सुश्रुत संहिता चौखम्बा — पृष्ठ 711–720
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 711–720
पृष्ठ 711
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] Digitized by Arya S किस्सा स्थान pai and eGangotri ५५३ नसम्यक्, तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति, तस्मान्न द्विविधम् ॥ ३ ॥
तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाभ्यर्शनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकोभूतं युगपद्वातरक्तनिमि-त्तां वेदनां जनयतीति वातरक्तम् । तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद् देहं व्याप्नोति । तस्य पूर्वरूपाणि - तोददाहकण्डूशोफस्त-म्भत्वक्पारुष्य सिरास्नायुध मनोस्पन्दनसक्थिदौर्बल्यानि श्यावरक्त-मण्डलोत्पत्तिश्चाकस्मात्पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु ।
तत्राप्रतिकारिणोऽपँचारिणश्च रोगो व्यक्तः, तस्य लक्षणमुक्तम् ।
तत्राप्रतिकारिणो वैकल्यं भवति ॥ ४ ॥
भवति चात्र ।
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।
स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति ॥ ५ ॥
तंत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचका-विपाकविसरणसङ्कोचनैरनुपद्रुतं बलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत् ॥ ६ ॥
श्रयमुत्तानं गम्भीरं खन्तराश्रयम् ॥ ” इति चरकः । एके = श्रात्रेयादयः । श्रत्र चक्रपाणिना सुश्रुतचरकविरोधपरिहारः कृतः - ' सुश्रुतेन यद् द्वैविध्यमुक्तं तदाचार्ययोः परमात्मनोः सुश्रुताग्निवेशयोरेकस्याप्यप्रामाण्यं न सङ्गतमिति कृत्वाऽवि. रोधमेवात्र व्याख्यानयामः । तथा हि- सुश्रुतेन उत्तानं वातशोणितं कुष्ठवद् गम्भीरं भवतीत्युच्यते, न तु सर्वमेव उत्तानं भूत्वा गम्भीरं भवतीति प्रतिज्ञायते । तेन यो ब्रूते — उत्तानमेवावतिष्ठते तं प्रति सुश्रुतवचनं बाधकम् । चरके तु उत्तानमॆवावतिष्ठते इति नोच्यते एव, किन्तु प्रथमोत्पत्तौ किञ्चिदुत्तानमुत्पद्यते, किञ्चित्त गम्भीरमिति । तेन न विरोधश्चरकसुश्रुतयोः ' इति । १ ' अजीर्णे भुज्यते यत्त तदध्यशनमुच्यते ' इति । २ चरकेऽपि – “ वायुविंवृद्धो वृद्धेन रक्तेनावारितः पथि । कृत्स्नं सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥ ” इति । ३ अ-पचारिणः = अयथार्थकारिण इत्यर्थः । ४ निदानस्थाने इति शेषः । ५ सुकुमा • राणां = मृदुदेहावयवानाम् । ६ साध्यानां वातरोगियां लक्षणमभिधत्ते — तत्रेति । प्राणः = बलम्, मांसक्षय: = मांसगलनम् । ७ विसरणम् = प्रतिसारः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 712
पाठ पढ़ें पाठ छिपाएँ
५५४ सुश्रुतसंहितायां ai and Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५ तंत्र आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणाद् दुष्ट-शोणितमसकृदल्पाल्पमवैसिचेद्वात कोपभयात् । तँतो वमनादि-भिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत्; अजाक्षीरं चौर्द्धतैलं मधुकाक्षयुक्तं, शृगालविन्नासिद्धं वा शर्करा-मधुमधुरं, शुण्ठीशृङ्गाटककशेरुक सिद्धं, श्यामारास्नासुपवी