सुश्रुत संहिता चौखम्बा — पृष्ठ 701–710

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 701–710

पृष्ठ 701

सुश्रुत संहिता चौखम्बा, पृष्ठ 701 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ३ ] Digitized by Arya hennai and eGangotri ५४३

सैन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान् ।

उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत् ॥ ५१ ॥

काण्डभग्ने प्ररूढे तु विषमोल्बणसंहिते ।

आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत् ॥ ५२ ॥

कल्पयेन्निर्गतं शुष्कं व्रणान्तेऽस्थि समाहितः ।

सन्ध्यन्ते वा क्रियां कुर्यात् सत्रणे व्रणभग्नवत् ॥ ५३ ॥

ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम् ।

घृतपानं हितं नस्यं प्रशौखास्वनुवासनम् ॥ ५४ ॥

अत ऊध्व प्रवक्ष्यामि तैलं भग्नप्रसाधकम् ॥ ५५ ॥

रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ।

दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ॥ ५६ ॥

तृतीयं सप्तरात्रं वा भावयेन्मधुकाम्बुना । .विधि = पूर्वोक्तकपाटशयनकीलकयन्त्रणादिकमित्यर्थः । १ अथ चिरभग्नविधिमभिदधाति – सन्धीनिति । २ चिरकाण्डभग्नविधानमा-ख्याति - काण्डभग्न इति । विषमोल्वणा संहिते - विषमत्वेन व्यक्तसन्धानमस्येति विषमो-ल्बणसंहितं तस्मिन् । प्ररूढे अङ्करोत्पन्ने, आपोथ्य विश्लेष्य भग्नं भग्नावच्छेदं सम • येत् समं कुर्यात्, समं स्थापयेदिति यावत् । ३ भग्नै बहिर्निर्गतास्थिचिकित्सा-माइ — कल्पयेदिति । निर्गतं बहिर्गतं व्रगान्ते व्रणैकदेशे सन्ध्यन्ते सन्ध्येकदेशे वर्त-मानं वा शुष्कमस्थि समाहितः सावधानो वैद्यः कल्पयेच्छेदयेत् । यथाऽन्यत्र व्रणो न भवति तथा छेदयेदिति निष्कर्षः । सव्रणे व्रणयुक्ते व्रणभग्नवद् व्रणवद् भग्नवच्चेत्यर्थः । ४ कायविशेषेण भग्नक्रियाविशेषं निर्दिशति -- ऊर्ध्वकाय इति । मस्ति-ष्क्यं = मस्तिष्कहितम्, शिरसि स्नेहाक्तपिचुप्लोतादिधारणमित्यर्थः । ५ प्रशा-खासु -- प्रकृष्टाः शाखाः प्रशाखास्तासु, श्रृङ्गुलिव्यतिरिक्तजानुजङ्घा बाहुद्वितयेष्वित्यर्थः । अनुवासनं = बस्तिः । ६ बस्तिकर्णपूरणपाननस्यानुवासनोपयुक्तं गन्धतैलं निदिं • शति -- अत इति । ७ प्रथमं सप्तरात्रमस्थिरे वइति जले कृष्णतिलान् रात्रौ वासयित्वा दिवा शोष-येदित्यर्थः । द्वितीयं सप्तरात्रं भाव्यद्रव्यसमेन गवां क्षीरेण भावयेत् । तृतीयं सप्तरात्रं भाव्यद्रव्यसमेन मधुकाम्बुना भावयेत् । चतुर्थं सप्तरात्रं भाव्यद्रव्यतमेन क्षीरेण पुनः पीतान् भावितान् शोषयित्वा चूर्णयेत् CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 702

सुश्रुत संहिता चौखम्बा, पृष्ठ 702 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ततः क्षीरे पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक् ॥ ५७ ॥

