सुश्रुत संहिता चौखम्बा — पृष्ठ 701–710
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 701–710
पृष्ठ 701
पाठ पढ़ें पाठ छिपाएँ
श्र ० ३ ] Digitized by Arya hennai and eGangotri ५४३
सैन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान् ।
उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत् ॥ ५१ ॥
काण्डभग्ने प्ररूढे तु विषमोल्बणसंहिते ।
आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत् ॥ ५२ ॥
कल्पयेन्निर्गतं शुष्कं व्रणान्तेऽस्थि समाहितः ।
सन्ध्यन्ते वा क्रियां कुर्यात् सत्रणे व्रणभग्नवत् ॥ ५३ ॥
ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम् ।
घृतपानं हितं नस्यं प्रशौखास्वनुवासनम् ॥ ५४ ॥
अत ऊध्व प्रवक्ष्यामि तैलं भग्नप्रसाधकम् ॥ ५५ ॥
रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ।
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ॥ ५६ ॥
तृतीयं सप्तरात्रं वा भावयेन्मधुकाम्बुना । .विधि = पूर्वोक्तकपाटशयनकीलकयन्त्रणादिकमित्यर्थः । १ अथ चिरभग्नविधिमभिदधाति – सन्धीनिति । २ चिरकाण्डभग्नविधानमा-ख्याति - काण्डभग्न इति । विषमोल्वणा संहिते - विषमत्वेन व्यक्तसन्धानमस्येति विषमो-ल्बणसंहितं तस्मिन् । प्ररूढे अङ्करोत्पन्ने, आपोथ्य विश्लेष्य भग्नं भग्नावच्छेदं सम • येत् समं कुर्यात्, समं स्थापयेदिति यावत् । ३ भग्नै बहिर्निर्गतास्थिचिकित्सा-माइ — कल्पयेदिति । निर्गतं बहिर्गतं व्रगान्ते व्रणैकदेशे सन्ध्यन्ते सन्ध्येकदेशे वर्त-मानं वा शुष्कमस्थि समाहितः सावधानो वैद्यः कल्पयेच्छेदयेत् । यथाऽन्यत्र व्रणो न भवति तथा छेदयेदिति निष्कर्षः । सव्रणे व्रणयुक्ते व्रणभग्नवद् व्रणवद् भग्नवच्चेत्यर्थः । ४ कायविशेषेण भग्नक्रियाविशेषं निर्दिशति -- ऊर्ध्वकाय इति । मस्ति-ष्क्यं = मस्तिष्कहितम्, शिरसि स्नेहाक्तपिचुप्लोतादिधारणमित्यर्थः । ५ प्रशा-खासु -- प्रकृष्टाः शाखाः प्रशाखास्तासु, श्रृङ्गुलिव्यतिरिक्तजानुजङ्घा बाहुद्वितयेष्वित्यर्थः । अनुवासनं = बस्तिः । ६ बस्तिकर्णपूरणपाननस्यानुवासनोपयुक्तं गन्धतैलं निदिं • शति -- अत इति । ७ प्रथमं सप्तरात्रमस्थिरे वइति जले कृष्णतिलान् रात्रौ वासयित्वा दिवा शोष-येदित्यर्थः । द्वितीयं सप्तरात्रं भाव्यद्रव्यसमेन गवां क्षीरेण भावयेत् । तृतीयं सप्तरात्रं भाव्यद्रव्यसमेन मधुकाम्बुना भावयेत् । चतुर्थं सप्तरात्रं भाव्यद्रव्यतमेन क्षीरेण पुनः पीतान् भावितान् शोषयित्वा चूर्णयेत् CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 702
पाठ पढ़ें पाठ छिपाएँ
५४४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ३ ततः क्षीरे पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक् ॥ ५७ ॥
काकोल्यादि सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा ।
कुष्ठं सर्जरसं मांसीं सुरदारु सेचन्दनम् ॥ ५८ ॥
शतपुष्पां च सञ्चूर्ण्य तिलेचूर्णेन योजयेत् ।