शृगाल-विन्नापीलुशतावरीश्वदंष्ट्राद्विपञ्चमूलसिद्धं वा, द्विञ्चमूलीक्वाथा-ष्टगुणसिद्धेन च पयसा मधुकमेपशृङ्गीश्व ट्रासरलभद्रदारुवचासुर-भिकल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत, शतावरी 70 यू-रककिणिह्यजमोदामधुकक्षीरविदारीवलाऽतिबलातृणा " पञ्चमूलीका-थसिद्धं वा काकोल्यादिप्रतिवापं, बलातैलं शतपाकं वेति । ३ वात-हरमूलसिद्धेन च पयसा परिषेचनम ग्लैर्वा कुर्वीत । यवमधुकैरण्ड-तिलवर्षाभूभिर्वा प्रदेहः कार्यः । तत्र चूर्णितेषु यवगोधूमतिलमुद्ग-माषेषु प्रत्येकशः काकोली क्षीरकाकोली जीवकर्षभकवलाऽतिवलाबि-समृणालशृगालविन्नामेपशृङ्गीप्रियालशर्कराकशेरुकसुरभिवचाक-ल्कमिश्रेषूपनाहाथ सर्पिस्तैलवसामजदुग्धसिद्धाः पञ्च पायसा व्या-१ दूष्यचिकित्सामाचष्टे - तत्रेति । २ मार्गावरणात् = शोणितेन वायोर्माग नि-रोधादित्यर्थः । ' ३ अवसिन्चेत् = स्रावयेत् । ४ दोषचिकित्सितमभिधत्ते - तत इति । ५ प्रतिसंसृष्टभक्तं = पेयादिक्रमेणान्नं भुक्तवन्तम् । वातप्रबले वातरक्ते इ • त्यर्थः। ६ अजाक्षीरस्य भागद्वयं तैलस्यैक इत्यर्थः । अक्षः = = कर्षः, तोलकमिति यावत् । शृगालविन्ना = पृश्निपर्णी । ७ सुषवी = कारवेल्लः, ' सुषवी कृष्णजीरके । कारवेल्ले च जीरे च ' इति हैमः । ८ पुराणवृततैलं निर्दिश्य पक्कतैलं निर्दिशति - द्विपञ्चमूलीति । द्विपञ्चमूलीं कषायकल्पेन विपाच्य पादशेषेण तेनाष्टगुणेन क्षीरं साधयेत् । क्षीरशेषमवतार्य तेन मधुकादिकल्कयुक्तं तैलं साधयेदिति । ९ सुरभिः - रास्ना, प्रतीवापः = प्रक्षेपः । १० ‘ अपामार्गः शैखरिको धामार्गवमयूर कौ ' इत्यमरः । ११ तृणपञ्चमूली - कुशकाशनल-दर्भकाण्डेक्षुका इति द्रव्यसङ्ग्रहणीयोक्तास्तृणसंज्ञका । १२ शतपाकं बलातैलं मूढगर्भ-चिकित्सिताध्याये वच्यते । १३ श्रन्तःपरिमार्जनैमभिधाय बहिः परिमार्जनमभिधत्ते - वातेति । वातहरमूलानि दशमूलादीनि । १४ श्रभ्लैः = सुरासौवीरकतुषोदकादिभिः । १५ वाताधिक्यवातरक्त-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 713
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] pai ५५५ Digitized by Arya चिकित्सास्थानम् tion Chennai and eGangotri ख्याताः; स्नैहिकफलसारोत्कारिका वा, चूर्णितेषु यवगोधूमतिल-मुद्गमाषेषु विचित्रमत्स्यपिशितवेश्वारो वा, बिल्वपेशिकातगर-देवदारुसरलोरास्नाह रेणुकुष्ठशतपुष्पैला सुरादधिमस्तुयुक्त उपनाहः, मातुलुङ्गाम्लसैन्धवघृतमिश्रं मधुशिनुमूलमालेपस्तिलकल्कश्चेति वातप्रबले ॥ ७ ॥
पित्तप्रबले द्राक्षारेवतकट्फल पयस्वामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत् । शतावरीमधुकपटोलत्रिफलाकटुरोहिणी-कषायं गुडूचीकषायं वा पित्तज्वरहरं चन्दनादिकषायं शकेरामधुम-धुरं, मधुरतिक्तकषायसिद्धं वा सर्पिः । बिसमृणालभद्रश्रियपद्मक-कषायेणार्द्धक्षीरेण परिषेकः । क्षीरेक्षुरसमधुशर्करातण्डुलोदकैर्वा द्राक्षेक्षुक पाय मित्रैर्मस्तु मद्यधान्याम्लैः, जीवनीयसिद्धेन वा सर्पिषा-ऽभ्यङ्गः, शतधौत घृतेन वा, काकोल्यादिकल्कविपक्वेन वा सर्पिषा । शालिपष्टिकनलवन्जुलतालीशशृङ्गाटकगै लोडच गौरीगैरिकशैवलप-द्मकपद्मपत्रप्रभृतिभिर्वान्याम्लपिष्टैः प्रदेहो घृतमिश्रः । वातप्रबले-ऽप्येष सुखोष्णः प्रदेहः कार्यः ॥ ८ ॥
