥
यथोपपत्ति कर्त्तव्यं तैलमेतैस्तु शोधनम् ।
घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ॥ ९ २ ॥
स्थानस्य ' पञ्चदशाध्याये वच्यमाणेन बलातैलेनेत्यर्थः । १ पूर्वोक्तं = द्वित्रणी • योक्तम् । २ प्रसङ्गाद् दुष्टवणविधिमधिकरोति - दुष्टेति । ३ राजवृक्षादिः आरग्वधादिः, सुरसादिश्च द्रव्य सङ्ग्रहणीयाध्याये उक्तः । ४ क्षारपाकविधावुपदिष्टानां मुष्क • पलाशादीनां क्षारं षड्गुणेनोदकेन मूत्रेण वा एकविंशतिवारान् परिस्राव्य तैलाच्च-' तुर्गुणे तस्मिन् क्षारोदके तैलं पावयेदित्याशयेनाह – झारकल्पेनेति । ५ श्रधुना सर्वदुष्टव्रणेषु तैलघृतकल्कयोगान्निर्दिशति --द्रवन्तीति । द्रवन्ती = दन्तीभेदः, चिरबिल्वः = करञ्जकः, दन्ती = ' दतैया ' इत्यादिनाम्नाऽवध प्रान्तादौ प्रति-द्धा, चित्रकं = ' चीता ' इति, पृथ्वीका = कृष्णजीरकः । ६ तेजोवती = चव्यम्, नीली = ' नोल ' इति ख्याता । ' नीलादोषधौ ' इति ङीष् । ७ भूमिकदम्बः = मुण्डिति • का, सुवहा = निर्गुण्डी, शुकाख्या = शिरीषः, लाङ्गलाह्वया = कलिहारिका । ८ नेपाली = मनःशिला, जालिनी = कोशात की, मदयन्ती = वनमल्लिका, मृगादनी = इन्द्रवारुणी, ९ सुधा = ' सेंहुड ' इति, मूर्वा = ' मरोरफली ' इति श्रः = ' आक ' इति, कोटारिः = विटङ्गम्, हरितालं प्रसिद्धम्, करञ्जिका नक्तमालफलम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 693
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Ar चिकित्सास्थानम् Chennai and eGangotri
सैन्धवत्रिवृदे रण्डपत्र कल्कस्तु वातिके ।
त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः ॥ ९ ३ ॥
कफजे तिलतेजोह्लादन्तीस्वर्जिकचित्रकाः ।
दुष्टव्रणविधिः कार्यो मेहकुष्टव्रणेष्वपि ॥ ९ ४ ॥।
षड्र्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः ।
नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ॥ ९ ५ ॥
उपसगैर्निपातैश्च तत् तु पण्डितमानिनः ।
केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः । ९ ६ ॥
बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते ।
विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ॥। ९ ७ ॥ १
इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योत्रण चिकित्सितं नाम द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ।
अथातो भग्नानां चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च । ५३५ १ वातादिभेदेन कल्कान्तराण्युपदिशति -- सैन्धवेति । २ तेजोऽह्वा = चविका । ३ छिन्नादिषट्के कस्यचिद् विप्रतिपत्ति निराकुर्वन् षड्विधत्वमेव प्रतिपादयति-वििध इति । ४ श्रतः परमिति सम्बन्धः । श्राः परं = सप्तविधत्वादि । ५ ब-हूक्तानामपि सद्योव्रणानां षट्स्वेवान्तर्भावं ब्रवीति - उपसर्गेरिति । उपसर्गौः = = प्रा. दिभिः, निपातैः = चादिभिः, " घृष्टावकृत्तविच्छिन्नपविलम्बितपातितम् ” इति क्रमेण संयोज्य बहु भाषन्ते । ६ अवतिष्ठते = श्रन्तर्भवतीत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधा ss ख्यटिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । ७ भग्नानां त्रुटितानामङ्गावयवानां चिकित्तिमित्यर्थः । भग्नं द्विविधं --सनण-मन्त्रणं प्रल्पाशिन इति । श्रल्पा-चेति । ८ येषा॑ भग्नं कृच्छ्रसाध्यं तान्निर्दिशति --CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 694