पीडनार्थं च कर्त्तव्यं सर्वगन्धशृतं पयः ॥ ५ ९ ॥
चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ।
ऐलामंशुमतीं पत्रं जीवकं तगरं तथा ॥ ६० ॥
रोधं प्रपौण्डरीकं च तथा कालानुसारिणम् ।
सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम् ॥ ६१ ॥
पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च ।
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्निना ॥ ६२ ॥
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ।
आक्षेपके पक्षघाते तालुशोषे तथाऽर्दिते ॥ ६३ ॥
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ।
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः ॥ ६४ ॥
१ तिलचूर्णेन तिलचूर्ण भागत्रितयेन काकोल्या दिशतपुष्पान्तानामेकं भागं योज • येदित्यर्थः । २ सर्वगन्धैः क्षीरपाकविधिना शृतमिति सर्वगन्धाम्, शृतेन पयसा उष्णेनैव काकोल्यादिशतपुष्पान्त चूर्णसहितं तत् तिलचूर्णमाद्रीकृत्य चक्रेण पीडये-दित्यर्थः । क्षीरपाकविधिः-- " क्काथ्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् । क्षीरावशेषं कर्तव्यं क्षीरपाके त्वयं विधिः ॥ ” इति । सर्वगन्धं नाम -- “ चातुर्जातककर्पूरकक्कोला-गुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ' इति । तैले निःसृते चतुर्गु-णेन पयसा जलेन तत्तैलं भिषग् वैद्यो विपचेत् । ३ कल्कद्रव्याणि निर्दिशति -- एलामित्यादिना । अंशुमती = शालपर्णी । ४ कालानुसारिणं = तगरम् । अस्य वारद्वयमभिधानं द्विभागार्थम् । ५ सैरेयकः = ' कटसरैया ' इति ख्यातः क्षीरशुक्ला = क्षीरविदारी, अनन्ता = सारिवा, ' अन-न्नमूल ' इति ख्याता, मधूलिका = मूर्वा । ६ पूर्वोक्तान्यौषधानि = काकोल्यादि • शतपुष्पान्तानि । ७ तदुक्तं तन्त्रान्तरे—– “ शास्त्रवित्तु भिषक् तेन मृदुना वह्निना शनैः । पचेत्स्नेहमधश्चोर्ध्व चालयित्वा निरन्तरम् ॥ भवत्येवं पाक-सिद्धिरन्यथा दग्धतां व्रजेत् । ” इति । सर्वकर्मसु = पानाभ्यङ्गादिष्वित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 703
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Any चिकित्सास्था hennai and eGangotri
पथ्यं पाने तथाऽभ्यङ्गे नये बस्तिषु भोजने ।
ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते ॥ ६५ ॥
मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ।
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् ॥ ६६ ॥
राजार्हमेतत्कर्त्तव्यं राज्ञामेव विचक्षणैः ।
त्रेपुसाक्षप्रियालानां तैलानि मधुरैः सह ॥ ६७ ॥
वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत् ।
स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम् ।
पानाभ्यञ्जननस्येषु वस्तिकर्मणि सेचने ॥ ६८ ॥
भैग्नं नैति यथापाकं प्रयतेत तथा भिषक् ।
पक्कमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति ॥ ६ ९ ॥