रक्तप्रबलेऽप्येवं, बहुशश्च शोणितमवसेचयेत्, शीततमाश्च प्रदेहाः कार्या इति ॥ ९ ॥
श्लेष्मप्रबले त्वामलकहरिद्राकषायं मधुमधुरं पाययेत् । त्रिफ-1 चिकित्सामुपदिशति - तन्नेति । १ स्नैहिकफलानां तिलैरण्डात सीविभीतकादीनां सा. रो मज्जा, उत्कारिका लप्सिकाऽऽकारा । २ पिशितवेशवारः - मांसमयो वेशवारः । " मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेशितम् । पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् । ऐकध्यं विपचेत् समग्वेशवार इति स्मृतः ॥ ” इति सूदशास्त्रम् । बिल्व पेशिका अति. कोमला बिल्वगिरः । ९ सरला = त्रिवृत् । ३ पित्तप्रबलवातरक्त चिकित्सामाचष्टे - पित्तेति । श्ररेवतकः ' अमलतास ' इति ख्यातः । कट्फलं = ‘ कायफल ' इति ख्यातम्, पयस्या = अर्कपुष्पी, अन्ये क्षीरवि-दारीमाहुः । ४ गलोढ्यः = यवबीजम्, ' गलौड ' इति श्रीहाराणचन्द्रसम्मत-पाठः, तत्र स गलो गडकमत्स्यः ' गढ़ई ' इत्याख्यायते, भोडो जपापुष्पमिति व्याख्या-तवान् । गौरी = इरिद्रा | ५ श्लेष्मप्रबलवातरक्तविकित्सामभिधत्ते श्लेष्मेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 714
पाठ पढ़ें पाठ छिपाएँ
५५६ by Arya Samaj Fo मुक्तसहिताच्य n Gangotri [ अ ० ५ लाकषायं वा; मधुकशृङ्गवेर हरीतकी तिक्तरोहिणीकल्कं वा सक्षौद्रं मूत्रतोययोरन्यतरेण गुडहरीतकी वा भक्षयेत् । तैलमूत्रक्षारोदक-सुराशुक्तकफघ्नौषध निःक्काथैः परिषेकः । आरग्वधादिकषायै र्वोष्णैः । मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः । तिल-सर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमधुशिग्रु मिश्राणि क्षारमू-त्रपिष्टानि प्रदेहः । श्वेतसर्षपकल्कः, तिलाश्वगन्धाकल्कः, शेलुक-पित्थप्रियालकल्कः, मधुशिग्रुपुनर्नवाकल्कः, व्योपतिक्ता पृथक्पर्णी-बृहतीकल्क इत्येते पञ्च प्रदेहाः सुखोष्णाः क्षारोद कपिष्टाः, शालिप-र्णी पृश्नीपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः ॥ १० ॥
३ ~ संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात् । र्वेषु च गुडहरीतकीमासेवेत, पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभि-वृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं, भूयश्चा-पकर्षयेत्, एवं यावत् पञ्च दश वेति । तदेतत् पिप्पलीवर्द्धमानकं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शः कासश्वासशोफ-शोषातिसारहृद्रोगोदराण्युपहन्ति; जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वाऽभ्यज्यात् ॥ ११ ॥
सहासहदेवा चन्दनमूर्वा मुस्ताप्रियालशतावरीकशेरुपद्मकमधु-कशतपुष्पाकुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः, सैरेयकाटरूप-कबलाजीवन्तीसु वीकल्को वा छागक्षीरपिष्टः, गोक्षीरपिष्टः, काश्म-१ क्षारोदकं क्षारपाकविध्यध्याये प्रागुक्तम् । कफघ्नौषधानां कटुतिक्तकषायाणां निः. क्वाथैरित्यर्थः २ तर्पणमिश्राः = यवशक्तुसम्मिश्राः । ३ शुद्धदेहस्य सामान्यचिकित्सां ब्रवीति - सर्वेष्विति । ४ यथा प्रथमदिवसे पञ्च पिप्पल्यः, द्वितीयदिवसे दश, अथवा प्रथमदिवसे