पाठ पढ़ें पाठ छिपाएँ
५३६ Digitized by Arya Sama सुश्रुतसंहितायां and eGangotri उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ॥ ३ ॥
लैवणं कटुकं क्षारमम्लं मैथुनमातपम् ।
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ॥ ४ ॥
शौलिर्मांसरसः क्षीरं सर्पिर्यूषः सँतीनजः ।
बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ॥ ५ ॥
मधूकोदुम्बराश्वत्थपलाशककुभत्वचः ।
वंर्शसर्जवटानां वा कुशार्थमुपसंहरेत् ॥ ६ ॥
आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम् ।
शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत् ॥ ७ ॥
सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम् ।
साधारणेषु कर्त्तव्यं पञ्चमे पञ्चमेऽहनि ॥ ८ ॥
आग्नेयेषु त्र्यहात् कुर्य्याद्भर्नदोषवशेन वा । [ अ ० ३ शिनः = श्रद्दाररहितस्य, अनात्मवतः = श्रवशेन्द्रियस्य, अपथ्याशिन इत्यर्थः । १ उपद्रवैः = ज्वराध्मानमूत्रपुरीषसङ्गादिभिः । २ भग्ना और सेव्यानि दर्शयति--लवणमिति । ' ३ भग्नाङ्गैः सेव्यानि निर्दिशति -- शालिरिति । ४ सतीनः -वर्तुलकलायः । ५ भग्नबन्धनद्रव्याणि दर्शयति-- मधूकेति । ६ वंशेत्यादौ ' त्वच ' इत्यस्य योजना । कुशाशब्देन भग्नवन्धनार्थं वंशवेत्रादिकं प्रोच्यते । श्रत्र सुश्रुतार्थ-सन्दीपनकारः — कुशा नाम सामगानां स्तोत्रगाने तालव्यञ्जनाय ग्राह्य श्रडुम्बरशङ्कु · स्तत्साम्यात् कुशा शब्दोऽत्र तदाकारे भग्नसंश्लेषणे फलके प्रवर्तत इति निश्चीयते । ‘ वल्कलैः शकलैरपि ” “ कुशाह्वयैः समं बन्धम् " इति तन्त्रान्तरीये कुशाशब्दस्य तदर्थे प्रयोगदर्शनादिति । वाग्भटः-- " आन्छनोत्पीडनोन्नामचर्मसङ्क्षेपबन्धनैः । सन्धीन् शरीरगान् सर्वान् चलानप्य चलानपि ॥ इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्च लम् । पट्ट्ः प्रभूतसर्पिभिर्वेष्टयित्वा सुखैस्ततः ॥ कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः । वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः । सुश्लक्ष्णैः सुप्रतिस्तम्भैर्वल्कलैः शकलैरपि । कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ॥ ” उपसंहरेत् = समीपे श्रासादयेत् । ७ भग्नलेपनद्रव्याण्याह- – अ आलेपनार्थमिति । ऋतुविशेषेण भग्नबन्ध-नकालावधिमभिधत्ते — सप्ताहादिति । अष्टाङ्गहृदये - " यहात त्र्यहादृतौ घर्मे सप्ता-हान्मोक्षयेद्धिमे । साधारणे तु पञ्चाहाद् भङ्गदोषवशेन वा ॥ ” इति । ९ पक्षान्तरमाह-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 695