भैग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्बणम् ।
सुखचेष्टाप्रचारं च सहितं सम्यगादिशेत् ॥ ७० ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयोऽध्यायः ॥ ३ ॥
५४५ १ महासम्भारसाध्यत्वादिति महत्त्वसूचकमात्रम् । तेन नान्येषां निषिद्धम् । २ द्वितीयं भग्नसन्धानकं तैलमभिधत्ते - त्रपुसेति । त्रपु = कर्कटोभेदः, ' खीरा ’ इति, अक्षः = बिभीतकफलम्, ' अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्रात्रयोः सर्पे विभीतकतरावपि ॥ चक्रे कर्षे पुमान् क्लीवं तुत्थे सौवर्चलेन्द्रिये । ' इति मेदिनी । प्रियालः- ' चिरौंजी ' इति ख्यातः । मधुरैः - काकोल्यादिभिः । ३ भग्ने यथा पाको न भवेत्तथा प्रयतेतेति प्रतिपादयति- भग्नमिति । ४ भ. ग्नारोग्यलक्षणं निर्दिशति भग्नमिति । श्रनाविद्धम् = श्रवक्रम्, " श्राविद्धः क्षिप्तव · क्रयोः ' इति हैमः । अनुल्बणम् = अनुन्नतम्, सुखचेष्टाप्रचारं = सुखेनाकुञ्चनप्रसार-णादिकमित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्य टिप्पन्यां तृतीयोऽध्यायः ॥ ३५ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 704
पाठ पढ़ें पाठ छिपाएँ
५४६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri चतुर्थोऽध्यायः । [ अ ० ४ अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
आमाशयगते वाते छर्दयित्वा यथाक्रमम् ।
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥ ३ । ।
चित्र केन्द्रयवे पाठा कटुकाऽतिविषाऽभया ।
वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः ॥ ४ ॥
पक्वाशयगते चापि देयं स्नेहविरेचनम् ।
बस्तयः शोधनीयाश्च प्रौशाश्चलवणोत्तराः ॥ ५ ॥
कार्यों बस्तिगते चापि विधिर्वस्तिविशोर्धनः ।
श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ॥ ६ ॥
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च । चतुर्थोऽध्यायः । १ वातव्याधीनां क्षुद्रवातविकाराणां चिकित्सितमित्यर्थः । महावातव्याधीनां चिकित्सितं पञ्चमाध्याये वदयते । २ क्रमं पूर्वकालापरकालकर्तव्यस्नैहस्वेदनपान-लैङ्गिकवैगिकम।निककायशुद्धि संसर्जन भोजनादिकमनतिक्रम्येति यथाक्रमम् । प्रथम दिवसे वमनं कारयितव्यम्, ततो द्वितीयं दिनमारभ्य षदिनपर्यन्तं पाठक्रमेण एकै • कस्य चूर्णं टङ्कमितं देयमित्यर्थं इति भावमिश्रः । ३ षण्णामनन्तरोक्तानां चित्रका दीनां धरणं मानविशेषमस्मिन्निति षड्धरणः । धरणं हि पलदशमांशः । तदुक्तं मनुना-' पलं सुवर्णाश्चत्वारः पलानि धरणं दश ' इति । यद्यपि घरणशब्दः चतुर्विंशतिरक्ति-कारूपे मानभेदे दृश्यते, तथाऽपि योगस्यास्य पलदशमांशत्वेन द्वाविंशद्रक्तिकमेव मानमुपयोज्यमित्युन्नेयम् । भावप्रकाशकारस्तु– “ चित्र केन्द्रयवौ पाठा कटुकाऽतिविषाऽभया । आमाशयोत्थवा-तघ्नं चूर्णं पेयं सुखाम्बुना । योगेऽस्मिन् भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक् । दिनेषु षट्सु दातव्यास्तेन षड्धरणः स्मृतः ॥ ' अत्र षण्णां समुदितानां षड्धरणमि-तानां चूर्णीकृतानामेकस्मिन्नहनि एकटको देयः । इति । ४ स्नेहविरेचनं = तिल्वक-सर्पिरादिविरेचनम् । ५ प्रकर्षेण अश्यन्ते इति प्राशाः, पानादिष्वभ्यवहार्यखेन वक्ष्य-माणस्नैइलवणकश्य।णकलवणादय इत्यर्थः । ६ बस्तिविशोधनः = अश्मरीचिकित्सि • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 705