दश, द्वितीयदिवसे विंशतिः, एवं दशरात्रं वर्धनं कुर्यात् । दशदिनानन्तरं तेनैव क्रमेण दैनन्दिनं पञ्च दश वा हापयेत्, यावदारम्भदिनस्य पञ्च दश वा संख्या नागच्छेत् । पञ्चदशात्मिका द्वेधा मात्रापरिक • ल्पना बलाद्यनुसारेण बोध्या । ५ जीवनीयानि = द्रव्यसङ्ग्रहणीयाध्यायोक्तानि काको • त्यादीनि । ६ सहा = माषपण, सहदेवा = ' सहदेई ' इति प्रसिद्धा, चन्दनं प्रसि • द्धम, मूर्वा = ' मरोड़फली ' इति ख्याता । ७ सुषवी = कारवेल्लकः इति बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 715
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri चा ५५७ र्यमधुकर्तर्पणकल्कोवा, मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डॆतैलमभ्यङ्गः । सर्वेषु पुराणघृतमामलकरसविपक्वं वा पानार्थे, जी नीयसिद्धं परिषेकार्थे, काकोल्यादिक्वाथ कल्क सिद्धं वा, सुषवी-क्वाथसिद्धं वा, कारवेल्लकक्वाथमात्रसिद्धं वा, बलातैलं वा परिषे-कावगाहवस्तिभोज नेषु, शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वाऽनम्लेन । शोणितमो णञ्चाभीक्ष्णं कुर्वीत; उच्छ्रितदोषे च वमनविरेचनास्थापनानुवासनकर्म कर्त्त-व्यम् ॥ १२ ॥
पटोलत्रिफला भीरुगुडूचीकटुकाकृतम् ।
क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम् ॥ १३ ॥
भवन्ति चात्र ।
एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम् ।
वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम् ॥ १४ ॥
उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च ।
शरणान्यप्रवातानि मनोज्ञानि महान्ति च ॥ १५ ॥
मृदुर्गंण्डोपधानानि शयनानि सुखानि च ।
वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि II च ॥ १३ ॥
व्यायामं " मैथुनं कोपमुष्णाम्ललवणाशनम् । १ _तर्पणं = यवचूर्णम् । २ कल्कयोगेन पिण्डं सान्द्रं तैलं पिण्डतैलमित्यर्थः । “ पिण्डो बोले बले सान्द्रे देद्दागारैकदेशयोः । देहमात्रे निवापे च गोल सिल्हकयोरपि ॥ श्रण्डुपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः ' इति मेदिनी । ३ सर्वेषु = पञ्चस्वपि वातरक्तेवित्यर्थः । ४ जी -वनीयसिद्धं = काकोल्यादिसिद्धम्, ' घृतम् ' इति शेषः । ५ मूढगर्भोक्तं बलातैलमि-त्यर्थः श्लेष्मप्रधाने मुद्गरसेन । ६ पित्तप्रधाने पयसा, वातप्रधाने जाङ्गलरसेन, सात्म्यापेक्षया वा भुञ्जीतेत्यर्थः । ७ सामान्येनोक्तमपि कफोत्कटे वमनं, पित्तरक्तोरकटे विरेचनं, वातोस्कटे च अनुवासनास्थापनैतत्कर्मद्वयं कर्तव्यम् । शरणानि = गृहाणि, ' शरणं गृहरक्षित्रोः ' इत्यमरः । ९ गण्डपदेन मस्तकादीनामप्युपधानानि, ' उपधानं तूपबर्हः ' इत्यमर:: ' तकिया ' इति लोके । १० संवाहनानि = करपादादिमदनानि । ११ निषिद्धौ श्रहाराचारौ दर्श-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 716
पाठ पढ़ें पाठ छिपाएँ
५५ Digitized by Arya Samaj F सुसर हिलायां ande Gangotri [ अ ०५ दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत् ॥ १७ ॥
