सुश्रुत संहिता चौखम्बा — पृष्ठ 691–700

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 691–700

पृष्ठ 691

सुश्रुत संहिता चौखम्बा, पृष्ठ 691 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by A म्बिकाल्सास्थानम् Ghennai and eGangotri ५३३

तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् ।

हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ॥ ७५ ॥

पक्कं सद्योत्रणेपूक्तं तैलं रोपणमुत्तमम् ।

क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ॥ ७६ ॥

घृष्ठे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम् ।

विश्लिष्टदेहं पतितं मथितं हतमेव च ॥ ७७ ॥

वासयेत्तैलपूर्णायां द्रोण्यों मांसरसाशनम् ।

अयमेव विधिः कार्यः क्षोणे मर्महते तथा ॥ ७८ ॥

रोपणे सपरीषेके पाने च त्रणिनां सदा ।

तैलं घृतं वा संयोज्यं शरीरतूनवेक्ष्य हि ॥ ७ ९ ॥

घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ ।

सद्योव्रणेषु देयानि तानि वैद्येन जानता ॥ ८० ॥।

सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् ।

सर्पिषा नातिशीतेन बलातैलेन वा पुनः ॥ ८१ ॥

समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् ।

पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकम् ॥ ८२ ॥

तालीशपत्रं नलं चन्दनं पद्मकेशरम् ।

मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ॥ ८३ ॥

प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च ।

यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ॥ ८४ ॥

सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् । १ श्रन्यदपि रोपणार्थं तैलं निर्दिशति — तालीशमिति । २ क्षतसामान्यो विधिः क्षतविधिः, क्षौद्रघृततैलाभ्यङ्गादिः सर्वः । ३ चूर्णैः = मिश्रकोक्तकङ्गुकात्रि-फलारोघ्रादिकृतैरित्यर्थः । ४ प्रसङ्गाद् विश्लष्टदेद्दादीनां चिकित्सां ब्रवीति - वि. श्लिष्टेति । विश्लिष्टदेहं = नमनाकर्षणारोहणादिभिः स्वस्थानच्युतावयवदेहम्, पति • तं = वृक्षादितः पतनॆन प्रपीडितम्, मथितं = इस्त्यादिभिर्व्यथितम् इतं = दण्डमु • ष्टयादिभिराइतम् । ५ द्रोणी काष्ठनिर्मिता लघुनौरिव, ' द्रोणी काष्ठाम्बुवाहिनी ' इत्य-मरः । ' कठौता ' ' टब ' इति वा बोध्यम् । ६ क्षीणे = श्रध्वादिक्षीणे । ७ अस्यैव CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 692

सुश्रुत संहिता चौखम्बा, पृष्ठ 692 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५३४ by Arya Samaj Fo सुश्रुतसंहताना neGangotri [ अ ०२ कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत् ॥ ८५ ॥

सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् ।

दुष्टव्रणेषु कर्त्तव्यमूर्ध्वं चाधश्च शोधनम् ॥ ८६ ॥

विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् ।

कषायं राजंवृक्षादौ सुरसादौ च धावनम् ॥ ८७ ॥।

तयोरेव कषायेण तैलं शोधनमिष्यते ।

क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ॥ ८८ ॥

द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च ।

पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ॥ ८ ९ ॥

त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः ।

भूमिकँदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ॥ ९ ० ॥

नैपाली जालिनी चैव मदयन्ती मृगादनी ।

सुधामूर्वाऽर्क कीटारिहरितालकरञ्जिकाः ॥ ९ १ ॥

यथोपपत्ति कर्त्तव्यं तैलमेतैस्तु शोधनम् ।

घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ॥ ९ २ ॥

स्थानस्य ' पञ्चदशाध्याये वच्यमाणेन बलातैलेनेत्यर्थः । १ पूर्वोक्तं = द्वित्रणी • योक्तम् । २ प्रसङ्गाद् दुष्टवणविधिमधिकरोति - दुष्टेति । ३ राजवृक्षादिः आरग्वधादिः, सुरसादिश्च द्रव्य सङ्ग्रहणीयाध्याये उक्तः । ४ क्षारपाकविधावुपदिष्टानां मुष्क • पलाशादीनां क्षारं षड्गुणेनोदकेन मूत्रेण वा एकविंशतिवारान् परिस्राव्य तैलाच्च-' तुर्गुणे तस्मिन् क्षारोदके तैलं पावयेदित्याशयेनाह – झारकल्पेनेति । ५ श्रधुना सर्वदुष्टव्रणेषु तैलघृतकल्कयोगान्निर्दिशति --द्रवन्तीति । द्रवन्ती = दन्तीभेदः, चिरबिल्वः = करञ्जकः, दन्ती = ' दतैया ' इत्यादिनाम्नाऽवध प्रान्तादौ प्रति-द्धा, चित्रकं = ' चीता ' इति, पृथ्वीका = कृष्णजीरकः । ६ तेजोवती = चव्यम्, नीली = ' नोल ' इति ख्याता । ' नीलादोषधौ ' इति ङीष् । ७ भूमिकदम्बः = मुण्डिति • का, सुवहा = निर्गुण्डी, शुकाख्या = शिरीषः, लाङ्गलाह्वया = कलिहारिका । ८ नेपाली = मनःशिला, जालिनी = कोशात की, मदयन्ती = वनमल्लिका, मृगादनी = इन्द्रवारुणी, ९ सुधा = ' सेंहुड ' इति, मूर्वा = ' मरोरफली ' इति श्रः = ' आक ' इति, कोटारिः = विटङ्गम्, हरितालं प्रसिद्धम्, करञ्जिका नक्तमालफलम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 693

सुश्रुत संहिता चौखम्बा, पृष्ठ 693 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Ar चिकित्सास्थानम् Chennai and eGangotri

सैन्धवत्रिवृदे रण्डपत्र कल्कस्तु वातिके ।

त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः ॥ ९ ३ ॥

कफजे तिलतेजोह्लादन्तीस्वर्जिकचित्रकाः ।

दुष्टव्रणविधिः कार्यो मेहकुष्टव्रणेष्वपि ॥ ९ ४ ॥।

षड्र्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः ।

नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ॥ ९ ५ ॥

उपसगैर्निपातैश्च तत् तु पण्डितमानिनः ।

केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः । ९ ६ ॥

बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते ।

विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ॥। ९ ७ ॥ १

इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योत्रण चिकित्सितं नाम द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः ।

अथातो भग्नानां चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च । ५३५ १ वातादिभेदेन कल्कान्तराण्युपदिशति -- सैन्धवेति । २ तेजोऽह्वा = चविका । ३ छिन्नादिषट्के कस्यचिद् विप्रतिपत्ति निराकुर्वन् षड्विधत्वमेव प्रतिपादयति-वििध इति । ४ श्रतः परमिति सम्बन्धः । श्राः परं = सप्तविधत्वादि । ५ ब-हूक्तानामपि सद्योव्रणानां षट्स्वेवान्तर्भावं ब्रवीति - उपसर्गेरिति । उपसर्गौः = = प्रा. दिभिः, निपातैः = चादिभिः, " घृष्टावकृत्तविच्छिन्नपविलम्बितपातितम् ” इति क्रमेण संयोज्य बहु भाषन्ते । ६ अवतिष्ठते = श्रन्तर्भवतीत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधा ss ख्यटिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । ७ भग्नानां त्रुटितानामङ्गावयवानां चिकित्तिमित्यर्थः । भग्नं द्विविधं --सनण-मन्त्रणं प्रल्पाशिन इति । श्रल्पा-चेति । ८ येषा॑ भग्नं कृच्छ्रसाध्यं तान्निर्दिशति --CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 694

सुश्रुत संहिता चौखम्बा, पृष्ठ 694 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५३६ Digitized by Arya Sama सुश्रुतसंहितायां and eGangotri उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ॥ ३ ॥

