सुश्रुत संहिता चौखम्बा — पृष्ठ 711–720

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 711–720

पृष्ठ 711

सुश्रुत संहिता चौखम्बा, पृष्ठ 711 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] Digitized by Arya S किस्सा स्थान pai and eGangotri ५५३ नसम्यक्, तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति, तस्मान्न द्विविधम् ॥ ३ ॥

तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाभ्यर्शनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकोभूतं युगपद्वातरक्तनिमि-त्तां वेदनां जनयतीति वातरक्तम् । तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद् देहं व्याप्नोति । तस्य पूर्वरूपाणि - तोददाहकण्डूशोफस्त-म्भत्वक्पारुष्य सिरास्नायुध मनोस्पन्दनसक्थिदौर्बल्यानि श्यावरक्त-मण्डलोत्पत्तिश्चाकस्मात्पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु ।

तत्राप्रतिकारिणोऽपँचारिणश्च रोगो व्यक्तः, तस्य लक्षणमुक्तम् ।

तत्राप्रतिकारिणो वैकल्यं भवति ॥ ४ ॥

भवति चात्र ।

प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।

स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति ॥ ५ ॥

तंत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचका-विपाकविसरणसङ्कोचनैरनुपद्रुतं बलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत् ॥ ६ ॥

श्रयमुत्तानं गम्भीरं खन्तराश्रयम् ॥ ” इति चरकः । एके = श्रात्रेयादयः । श्रत्र चक्रपाणिना सुश्रुतचरकविरोधपरिहारः कृतः - ' सुश्रुतेन यद् द्वैविध्यमुक्तं तदाचार्ययोः परमात्मनोः सुश्रुताग्निवेशयोरेकस्याप्यप्रामाण्यं न सङ्गतमिति कृत्वाऽवि. रोधमेवात्र व्याख्यानयामः । तथा हि- सुश्रुतेन उत्तानं वातशोणितं कुष्ठवद् गम्भीरं भवतीत्युच्यते, न तु सर्वमेव उत्तानं भूत्वा गम्भीरं भवतीति प्रतिज्ञायते । तेन यो ब्रूते — उत्तानमेवावतिष्ठते तं प्रति सुश्रुतवचनं बाधकम् । चरके तु उत्तानमॆवावतिष्ठते इति नोच्यते एव, किन्तु प्रथमोत्पत्तौ किञ्चिदुत्तानमुत्पद्यते, किञ्चित्त गम्भीरमिति । तेन न विरोधश्चरकसुश्रुतयोः ' इति । १ ' अजीर्णे भुज्यते यत्त तदध्यशनमुच्यते ' इति । २ चरकेऽपि – “ वायुविंवृद्धो वृद्धेन रक्तेनावारितः पथि । कृत्स्नं सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥ ” इति । ३ अ-पचारिणः = अयथार्थकारिण इत्यर्थः । ४ निदानस्थाने इति शेषः । ५ सुकुमा • राणां = मृदुदेहावयवानाम् । ६ साध्यानां वातरोगियां लक्षणमभिधत्ते — तत्रेति । प्राणः = बलम्, मांसक्षय: = मांसगलनम् । ७ विसरणम् = प्रतिसारः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 712