पतीन किनमस्रस्ता क्षमवक्रभ्रुवमस्तब्ध मेढू मस्वेदनमवेपनम-प्रलापिनमखट्वापातिनेम बहिरायामिनं चोपक्रमेत् । तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवैपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्धयर्थ-म् । अनन्तरं च विदारिगन्धादिक्वाथमांसरस क्षीरद्धिपक्वं स ॰ र्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदा-र्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चव. र्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्रच सर्पि · स्तैलवसामज्जभिः सह विपचेन्मधुरकँप्रतीवापम् । तदेतत् त्रै-यति - व्यायाममिति । अत्र " पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः । भोजनार्थे सार्थे तु विष्किराः प्रतुदा हिताः ॥ श्राढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः । यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते ॥ सुनिषण्णकवेताग्रकाकमाचीशतावरी । वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ॥ घृतमांसरसैर्भृष्टं शाकं सात्म्याय दापये-तु " इति विहिता श्रपि द्रष्टव्याः । १ अपतानकचिकित्सितमाचष्टे - अपतानकिनमिति । श्रपतानकस्य लक्षणं निदा-नस्थानस्य प्रथमाध्याये द्रष्टव्यम् । अत्रस्ताक्षं = नान्तः प्रविष्टनयनम् । २ अखट्वा -पातिनम् = अशय्याशायिनम् अबहिरायामिनम् = श्रपश्चान्मुखनामिनम् । बहिराया-मलक्षणं निदानस्थानस्य प्रथमाध्याये द्रष्टव्यम् । ३ अवपीडय दीयत इत्यवपीढस्ते -न । ४ शिरः शुद्धयर्थं शिरोविरोचनं वातस्य श्लेष्मस्थानगतत्वेन झटिति संज्ञाप्रवो-घार्थमिति भावः । तन्त्रान्तरे विशेष: - " विरेच्यः स्नेह पिश्वाऽऽदौ स्नेहयुक्तविरेचनैः । रूक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च । न हि वस्तिसमं किञ्चिद्वातरक्तचिकि त्सितम् ॥ ” इति । ५ अनन्तरं = शिरोविरेचनानन्तरम्, विदारिगन्धादिसपिरन्तानां द्रव्याणां प्रत्ये-कशः प्रस्थं ग्राह्यम् । अच्छं = वस्त्रपूतेन निर्मलमित्यर्थः । ६ पानयोग्यं घृतं प्रदर्श्य सर्वकार्योपयोगिनं महास्नेहमभिदधाति तत इति । ७ पञ्चानां वर्गाणां समाहारः पञ्चवर्गम् । तच्च कुलचराः, प्लवाः, कोशस्थाः, पादिनः, मत्स्याश्च । ८ अग्लानि = सुरासौवीरकधान्याम्लादीनि, क्षीरमाजं गव्यं वेति अम्लक्षीराणि तैः । ९ मधुरकप्रतीवापं = काकोल्यादिमधुर वर्ग कल्कप्रक्षेपम् । अत्र सयवकोलकुलत्थानां यथालाभं भद्रदार्वादिद्रव्याणां च चतुरः प्रस्थान्, आनूपौदकमांसानां च चतुरः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 717
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by Arya चिकित्सा nai and eGangotri ५५ ९ वृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु वि. दध्यात् । यथोक्तैश्च स्वेदेविधानैः स्वेदयेत्, बलीयसि वाते सुखो-तुपकरीपपूर्ण कूपे निर्दध्यादामुखात्, तप्तायां वाऽङ्गारचुल्लयां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कुशरावेशवारपायसैर्वा स्वेदयेत् । मूलकोरुयू कंस्फूर्जार्ज कार्क सप्तला-शङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् । अभु-क्तत्रता पीतमम्लं दधिमरिचवचायुक्तमपतानकं हन्ति, तैलसर्पिर्व-साक्षौद्राणि च । एतच्छुशुद्ध वातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्त्तव्यम्, वेगान्तेषु चावपीडं दद्यात्, ताम्रचूडंकर्कटकृष्णमत्स्य-शिशुमारवराहवसाञ्चासेवेत, क्षीराणि वा वातहर सिद्धानि, यवको-लकुलत्थमूलकदधिघृततैलसिद्धां वा यवागूं, स्नेह विरेचनास्थापना-नुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत् । वातव्याधिचिकित्सितं चावेक्षेत; रंक्षाकर्म च कुर्यादिति ॥ १८ ॥