लैवणं कटुकं क्षारमम्लं मैथुनमातपम् ।

व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ॥ ४ ॥

शौलिर्मांसरसः क्षीरं सर्पिर्यूषः सँतीनजः ।

बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ॥ ५ ॥

मधूकोदुम्बराश्वत्थपलाशककुभत्वचः ।

वंर्शसर्जवटानां वा कुशार्थमुपसंहरेत् ॥ ६ ॥

आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम् ।

शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत् ॥ ७ ॥

सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम् ।

साधारणेषु कर्त्तव्यं पञ्चमे पञ्चमेऽहनि ॥ ८ ॥

आग्नेयेषु त्र्यहात् कुर्य्याद्भर्नदोषवशेन वा । [ अ ० ३ शिनः = श्रद्दाररहितस्य, अनात्मवतः = श्रवशेन्द्रियस्य, अपथ्याशिन इत्यर्थः । १ उपद्रवैः = ज्वराध्मानमूत्रपुरीषसङ्गादिभिः । २ भग्ना और सेव्यानि दर्शयति--लवणमिति । ' ३ भग्नाङ्गैः सेव्यानि निर्दिशति -- शालिरिति । ४ सतीनः -वर्तुलकलायः । ५ भग्नबन्धनद्रव्याणि दर्शयति-- मधूकेति । ६ वंशेत्यादौ ' त्वच ' इत्यस्य योजना । कुशाशब्देन भग्नवन्धनार्थं वंशवेत्रादिकं प्रोच्यते । श्रत्र सुश्रुतार्थ-सन्दीपनकारः — कुशा नाम सामगानां स्तोत्रगाने तालव्यञ्जनाय ग्राह्य श्रडुम्बरशङ्कु · स्तत्साम्यात् कुशा शब्दोऽत्र तदाकारे भग्नसंश्लेषणे फलके प्रवर्तत इति निश्चीयते । ‘ वल्कलैः शकलैरपि ” “ कुशाह्वयैः समं बन्धम् " इति तन्त्रान्तरीये कुशाशब्दस्य तदर्थे प्रयोगदर्शनादिति । वाग्भटः-- " आन्छनोत्पीडनोन्नामचर्मसङ्क्षेपबन्धनैः । सन्धीन् शरीरगान् सर्वान् चलानप्य चलानपि ॥ इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्च लम् । पट्ट्ः प्रभूतसर्पिभिर्वेष्टयित्वा सुखैस्ततः ॥ कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः । वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः । सुश्लक्ष्णैः सुप्रतिस्तम्भैर्वल्कलैः शकलैरपि । कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ॥ ” उपसंहरेत् = समीपे श्रासादयेत् । ७ भग्नलेपनद्रव्याण्याह- – अ आलेपनार्थमिति । ऋतुविशेषेण भग्नबन्ध-नकालावधिमभिधत्ते — सप्ताहादिति । अष्टाङ्गहृदये - " यहात त्र्यहादृतौ घर्मे सप्ता-हान्मोक्षयेद्धिमे । साधारणे तु पञ्चाहाद् भङ्गदोषवशेन वा ॥ ” इति । ९ पक्षान्तरमाह-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 695

सुश्रुत संहिता चौखम्बा, पृष्ठ 695 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized byparf के सास्थानम् । Chennai and eGangotri ५३७ तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते ॥ ९ ॥