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arvi Chennai and eGangotri ५४७ त्वङ्मांसासृ सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् ॥ ७ ॥
' स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च ।
स्नायुसन्ध्यस्थिसम्प्राप्ते कुर्याद्वायावतन्द्रितः ॥ ८ ॥
निरुद्धेऽस्थनि वा वायौ पाणिमेन्थेन दारिते ।
नौडीं दत्त्वाऽस्थनि भिषक् चूपयेत्पवनं वली ॥ ९ ॥
शुक्रप्राप्तेऽनिले कार्य शुक्रदोषचिकित्सितम् ।
अगाह कुटी कर्पू- प्रस्तराभ्यङ्ग वस्तिभिः ॥ १० ॥
जयेत्सर्वाङ्गजं वातं सिराँमोक्षैश्च बुद्धिमान् ।
एकाङ्गगं च मतिमाच्छृङ्गैश्चावस्थितं जयेत् ॥ ११ ॥
बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः ।
सुप्तिवाते " त्वसृङ्मोक्षं कुर्यात्तु वहुशो भिषक् ॥१२ ॥
91 " दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः । तोक्तो मूत्राघाताद्युपशमनः । १ स्नेहः - बाह्याभ्यन्तरस्नॆर्इ इत्यर्थः । २ मथ्यते प्राणिभ्यां मण्डलाकारेण परिभ्राम्य छिद्रं कारयितुमस्थि विलोज्यत इवानेनेति मन्थः, आराऽऽख्यशास्त्रविशेषस्तेन ' वरमा ' इति हिन्दीभाषायां प्रसिद्धेने. त्यर्थः । ३ नार्डी = द्विमुखींरजतादिनाङीमित्यर्थः । ४ चूपयेत् = मुखवायुना चूष-णेन वातापकर्षणं कुर्यात् । अयं भावः - कस्मिंश्चिदस्थिन यदि दोषवशेन वायुरवरुद्धः स्यात्तदा शस्त्रेण त्वङ्मांसं विपाट्य आरया छेदनं विधाय तत्र द्विमुखीं रजतादिनाढिक्कां प्रणिधाय मुख-मारुतेन वायोश्चूषणं कुर्यादिति । ५ शारीरस्थानद्वितीयाध्यायोक्तं शुक्रशोणितशु · द्धयुक्तं चिकित्सितं वाजीकरणोक्तं मूत्रदोषचिकित्सितोपदिष्टं च कर्तव्यमित्यर्थः । ६ एवं धातूपधातुगतवात चिकित्सामभिधाय सर्वाङ्गकाङ्गगतवात चिकित्सामाचष्टे-अवगाहेति । श्रवगाहः = वातहर भेषजक्काथपूर्णद्रोण्यादिष्ववगाहो, द्रवस्वेदः, कुटी = गृहाभ्यन्तरे चतुष्कोणेषु निर्धमाङ्गारोपरि वातनाशकद्रव्यैर्धपनं कुटी, सा चोष्मस्वेदः । कर्षै: - पुरुषायाममात्रनिखातं कृत्वा वातशामकद्रव्यदग्धावनिप्रदेशे शयनं कर्पूः, स चोष्मस्वेदविशेषः । प्रस्तरः = स्विन्नतुषधान्यादिभिरास्तृतायां भूमौ परिशयनम्, अय-मप्यूष्मस्वेदविशेषः । ७ सिरामोक्षैः = बहुवचनात् पञ्चानां सिराणां मोक्षगैरित्यर्थः । ८ चकारात्सर्वाङ्गवातोक्ता श्रवगाहादयोऽप्यनुकृष्यन्ते 1 ९ अविरोधिभिराहा-रादिभिः प्रतिकुर्यादित्यर्थः । १० स्पर्शानभिज्ञत्वेनोपलक्षितो वातः सुप्तिवातस्तस्मिन् सुप्तिवाते । ११ दिह्यात् = लेपयेत् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 706