पक्षाघातोपद्रुतमम्लानगात्रं सहजमात्मवन्तमुपकरणवन्तं चोप-क्रमेत् । तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवा-स्यास्थाप्य च यथाकालमाक्षेपक विधानेनोपचरेत् । " वैशेषिकश्चात्र प्रस्थानेकीकृत्य अष्टगुणे जले पक्त्वा पादावशिष्टं कषायमम्लक्षीरयोः प्रत्येकशः चतुः-प्रस्थेन सम्मिश्रय तेन सर्पिरादोनां चतुणीं चतुःप्रस्थं मधुरककल्कं विपचेदिति तात्प र्यम् । १ त्रिभिस्तैलादिभिर्वृतं सर्पिस्त्रैवृतम् । २ स्वेदविधानैः = स्वेदावचारणीया. भिहितैः । ३ विदध्यात् = स्थापयेद् रोगिणमित्यर्थः । ४ उरुबूकः = शुक्लैरण्डः, स्फूर्जकः = तिन्दुकः, ' तिन्दुकः स्फूर्जकः ' इत्यमरः । अर्जकः = ‘ सफेद बबई’इति ख्यातः, ' सितेऽर्जकोऽत्र ' इत्यमरः । श्रर्कः प्रसिद्धः, सप्तला = सप्तपर्णंः, ‘ सतवन’इति ख्यातः, शङ्खिनी = ' शंखाहुली ' इति ख्याता । मूलकादीनां स्नेहचतुर्गुणेन रसेन सिद्धं, मूलकादिपादकल्कम कल्कं वा पक्त्वा सुखोष्णं परिषेके द्रवस्त्रेदे इत्यर्थः । श्रादिशब्दादभ्याङ्गादिष्विति ढल्हणः । ५ वेगान्तरेषु = वेोपरमेषु । ६ ताम्रचूढः = कुक्कुटः, H कर्कट: ' केंकडा ' इति, कृष्णमत्स्यः: = = कुलीरमत्स्याकारोऽ-शल्क इति ढल्हणः । तन्त्रान्तरेऽपि - " कर्कटकुली र शिशुमारवराद्दवसाः पाययेत् ' इति । ७ रक्षाकर्म प्राग् श्रग्रोपहरणीयाध्याये व्रणितोपासनीयाध्याये चोक्तम् । ८ पक्षाघातचिकित्सां प्रतिपादयति - पक्षेति । ९ आक्षेपकः प्रपतानकः । १० विशेष CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 718
पाठ पढ़ें पाठ छिपाएँ
५६० Digitized by Arya Samaj dation Chennai= i and eGangotri [ अ ० २ मस्तिष्क शिरोबस्तिः, अणुतैलमभ्यङ्गार्थे, शाल्वणमुपनाहार्थ, बला-तैलमनुवासनार्थे, एवमतन्द्रितस्त्रींश्चतुरो वा मासान् क्रियापथमु-पसेवेत ॥ १ ९ ॥ मन्यास्तम्भेऽप्येतदेव विधानम् । विशेषतो वातश्लेष्म हरैर्नस्यै-रूक्षस्वेदैश्चोपचरेत् ॥ २० ॥
अपतन्त्रकातुरं नापतर्पयेत्, वमनानुवासनास्थापनानि न नि-घेवेत, वातश्लेष्मापरुद्धोच्छ्वासं तीक्ष: । प्रध्मापनैर्मोक्षयेत्, तुम्बु-रुपुष्कराह्वहिङ्ग्वम्लवेतसपध्यालवरणत्रयं यवक्वाथेन पातुं प्रय-च्छेत्, पथ्यौशतार्द्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिः प्रस्थं सिद्धं, वातश्लेष्मापनुच्च कर्म कुर्यात् ॥ २१ ॥