गाढेनापि त्वगादीनां शोफो रुक् पाक एव च ।

तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदुः ॥ १० ॥

न्यग्रोधादिकषायं तु सुशीतं परिषेचने ।

पञ्चमूली विपक्कं तु क्षीरं कुर्यात् सवेदने ॥ ११ ॥।

सुखोष्णमवचार्यं वा चक्रतैलं विजानता ।

विभज्य काल दोषं च् दोषघ्नौषधसंयुतम् ॥ १२ ॥

परिषेकं प्रदेहं च विद्ध्याच्छीतमेव च ।

गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ॥ १३ ॥।

शीतलं लाक्षया युक्तं प्रातर्भग्नः पिवेन्नरः ।

' सत्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः ॥ १४ ॥

प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत् ।

प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् ॥ १५ ॥

अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके ।

प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत् ॥ १६ ॥

मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः । भग्नेति । भग्नदोषवशेन = भग्नोष्मणस्तीस्तेम्येनेत्यर्थः । एतेनोष्मबलमभिसमीक्ष्य यथा त्वगादयः प्रदुष्टा न भवेयुस्तथैव बन्धनं कार्यमित्यायातम् । १ तस्मात् = गाढ-शिथिलयोर्बन्धयोर्दोषावहत्वात्, साधारणं = समाख्यं बन्धनमित्यर्थः । २ सवेदने भग्ने परिषेकविधिमुपदिशति – न्यग्रोधेति । न्यग्रोधादिकषायं = न्यग्रोधादिगणोक्तौ. षधिक्काथम् । ३ भग्ने श्रभ्यन्तरमौषधमभिधत्ते – गृष्टीति । गृष्टिः = सकृत्प्रसूता गौः । मधुरौषधैः काकोल्यादिभिः साधितम् । कल्पनाप्रकारो निबन्धसङ्ग्रहव्याख्यायाम्— काकोल्यादीनां मधुराणां कर्षमात्रं द्रव्यमष्टगुणं क्षीरं चतुर्गुणोदकसिद्धं क्षीरशेषं सर्पि-लक्षाकर्षमात्र प्रक्षेपान्वितम्, तच्च लघौ कोष्ठे देयम्, इयं च दिनं प्रति मात्रा । ४ सव्रणस्य भग्नस्य चिकित्सां वक्ति- सव्रणस्येति । सर्पिर्मधूत्तरैः घृतमधुप्र-धानैः कषायैः न्यग्रोधादिकल्कैः व्रणं प्रतिसार्य प्रलिप्य, शेषं बन्धनादिकम् । ५ का लदोषाश्रयं भग्नस्य साध्यत्वं निर्दिशति - प्रथम इति । सुकरं = सुखसाध्यम् । ६ द्विगुणात्कालात् = द्वाभ्यां मासाभ्याम्, उत्तरे = चरमे वयसि, त्रिगुणात् = त्रिभिर्मा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 696

सुश्रुत संहिता चौखम्बा, पृष्ठ 696 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri ५३८०" सुश्रुतसंहिताया-[ अ ० ३ अव॑नामि॒ितमुन्नह्येदुन्नतं चावपीडयेत् ॥ १७ ॥

आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्जयेत् ।

आञ्छनैः पोडनैश्चैव सङ्क्षेपैर्बन्धनैस्तथा ॥ १८ ॥

सन्धीञ्छरीरे सर्वांस्तु चलान्यप्यचलानपि ।

एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् ॥ १ ९ ॥

उत्पिष्टमथ विश्लिष्टं सन्धि वैद्यो न घट्टयेत् ।

तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् ॥ २० ॥

अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः ।

घृतदिग्वेन पट्टेन वेष्टयित्वा यथाविधि ॥ २१ ॥

पट्टोपरि कुशान् दत्त्वा यथावद्बन्धमाचरेत् ।

प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते ॥ २२ ॥

नखसन्धि समुत्पिष्टं रक्तानुगतमारया ।

अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् ॥ २३ ॥

भग्नां वा सन्धिमुक्तां वा स्थापयित्वाऽङ्गुलीं समाम् ।

अणुनाऽऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् ॥ २४ ॥

अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरम् । सैरित्यर्थः । १ अवनामितम् = अधोगतम्, उन्नह्येत् = ऊर्ध्वं कुर्यात्, उन्नतम् = उद्गतम्, अवपीडयेत् = अधः कुर्यात्, प्रतिक्षिप्तम् = प्रतिप्रेरितम् । २ आन्छेत् = यथावत् स्थापनार्थंमाकर्षेत्, अधोगतम्, उपरि वर्तयेत् नयेत् । ३ चलान् हस्तपादकटीहनुगतान्, तद्विपरीतान् अचलान् । तदुक्तम् — “ शा-खासु हन्वोः कटयां च चेष्टावन्तो भवन्ति हि । शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदा • हृताः ॥ ” इति । ४ उत्पिष्टं = द्वाभ्यामस्थिभ्यां सन्धौ घर्षणम्, चूर्णित मित्यर्थः । विश्लिष्टं = मनाक् सन्धिविश्लेषः शिथिलतामात्रम्, स्वस्थानाच्च्युतमित्यर्थः । ५ कु · शान् = मधूकोदुम्बराश्वत्थादीनां त्वचः काष्ठानि च । ६ उत्पष्टनख सन्धिचिकि • त्सामाइ – नखेति । समुत्पिष्टं = सन्चूर्णितम्, रक्तानुगतं = दुष्ट रक्तानुविद्धम्, श्रारया = चर्मकाराणां व्यधनास्त्रेण । ७ अङ्गुलिभग्नचिकित्सां वक्ति – भग्नामिति । पादतल भग्नचिकित्सां नवीति — अभ्यज्येति । तलभग्नं पादं वस्त्रपट्टेन कुशोत्तरं बध्नीयादिति सम्बन्धः । कुशा भग्नबन्धनार्थं वंशवेत्रादित्वक् काष्ठं वा पश्चात् प्रदेशेऽस्येति कुशो-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 697

सुश्रुत संहिता चौखम्बा, पृष्ठ 697 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya" चिकित्सास्थानम् " P ngation Chennai and eGangotri ५३ ९ वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत् ॥ २५ ॥

अभ्यैज्यायामयेज्जङ्घामूरुं च सुसमाहितः ।

दत्त्वा वृक्षत्वचः शीतो वस्त्रपट्टेन वेष्टयेत् ॥ २६ ॥

तिमयोगेन ह्यान्छेदस्थि निर्गतम् ।

स्फुटितं पिच्चितं चापि बध्नीयात् पूर्वर्वंद्भिषक् ॥ २७ ॥

औच्छेदूर्ध्वमधो वाऽपि कटिभग्नं तु मानवम् ।

ततः स्थानस्थिते सन्धौ वस्तिभिः समुपाचरेत् ॥। २८ ॥

पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः ।

दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः ॥ २ ९ ॥

ततः कर्वौलिकां दत्त्वा वेष्टयेत् सुसमाहितः । त्तरम् । १ भग्नजङ्ङ्घोरोश्चिकित्सा कथयति — अभ्यज्येति । जङ्घा = गुल्फोपरि जान्वधोभागे नलकाश्रया । २ शीता वृक्षत्वचः - न्यग्रोधादिशीतवृक्षाणां कुशानित्यर्थः । ३ उर्वस्थिभङ्गे विशेषचिकित्सामाचष्टे - मतिमानिति । चक्रयोगेन वर्तुलान् कुशान् दत्त्वा I नामयित्वा चक्रवदान्छेद् बध्नीयादित्यर्थः सुश्रुतार्थसन्दीपन-कारस्तु — ऊरुसन्धेरुदूखलाकाराद् गह्वराद् बहिर्निर्गतं हि मुसलाकारमस्थ्यायतत्वादाभु-ग्नत्वान्मांसादिसन्ततत्वाच्चाशक्यं भवति स्वस्थानमानेतुं इस्तेनेति कटीमावेष्ट्य दृढमा-तुरं कीलकबन्धं निबध्य बलवद्भिर्ग्राहयित्वा वा चक्राश्रितया रज्ज्वा जानुसन्धेरूर्ध्व बध्वा प्राणानबाधमानाः शनैः शनैश्चक्रभ्रामणेन रज्जु तामाकृष्यास्थि तदुदूखलसम्मु-खमानयन्ति कुशला यथावदवस्थापयितुं तदिदमुच्यते - मतिमानित्यादि । तथा च मतिमान् समीक्ष्यकारी चक्रयोगेन प्रदर्शितया रीत्या चक्रप्रयोगेण निर्गतमुदूखलाद्वहि-निर्गतम् ऊर्वस्थि ऊरुसन्धिगतं मुसलाकारमस्थ्यान्छेदाकर्षेदित्यादि व्याख्याय पूर्वोक्त-मर्थं निराकृतवान् । ४ पूर्ववत् = तलभग्नवत् । ५ कटिभग्नचिकित्सां प्रतिपादयति- आञ्छेदिति । ऊर्ध्वगतमस्थि अधः कृत्वा, अधोगतं तु ऊर्ध्वं कृत्वा बध्नीयादित्यर्थः । ६ बस्तिभिः = यथायोगमास्थापनानुवास · नोत्तरवस्तिभिः । ७ पर्शुकाभग्नचिकित्सामभिधत्ते - पर्शुकास्विति । पर्शुकासु = = पृष्ठभागनिबन्धनास्थिषु, पाश्र्वास्थिष्वित्यर्थः । ' पाश्वस्थनितु पर्शुका ' इत्यमरः । पर्शु-रिव पर्शुका ' इवे प्रतिकृतौ ' इति कन् । दक्षिणास्वथवा वामासु पर्शुकासु भग्नास्विति सम्बन्धः । भग्नासु कोऽर्थः? श्रानतासु तेषां नमनमेव भग्नत्वम् । निबन्धनी: -मांसरज्जवः । निबध्यते श्रभिरिति व्युत्पत्तिः । ९ औषधवस्त्रयोरन्तरे औषध संस्थापनार्थं या भौदुम्बरादित्वक् पत्राणि वा दीयते CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 698