पाठ पढ़ें पाठ छिपाएँ
५४८ Digitized by Arya Samaj Foundation Chennai and eGangotri ! [ अ ० ४ सश्रनुसंहितायां ennai पञ्च॑मूलीशृतं क्षीरं फलाम्लो रस एव च ॥ १३ ॥
सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम् ।
काकोल्यादिः ` सवातघ्नः सर्वाम्लद्रव्यसंयुतः ॥ १४ ॥
सा पौदकमांसस्तु सर्व स्नेहसमन्वितः ।
सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्त्तितः ॥ १५ ॥
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् ।
कुञ्चयैमानं रुजार्त्तं वा गात्रं स्तव्धमथापि वा ॥ १६ ॥
गोपर्निबध्नीयात् क्षौमकार्पासकौणिकैः ।
बिडालनकुलोन्द्राणां चर्मगोण्यां मृगस्य वा ॥ १७ ॥
प्रवेशयेद्वा स्वभ्यक्तं शाल्वणेनोपनाहितम् ।
स्कन्दवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा ॥ १८ ॥
वमनं हन्ति नस्यं च कुशलेन प्रयोजितम् ।
शिरोगतं शिरोबस्तिर्हन्ति वाऽसृग्विमोक्षणम् ॥। १ ९ ॥
१ सर्ववातविकारिणां भोजनानि निर्दिशति - पञ्चमूलीति । पञ्चमूली = द्रव्यस-ङ्ङ्ग्रहणीयाध्यायोक्ता आद्या द्वितीया वा, फलाम्लः = दाडिमाद्यम्लः, रसः = छागमां-सरसः, सुस्निग्धः = स्नेहयुक्तः, धान्ययूषः = कुलत्थादिवातहर धान्ययूष इत्यर्थः । सु-स्निग्धशब्दस्य रसशब्देनापि सम्बन्ध इति बोध्यम् । श्रत्र क्षीरादीनां प्रयोगो दोष-प्रकृतिसात्म्यापेक्षया कर्तव्यः । २ कथम्भूतः काकोल्यादिः सवातन्नः वातघ्नेर्भद्रदार्वादिभिर्विदारिगन्धादिभिर्व-र्तत इति सत्रातन्नः, पुनः सर्वैरम्लद्रव्यैः शुक्तकाञ्जिकसुरासौवीरकदधिमस्त्वादिभिः संयुत इति सर्वाम्लद्रव्यसंयुतः, पुनः आनूपौदकमांसेन सह वर्तत इति सानूपौदकमां-सः, अत्र श्रानूपाः कूलचराः, दकाः कोशस्थाः पादिनो मत्स्याश्च ग्राह्याः, सर्वस्नेहैः घृततैलवसामज्जभिः समन्वितः सुखोष्णः ईषदुष्णः - स्पष्टलवणः, स्पष्टानि व्यक्तानि लवणानि सैन्धवादीनि यत्र सः । एषां भागमानमाह ढल्हण: - " मांसेनात्रौषधं तुल्यं यावताऽम्लेन चाम्लता । तावन्तश्च चतुःस्नेहाः स्निग्धत्वं च यथा भवेत् ॥ ” इति । ३ कुन्च्यमानं = सङ्को-च्यमानम्, रुजार्त = वेदनाऽऽर्त्तम् ४ " अदणोः सन्धिषु च शिथिलः " इत्युपदेशाद-सिन्धी विहाय गाढमित्युपदेशः । ५ उन्द्रः = ' ऊदविलाड़ ' इति भाषायां प्रसिद्धः । ‘ नकुलोष्ट्राणाम् ' इति पाठे उष्ट्र: ' ऊंट ' इति ख्यातः । चर्मंगोण्यां = चर्मकोशे । ६ नस्यं = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 707
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arya कलाभवन ernai and eGangotri
स्नेहं मात्रसहस्रं तु धारयेत्तत्र योगतः ।
सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् ॥। २० ॥
रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः । ५४ ९ ग्ने स्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् ॥ २१ ॥
शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च ।
सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिक एव च ॥ २२ ॥
रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत् ।
भोजनानि फलाम्लानि स्निग्धानि लवणानि च ॥ २३ ॥
सुखोष्णः परीषेकस्तथा संवाहनानि च ।
कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च ॥ २४ ॥
कौशेयौणिकरोमाणि कार्पासानि गुरूणि च ।
निवातातपयुक्तानि तथा गर्भगृहाणि च ॥ २५ ॥
मृद्वी शय्याऽग्निसन्तापो ब्रह्मचर्य्यं तथैव च ।
समासेनैवमादीनि योज्यान्यनिलरोगिषु ॥ २६ ॥
त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षर्संमाः भागाः, बिल्वमात्रः कल्कस्तिल्वकमूलर्कम्पिल्लकयोः, त्रिफला-रसदधिपात्रे द्वे द्वे, घृतपात्रमेकं तदैकध्यं संसृज्य विपचेत्; तिल्वकसर्पिरेतत् स्नेहविरेचनमुपदिशन्ति वातरोगिषु । तिल्वक-विधिरेवाशोकर " म्यकयोर्द्रष्टव्यः ॥ २७ ॥
शिरोविरेचनम् । १ मात्रा = लब्बक्षरोच्चारणोपलक्षितः कालविशेषः । " वाम-जानुनि तद्धस्तभ्रमणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपार • गैः ॥ ” इत्यादिकं बोध्यम् । २ योगतः = युक्तितः, ' योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यान-युक्तिषु ' इति मेदिनी । युक्तेर्व्याख्यामुत्तरतन्त्रस्य क्रियाकल्पे करिष्यते । ३ श्रधुना उक्तानुक्तसर्ववातव्याधीनां सामान्यचिकित्सामाह – स्नेदेति । ४ सं-वाहनानि = सुखकराङ्गमर्दनानि । ५ पत्रं = तेजपत्रम् । ६ गर्भगृहाणि = अभ्य-न्तरगृहादीनि । ७ वातरोगिणां स्नेहविरेचने तिल्वकसर्पिः प्रतिपादयति — त्रिवृ-दिति । योगेषु सप्तलाया अभावे ' कालादाना ' इति दीयते । ८ अक्षसमाः = तोलकप्रमाणा इत्यर्थः । ९ कम्पिल्लकः = एलावृक्षः । १० रम्यकः = पटोलमूलम्, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 708
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ तिलैपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीता-न्यणूनि खण्डशः कल्पयित्वाऽवक्षुद्य महति कटाहे पानीये आला. व्य क्वाथयेत्, ततः स्नेहमम्बुष्पृष्टाद्यदुदेति तत् सरकपाण्योर-न्यतरेरणादाय वातघ्नौपधप्रतीवापं च स्नेहपाककल्पेन विपचेत्; एतदणुतैलमुपदिशन्ति वातरोगेषु । अणुभ्यस्तैलद्रव्येभ्यो निष्पा-द्येत इत्यणुतैलम् ॥ २८ ॥
महापञ्चमूलकाठैहुभिरवदह्यावनिप्रदेशम सितंमुषितमे-करात्रमुपशान्तेऽग्नाव पोह्यं भस्म निवृत्तां भूमिं विदारिगन्धादि -सिद्धेन तैलघटशतेन तुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावृती मृत्तिका स्निग्धा स्यात्तामादायोष्णोदकेन महति कटाहे -ऽभ्यसिञ्चेत्; तत्र यत्तैलमुत्तिष्ठेत्तत्पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात् । ततस्तैलं चातहरौषधक्काथमांसरस क्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नोति पक्तुं, प्रतिवापश्चात्र हैमवती दक्षिणापथगाश्च गन्धा वातघ्नानि च, तस्मिन् सिध्यति शङ्खानाध्मापयेद् दुन्दुभिं घातयेच्छत्रं धारयेद्वालव्यजनैश्च