काकोल्यादि सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा ।

कुष्ठं सर्जरसं मांसीं सुरदारु सेचन्दनम् ॥ ५८ ॥

शतपुष्पां च सञ्चूर्ण्य तिलेचूर्णेन योजयेत् ।

पीडनार्थं च कर्त्तव्यं सर्वगन्धशृतं पयः ॥ ५ ९ ॥

चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ।

ऐलामंशुमतीं पत्रं जीवकं तगरं तथा ॥ ६० ॥

रोधं प्रपौण्डरीकं च तथा कालानुसारिणम् ।

सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम् ॥ ६१ ॥

पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च ।

एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्निना ॥ ६२ ॥

एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ।

आक्षेपके पक्षघाते तालुशोषे तथाऽर्दिते ॥ ६३ ॥

मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ।

बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः ॥ ६४ ॥

१ तिलचूर्णेन तिलचूर्ण भागत्रितयेन काकोल्या दिशतपुष्पान्तानामेकं भागं योज • येदित्यर्थः । २ सर्वगन्धैः क्षीरपाकविधिना शृतमिति सर्वगन्धाम्, शृतेन पयसा उष्णेनैव काकोल्यादिशतपुष्पान्त चूर्णसहितं तत् तिलचूर्णमाद्रीकृत्य चक्रेण पीडये-दित्यर्थः । क्षीरपाकविधिः-- " क्काथ्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् । क्षीरावशेषं कर्तव्यं क्षीरपाके त्वयं विधिः ॥ ” इति । सर्वगन्धं नाम -- “ चातुर्जातककर्पूरकक्कोला-गुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ' इति । तैले निःसृते चतुर्गु-णेन पयसा जलेन तत्तैलं भिषग् वैद्यो विपचेत् । ३ कल्कद्रव्याणि निर्दिशति -- एलामित्यादिना । अंशुमती = शालपर्णी । ४ कालानुसारिणं = तगरम् । अस्य वारद्वयमभिधानं द्विभागार्थम् । ५ सैरेयकः = ' कटसरैया ' इति ख्यातः क्षीरशुक्ला = क्षीरविदारी, अनन्ता = सारिवा, ' अन-न्नमूल ' इति ख्याता, मधूलिका = मूर्वा । ६ पूर्वोक्तान्यौषधानि = काकोल्यादि • शतपुष्पान्तानि । ७ तदुक्तं तन्त्रान्तरे—– “ शास्त्रवित्तु भिषक् तेन मृदुना वह्निना शनैः । पचेत्स्नेहमधश्चोर्ध्व चालयित्वा निरन्तरम् ॥ भवत्येवं पाक-सिद्धिरन्यथा दग्धतां व्रजेत् । ” इति । सर्वकर्मसु = पानाभ्यङ्गादिष्वित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 703

सुश्रुत संहिता चौखम्बा, पृष्ठ 703 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Any चिकित्सास्था hennai and eGangotri

पथ्यं पाने तथाऽभ्यङ्गे नये बस्तिषु भोजने ।

ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते ॥ ६५ ॥

मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ।

गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् ॥ ६६ ॥

राजार्हमेतत्कर्त्तव्यं राज्ञामेव विचक्षणैः ।

त्रेपुसाक्षप्रियालानां तैलानि मधुरैः सह ॥ ६७ ॥

वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत् ।

स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम् ।

पानाभ्यञ्जननस्येषु वस्तिकर्मणि सेचने ॥ ६८ ॥

भैग्नं नैति यथापाकं प्रयतेत तथा भिषक् ।

पक्कमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति ॥ ६ ९ ॥

भैग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्बणम् ।

सुखचेष्टाप्रचारं च सहितं सम्यगादिशेत् ॥ ७० ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयोऽध्यायः ॥ ३ ॥