अर्दितातुरं बलवन्तमुपकरणवन्तं च वातव्याधिविधानेनोप-एव वैशेषिकः 1 श्रीहाराण चन्द्रस्तु — ' मस्तिष्क शिरीबस्तिः ' इत्यत्र ' मास्तिष्कं शिरोबस्तिश्च शिरःशुद्धयर्थम् ' इति पाठं मत्वा मस्तिष्कहितत्वान्मास्तिष्कं स्नेहपिचु-धारणमिति व्याख्याति, वक्ति च - वायुहि मस्तिष्कगता रक्तवाहिनीर्धमनीः सन्दूष्य तासु च काचिद्वा विपाटय सव्यं मस्तिष्कभागं प्रपीडयन्नपसव्यं पक्षमाहन्ति, अन्यथा तु सव्यं पक्षमिति निश्चीयते शारीरतत्त्वेन समं निदानवाक्यार्थतत्त्वमनुसन्धाय तेनैवं ब्रूमः रक्तानुपयोगितया यथाऽत्र मास्तिष्क शिरोवस्त्युपदॆशॆन ' आक्षेपकविधानैनो-पाचरेत् ' इत्यतिदेशप्राप्तमवपीडनमेकान्तेन प्रतिषिध्यते न तथाऽणुतैलाभ्यङ्गोपदेशे नातिदेशप्राप्तमभ्यङ्गार्थं वातरक्तोपयोगि वृतं सर्पिः । न चैतदश्रद्धेयं बहुशः परी -क्षितत्वादिति । अणुतैलमस्यैव स्थानस्य चतुर्थाध्याये द्रष्टव्यम् । २ मूढगर्भोक्तं बलातैलमि • त्यर्थः । ३ मन्यास्तम्भचिकित्सामुपदिशति – मन्येति । ग्रीवायाः पश्चाद्भागे स्थिता सिरा ' मन्या ' इत्युच्यते । ' पश्चाद्ग्रीवा सिरा मन्या ' इत्यमरः । ४ अपतन्त्र कचिकि-त्सामभिधत्ते - अपेति । तन्त्रान्तरेऽपि - " अथापतन्त्र केणार्त मातुरं नापतर्पयेत् । निरू • छबस्ति वमनं सेवयेन्न कदाचन ॥ श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत् । तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति ॥ ” इति । श्वसनाः == प्रश्वासोच्छ्वास-वहा धमनीरिति तदर्थः । ५ पथ्याश्चतार्द्धे सर्पिः प्रस्थं सिद्धं पातुं प्रयच्छेदिति योजना । पथ्या हरीतकी शतार्द्धं कल्कीकृतं पञ्चाशत्फलं तस्मिनित्यर्थः । ६ श्रदिंत चिकित्सां वक्ति - अर्दितेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 719
पाठ पढ़ें पाठ छिपाएँ
अ ० ५ ] Digitized by Arya सावन ernai and eGangotri ५६१ चरेत्, वैशेषिकैश्च मास्तिष्क शिरोवस्तिनस्यधूमोपनाह स्नेहनाडीस्वे-दादिभिः । ततः संतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादि-मौदकानूपमांसं तथैवौदककन्दांश्च संहृत्य द्विगुणोदके क्षीरेद्रोणे निःक्वाथ्य पादावशिष्टमवतार्य परिस्राव्य तैलप्रस्थेनोन्मिश्रय पुनरग्नावधिश्रयेत् । ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभिम-ध्नीयात्, तत्र यः स्नेहः उत्तिष्ठेत्तमादाय मधुरौषधसहा क्षीरयुक्तं
विपचेत्, एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यम् ।
तैलहीनं क्षीरसर्पिरक्षितर्पणमिति ॥ २२ ॥
गृध्रसी विश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टकपाददाहपाद-हर्षावृबाहुकबाधिर्यधमनीगतवातरोगेषु यथोक्तं यथोद्देशं च सि-राव्यधं कुर्यात्, अन्यत्रावबाहुकात्; वातव्याधिचिकित्सितं चा-वेक्षेत ॥ २३ ॥
कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धवोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैलानि वा, मातुलुङ्गदाडिमतिन्तिडीक-स्वरसमूत्रसिद्धं तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडोस्वेदैश्च स्वेदयेत्, वातव्याधिचिकित्सां चावेक्षेत, भूयश्चोत्तरे वक्ष्यामः ॥ २४ ॥