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized byparf के सास्थानम् । Chennai and eGangotri ५३७ तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते ॥ ९ ॥
गाढेनापि त्वगादीनां शोफो रुक् पाक एव च ।
तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदुः ॥ १० ॥
न्यग्रोधादिकषायं तु सुशीतं परिषेचने ।
पञ्चमूली विपक्कं तु क्षीरं कुर्यात् सवेदने ॥ ११ ॥।
सुखोष्णमवचार्यं वा चक्रतैलं विजानता ।
विभज्य काल दोषं च् दोषघ्नौषधसंयुतम् ॥ १२ ॥
परिषेकं प्रदेहं च विद्ध्याच्छीतमेव च ।
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ॥ १३ ॥।
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिवेन्नरः ।
' सत्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः ॥ १४ ॥
प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत् ।
प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् ॥ १५ ॥
अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके ।
प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत् ॥ १६ ॥
मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः । भग्नेति । भग्नदोषवशेन = भग्नोष्मणस्तीस्तेम्येनेत्यर्थः । एतेनोष्मबलमभिसमीक्ष्य यथा त्वगादयः प्रदुष्टा न भवेयुस्तथैव बन्धनं कार्यमित्यायातम् । १ तस्मात् = गाढ-शिथिलयोर्बन्धयोर्दोषावहत्वात्, साधारणं = समाख्यं बन्धनमित्यर्थः । २ सवेदने भग्ने परिषेकविधिमुपदिशति – न्यग्रोधेति । न्यग्रोधादिकषायं = न्यग्रोधादिगणोक्तौ. षधिक्काथम् । ३ भग्ने श्रभ्यन्तरमौषधमभिधत्ते – गृष्टीति । गृष्टिः = सकृत्प्रसूता गौः । मधुरौषधैः काकोल्यादिभिः साधितम् । कल्पनाप्रकारो निबन्धसङ्ग्रहव्याख्यायाम्— काकोल्यादीनां मधुराणां कर्षमात्रं द्रव्यमष्टगुणं क्षीरं चतुर्गुणोदकसिद्धं क्षीरशेषं सर्पि-लक्षाकर्षमात्र प्रक्षेपान्वितम्, तच्च लघौ कोष्ठे देयम्, इयं च दिनं प्रति मात्रा । ४ सव्रणस्य भग्नस्य चिकित्सां वक्ति- सव्रणस्येति । सर्पिर्मधूत्तरैः घृतमधुप्र-धानैः कषायैः न्यग्रोधादिकल्कैः व्रणं प्रतिसार्य प्रलिप्य, शेषं बन्धनादिकम् । ५ का लदोषाश्रयं भग्नस्य साध्यत्वं निर्दिशति - प्रथम इति । सुकरं = सुखसाध्यम् । ६ द्विगुणात्कालात् = द्वाभ्यां मासाभ्याम्, उत्तरे = चरमे वयसि, त्रिगुणात् = त्रिभिर्मा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 696
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ५३८० " सुश्रुतसंहिताया-[ अ ० ३ अव॑नामि॒ितमुन्नह्येदुन्नतं चावपीडयेत् ॥ १७ ॥
आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्जयेत् ।
आञ्छनैः पोडनैश्चैव सङ्क्षेपैर्बन्धनैस्तथा ॥ १८ ॥
सन्धीञ्छरीरे सर्वांस्तु चलान्यप्यचलानपि ।
एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् ॥ १ ९ ॥
उत्पिष्टमथ विश्लिष्टं सन्धि वैद्यो न घट्टयेत् ।
तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् ॥ २० ॥
अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः ।
घृतदिग्वेन पट्टेन वेष्टयित्वा यथाविधि ॥ २१ ॥
पट्टोपरि कुशान् दत्त्वा यथावद्बन्धमाचरेत् ।
प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते ॥ २२ ॥
नखसन्धि समुत्पिष्टं रक्तानुगतमारया ।
अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् ॥ २३ ॥
भग्नां वा सन्धिमुक्तां वा स्थापयित्वाऽङ्गुलीं समाम् ।
अणुनाऽऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् ॥ २४ ॥
अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरम् । सैरित्यर्थः । १ अवनामितम् = अधोगतम्, उन्नह्येत् = ऊर्ध्वं कुर्यात्, उन्नतम् = उद्गतम्, अवपीडयेत् = अधः कुर्यात्, प्रतिक्षिप्तम् = प्रतिप्रेरितम् । २ आन्छेत् = यथावत् स्थापनार्थंमाकर्षेत्, अधोगतम्, उपरि वर्तयेत् नयेत् । ३ चलान् हस्तपादकटीहनुगतान्, तद्विपरीतान् अचलान् । तदुक्तम् — “ शा-खासु हन्वोः कटयां च चेष्टावन्तो भवन्ति हि । शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदा • हृताः ॥ ” इति । ४ उत्पिष्टं = द्वाभ्यामस्थिभ्यां सन्धौ घर्षणम्, चूर्णित मित्यर्थः । विश्लिष्टं = मनाक् सन्धिविश्लेषः शिथिलतामात्रम्, स्वस्थानाच्च्युतमित्यर्थः । ५ कु · शान् = मधूकोदुम्बराश्वत्थादीनां त्वचः काष्ठानि च । ६ उत्पष्टनख सन्धिचिकि • त्सामाइ – नखेति । समुत्पिष्टं = सन्चूर्णितम्, रक्तानुगतं = दुष्ट रक्तानुविद्धम्, श्रारया = चर्मकाराणां व्यधनास्त्रेण । ७ अङ्गुलिभग्नचिकित्सां वक्ति – भग्नामिति । पादतल भग्नचिकित्सां नवीति — अभ्यज्येति । तलभग्नं पादं वस्त्रपट्टेन कुशोत्तरं बध्नीयादिति सम्बन्धः । कुशा भग्नबन्धनार्थं वंशवेत्रादित्वक् काष्ठं वा पश्चात् प्रदेशेऽस्येति कुशो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 697
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Arya" चिकित्सास्थानम् " P ngation Chennai and eGangotri ५३ ९ वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत् ॥ २५ ॥
अभ्यैज्यायामयेज्जङ्घामूरुं च सुसमाहितः ।
दत्त्वा वृक्षत्वचः शीतो वस्त्रपट्टेन वेष्टयेत् ॥ २६ ॥
तिमयोगेन ह्यान्छेदस्थि निर्गतम् ।
स्फुटितं पिच्चितं चापि बध्नीयात् पूर्वर्वंद्भिषक् ॥ २७ ॥
औच्छेदूर्ध्वमधो वाऽपि कटिभग्नं तु मानवम् ।
ततः स्थानस्थिते सन्धौ वस्तिभिः समुपाचरेत् ॥। २८ ॥
पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः ।
दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः ॥ २ ९ ॥