सुश्रुत संहिता चौखम्बा, पृष्ठ 712 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५४ सुश्रुतसंहितायां ai and Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५ तंत्र आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणाद् दुष्ट-शोणितमसकृदल्पाल्पमवैसिचेद्वात कोपभयात् । तँतो वमनादि-भिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत्; अजाक्षीरं चौर्द्धतैलं मधुकाक्षयुक्तं, शृगालविन्नासिद्धं वा शर्करा-मधुमधुरं, शुण्ठीशृङ्गाटककशेरुक सिद्धं, श्यामारास्नासुपवी शृगाल-विन्नापीलुशतावरीश्वदंष्ट्राद्विपञ्चमूलसिद्धं वा, द्विञ्चमूलीक्वाथा-ष्टगुणसिद्धेन च पयसा मधुकमेपशृङ्गीश्व ट्रासरलभद्रदारुवचासुर-भिकल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत, शतावरी 70 यू-रककिणिह्यजमोदामधुकक्षीरविदारीवलाऽतिबलातृणा " पञ्चमूलीका-थसिद्धं वा काकोल्यादिप्रतिवापं, बलातैलं शतपाकं वेति । ३ वात-हरमूलसिद्धेन च पयसा परिषेचनम ग्लैर्वा कुर्वीत । यवमधुकैरण्ड-तिलवर्षाभूभिर्वा प्रदेहः कार्यः । तत्र चूर्णितेषु यवगोधूमतिलमुद्ग-माषेषु प्रत्येकशः काकोली क्षीरकाकोली जीवकर्षभकवलाऽतिवलाबि-समृणालशृगालविन्नामेपशृङ्गीप्रियालशर्कराकशेरुकसुरभिवचाक-ल्कमिश्रेषूपनाहाथ सर्पिस्तैलवसामजदुग्धसिद्धाः पञ्च पायसा व्या-१ दूष्यचिकित्सामाचष्टे - तत्रेति । २ मार्गावरणात् = शोणितेन वायोर्माग नि-रोधादित्यर्थः । ' ३ अवसिन्चेत् = स्रावयेत् । ४ दोषचिकित्सितमभिधत्ते - तत इति । ५ प्रतिसंसृष्टभक्तं = पेयादिक्रमेणान्नं भुक्तवन्तम् । वातप्रबले वातरक्ते इ • त्यर्थः। ६ अजाक्षीरस्य भागद्वयं तैलस्यैक इत्यर्थः । अक्षः = = कर्षः, तोलकमिति यावत् । शृगालविन्ना = पृश्निपर्णी । ७ सुषवी = कारवेल्लः, ' सुषवी कृष्णजीरके । कारवेल्ले च जीरे च ' इति हैमः । ८ पुराणवृततैलं निर्दिश्य पक्कतैलं निर्दिशति - द्विपञ्चमूलीति । द्विपञ्चमूलीं कषायकल्पेन विपाच्य पादशेषेण तेनाष्टगुणेन क्षीरं साधयेत् । क्षीरशेषमवतार्य तेन मधुकादिकल्कयुक्तं तैलं साधयेदिति । ९ सुरभिः - रास्ना, प्रतीवापः = प्रक्षेपः । १० ‘ अपामार्गः शैखरिको धामार्गवमयूर कौ ' इत्यमरः । ११ तृणपञ्चमूली - कुशकाशनल-दर्भकाण्डेक्षुका इति द्रव्यसङ्ग्रहणीयोक्तास्तृणसंज्ञका । १२ शतपाकं बलातैलं मूढगर्भ-चिकित्सिताध्याये वच्यते । १३ श्रन्तःपरिमार्जनैमभिधाय बहिः परिमार्जनमभिधत्ते - वातेति । वातहरमूलानि दशमूलादीनि । १४ श्रभ्लैः = सुरासौवीरकतुषोदकादिभिः । १५ वाताधिक्यवातरक्त-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 713

सुश्रुत संहिता चौखम्बा, पृष्ठ 713 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] pai ५५५ Digitized by Arya चिकित्सास्थानम् tion Chennai and eGangotri ख्याताः; स्नैहिकफलसारोत्कारिका वा, चूर्णितेषु यवगोधूमतिल-मुद्गमाषेषु विचित्रमत्स्यपिशितवेश्वारो वा, बिल्वपेशिकातगर-देवदारुसरलोरास्नाह रेणुकुष्ठशतपुष्पैला सुरादधिमस्तुयुक्त उपनाहः, मातुलुङ्गाम्लसैन्धवघृतमिश्रं मधुशिनुमूलमालेपस्तिलकल्कश्चेति वातप्रबले ॥ ७ ॥

पित्तप्रबले द्राक्षारेवतकट्फल पयस्वामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत् । शतावरीमधुकपटोलत्रिफलाकटुरोहिणी-कषायं गुडूचीकषायं वा पित्तज्वरहरं चन्दनादिकषायं शकेरामधुम-धुरं, मधुरतिक्तकषायसिद्धं वा सर्पिः । बिसमृणालभद्रश्रियपद्मक-कषायेणार्द्धक्षीरेण परिषेकः । क्षीरेक्षुरसमधुशर्करातण्डुलोदकैर्वा द्राक्षेक्षुक पाय मित्रैर्मस्तु मद्यधान्याम्लैः, जीवनीयसिद्धेन वा सर्पिषा-ऽभ्यङ्गः, शतधौत घृतेन वा, काकोल्यादिकल्कविपक्वेन वा सर्पिषा । शालिपष्टिकनलवन्जुलतालीशशृङ्गाटकगै लोडच गौरीगैरिकशैवलप-द्मकपद्मपत्रप्रभृतिभिर्वान्याम्लपिष्टैः प्रदेहो घृतमिश्रः । वातप्रबले-ऽप्येष सुखोष्णः प्रदेहः कार्यः ॥ ८ ॥