तूणीप्रतूण्योः " स्नेहलवणमुष्णोकेन पाययेत्, पिप्पल्यादिचूर्णं १ कुशकाशनलदर्भकाण्डॆत्तुकसंज्ञकैस्तृणैः सहितं सतृणमित्यर्थः । महापञ्चमूलं = विल्वादिपञ्चमूलम् । २ औदककन्दान् = कशेरुशृङ्गाटकशालूकादीन् । ३ क्षीरद्रोणे = सार्द्धद्वादशसेटके पयसि । ४ क्षीरानुगतं = दुग्धेन सहैकावयवीभूतम् । ५ मधुरौ-षधानि का कोल्यादीनि, सहा भाषपण क्षीरं चतुर्गुणं तेन युक्तमित्यर्थः । ६ गृधस्या-दिषु वातव्याधिचिकित्सिते कृते पश्चाच्छोणितावरणं निश्चित्य सिराव्यधं कुर्या -दिति निष्कर्षः । ७ कर्णशुलचिकित्सामभिधत्ते - कर्णेति । शृङ्गवेररसम् = आर्द्रकरसम्, सैन्धवो-पहितं === किञ्चित्सैन्धवलवणेन संयुक्तम् । ८ नाडीस्वेदोऽत्र एकतः प्रदीप्तेन पट्टका-ष्ठेन श्रन्येन वा बुद्धिपरिकल्पितेन देय इति सुश्रुतार्थ सन्दीपनम् । ९ एकविंशतितमे कर्णुगत रोगप्रतिषेधाध्याये इत्यर्थः । १० तूणीप्रतूणीचिकित्सामाह - तूणीति । स्नेहलवणमस्यैव स्थानस्य चतुर्थाध्याये ३६ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 720
पाठ पढ़ें पाठ छिपाएँ
५६२. सुश्रुतसहिताया... [ अ ०५ वा, हिङ्गुयवक्षारप्रगाढं वा सर्पिः, बेस्तिभिश्चैनमुपक्रमेत् ॥ २५ ॥
आध्माने त्वपतर्पणपाणितापदीपन चूर्ण फलवर्त्तिक्रियापाचनी-यदीपनीयबस्तिभिरुपाचरेत् । लङ्घनान्तरं चान्नकाले धान्यकजीर-कादिदीपनसिद्धान्यन्नानि । प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात् ॥ २६ ॥
Digitized by Arya Samaj Foundation Chennai and eGangotri अष्टीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत्क्रियाविभाग इति । २७ । हिङ्गुत्रिकटुवचाऽजमोदाधान्याजं गन्धादाडिमतिन्तिडीकपा-ठाचित्रकय वक्षारसैन्धवविडसौवर्चलस्वर्जिकापिप्पलीमूलाम्लवेतस-शैटीपुष्करमूलहपुषाचव्याजाजीपथ्याश्चूर्णयित्वा मातुलुङ्गाम्लेन बहुशः परिभाव्यार्त्तमात्रां गुटिकां कारयेत्, ततः प्रातरेकैकां वात-विकारी भक्षयेत् । एष योगः कासश्वास गुल्मोदरारोचकहृद्रोगाध्मान पार्श्वोदरबस्तिशूलानाह मूत्रकृच्छ्रप्लीहार्शस्तूणीप्रतूणीरपहन्ति ॥ २८ ॥
भवन्ति चात्र । केवलो " दोषयुक्तो वा धातुभिर्वा ss वृतोऽनिलः । गतम् । १ हिङ्गुयवक्षारप्रगाढं = भृशं हिङ्गुयवक्षारम्, ' प्रगाढं भृशकृच्छ्रयो: ' इत्य-मरः । ‘ प्रगाढो दृढकृच्छ्रयो: ' इति द्वैमात् पुंलिङ्गोऽपि प्रगाढशब्दः । २ सामान्यवस्ति. ग्रहणात्त्रिविधबस्त्यवबोध इति डल्हणः । ३ श्रध्मान चिकित्सां निर्दिशति - आध्मान इति । ४ उदरचिकित्सिते वक्ष्य-माणा मदनफलादिकृता वर्तिः, तस्याः प्रणिधानं फलवर्तिक्रिया । “ मदनं पिप्पली कुठं वचा गौराश्च सर्षपाः । गुडक्षारसमायुक्ता फलवतिंनिंगद्यते ॥ " इत्युक्तद्रव्याणामेक व्यवहारः । पाचनीयानि पञ्चकोलादीनि । ५ क्रियाविभागः = चिकित्साभेदः । ६ हिङ्ग्वादि चूर्णगुटिका निर्माणप्रकारं निर्दिशति - हिग्विति । ७ अजग-न्धा = ' अजवाइन ' इति लोके । ८ शटी = ' कचूर ' इति लोके, हपुषा = ' हाऊबेर ' इति लोके । ९ अक्षमात्रां = तोलकपरिमाणागुटिकामित्यर्थः । हिङ्ग्वादिगुटिका वा-तगुल्मिनां कृते द्विगुणक्षारहिङ्ग्वम्लवेतसाः कार्याः । उक्तं च- " यच्चूर्णं गुटिका याश्च कर्तव्या वातगुल्मिनाम् । द्विगुणक्षारहिङ्ग्वम्लवेतसास्ता हिता इति ॥ ” इति डल्हणः । १० संसृष्टावृतवात चिकित्सां दर्शयति- केवल इति । केवलो वातपित्तकफेर संसृष्टः, दोषयुक्तो वातादिदोषसंयुक्तः, धातुभिः रसरक्तमांसमेदोमज्जशुक्रः शरीरधारकत्वात् स्वेदोविण्मूत्रैर्वातपित्तकफैश्चावृतो वातः लक्षणोद्दाभ्यां, लक्षणानि तत्तद्दोषलिङ्गानि । यथा CC - 0. Gurukul Kangri Collection, Haridwar