वीज-येद्वाह्मणसहस्रं भोजयेत्, तत् साधु सिद्धमवतार्य सौवर्णे राजते पर्वतनिम्व इति डल्हणः । १ श्रणुतैलनिर्माण प्रकारमुपदिशति - तिलेति । तिलपरिपीडनोपकरणकाष्ठानि चक्रयष्टिमकटिकादीनि आहृत्य श्रानीय अनल्पकालं चिरकालं तैलपरिपीतानि तैलभा-वितानि खण्डशः अणूनि सुक्ष्माणि कल्पयित्वा कारयित्वा, अवक्षुद्य सम्यक् पिष्ट्वा चूर्ण ' यित्वा च, मइति कटाहे पानीये आप्लाव्य प्रक्षिप्य काथयेत् । श्रम्बुपृष्ठात् पानीयोपरि यदुदेति यदुत्पद्यते, तत् सरकराण्योः मृण्मयपात्रहस्तयोः श्रन्यतरेग आदाय गृहीत्वा वातघ्नौषधप्रतीवापं भद्रदार्वादिभेषजकल्कं स्नेहपाककल्पेन विपचेदित्यर्थः । २ निष्पाद्यते = निष्पीडयते । ३ शतपाकं सहस्रपाकं च तैलं निर्दिशति - अथेति । ४ श्रसितं = कृष्णवर्णम् । ५ अपोह्य = भस्म निस्सार्य, निवृत्तां = शान्तवापां भूमिमित्यर्थः । ६ अभ्यासि-न्चेत् = प्लावयेत् । ७ हैमवता: = उत्तरापथसम्भूताः, गन्धाः = कस्तूरीशटीकुष्ठजटामांसी-सरलसुरदारुमुरादयः, दक्षिणपथगाः = चन्दनजाती फलकङ्कोललवङ्गादयः । ८ शङ्खा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 709
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arya ञ्चिकित्सास्थाम pnai and eGangotri ५५१ मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात् । तदेतत् सहस्रपाकमप्रति-वारवीर्यं राजार्हं तैलम् । एवं भागशतविपक्वं शेतपाकम् ॥ २ ९ ॥ गन्धर्वहस्तमुष्ककनक्तमालाटरूप कपूतीकारग्वध चित्रकादीनां पत्राण्यार्द्राणि लवणेन सहोदूखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत्पत्रलवणमुपदिशन्ति वातरोगेषु । इति पत्रलवणम् ॥ ३० ॥
एवं स्नुहीकाण्डवार्ताकुशिमुलवणानि सङ्क्षुद्य घटं पूरयित्वा सर्पिस्तैल सामज्जभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत् एतत्
स्नेहलवणमुपदिशन्ति वातरोगेषु । इति काण्डलवणम् ॥ ३१ ॥
गॅण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्रकनादे-9 यीकृष्णगन्धानीपनिम्बनिर्दं न्यटरूपकनक्तमालकपूतिकबृहतीकण्ट-कारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीवाद्वयेक्षुरकेन्द्रवारुणीश्वेतमो-क्षकाशोका इत्येवं वग समूल पत्रशाखमाईमाहर्त्य लवणेन सह संसृष्टं पूर्ववद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेत्; प्रतिवाप-श्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा । इत्येतत् कल्याणकल-वणं वातरोगेषु गुल्मप्लीहा निपङ्गा जीर्णाशेऽरोचकार्त्तानां का-नाध्मापयेदित्याद्याः स्तुतयः । १ शतपाक विद्यादिति शेषः । ण्डः । २ वातरोगेषु कफप्रायेषु पत्रलवणमुपदिशति - गन्धवति । गन्धर्वइस्तः == एर-३ लवणेन = सर्वपत्रसम सैन्धवलवणेनेत्यर्थः । ४ वातरोगेषु वातप्रायेषु काण्डलवणमभिधत्ते — एवमिति । अत्र सर्विरादिचतुःस्नेहस्य सैन्धवलवणस्य च सर्वद्रव्यसमत्वं बोध्यम् । ५ कल्याणकलवणं प्रतिपादयति – गण्डीरेति । गण्डीरो द्विविधः = स्थलजो जलजश्च, स्थलजः ' गांड़र ' इति ख्यातः, जलजः ' जलपीपल ' इति ख्यातः । ६ नादेयो = भूमिजम्बूः, ' नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमि-जम्ब्वां जयायां च काङ्गुष्ठे च समीक्ष्यते ॥ ' इति विश्वः । कृष्णगन्धा = शोभाञ्जनः । ७ निर्दहनी = ' मोरटा ' इति ख्यातः । ८ बाष्पद्वयं = बाष्पिकाद्वयं तच्च लोहितं कृष्णं च सिन्धुविषये । केचिद् वर्षाभूद्र-यमिति पठन्तीति ढल्इणः । इक्षुरकः = ' तालमखाना ' इति ख्यातः । ' बाष्पद्वयेक्षुरकेन्द्र-वारुणी ' इति पाठे ‘ वर्षाभूहीवेरतुर केन्द्रवारुणी ' इति श्रहाराण चन्द्र सम्भतपाठः । तत्रापि क्षुरकः कोकिलाक्षः । ९ श्राहृत्य = श्रानीय, उलूखले सङ्कटथे यर्थः । लवणेन = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 710
पाठ पढ़ें पाठ छिपाएँ
५५२ सुश्रुतसंहितायां -Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ०५ सादिभिरुपद्रतानां चोपदिशन्ति पानभोजनेष्वपीति ॥ ३२ ॥
भवति चात्र ।
विष्यैन्दनादुष्णभावाद्दोषाणां च विपाचनात् ।
संस्कारपाचनाच्चेदं वातरोगेषु शस्यते ॥ ३३ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम चतुर्थोऽध्यायः ॥ १ ॥
पञ्चमोऽध्यायः ।
अथोतो महावातव्याधिचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते । तत्तु सर्वौषषितुल्य सैन्धवलव णेनैत्यर्थः । १ एतल्लवणयोगप्रशंसामाचष्टे - विष्यन्दना-दिति । विष्यन्दनात् = मूत्रपुरीषादीनां क्षरणादित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधा ss ख्य टिप्पन्यां चतुर्थोऽध्यायः । पञ्चमोऽध्यायः । २ पूर्वाध्याये क्षुद्रवातव्याधीनां चिकित्सितमुक्त्वाऽधुना महावातव्याधिचिकित्सि-तमारभते - अथेति । महान्तश्च ते वातव्याधय इति महावातव्याधयस्तेषां चिकित्सि-तमित्यर्थः । एषां महत्त्वं तु दुःसाध्यत्वेन श्रसाध्यत्वेन च बोध्यम् । वातशोणि-३ ताख्यो व्याधिः प्रायो वातव्याधिविशेष एव, शोणितयुक्तेन वायुना कृतस्त्रात् । द्वयो-र्दुष्टत्वेऽपि वातस्य प्राबल्याद्दोषत्वेन प्राधान्याद् वातरक्तव्यपदेशः, न तु रक्तत्रात इति । तदुक्तम् - ‘ “ हस्त्यश्वोष्टैर्गच्छतश्चाश्नतश्च विदाह्यन्नं स विदाहोऽशनस्य । कृत्स्नं रक्तं विदइत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु । तत्संपृक्तं वायुना दूषितेन तत्प्राबल्या--दुच्यते वातरक्तम् ॥ ” इति । चरकादौ वातशोणिताध्यायस्य पृथक्करणं निदानवैशिष्ट्याद् विशिष्टदोषदृष्यख्या-पनार्थं हस्तादिदेशे एव सम्प्राप्तिकथनार्थं क्रियाविशेषख्यापनार्थं च बोध्यम् । “ तस्य स्थानं करौ पादावङ्गुल्यः सर्वसन्धयः । कृत्वाऽऽदौ हस्तपादे तु मूलं देहे विधावति ॥ ” इति_चरकः । उत्तानं = त्वङ्मांसाश्रयम्, श्रवगाढम् = अन्तराश्रयम्, त्वङ्मांसव्य • तिरिक्तधात्वाश्रयमिति यावत् । ' उत्तानमथ गम्भीरं द्विविधं तत्प्रचक्षते । त्वङ्मांसा · CC - 0. Gurukul Kangri Collection, Haridwar