सुश्रुत संहिता चौखम्बा, पृष्ठ 698 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४० Digitized by Arya Samajtसुश्रुतसंहिता jaand eGangotri [ अ ० ३ तैलपूर्णे कटाहे वा द्रोण्यों वा शाययेन्नरम् ॥ ३० ॥

मुसले नोत्क्षिपेत् कक्षामंससन्धौ विसंहते ।

स्थानस्थितं च बध्नीत स्वस्तिकेन विचक्षणः ॥ ३१ ॥

' कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत् ।

अनुमृज्य ततः सन्धि पीडयेत् कूर्परौच्च्युतम् ॥ ३२ ॥

प्रसार्याकुर्च्चयेच्चैनं स्नेहसेकं च दापयेत् ।

• एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् ॥ ३३ ॥

" उभे तले समे कृत्वा तलभग्नस्य देहिनः ।

बध्नीयादामतैलेन परिषेकं च कारयेत् ॥ ३४ ॥

मृत्पिण्डं धारयेत् पूर्व लवणं च ततः परम् ।

हस्ते जातबले चापि कुर्यात् पाषाणधारणम् ॥। ३५ ॥

" सन्नमुन्नमयेत् स्विन्नमतकं मुसलेन तु । I. सा कवलिका । कवलयति प्रच्छादनेन व्रणान् ग्रसतीवेति कवलिका व्रणप्रच्छादनं निर्मलं सूक्ष्मवस्त्रमिति यावदिति श्रीहाराणचन्द्रः । १ ' द्रोणी काष्ठाम्बुवाहिनी ' इत्यमरः । २ स्कन्धभग्नचिकित्सांवक्ति - मुसलेनेति । उत्क्षिपेत् = ऊर्ध्वं नयेत् । श्रंससन्धौ = भुजशिरः सन्धौ विसंहते = विश्लिष्टे । ३ स्वस्तिकेन = व्रणालेपनबन्ध विध्यध्यायो • क्तेन स्वस्तिकाकृतिबन्धविशेषेणेत्यर्थः । ४ कूर्परसन्धिभग्नचिकित्सां दर्शयति- कौ-र्परमिति । कूर्परः = ‘ केहुनी ' इति ख्यातः, तत्र भवं कौर्परम्, सन्धिमित्यस्य विशेष. णम् । अनुमार्जयेत् = अनुमर्दयेत्, एतदनुमार्जनं प्रच्युतस्य सन्ध्यस्थ्नो मार्गोपल. म्भार्थम् । ५ कूर्पराच्च्चुतं कूर्परगर्ताद्वहिर्निर्गतं सन्धि सन्ध्यवयवभूतं ' गुटिकाऽऽकारम-स्थिविशेषं पीडयेद् विमदयेत् । ६ सन्धेः प्रसारणाकुचने ऋजुकृत्य स्वस्थाने स्थाप-नायेति बोध्यम् । ७ अनन्याकृतिकत्वात् कूर्परसन्धिचिकित्सितं जान्वादावतिदिशति - एवमिति । एवं = कूर्परसन्धिचिकित्सितप्रकारेण । इस्ततल चिकित्सामभिधत्ते - उभ इति । ९ मृत्पिण्डादिधारणं क्रमशो गुरुभारार्पणेन शनैः शनैः स्वकार्यक्षमत्वसम्पादनार्थम् । उपलक्षणमेतत् । एवं च द्रव्यान्तररधारणमप्यविरुद्धम् । क्वचित् - " मृत्पिण्डं धारये • त् ” इत्यादिश्लोकार्द्धस्थाने " प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः " इति पाठान्तरम् । १० नतोन्नतयोरक्षकयोश्चिकित्सां ब्रवीति सन्नमिति । सन्नम् = अवनतम्, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 699