रक्तप्रबलेऽप्येवं, बहुशश्च शोणितमवसेचयेत्, शीततमाश्च प्रदेहाः कार्या इति ॥ ९ ॥

श्लेष्मप्रबले त्वामलकहरिद्राकषायं मधुमधुरं पाययेत् । त्रिफ-1 चिकित्सामुपदिशति - तन्नेति । १ स्नैहिकफलानां तिलैरण्डात सीविभीतकादीनां सा. रो मज्जा, उत्कारिका लप्सिकाऽऽकारा । २ पिशितवेशवारः - मांसमयो वेशवारः । " मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेशितम् । पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् । ऐकध्यं विपचेत् समग्वेशवार इति स्मृतः ॥ ” इति सूदशास्त्रम् । बिल्व पेशिका अति. कोमला बिल्वगिरः । ९ सरला = त्रिवृत् । ३ पित्तप्रबलवातरक्त चिकित्सामाचष्टे - पित्तेति । श्ररेवतकः ' अमलतास ' इति ख्यातः । कट्फलं = ‘ कायफल ' इति ख्यातम्, पयस्या = अर्कपुष्पी, अन्ये क्षीरवि-दारीमाहुः । ४ गलोढ्यः = यवबीजम्, ' गलौड ' इति श्रीहाराणचन्द्रसम्मत-पाठः, तत्र स गलो गडकमत्स्यः ' गढ़ई ' इत्याख्यायते, भोडो जपापुष्पमिति व्याख्या-तवान् । गौरी = इरिद्रा | ५ श्लेष्मप्रबलवातरक्तविकित्सामभिधत्ते श्लेष्मेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 714

सुश्रुत संहिता चौखम्बा, पृष्ठ 714 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५६ by Arya Samaj Fo मुक्तसहिताच्य n Gangotri [ अ ० ५ लाकषायं वा; मधुकशृङ्गवेर हरीतकी तिक्तरोहिणीकल्कं वा सक्षौद्रं मूत्रतोययोरन्यतरेण गुडहरीतकी वा भक्षयेत् । तैलमूत्रक्षारोदक-सुराशुक्तकफघ्नौषध निःक्काथैः परिषेकः । आरग्वधादिकषायै र्वोष्णैः । मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः । तिल-सर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमधुशिग्रु मिश्राणि क्षारमू-त्रपिष्टानि प्रदेहः । श्वेतसर्षपकल्कः, तिलाश्वगन्धाकल्कः, शेलुक-पित्थप्रियालकल्कः, मधुशिग्रुपुनर्नवाकल्कः, व्योपतिक्ता पृथक्पर्णी-बृहतीकल्क इत्येते पञ्च प्रदेहाः सुखोष्णाः क्षारोद कपिष्टाः, शालिप-र्णी पृश्नीपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः ॥ १० ॥

३ ~ संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात् । र्वेषु च गुडहरीतकीमासेवेत, पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभि-वृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं, भूयश्चा-पकर्षयेत्, एवं यावत् पञ्च दश वेति । तदेतत् पिप्पलीवर्द्धमानकं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शः कासश्वासशोफ-शोषातिसारहृद्रोगोदराण्युपहन्ति; जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वाऽभ्यज्यात् ॥ ११ ॥

सहासहदेवा चन्दनमूर्वा मुस्ताप्रियालशतावरीकशेरुपद्मकमधु-कशतपुष्पाकुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः, सैरेयकाटरूप-कबलाजीवन्तीसु वीकल्को वा छागक्षीरपिष्टः, गोक्षीरपिष्टः, काश्म-१ क्षारोदकं क्षारपाकविध्यध्याये प्रागुक्तम् । कफघ्नौषधानां कटुतिक्तकषायाणां निः. क्वाथैरित्यर्थः २ तर्पणमिश्राः = यवशक्तुसम्मिश्राः । ३ शुद्धदेहस्य सामान्यचिकित्सां ब्रवीति - सर्वेष्विति । ४ यथा प्रथमदिवसे पञ्च पिप्पल्यः, द्वितीयदिवसे दश, अथवा प्रथमदिवसे दश, द्वितीयदिवसे विंशतिः, एवं दशरात्रं वर्धनं कुर्यात् । दशदिनानन्तरं तेनैव क्रमेण दैनन्दिनं पञ्च दश वा हापयेत्, यावदारम्भदिनस्य पञ्च दश वा संख्या नागच्छेत् । पञ्चदशात्मिका द्वेधा मात्रापरिक • ल्पना बलाद्यनुसारेण बोध्या । ५ जीवनीयानि = द्रव्यसङ्ग्रहणीयाध्यायोक्तानि काको • त्यादीनि । ६ सहा = माषपण, सहदेवा = ' सहदेई ' इति प्रसिद्धा, चन्दनं प्रसि • द्धम, मूर्वा = ' मरोड़फली ' इति ख्याता । ७ सुषवी = कारवेल्लकः इति बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 715