ततः कर्वौलिकां दत्त्वा वेष्टयेत् सुसमाहितः । त्तरम् । १ भग्नजङ्ङ्घोरोश्चिकित्सा कथयति — अभ्यज्येति । जङ्घा = गुल्फोपरि जान्वधोभागे नलकाश्रया । २ शीता वृक्षत्वचः - न्यग्रोधादिशीतवृक्षाणां कुशानित्यर्थः । ३ उर्वस्थिभङ्गे विशेषचिकित्सामाचष्टे - मतिमानिति । चक्रयोगेन वर्तुलान् कुशान् दत्त्वा I नामयित्वा चक्रवदान्छेद् बध्नीयादित्यर्थः सुश्रुतार्थसन्दीपन-कारस्तु — ऊरुसन्धेरुदूखलाकाराद् गह्वराद् बहिर्निर्गतं हि मुसलाकारमस्थ्यायतत्वादाभु-ग्नत्वान्मांसादिसन्ततत्वाच्चाशक्यं भवति स्वस्थानमानेतुं इस्तेनेति कटीमावेष्ट्य दृढमा-तुरं कीलकबन्धं निबध्य बलवद्भिर्ग्राहयित्वा वा चक्राश्रितया रज्ज्वा जानुसन्धेरूर्ध्व बध्वा प्राणानबाधमानाः शनैः शनैश्चक्रभ्रामणेन रज्जु तामाकृष्यास्थि तदुदूखलसम्मु-खमानयन्ति कुशला यथावदवस्थापयितुं तदिदमुच्यते - मतिमानित्यादि । तथा च मतिमान् समीक्ष्यकारी चक्रयोगेन प्रदर्शितया रीत्या चक्रप्रयोगेण निर्गतमुदूखलाद्वहि-निर्गतम् ऊर्वस्थि ऊरुसन्धिगतं मुसलाकारमस्थ्यान्छेदाकर्षेदित्यादि व्याख्याय पूर्वोक्त-मर्थं निराकृतवान् । ४ पूर्ववत् = तलभग्नवत् । ५ कटिभग्नचिकित्सां प्रतिपादयति- आञ्छेदिति । ऊर्ध्वगतमस्थि अधः कृत्वा, अधोगतं तु ऊर्ध्वं कृत्वा बध्नीयादित्यर्थः । ६ बस्तिभिः = यथायोगमास्थापनानुवास · नोत्तरवस्तिभिः । ७ पर्शुकाभग्नचिकित्सामभिधत्ते - पर्शुकास्विति । पर्शुकासु = = पृष्ठभागनिबन्धनास्थिषु, पाश्र्वास्थिष्वित्यर्थः । ' पाश्वस्थनितु पर्शुका ' इत्यमरः । पर्शु-रिव पर्शुका ' इवे प्रतिकृतौ ' इति कन् । दक्षिणास्वथवा वामासु पर्शुकासु भग्नास्विति सम्बन्धः । भग्नासु कोऽर्थः? श्रानतासु तेषां नमनमेव भग्नत्वम् । निबन्धनी: -मांसरज्जवः । निबध्यते श्रभिरिति व्युत्पत्तिः । ९ औषधवस्त्रयोरन्तरे औषध संस्थापनार्थं या भौदुम्बरादित्वक् पत्राणि वा दीयते CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 698
पाठ पढ़ें पाठ छिपाएँ
५४० Digitized by Arya Samajtसुश्रुतसंहिता jaand eGangotri [ अ ० ३ तैलपूर्णे कटाहे वा द्रोण्यों वा शाययेन्नरम् ॥ ३० ॥
मुसले नोत्क्षिपेत् कक्षामंससन्धौ विसंहते ।
स्थानस्थितं च बध्नीत स्वस्तिकेन विचक्षणः ॥ ३१ ॥
' कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत् ।
अनुमृज्य ततः सन्धि पीडयेत् कूर्परौच्च्युतम् ॥ ३२ ॥
प्रसार्याकुर्च्चयेच्चैनं स्नेहसेकं च दापयेत् ।
• एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् ॥ ३३ ॥
" उभे तले समे कृत्वा तलभग्नस्य देहिनः ।
बध्नीयादामतैलेन परिषेकं च कारयेत् ॥ ३४ ॥
मृत्पिण्डं धारयेत् पूर्व लवणं च ततः परम् ।
हस्ते जातबले चापि कुर्यात् पाषाणधारणम् ॥। ३५ ॥
" सन्नमुन्नमयेत् स्विन्नमतकं मुसलेन तु । I. सा कवलिका । कवलयति प्रच्छादनेन व्रणान् ग्रसतीवेति कवलिका व्रणप्रच्छादनं निर्मलं सूक्ष्मवस्त्रमिति यावदिति श्रीहाराणचन्द्रः । १ ' द्रोणी काष्ठाम्बुवाहिनी ' इत्यमरः । २ स्कन्धभग्नचिकित्सांवक्ति - मुसलेनेति । उत्क्षिपेत् = ऊर्ध्वं नयेत् । श्रंससन्धौ = भुजशिरः सन्धौ विसंहते = विश्लिष्टे । ३ स्वस्तिकेन = व्रणालेपनबन्ध विध्यध्यायो • क्तेन स्वस्तिकाकृतिबन्धविशेषेणेत्यर्थः । ४ कूर्परसन्धिभग्नचिकित्सां दर्शयति- कौ-र्परमिति । कूर्परः = ‘ केहुनी ' इति ख्यातः, तत्र भवं कौर्परम्, सन्धिमित्यस्य विशेष. णम् । अनुमार्जयेत् = अनुमर्दयेत्, एतदनुमार्जनं प्रच्युतस्य सन्ध्यस्थ्नो मार्गोपल. म्भार्थम् । ५ कूर्पराच्च्चुतं कूर्परगर्ताद्वहिर्निर्गतं सन्धि सन्ध्यवयवभूतं ' गुटिकाऽऽकारम-स्थिविशेषं पीडयेद् विमदयेत् । ६ सन्धेः प्रसारणाकुचने ऋजुकृत्य स्वस्थाने स्थाप-नायेति बोध्यम् । ७ अनन्याकृतिकत्वात् कूर्परसन्धिचिकित्सितं जान्वादावतिदिशति - एवमिति । एवं = कूर्परसन्धिचिकित्सितप्रकारेण । इस्ततल चिकित्सामभिधत्ते - उभ इति । ९ मृत्पिण्डादिधारणं क्रमशो गुरुभारार्पणेन शनैः शनैः स्वकार्यक्षमत्वसम्पादनार्थम् । उपलक्षणमेतत् । एवं च द्रव्यान्तररधारणमप्यविरुद्धम् । क्वचित् - " मृत्पिण्डं धारये • त् ” इत्यादिश्लोकार्द्धस्थाने " प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः " इति पाठान्तरम् । १० नतोन्नतयोरक्षकयोश्चिकित्सां ब्रवीति सन्नमिति । सन्नम् = अवनतम्, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 699
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ५४१
^ चिकित्सास्थानम् ।
तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च ॥ ३३ ॥
ऊरुवच्चापि कर्त्तव्यं बाहुभग्नचिकित्सितम् ।
ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि च ॥ ३७ ॥
अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम् ।
ततः कुशाः समं दत्त्वा वस्त्रपट्टेन वेष्टयेत् ॥ ३८ ॥
उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रितः ।
न्वस्थिनी समानीय हनुसन्धौ विसंहते ॥ ३ ९ ॥
स्वेदयित्वा स्थितेः सम्यक् पञ्चाङ्गीं वितरेद्भिषक् ।
वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम् ॥ ४० ॥
अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत् ।
तरुणस्य मनुष्यस्य " शीतैरापयेद्बहिः ॥। ४१ ॥
सिक्त्वाऽम्बुभिस्ततः शीतैः " सन्धानीयैरुपाचरेत् ।
उत्पलस्य च नालेन क्षीरपानं विधीयते ॥ ४२ ॥
जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान् ।
नासां " सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया ॥ ४३ ॥
अक्षकं = जत्रुर्तोऽससंश्रितपाशकाकारमस्थि, मुसलेन उन्नमयेत्; स्विन्नम् = उन्नतं मुसलेनाधः पीडयेत् । १ बाहुभग्नचिकित्सिते उरुभग्न चिकित्सितमतिदिशति — ऊरुव-दिति । ऊरुवत् = ऊरुसन्धिवत्, चकयोगेनेति निष्कर्षः । कूर्परांसयोमध्ये बाहुः । २ बाहुग्रोवाऽवटुहनुभग्नचिकित्सामाचष्टे - ग्रीवायामिति । विवृत्तायां = वक्रायाम् । ३ कृकाटिकाभागसन्धौ गर्तोऽवटुः, हनू = मुखसन्धी, हनोरेकत्वेऽपि सव्यापसव्यविभा • गेन द्वित्वमुन्नेयम् । ४ अतन्द्रितः = सावधान:, वैद्य इति शेषः । ५ इनुभग्नचि • ' कित्सामाह - हन्वस्थिनीति | इन्वस्थिनी = हनु सन्ध्यस्थिनी, समानीय = मुखं मुखेन संयुज्य । ६ स्थिते = स्थापिते इत्यर्थः । पञ्चाङ्ग = बन्धविशेषम्, तल्लक्षणं यथा-" पञ्चाङ्गी तु वृतां कुर्याद् बन्धनाय चिकित्सकः " इति । ७ वातघ्नानि = भद्रदार्वा दीनि मधुराणि - काकोल्यादीनि । दन्तभग्नचिकित्सां वक्ति - अभग्नानिति । ९ शीतैः = शतधौत घृतादिभि-दूर्वोशीरादिभिश्च । १० सन्धानीयैः = मधुघृतादिभिर्न्यग्रोधप्रियङ्ग् वम्बष्ठादिभिश्च, उ-पाचरेद् ‘ दन्तमूलावलेपनैः ' इति शेषः । ११ नासाभग्नचिकित्सामाह - नासामिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 700
पाठ पढ़ें पाठ छिपाएँ
५४२ by Arya Samaj सुश्रुतसंहितायां and eGangotri
पृथङ्नासिकयोर्नाड्यौ द्विमुख्यौ सम्प्रवेशयेत् ।
ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत् ॥ ४४ ॥
भैग्नं कर्णं च बध्नीयात् समं कृत्वा घृतप्लुतम् ।
सद्यःक्षैतविधानं च ततः पश्चात्समाचरेत् ॥ ४५ ॥
मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी । [ अ ० ३ दत्त्वा ततो निबध्नीयात् सप्ताहं च पिवेद् घृतम् ॥। ४६ ॥
पतनादभिघाताद्वा शूनमङ्गं यदक्षतम् ।
शीतौन् प्रदेहान् सेकांश्च भिषक् तस्यावचारयेत् ॥ ४७ ॥
अर्थ जङ्घोरुभग्नानां कपाटशयनं हितम् ।
कीलका बन्धनाथ च पञ्च कार्या विजानता ॥ ४८ ॥
यथा न चलनं तस्य भग्नस्य क्रियते तथा ।
सन्वेरुभयतो द्वौ द्वौ तले चैकच कीलकः ॥। ४ ९ ॥
श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा ।
भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत् ॥ ५० ॥
सन्नामस्थिभङ्गेनावनतां शलाकया उन्नम्य, विवृत्तां वक्रां ऋजूकृत्येत्यर्थः । १ द्वि-मुख्यौ नाड्यौ = अन्तर्वहिर्मुख्यौ । निःश्वासोच्छ्वाससिंहाणकादिनिर्गमार्थमिति भावः । २ कर्णभग्नचिकित्सामाख्याति - भग्नमिति । समं कृत्वा यथावत् स्थाप-यित्वा । ३ सद्यःक्षतविधानं = सद्योव्रणचिकित्सासदृशं मधुघृताभ्यङ्गशीतपरिषेकादि । ४ कपालभग्नचिकित्सां निर्दिशति - मस्तुलुङ्गाद्विनेति । मस्तिष्कभिन्नो न जीवतीति तस्य चिकित्साऽभावादाह - मस्तुलुङ्गाद्विनेति । कपाले = शिरोऽस्थिनि । ५ अति-स्रुतरक्तत्वेन पाकभयान्नोष्णानिति तात्पर्यम् । ६ जङ्घोरुभग्नेषु कपाटशयनविधिमभिधत्ते - अथेति । ७ भग्नस्थानस्य इत. स्ततश्चलनपरिहारार्थं पश्र्वकोलानां निवेशनमावश्यकमिति भावः । ८ तत्र जङ्ङ्घाभग्ने गुल्फसन्धेरुभयपार्श्वे द्वौ द्वौ कीलकौ, तले चैक इत्येवं पञ्च ऊरुभग्ने जानुसन्धेरुभ • यतो द्वौ, वङ्क्षणसन्धेरुभयतो द्वौ, तले चैक इत्येवमत्र पञ्च । जङ्घेोर्वोर्द्वयोर्भग्नयोस्तु-उभयतो बहिः गुल्फयोर्छौं, जानोर्छौं, वङ्क्षणयोर्छौं, तले चैक इत्येवं सप्त कीला इति बोध्यम् । ९ भग्नसन्धिविमोक्षेषु = भग्नेषु सन्धिमुक्तेषु सत्स्वित्यर्थः । अत्र श्रोण्या · दिषु कीलकानामनिर्देशेऽपि श्रोण्यां भग्नसन्धिविमुक्तायां तदुभयपार्श्वतः, पृष्ठवंशे वक्षसि च पार्श्वयोः, अक्षकयोरक्षके वा कक्षयोद्वौ द्वौ सर्वत्र तले चैकः कीलको देयः । CC - 0. Gurukul Kangri Collection, Haridwar 1