सुश्रुत संहिता चौखम्बा, पृष्ठ 699 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri ५४१

^ चिकित्सास्थानम् ।

तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च ॥ ३३ ॥

ऊरुवच्चापि कर्त्तव्यं बाहुभग्नचिकित्सितम् ।

ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि च ॥ ३७ ॥

अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम् ।

ततः कुशाः समं दत्त्वा वस्त्रपट्टेन वेष्टयेत् ॥ ३८ ॥

उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रितः ।

न्वस्थिनी समानीय हनुसन्धौ विसंहते ॥ ३ ९ ॥

स्वेदयित्वा स्थितेः सम्यक् पञ्चाङ्गीं वितरेद्भिषक् ।

वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम् ॥ ४० ॥

अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत् ।

तरुणस्य मनुष्यस्य " शीतैरापयेद्बहिः ॥। ४१ ॥

सिक्त्वाऽम्बुभिस्ततः शीतैः " सन्धानीयैरुपाचरेत् ।

उत्पलस्य च नालेन क्षीरपानं विधीयते ॥ ४२ ॥

जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान् ।

नासां " सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया ॥ ४३ ॥

अक्षकं = जत्रुर्तोऽससंश्रितपाशकाकारमस्थि, मुसलेन उन्नमयेत्; स्विन्नम् = उन्नतं मुसलेनाधः पीडयेत् । १ बाहुभग्नचिकित्सिते उरुभग्न चिकित्सितमतिदिशति — ऊरुव-दिति । ऊरुवत् = ऊरुसन्धिवत्, चकयोगेनेति निष्कर्षः । कूर्परांसयोमध्ये बाहुः । २ बाहुग्रोवाऽवटुहनुभग्नचिकित्सामाचष्टे - ग्रीवायामिति । विवृत्तायां = वक्रायाम् । ३ कृकाटिकाभागसन्धौ गर्तोऽवटुः, हनू = मुखसन्धी, हनोरेकत्वेऽपि सव्यापसव्यविभा • गेन द्वित्वमुन्नेयम् । ४ अतन्द्रितः = सावधान:, वैद्य इति शेषः । ५ इनुभग्नचि • ' कित्सामाह - हन्वस्थिनीति | इन्वस्थिनी = हनु सन्ध्यस्थिनी, समानीय = मुखं मुखेन संयुज्य । ६ स्थिते = स्थापिते इत्यर्थः । पञ्चाङ्ग = बन्धविशेषम्, तल्लक्षणं यथा-" पञ्चाङ्गी तु वृतां कुर्याद् बन्धनाय चिकित्सकः " इति । ७ वातघ्नानि = भद्रदार्वा दीनि मधुराणि - काकोल्यादीनि । दन्तभग्नचिकित्सां वक्ति - अभग्नानिति । ९ शीतैः = शतधौत घृतादिभि-दूर्वोशीरादिभिश्च । १० सन्धानीयैः = मधुघृतादिभिर्न्यग्रोधप्रियङ्ग् वम्बष्ठादिभिश्च, उ-पाचरेद् ‘ दन्तमूलावलेपनैः ' इति शेषः । ११ नासाभग्नचिकित्सामाह - नासामिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 700