सुश्रुत संहिता चौखम्बा, पृष्ठ 715 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri चा ५५७ र्यमधुकर्तर्पणकल्कोवा, मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डॆतैलमभ्यङ्गः । सर्वेषु पुराणघृतमामलकरसविपक्वं वा पानार्थे, जी नीयसिद्धं परिषेकार्थे, काकोल्यादिक्वाथ कल्क सिद्धं वा, सुषवी-क्वाथसिद्धं वा, कारवेल्लकक्वाथमात्रसिद्धं वा, बलातैलं वा परिषे-कावगाहवस्तिभोज नेषु, शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वाऽनम्लेन । शोणितमो णञ्चाभीक्ष्णं कुर्वीत; उच्छ्रितदोषे च वमनविरेचनास्थापनानुवासनकर्म कर्त्त-व्यम् ॥ १२ ॥

पटोलत्रिफला भीरुगुडूचीकटुकाकृतम् ।

क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम् ॥ १३ ॥

भवन्ति चात्र ।

एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम् ।

वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम् ॥ १४ ॥

उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च ।

शरणान्यप्रवातानि मनोज्ञानि महान्ति च ॥ १५ ॥

मृदुर्गंण्डोपधानानि शयनानि सुखानि च ।

वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि II च ॥ १३ ॥

व्यायामं " मैथुनं कोपमुष्णाम्ललवणाशनम् । १ _तर्पणं = यवचूर्णम् । २ कल्कयोगेन पिण्डं सान्द्रं तैलं पिण्डतैलमित्यर्थः । “ पिण्डो बोले बले सान्द्रे देद्दागारैकदेशयोः । देहमात्रे निवापे च गोल सिल्हकयोरपि ॥ श्रण्डुपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः ' इति मेदिनी । ३ सर्वेषु = पञ्चस्वपि वातरक्तेवित्यर्थः । ४ जी -वनीयसिद्धं = काकोल्यादिसिद्धम्, ' घृतम् ' इति शेषः । ५ मूढगर्भोक्तं बलातैलमि-त्यर्थः श्लेष्मप्रधाने मुद्गरसेन । ६ पित्तप्रधाने पयसा, वातप्रधाने जाङ्गलरसेन, सात्म्यापेक्षया वा भुञ्जीतेत्यर्थः । ७ सामान्येनोक्तमपि कफोत्कटे वमनं, पित्तरक्तोरकटे विरेचनं, वातोस्कटे च अनुवासनास्थापनैतत्कर्मद्वयं कर्तव्यम् । शरणानि = गृहाणि, ' शरणं गृहरक्षित्रोः ' इत्यमरः । ९ गण्डपदेन मस्तकादीनामप्युपधानानि, ' उपधानं तूपबर्हः ' इत्यमर:: ' तकिया ' इति लोके । १० संवाहनानि = करपादादिमदनानि । ११ निषिद्धौ श्रहाराचारौ दर्श-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 716

सुश्रुत संहिता चौखम्बा, पृष्ठ 716 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५५ Digitized by Arya Samaj F सुसर हिलायां ande Gangotri [ अ ०५ दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत् ॥ १७ ॥