५४५ १ महासम्भारसाध्यत्वादिति महत्त्वसूचकमात्रम् । तेन नान्येषां निषिद्धम् । २ द्वितीयं भग्नसन्धानकं तैलमभिधत्ते - त्रपुसेति । त्रपु = कर्कटोभेदः, ' खीरा ’ इति, अक्षः = बिभीतकफलम्, ' अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्रात्रयोः सर्पे विभीतकतरावपि ॥ चक्रे कर्षे पुमान् क्लीवं तुत्थे सौवर्चलेन्द्रिये । ' इति मेदिनी । प्रियालः- ' चिरौंजी ' इति ख्यातः । मधुरैः - काकोल्यादिभिः । ३ भग्ने यथा पाको न भवेत्तथा प्रयतेतेति प्रतिपादयति- भग्नमिति । ४ भ. ग्नारोग्यलक्षणं निर्दिशति भग्नमिति । श्रनाविद्धम् = श्रवक्रम्, " श्राविद्धः क्षिप्तव · क्रयोः ' इति हैमः । अनुल्बणम् = अनुन्नतम्, सुखचेष्टाप्रचारं = सुखेनाकुञ्चनप्रसार-णादिकमित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्य टिप्पन्यां तृतीयोऽध्यायः ॥ ३५ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 704

सुश्रुत संहिता चौखम्बा, पृष्ठ 704 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri चतुर्थोऽध्यायः । [ अ ० ४ अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

आमाशयगते वाते छर्दयित्वा यथाक्रमम् ।

देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥ ३ । ।

चित्र केन्द्रयवे पाठा कटुकाऽतिविषाऽभया ।

वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः ॥ ४ ॥

पक्वाशयगते चापि देयं स्नेहविरेचनम् ।

बस्तयः शोधनीयाश्च प्रौशाश्चलवणोत्तराः ॥ ५ ॥

कार्यों बस्तिगते चापि विधिर्वस्तिविशोर्धनः ।

श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ॥ ६ ॥

स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च । चतुर्थोऽध्यायः । १ वातव्याधीनां क्षुद्रवातविकाराणां चिकित्सितमित्यर्थः । महावातव्याधीनां चिकित्सितं पञ्चमाध्याये वदयते । २ क्रमं पूर्वकालापरकालकर्तव्यस्नैहस्वेदनपान-लैङ्गिकवैगिकम।निककायशुद्धि संसर्जन भोजनादिकमनतिक्रम्येति यथाक्रमम् । प्रथम दिवसे वमनं कारयितव्यम्, ततो द्वितीयं दिनमारभ्य षदिनपर्यन्तं पाठक्रमेण एकै • कस्य चूर्णं टङ्कमितं देयमित्यर्थं इति भावमिश्रः । ३ षण्णामनन्तरोक्तानां चित्रका दीनां धरणं मानविशेषमस्मिन्निति षड्धरणः । धरणं हि पलदशमांशः । तदुक्तं मनुना-' पलं सुवर्णाश्चत्वारः पलानि धरणं दश ' इति । यद्यपि घरणशब्दः चतुर्विंशतिरक्ति-कारूपे मानभेदे दृश्यते, तथाऽपि योगस्यास्य पलदशमांशत्वेन द्वाविंशद्रक्तिकमेव मानमुपयोज्यमित्युन्नेयम् । भावप्रकाशकारस्तु– “ चित्र केन्द्रयवौ पाठा कटुकाऽतिविषाऽभया । आमाशयोत्थवा-तघ्नं चूर्णं पेयं सुखाम्बुना । योगेऽस्मिन् भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक् । दिनेषु षट्सु दातव्यास्तेन षड्धरणः स्मृतः ॥ ' अत्र षण्णां समुदितानां षड्धरणमि-तानां चूर्णीकृतानामेकस्मिन्नहनि एकटको देयः । इति । ४ स्नेहविरेचनं = तिल्वक-सर्पिरादिविरेचनम् । ५ प्रकर्षेण अश्यन्ते इति प्राशाः, पानादिष्वभ्यवहार्यखेन वक्ष्य-माणस्नैइलवणकश्य।णकलवणादय इत्यर्थः । ६ बस्तिविशोधनः = अश्मरीचिकित्सि • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 705

सुश्रुत संहिता चौखम्बा, पृष्ठ 705 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arvi Chennai and eGangotri ५४७ त्वङ्मांसासृ सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् ॥ ७ ॥