सुश्रुत संहिता चौखम्बा, पृष्ठ 700 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४२ by Arya Samaj सुश्रुतसंहितायां and eGangotri

पृथङ्नासिकयोर्नाड्यौ द्विमुख्यौ सम्प्रवेशयेत् ।

ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत् ॥ ४४ ॥

भैग्नं कर्णं च बध्नीयात् समं कृत्वा घृतप्लुतम् ।

सद्यःक्षैतविधानं च ततः पश्चात्समाचरेत् ॥ ४५ ॥

मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी । [ अ ० ३ दत्त्वा ततो निबध्नीयात् सप्ताहं च पिवेद् घृतम् ॥। ४६ ॥

पतनादभिघाताद्वा शूनमङ्गं यदक्षतम् ।

शीतौन् प्रदेहान् सेकांश्च भिषक् तस्यावचारयेत् ॥ ४७ ॥

अर्थ जङ्घोरुभग्नानां कपाटशयनं हितम् ।

कीलका बन्धनाथ च पञ्च कार्या विजानता ॥ ४८ ॥

यथा न चलनं तस्य भग्नस्य क्रियते तथा ।

सन्वेरुभयतो द्वौ द्वौ तले चैकच कीलकः ॥। ४ ९ ॥

श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा ।

भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत् ॥ ५० ॥

सन्नामस्थिभङ्गेनावनतां शलाकया उन्नम्य, विवृत्तां वक्रां ऋजूकृत्येत्यर्थः । १ द्वि-मुख्यौ नाड्यौ = अन्तर्वहिर्मुख्यौ । निःश्वासोच्छ्वाससिंहाणकादिनिर्गमार्थमिति भावः । २ कर्णभग्नचिकित्सामाख्याति - भग्नमिति । समं कृत्वा यथावत् स्थाप-यित्वा । ३ सद्यःक्षतविधानं = सद्योव्रणचिकित्सासदृशं मधुघृताभ्यङ्गशीतपरिषेकादि । ४ कपालभग्नचिकित्सां निर्दिशति - मस्तुलुङ्गाद्विनेति । मस्तिष्कभिन्नो न जीवतीति तस्य चिकित्साऽभावादाह - मस्तुलुङ्गाद्विनेति । कपाले = शिरोऽस्थिनि । ५ अति-स्रुतरक्तत्वेन पाकभयान्नोष्णानिति तात्पर्यम् । ६ जङ्घोरुभग्नेषु कपाटशयनविधिमभिधत्ते - अथेति । ७ भग्नस्थानस्य इत. स्ततश्चलनपरिहारार्थं पश्र्वकोलानां निवेशनमावश्यकमिति भावः । ८ तत्र जङ्ङ्घाभग्ने गुल्फसन्धेरुभयपार्श्वे द्वौ द्वौ कीलकौ, तले चैक इत्येवं पञ्च ऊरुभग्ने जानुसन्धेरुभ • यतो द्वौ, वङ्क्षणसन्धेरुभयतो द्वौ, तले चैक इत्येवमत्र पञ्च । जङ्घेोर्वोर्द्वयोर्भग्नयोस्तु-उभयतो बहिः गुल्फयोर्छौं, जानोर्छौं, वङ्क्षणयोर्छौं, तले चैक इत्येवं सप्त कीला इति बोध्यम् । ९ भग्नसन्धिविमोक्षेषु = भग्नेषु सन्धिमुक्तेषु सत्स्वित्यर्थः । अत्र श्रोण्या · दिषु कीलकानामनिर्देशेऽपि श्रोण्यां भग्नसन्धिविमुक्तायां तदुभयपार्श्वतः, पृष्ठवंशे वक्षसि च पार्श्वयोः, अक्षकयोरक्षके वा कक्षयोद्वौ द्वौ सर्वत्र तले चैकः कीलको देयः । CC - 0. Gurukul Kangri Collection, Haridwar 1