पतीन किनमस्रस्ता क्षमवक्रभ्रुवमस्तब्ध मेढू मस्वेदनमवेपनम-प्रलापिनमखट्वापातिनेम बहिरायामिनं चोपक्रमेत् । तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवैपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्धयर्थ-म् । अनन्तरं च विदारिगन्धादिक्वाथमांसरस क्षीरद्धिपक्वं स ॰ र्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदा-र्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चव. र्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्रच सर्पि · स्तैलवसामज्जभिः सह विपचेन्मधुरकँप्रतीवापम् । तदेतत् त्रै-यति - व्यायाममिति । अत्र " पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः । भोजनार्थे सार्थे तु विष्किराः प्रतुदा हिताः ॥ श्राढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः । यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते ॥ सुनिषण्णकवेताग्रकाकमाचीशतावरी । वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ॥ घृतमांसरसैर्भृष्टं शाकं सात्म्याय दापये-तु " इति विहिता श्रपि द्रष्टव्याः । १ अपतानकचिकित्सितमाचष्टे - अपतानकिनमिति । श्रपतानकस्य लक्षणं निदा-नस्थानस्य प्रथमाध्याये द्रष्टव्यम् । अत्रस्ताक्षं = नान्तः प्रविष्टनयनम् । २ अखट्वा -पातिनम् = अशय्याशायिनम् अबहिरायामिनम् = श्रपश्चान्मुखनामिनम् । बहिराया-मलक्षणं निदानस्थानस्य प्रथमाध्याये द्रष्टव्यम् । ३ अवपीडय दीयत इत्यवपीढस्ते -न । ४ शिरः शुद्धयर्थं शिरोविरोचनं वातस्य श्लेष्मस्थानगतत्वेन झटिति संज्ञाप्रवो-घार्थमिति भावः । तन्त्रान्तरे विशेष: - " विरेच्यः स्नेह पिश्वाऽऽदौ स्नेहयुक्तविरेचनैः । रूक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च । न हि वस्तिसमं किञ्चिद्वातरक्तचिकि त्सितम् ॥ ” इति । ५ अनन्तरं = शिरोविरेचनानन्तरम्, विदारिगन्धादिसपिरन्तानां द्रव्याणां प्रत्ये-कशः प्रस्थं ग्राह्यम् । अच्छं = वस्त्रपूतेन निर्मलमित्यर्थः । ६ पानयोग्यं घृतं प्रदर्श्य सर्वकार्योपयोगिनं महास्नेहमभिदधाति तत इति । ७ पञ्चानां वर्गाणां समाहारः पञ्चवर्गम् । तच्च कुलचराः, प्लवाः, कोशस्थाः, पादिनः, मत्स्याश्च । ८ अग्लानि = सुरासौवीरकधान्याम्लादीनि, क्षीरमाजं गव्यं वेति अम्लक्षीराणि तैः । ९ मधुरकप्रतीवापं = काकोल्यादिमधुर वर्ग कल्कप्रक्षेपम् । अत्र सयवकोलकुलत्थानां यथालाभं भद्रदार्वादिद्रव्याणां च चतुरः प्रस्थान्, आनूपौदकमांसानां च चतुरः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 717

सुश्रुत संहिता चौखम्बा, पृष्ठ 717 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by Arya चिकित्सा nai and eGangotri ५५ ९ वृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु वि. दध्यात् । यथोक्तैश्च स्वेदेविधानैः स्वेदयेत्, बलीयसि वाते सुखो-तुपकरीपपूर्ण कूपे निर्दध्यादामुखात्, तप्तायां वाऽङ्गारचुल्लयां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कुशरावेशवारपायसैर्वा स्वेदयेत् । मूलकोरुयू कंस्फूर्जार्ज कार्क सप्तला-शङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् । अभु-क्तत्रता पीतमम्लं दधिमरिचवचायुक्तमपतानकं हन्ति, तैलसर्पिर्व-साक्षौद्राणि च । एतच्छुशुद्ध वातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्त्तव्यम्, वेगान्तेषु चावपीडं दद्यात्, ताम्रचूडंकर्कटकृष्णमत्स्य-शिशुमारवराहवसाञ्चासेवेत, क्षीराणि वा वातहर सिद्धानि, यवको-लकुलत्थमूलकदधिघृततैलसिद्धां वा यवागूं, स्नेह विरेचनास्थापना-नुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत् । वातव्याधिचिकित्सितं चावेक्षेत; रंक्षाकर्म च कुर्यादिति ॥ १८ ॥