' स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च ।

स्नायुसन्ध्यस्थिसम्प्राप्ते कुर्याद्वायावतन्द्रितः ॥ ८ ॥

निरुद्धेऽस्थनि वा वायौ पाणिमेन्थेन दारिते ।

नौडीं दत्त्वाऽस्थनि भिषक् चूपयेत्पवनं वली ॥ ९ ॥

शुक्रप्राप्तेऽनिले कार्य शुक्रदोषचिकित्सितम् ।

अगाह कुटी कर्पू- प्रस्तराभ्यङ्ग वस्तिभिः ॥ १० ॥

जयेत्सर्वाङ्गजं वातं सिराँमोक्षैश्च बुद्धिमान् ।

एकाङ्गगं च मतिमाच्छृङ्गैश्चावस्थितं जयेत् ॥ ११ ॥

बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः ।

सुप्तिवाते " त्वसृङ्मोक्षं कुर्यात्तु वहुशो भिषक् ॥१२ ॥

91 " दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः । तोक्तो मूत्राघाताद्युपशमनः । १ स्नेहः - बाह्याभ्यन्तरस्नॆर्इ इत्यर्थः । २ मथ्यते प्राणिभ्यां मण्डलाकारेण परिभ्राम्य छिद्रं कारयितुमस्थि विलोज्यत इवानेनेति मन्थः, आराऽऽख्यशास्त्रविशेषस्तेन ' वरमा ' इति हिन्दीभाषायां प्रसिद्धेने. त्यर्थः । ३ नार्डी = द्विमुखींरजतादिनाङीमित्यर्थः । ४ चूपयेत् = मुखवायुना चूष-णेन वातापकर्षणं कुर्यात् । अयं भावः - कस्मिंश्चिदस्थिन यदि दोषवशेन वायुरवरुद्धः स्यात्तदा शस्त्रेण त्वङ्मांसं विपाट्य आरया छेदनं विधाय तत्र द्विमुखीं रजतादिनाढिक्कां प्रणिधाय मुख-मारुतेन वायोश्चूषणं कुर्यादिति । ५ शारीरस्थानद्वितीयाध्यायोक्तं शुक्रशोणितशु · द्धयुक्तं चिकित्सितं वाजीकरणोक्तं मूत्रदोषचिकित्सितोपदिष्टं च कर्तव्यमित्यर्थः । ६ एवं धातूपधातुगतवात चिकित्सामभिधाय सर्वाङ्गकाङ्गगतवात चिकित्सामाचष्टे-अवगाहेति । श्रवगाहः = वातहर भेषजक्काथपूर्णद्रोण्यादिष्ववगाहो, द्रवस्वेदः, कुटी = गृहाभ्यन्तरे चतुष्कोणेषु निर्धमाङ्गारोपरि वातनाशकद्रव्यैर्धपनं कुटी, सा चोष्मस्वेदः । कर्षै: - पुरुषायाममात्रनिखातं कृत्वा वातशामकद्रव्यदग्धावनिप्रदेशे शयनं कर्पूः, स चोष्मस्वेदविशेषः । प्रस्तरः = स्विन्नतुषधान्यादिभिरास्तृतायां भूमौ परिशयनम्, अय-मप्यूष्मस्वेदविशेषः । ७ सिरामोक्षैः = बहुवचनात् पञ्चानां सिराणां मोक्षगैरित्यर्थः । ८ चकारात्सर्वाङ्गवातोक्ता श्रवगाहादयोऽप्यनुकृष्यन्ते 1 ९ अविरोधिभिराहा-रादिभिः प्रतिकुर्यादित्यर्थः । १० स्पर्शानभिज्ञत्वेनोपलक्षितो वातः सुप्तिवातस्तस्मिन् सुप्तिवाते । ११ दिह्यात् = लेपयेत् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 706

सुश्रुत संहिता चौखम्बा, पृष्ठ 706 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४८ Digitized by Arya Samaj Foundation Chennai and eGangotri ! [ अ ० ४ सश्रनुसंहितायां ennai पञ्च॑मूलीशृतं क्षीरं फलाम्लो रस एव च ॥ १३ ॥

सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम् ।

काकोल्यादिः ` सवातघ्नः सर्वाम्लद्रव्यसंयुतः ॥ १४ ॥

सा पौदकमांसस्तु सर्व स्नेहसमन्वितः ।

सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्त्तितः ॥ १५ ॥

तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् ।

कुञ्चयैमानं रुजार्त्तं वा गात्रं स्तव्धमथापि वा ॥ १६ ॥

गोपर्निबध्नीयात् क्षौमकार्पासकौणिकैः ।

बिडालनकुलोन्द्राणां चर्मगोण्यां मृगस्य वा ॥ १७ ॥

प्रवेशयेद्वा स्वभ्यक्तं शाल्वणेनोपनाहितम् ।

स्कन्दवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा ॥ १८ ॥

वमनं हन्ति नस्यं च कुशलेन प्रयोजितम् ।

शिरोगतं शिरोबस्तिर्हन्ति वाऽसृग्विमोक्षणम् ॥। १ ९ ॥

१ सर्ववातविकारिणां भोजनानि निर्दिशति - पञ्चमूलीति । पञ्चमूली = द्रव्यस-ङ्ङ्ग्रहणीयाध्यायोक्ता आद्या द्वितीया वा, फलाम्लः = दाडिमाद्यम्लः, रसः = छागमां-सरसः, सुस्निग्धः = स्नेहयुक्तः, धान्ययूषः = कुलत्थादिवातहर धान्ययूष इत्यर्थः । सु-स्निग्धशब्दस्य रसशब्देनापि सम्बन्ध इति बोध्यम् । श्रत्र क्षीरादीनां प्रयोगो दोष-प्रकृतिसात्म्यापेक्षया कर्तव्यः । २ कथम्भूतः काकोल्यादिः सवातन्नः वातघ्नेर्भद्रदार्वादिभिर्विदारिगन्धादिभिर्व-र्तत इति सत्रातन्नः, पुनः सर्वैरम्लद्रव्यैः शुक्तकाञ्जिकसुरासौवीरकदधिमस्त्वादिभिः संयुत इति सर्वाम्लद्रव्यसंयुतः, पुनः आनूपौदकमांसेन सह वर्तत इति सानूपौदकमां-सः, अत्र श्रानूपाः कूलचराः, दकाः कोशस्थाः पादिनो मत्स्याश्च ग्राह्याः, सर्वस्नेहैः घृततैलवसामज्जभिः समन्वितः सुखोष्णः ईषदुष्णः - स्पष्टलवणः, स्पष्टानि व्यक्तानि लवणानि सैन्धवादीनि यत्र सः । एषां भागमानमाह ढल्हण: - " मांसेनात्रौषधं तुल्यं यावताऽम्लेन चाम्लता । तावन्तश्च चतुःस्नेहाः स्निग्धत्वं च यथा भवेत् ॥ ” इति । ३ कुन्च्यमानं = सङ्को-च्यमानम्, रुजार्त = वेदनाऽऽर्त्तम् ४ " अदणोः सन्धिषु च शिथिलः " इत्युपदेशाद-सिन्धी विहाय गाढमित्युपदेशः । ५ उन्द्रः = ' ऊदविलाड़ ' इति भाषायां प्रसिद्धः । ‘ नकुलोष्ट्राणाम् ' इति पाठे उष्ट्र: ' ऊंट ' इति ख्यातः । चर्मंगोण्यां = चर्मकोशे । ६ नस्यं = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 707

सुश्रुत संहिता चौखम्बा, पृष्ठ 707 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arya कलाभवन ernai and eGangotri

स्नेहं मात्रसहस्रं तु धारयेत्तत्र योगतः ।

सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् ॥। २० ॥

रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः । ५४ ९ ग्ने स्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् ॥ २१ ॥

शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च ।

सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिक एव च ॥ २२ ॥

रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत् ।

भोजनानि फलाम्लानि स्निग्धानि लवणानि च ॥ २३ ॥

सुखोष्णः परीषेकस्तथा संवाहनानि च ।

कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च ॥ २४ ॥

कौशेयौणिकरोमाणि कार्पासानि गुरूणि च ।

निवातातपयुक्तानि तथा गर्भगृहाणि च ॥ २५ ॥

मृद्वी शय्याऽग्निसन्तापो ब्रह्मचर्य्यं तथैव च ।

समासेनैवमादीनि योज्यान्यनिलरोगिषु ॥ २६ ॥

त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षर्संमाः भागाः, बिल्वमात्रः कल्कस्तिल्वकमूलर्कम्पिल्लकयोः, त्रिफला-रसदधिपात्रे द्वे द्वे, घृतपात्रमेकं तदैकध्यं संसृज्य विपचेत्; तिल्वकसर्पिरेतत् स्नेहविरेचनमुपदिशन्ति वातरोगिषु । तिल्वक-विधिरेवाशोकर " म्यकयोर्द्रष्टव्यः ॥ २७ ॥

शिरोविरेचनम् । १ मात्रा = लब्बक्षरोच्चारणोपलक्षितः कालविशेषः । " वाम-जानुनि तद्धस्तभ्रमणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपार • गैः ॥ ” इत्यादिकं बोध्यम् । २ योगतः = युक्तितः, ' योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यान-युक्तिषु ' इति मेदिनी । युक्तेर्व्याख्यामुत्तरतन्त्रस्य क्रियाकल्पे करिष्यते । ३ श्रधुना उक्तानुक्तसर्ववातव्याधीनां सामान्यचिकित्सामाह – स्नेदेति । ४ सं-वाहनानि = सुखकराङ्गमर्दनानि । ५ पत्रं = तेजपत्रम् । ६ गर्भगृहाणि = अभ्य-न्तरगृहादीनि । ७ वातरोगिणां स्नेहविरेचने तिल्वकसर्पिः प्रतिपादयति — त्रिवृ-दिति । योगेषु सप्तलाया अभावे ' कालादाना ' इति दीयते । ८ अक्षसमाः = तोलकप्रमाणा इत्यर्थः । ९ कम्पिल्लकः = एलावृक्षः । १० रम्यकः = पटोलमूलम्, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 708

सुश्रुत संहिता चौखम्बा, पृष्ठ 708 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ तिलैपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीता-न्यणूनि खण्डशः कल्पयित्वाऽवक्षुद्य महति कटाहे पानीये आला. व्य क्वाथयेत्, ततः स्नेहमम्बुष्पृष्टाद्यदुदेति तत् सरकपाण्योर-न्यतरेरणादाय वातघ्नौपधप्रतीवापं च स्नेहपाककल्पेन विपचेत्; एतदणुतैलमुपदिशन्ति वातरोगेषु । अणुभ्यस्तैलद्रव्येभ्यो निष्पा-द्येत इत्यणुतैलम् ॥ २८ ॥