पक्षाघातोपद्रुतमम्लानगात्रं सहजमात्मवन्तमुपकरणवन्तं चोप-क्रमेत् । तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवा-स्यास्थाप्य च यथाकालमाक्षेपक विधानेनोपचरेत् । " वैशेषिकश्चात्र प्रस्थानेकीकृत्य अष्टगुणे जले पक्त्वा पादावशिष्टं कषायमम्लक्षीरयोः प्रत्येकशः चतुः-प्रस्थेन सम्मिश्रय तेन सर्पिरादोनां चतुणीं चतुःप्रस्थं मधुरककल्कं विपचेदिति तात्प र्यम् । १ त्रिभिस्तैलादिभिर्वृतं सर्पिस्त्रैवृतम् । २ स्वेदविधानैः = स्वेदावचारणीया. भिहितैः । ३ विदध्यात् = स्थापयेद् रोगिणमित्यर्थः । ४ उरुबूकः = शुक्लैरण्डः, स्फूर्जकः = तिन्दुकः, ' तिन्दुकः स्फूर्जकः ' इत्यमरः । अर्जकः = ‘ सफेद बबई’इति ख्यातः, ' सितेऽर्जकोऽत्र ' इत्यमरः । श्रर्कः प्रसिद्धः, सप्तला = सप्तपर्णंः, ‘ सतवन’इति ख्यातः, शङ्खिनी = ' शंखाहुली ' इति ख्याता । मूलकादीनां स्नेहचतुर्गुणेन रसेन सिद्धं, मूलकादिपादकल्कम कल्कं वा पक्त्वा सुखोष्णं परिषेके द्रवस्त्रेदे इत्यर्थः । श्रादिशब्दादभ्याङ्गादिष्विति ढल्हणः । ५ वेगान्तरेषु = वेोपरमेषु । ६ ताम्रचूढः = कुक्कुटः, H कर्कट: ' केंकडा ' इति, कृष्णमत्स्यः: = = कुलीरमत्स्याकारोऽ-शल्क इति ढल्हणः । तन्त्रान्तरेऽपि - " कर्कटकुली र शिशुमारवराद्दवसाः पाययेत् ' इति । ७ रक्षाकर्म प्राग् श्रग्रोपहरणीयाध्याये व्रणितोपासनीयाध्याये चोक्तम् । ८ पक्षाघातचिकित्सां प्रतिपादयति - पक्षेति । ९ आक्षेपकः प्रपतानकः । १० विशेष CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 718

सुश्रुत संहिता चौखम्बा, पृष्ठ 718 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६० Digitized by Arya Samaj dation Chennai= i and eGangotri [ अ ० २ मस्तिष्क शिरोबस्तिः, अणुतैलमभ्यङ्गार्थे, शाल्वणमुपनाहार्थ, बला-तैलमनुवासनार्थे, एवमतन्द्रितस्त्रींश्चतुरो वा मासान् क्रियापथमु-पसेवेत ॥ १ ९ ॥ मन्यास्तम्भेऽप्येतदेव विधानम् । विशेषतो वातश्लेष्म हरैर्नस्यै-रूक्षस्वेदैश्चोपचरेत् ॥ २० ॥

अपतन्त्रकातुरं नापतर्पयेत्, वमनानुवासनास्थापनानि न नि-घेवेत, वातश्लेष्मापरुद्धोच्छ्वासं तीक्ष: । प्रध्मापनैर्मोक्षयेत्, तुम्बु-रुपुष्कराह्वहिङ्ग्वम्लवेतसपध्यालवरणत्रयं यवक्वाथेन पातुं प्रय-च्छेत्, पथ्यौशतार्द्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिः प्रस्थं सिद्धं, वातश्लेष्मापनुच्च कर्म कुर्यात् ॥ २१ ॥

अर्दितातुरं बलवन्तमुपकरणवन्तं च वातव्याधिविधानेनोप-एव वैशेषिकः 1 श्रीहाराण चन्द्रस्तु — ' मस्तिष्क शिरीबस्तिः ' इत्यत्र ' मास्तिष्कं शिरोबस्तिश्च शिरःशुद्धयर्थम् ' इति पाठं मत्वा मस्तिष्कहितत्वान्मास्तिष्कं स्नेहपिचु-धारणमिति व्याख्याति, वक्ति च - वायुहि मस्तिष्कगता रक्तवाहिनीर्धमनीः सन्दूष्य तासु च काचिद्वा विपाटय सव्यं मस्तिष्कभागं प्रपीडयन्नपसव्यं पक्षमाहन्ति, अन्यथा तु सव्यं पक्षमिति निश्चीयते शारीरतत्त्वेन समं निदानवाक्यार्थतत्त्वमनुसन्धाय तेनैवं ब्रूमः रक्तानुपयोगितया यथाऽत्र मास्तिष्क शिरोवस्त्युपदॆशॆन ' आक्षेपकविधानैनो-पाचरेत् ' इत्यतिदेशप्राप्तमवपीडनमेकान्तेन प्रतिषिध्यते न तथाऽणुतैलाभ्यङ्गोपदेशे नातिदेशप्राप्तमभ्यङ्गार्थं वातरक्तोपयोगि वृतं सर्पिः । न चैतदश्रद्धेयं बहुशः परी -क्षितत्वादिति । अणुतैलमस्यैव स्थानस्य चतुर्थाध्याये द्रष्टव्यम् । २ मूढगर्भोक्तं बलातैलमि • त्यर्थः । ३ मन्यास्तम्भचिकित्सामुपदिशति – मन्येति । ग्रीवायाः पश्चाद्भागे स्थिता सिरा ' मन्या ' इत्युच्यते । ' पश्चाद्ग्रीवा सिरा मन्या ' इत्यमरः । ४ अपतन्त्र कचिकि-त्सामभिधत्ते - अपेति । तन्त्रान्तरेऽपि - " अथापतन्त्र केणार्त मातुरं नापतर्पयेत् । निरू • छबस्ति वमनं सेवयेन्न कदाचन ॥ श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत् । तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति ॥ ” इति । श्वसनाः == प्रश्वासोच्छ्वास-वहा धमनीरिति तदर्थः । ५ पथ्याश्चतार्द्धे सर्पिः प्रस्थं सिद्धं पातुं प्रयच्छेदिति योजना । पथ्या हरीतकी शतार्द्धं कल्कीकृतं पञ्चाशत्फलं तस्मिनित्यर्थः । ६ श्रदिंत चिकित्सां वक्ति - अर्दितेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 719

सुश्रुत संहिता चौखम्बा, पृष्ठ 719 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ५ ] Digitized by Arya सावन ernai and eGangotri ५६१ चरेत्, वैशेषिकैश्च मास्तिष्क शिरोवस्तिनस्यधूमोपनाह स्नेहनाडीस्वे-दादिभिः । ततः संतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादि-मौदकानूपमांसं तथैवौदककन्दांश्च संहृत्य द्विगुणोदके क्षीरेद्रोणे निःक्वाथ्य पादावशिष्टमवतार्य परिस्राव्य तैलप्रस्थेनोन्मिश्रय पुनरग्नावधिश्रयेत् । ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभिम-ध्नीयात्, तत्र यः स्नेहः उत्तिष्ठेत्तमादाय मधुरौषधसहा क्षीरयुक्तं

विपचेत्, एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यम् ।

तैलहीनं क्षीरसर्पिरक्षितर्पणमिति ॥ २२ ॥

गृध्रसी विश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टकपाददाहपाद-हर्षावृबाहुकबाधिर्यधमनीगतवातरोगेषु यथोक्तं यथोद्देशं च सि-राव्यधं कुर्यात्, अन्यत्रावबाहुकात्; वातव्याधिचिकित्सितं चा-वेक्षेत ॥ २३ ॥

कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धवोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैलानि वा, मातुलुङ्गदाडिमतिन्तिडीक-स्वरसमूत्रसिद्धं तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडोस्वेदैश्च स्वेदयेत्, वातव्याधिचिकित्सां चावेक्षेत, भूयश्चोत्तरे वक्ष्यामः ॥ २४ ॥

तूणीप्रतूण्योः " स्नेहलवणमुष्णोकेन पाययेत्, पिप्पल्यादिचूर्णं १ कुशकाशनलदर्भकाण्डॆत्तुकसंज्ञकैस्तृणैः सहितं सतृणमित्यर्थः । महापञ्चमूलं = विल्वादिपञ्चमूलम् । २ औदककन्दान् = कशेरुशृङ्गाटकशालूकादीन् । ३ क्षीरद्रोणे = सार्द्धद्वादशसेटके पयसि । ४ क्षीरानुगतं = दुग्धेन सहैकावयवीभूतम् । ५ मधुरौ-षधानि का कोल्यादीनि, सहा भाषपण क्षीरं चतुर्गुणं तेन युक्तमित्यर्थः । ६ गृधस्या-दिषु वातव्याधिचिकित्सिते कृते पश्चाच्छोणितावरणं निश्चित्य सिराव्यधं कुर्या -दिति निष्कर्षः । ७ कर्णशुलचिकित्सामभिधत्ते - कर्णेति । शृङ्गवेररसम् = आर्द्रकरसम्, सैन्धवो-पहितं === किञ्चित्सैन्धवलवणेन संयुक्तम् । ८ नाडीस्वेदोऽत्र एकतः प्रदीप्तेन पट्टका-ष्ठेन श्रन्येन वा बुद्धिपरिकल्पितेन देय इति सुश्रुतार्थ सन्दीपनम् । ९ एकविंशतितमे कर्णुगत रोगप्रतिषेधाध्याये इत्यर्थः । १० तूणीप्रतूणीचिकित्सामाह - तूणीति । स्नेहलवणमस्यैव स्थानस्य चतुर्थाध्याये ३६ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 720