महापञ्चमूलकाठैहुभिरवदह्यावनिप्रदेशम सितंमुषितमे-करात्रमुपशान्तेऽग्नाव पोह्यं भस्म निवृत्तां भूमिं विदारिगन्धादि -सिद्धेन तैलघटशतेन तुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावृती मृत्तिका स्निग्धा स्यात्तामादायोष्णोदकेन महति कटाहे -ऽभ्यसिञ्चेत्; तत्र यत्तैलमुत्तिष्ठेत्तत्पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात् । ततस्तैलं चातहरौषधक्काथमांसरस क्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नोति पक्तुं, प्रतिवापश्चात्र हैमवती दक्षिणापथगाश्च गन्धा वातघ्नानि च, तस्मिन् सिध्यति शङ्खानाध्मापयेद् दुन्दुभिं घातयेच्छत्रं धारयेद्वालव्यजनैश्च वीज-येद्वाह्मणसहस्रं भोजयेत्, तत् साधु सिद्धमवतार्य सौवर्णे राजते पर्वतनिम्व इति डल्हणः । १ श्रणुतैलनिर्माण प्रकारमुपदिशति - तिलेति । तिलपरिपीडनोपकरणकाष्ठानि चक्रयष्टिमकटिकादीनि आहृत्य श्रानीय अनल्पकालं चिरकालं तैलपरिपीतानि तैलभा-वितानि खण्डशः अणूनि सुक्ष्माणि कल्पयित्वा कारयित्वा, अवक्षुद्य सम्यक् पिष्ट्वा चूर्ण ' यित्वा च, मइति कटाहे पानीये आप्लाव्य प्रक्षिप्य काथयेत् । श्रम्बुपृष्ठात् पानीयोपरि यदुदेति यदुत्पद्यते, तत् सरकराण्योः मृण्मयपात्रहस्तयोः श्रन्यतरेग आदाय गृहीत्वा वातघ्नौषधप्रतीवापं भद्रदार्वादिभेषजकल्कं स्नेहपाककल्पेन विपचेदित्यर्थः । २ निष्पाद्यते = निष्पीडयते । ३ शतपाकं सहस्रपाकं च तैलं निर्दिशति - अथेति । ४ श्रसितं = कृष्णवर्णम् । ५ अपोह्य = भस्म निस्सार्य, निवृत्तां = शान्तवापां भूमिमित्यर्थः । ६ अभ्यासि-न्चेत् = प्लावयेत् । ७ हैमवता: = उत्तरापथसम्भूताः, गन्धाः = कस्तूरीशटीकुष्ठजटामांसी-सरलसुरदारुमुरादयः, दक्षिणपथगाः = चन्दनजाती फलकङ्कोललवङ्गादयः । ८ शङ्खा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 709

सुश्रुत संहिता चौखम्बा, पृष्ठ 709 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arya ञ्चिकित्सास्थाम pnai and eGangotri ५५१ मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात् । तदेतत् सहस्रपाकमप्रति-वारवीर्यं राजार्हं तैलम् । एवं भागशतविपक्वं शेतपाकम् ॥ २ ९ ॥ गन्धर्वहस्तमुष्ककनक्तमालाटरूप कपूतीकारग्वध चित्रकादीनां पत्राण्यार्द्राणि लवणेन सहोदूखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत्पत्रलवणमुपदिशन्ति वातरोगेषु । इति पत्रलवणम् ॥ ३० ॥

एवं स्नुहीकाण्डवार्ताकुशिमुलवणानि सङ्क्षुद्य घटं पूरयित्वा सर्पिस्तैल सामज्जभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत् एतत्

स्नेहलवणमुपदिशन्ति वातरोगेषु । इति काण्डलवणम् ॥ ३१ ॥

गॅण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्रकनादे-9 यीकृष्णगन्धानीपनिम्बनिर्दं न्यटरूपकनक्तमालकपूतिकबृहतीकण्ट-कारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीवाद्वयेक्षुरकेन्द्रवारुणीश्वेतमो-क्षकाशोका इत्येवं वग समूल पत्रशाखमाईमाहर्त्य लवणेन सह संसृष्टं पूर्ववद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेत्; प्रतिवाप-श्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा । इत्येतत् कल्याणकल-वणं वातरोगेषु गुल्मप्लीहा निपङ्गा जीर्णाशेऽरोचकार्त्तानां का-नाध्मापयेदित्याद्याः स्तुतयः । १ शतपाक विद्यादिति शेषः । ण्डः । २ वातरोगेषु कफप्रायेषु पत्रलवणमुपदिशति - गन्धवति । गन्धर्वइस्तः == एर-३ लवणेन = सर्वपत्रसम सैन्धवलवणेनेत्यर्थः । ४ वातरोगेषु वातप्रायेषु काण्डलवणमभिधत्ते — एवमिति । अत्र सर्विरादिचतुःस्नेहस्य सैन्धवलवणस्य च सर्वद्रव्यसमत्वं बोध्यम् । ५ कल्याणकलवणं प्रतिपादयति – गण्डीरेति । गण्डीरो द्विविधः = स्थलजो जलजश्च, स्थलजः ' गांड़र ' इति ख्यातः, जलजः ' जलपीपल ' इति ख्यातः । ६ नादेयो = भूमिजम्बूः, ' नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमि-जम्ब्वां जयायां च काङ्गुष्ठे च समीक्ष्यते ॥ ' इति विश्वः । कृष्णगन्धा = शोभाञ्जनः । ७ निर्दहनी = ' मोरटा ' इति ख्यातः । ८ बाष्पद्वयं = बाष्पिकाद्वयं तच्च लोहितं कृष्णं च सिन्धुविषये । केचिद् वर्षाभूद्र-यमिति पठन्तीति ढल्इणः । इक्षुरकः = ' तालमखाना ' इति ख्यातः । ' बाष्पद्वयेक्षुरकेन्द्र-वारुणी ' इति पाठे ‘ वर्षाभूहीवेरतुर केन्द्रवारुणी ' इति श्रहाराण चन्द्र सम्भतपाठः । तत्रापि क्षुरकः कोकिलाक्षः । ९ श्राहृत्य = श्रानीय, उलूखले सङ्कटथे यर्थः । लवणेन = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 710