सुश्रुत संहिता चौखम्बा, पृष्ठ 720 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६२. सुश्रुतसहिताया... [ अ ०५ वा, हिङ्गुयवक्षारप्रगाढं वा सर्पिः, बेस्तिभिश्चैनमुपक्रमेत् ॥ २५ ॥

आध्माने त्वपतर्पणपाणितापदीपन चूर्ण फलवर्त्तिक्रियापाचनी-यदीपनीयबस्तिभिरुपाचरेत् । लङ्घनान्तरं चान्नकाले धान्यकजीर-कादिदीपनसिद्धान्यन्नानि । प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात् ॥ २६ ॥

Digitized by Arya Samaj Foundation Chennai and eGangotri अष्टीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत्क्रियाविभाग इति । २७ । हिङ्गुत्रिकटुवचाऽजमोदाधान्याजं गन्धादाडिमतिन्तिडीकपा-ठाचित्रकय वक्षारसैन्धवविडसौवर्चलस्वर्जिकापिप्पलीमूलाम्लवेतस-शैटीपुष्करमूलहपुषाचव्याजाजीपथ्याश्चूर्णयित्वा मातुलुङ्गाम्लेन बहुशः परिभाव्यार्त्तमात्रां गुटिकां कारयेत्, ततः प्रातरेकैकां वात-विकारी भक्षयेत् । एष योगः कासश्वास गुल्मोदरारोचकहृद्रोगाध्मान पार्श्वोदरबस्तिशूलानाह मूत्रकृच्छ्रप्लीहार्शस्तूणीप्रतूणीरपहन्ति ॥ २८ ॥

भवन्ति चात्र । केवलो " दोषयुक्तो वा धातुभिर्वा ss वृतोऽनिलः । गतम् । १ हिङ्गुयवक्षारप्रगाढं = भृशं हिङ्गुयवक्षारम्, ' प्रगाढं भृशकृच्छ्रयो: ' इत्य-मरः । ‘ प्रगाढो दृढकृच्छ्रयो: ' इति द्वैमात् पुंलिङ्गोऽपि प्रगाढशब्दः । २ सामान्यवस्ति. ग्रहणात्त्रिविधबस्त्यवबोध इति डल्हणः । ३ श्रध्मान चिकित्सां निर्दिशति - आध्मान इति । ४ उदरचिकित्सिते वक्ष्य-माणा मदनफलादिकृता वर्तिः, तस्याः प्रणिधानं फलवर्तिक्रिया । “ मदनं पिप्पली कुठं वचा गौराश्च सर्षपाः । गुडक्षारसमायुक्ता फलवतिंनिंगद्यते ॥ " इत्युक्तद्रव्याणामेक व्यवहारः । पाचनीयानि पञ्चकोलादीनि । ५ क्रियाविभागः = चिकित्साभेदः । ६ हिङ्ग्वादि चूर्णगुटिका निर्माणप्रकारं निर्दिशति - हिग्विति । ७ अजग-न्धा = ' अजवाइन ' इति लोके । ८ शटी = ' कचूर ' इति लोके, हपुषा = ' हाऊबेर ' इति लोके । ९ अक्षमात्रां = तोलकपरिमाणागुटिकामित्यर्थः । हिङ्ग्वादिगुटिका वा-तगुल्मिनां कृते द्विगुणक्षारहिङ्ग्वम्लवेतसाः कार्याः । उक्तं च- " यच्चूर्णं गुटिका याश्च कर्तव्या वातगुल्मिनाम् । द्विगुणक्षारहिङ्ग्वम्लवेतसास्ता हिता इति ॥ ” इति डल्हणः । १० संसृष्टावृतवात चिकित्सां दर्शयति- केवल इति । केवलो वातपित्तकफेर संसृष्टः, दोषयुक्तो वातादिदोषसंयुक्तः, धातुभिः रसरक्तमांसमेदोमज्जशुक्रः शरीरधारकत्वात् स्वेदोविण्मूत्रैर्वातपित्तकफैश्चावृतो वातः लक्षणोद्दाभ्यां, लक्षणानि तत्तद्दोषलिङ्गानि । यथा CC - 0. Gurukul Kangri Collection, Haridwar