सुश्रुत संहिता चौखम्बा, पृष्ठ 710 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५२ सुश्रुतसंहितायां -Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ०५ सादिभिरुपद्रतानां चोपदिशन्ति पानभोजनेष्वपीति ॥ ३२ ॥

भवति चात्र ।

विष्यैन्दनादुष्णभावाद्दोषाणां च विपाचनात् ।

संस्कारपाचनाच्चेदं वातरोगेषु शस्यते ॥ ३३ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम चतुर्थोऽध्यायः ॥ १ ॥

पञ्चमोऽध्यायः ।

अथोतो महावातव्याधिचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते । तत्तु सर्वौषषितुल्य सैन्धवलव णेनैत्यर्थः । १ एतल्लवणयोगप्रशंसामाचष्टे - विष्यन्दना-दिति । विष्यन्दनात् = मूत्रपुरीषादीनां क्षरणादित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधा ss ख्य टिप्पन्यां चतुर्थोऽध्यायः । पञ्चमोऽध्यायः । २ पूर्वाध्याये क्षुद्रवातव्याधीनां चिकित्सितमुक्त्वाऽधुना महावातव्याधिचिकित्सि-तमारभते - अथेति । महान्तश्च ते वातव्याधय इति महावातव्याधयस्तेषां चिकित्सि-तमित्यर्थः । एषां महत्त्वं तु दुःसाध्यत्वेन श्रसाध्यत्वेन च बोध्यम् । वातशोणि-३ ताख्यो व्याधिः प्रायो वातव्याधिविशेष एव, शोणितयुक्तेन वायुना कृतस्त्रात् । द्वयो-र्दुष्टत्वेऽपि वातस्य प्राबल्याद्दोषत्वेन प्राधान्याद् वातरक्तव्यपदेशः, न तु रक्तत्रात इति । तदुक्तम् - ‘ “ हस्त्यश्वोष्टैर्गच्छतश्चाश्नतश्च विदाह्यन्नं स विदाहोऽशनस्य । कृत्स्नं रक्तं विदइत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु । तत्संपृक्तं वायुना दूषितेन तत्प्राबल्या--दुच्यते वातरक्तम् ॥ ” इति । चरकादौ वातशोणिताध्यायस्य पृथक्करणं निदानवैशिष्ट्याद् विशिष्टदोषदृष्यख्या-पनार्थं हस्तादिदेशे एव सम्प्राप्तिकथनार्थं क्रियाविशेषख्यापनार्थं च बोध्यम् । “ तस्य स्थानं करौ पादावङ्गुल्यः सर्वसन्धयः । कृत्वाऽऽदौ हस्तपादे तु मूलं देहे विधावति ॥ ” इति_चरकः । उत्तानं = त्वङ्मांसाश्रयम्, श्रवगाढम् = अन्तराश्रयम्, त्वङ्मांसव्य • तिरिक्तधात्वाश्रयमिति यावत् । ' उत्तानमथ गम्भीरं द्विविधं तत्प्रचक्षते । त्वङ्मांसा · CC - 0. Gurukul Kangri Collection, Haridwar