सुश्रुत संहिता चौखम्बा — पृष्ठ 721–730

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 721–730

पृष्ठ 721

सुश्रुत संहिता चौखम्बा, पृष्ठ 721 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] Digitized by Arya Samaj चिकित्सास्थानम chennai: maand chennai and eGangotri ५६३ वातस्य - लक्षणं तोदादिकं कृष्णारुणत्वं कम्पादिकं च, पित्तस्य - चोषादिकं पीतादि-वर्णखं, दाद्दादिकं, च, कफस्य - कण्ड्वादिकं शुक्लादिवर्णत्वं प्रसेकादिकं च । ऊइस्तर्कः, अश्रुतस्य परिकल्पनेति यावत् । विज्ञेयः वैद्यैरिति शेषः । वायोः पित्तकफाभ्यां धातु · भिश्चामूत्रैरावरणं युक्तं, वातेन वातस्यावरणं न युक्तमिति चेत्? उच्यते - वायोः वाय्ख-न्तरेण गनिइननरूपमावरणमुक्तमेव वायुना वाय्वन्तरेणोपहतेन वातकुण्डलिका बहिरपि दृश्यते च । तेन प्राणादीनां पञ्चानां वातानां परस्परमावार्यावरकभेदेन युक्त-मावरणम् । भगवता चरकेण विंशतिरावरणानि दर्शितानि । तद्यथा - " मारुतानां हि पञ्चा-नामन्योन्यावरणं शृणु । लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ ॥ प्राणो वृणोत्युदा-नादीन् प्राणं वृण्वन्ति तेऽपि च । उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम् ॥ विंश-तिर्वरणान्येतान्युल्बणानां परस्परम् । मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत् ॥ ” इति । ' प्राणो वृणोत्युदानादीन् ' इत्यनेन चत्वार्यावरणानि, ' प्राणं वृण्वन्ति च ' इत्यनेन च चत्वारि, ‘ उदानाद्यास्तथाऽन्योन्यम् ' इत्यनेन द्वादशावरणान्युच्यन्ते । तत्रोदानेन व्यानादीनां त्रयाणामावरणे त्रीणि, तथा व्यानाद्यैश्चोदानावरणे त्रीणि, तथा व्यानेन समानापानावरणे द्वौ, ताभ्यां च व्यानावरणे द्वौ, परिशिष्टयोश्चान्योन्यावरणे द्वे । एवं द्वादशावरणानि पूर्वाष्टकयुक्तानि विंशतिर्भवन्ति । वाग्भटे तु वायो द्वाविंशतिविधान्यावरणान्युक्तानि । प्रसङ्गादत्र तान्यपि प्रद • श्र्यन्ते— “ वायोरावहणं चातो बहुभेदं प्रवदयते । लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रम-स्तमः ॥ कटूष्णैश्चाम्ललवणैविंदाहः शीतकामिता । शैत्यगौरवशूलानि कट्वाद्युपशयो • ऽधिकम् ॥ लङ्घनायास रूक्षोष्णकामिता च कफावृते । रक्तावृते सदाहातिस्त्वङ्मांसान्त-रयोर्भृशम् ॥ भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च । मांसेन कठिनः शोफो विवर्णः पिढिकास्तथा ॥ हर्षः पिपीलिकानां च सन्चार इव जायते । चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः ॥ श्राढयवात इति ज्ञेया स कृच्छ्रो मेदसाऽऽवृते! स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति ॥ सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शुल्यते । मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ शूलं च पीड्यमानेन पाणिभ्यां लभते सु-खम् । शुक्रावृतेऽतिवेगो वा न वा निष्फलता s पि वा ॥ भुक्ते कुक्षौ रुजाजीर्णे शाम्य. त्यन्नावृतेऽनिले । मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृते भवेत् ॥ विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति । व्रजत्याशु जरां स्नेहो भुक्ते चानते नरः ॥ शकृत्पीडित मन्नेन दुःखं शुष्कं चिरात् सृजेत् । सर्वधात्वावृते वायौ श्रोणीव ङ्क्षणपृष्ठरुक् ॥ विलोमो मारु-तोऽस्वस्थं हृदयं पीढ्यतेऽपि च । भ्रमो मुर्च्छा रुजा दाहः पित्तेन प्राण आवृते । विद-ग्धेऽन्ने च वमनमुदानेऽपि भ्रमादयः । दाहोऽन्तरूर्जाभ्रंशश्च, दाहो व्यानेन सर्वगः ॥ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 722

सुश्रुत संहिता चौखम्बा, पृष्ठ 722 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६४ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५. विज्ञेयो लक्षणोहाभ्यां चिकित्सा चाविरोधतः ॥ २ ९ ॥

रुजावन्तं घनं शीतं ' शोफं मेदोयुतोऽनिलः ।

करोति यस्य तं वैद्यः शोथवत् समुपाचरेत् ॥ ३० ॥

कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते ।

तदाऽङ्गमर्दस्तै मित्यरोमहर्षरुजाज्वरैः ॥ ३१ ॥

निद्रया चार्दितौ स्तब्धौ शीतलावप्रचेतनौ ।

गुरुकावस्थिरावूरू न स्वाविवे च मन्यते ॥ ३२ ॥

तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ।

स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः ॥ ३३ ॥

हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम् ।

लिह्याद्वा त्रैफलं चूण क्षौद्रेण कटुकान्वितम् ॥ ३४ ॥

मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु ।

ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम् ॥ ३५ ॥

हृद्रोगमरुचिं गुल्मं तथाऽभ्यन्तरविद्र धिम् ।

सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च ॥ ३६ ॥

कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपः ।

भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः ॥ ३७ ॥

क्लमोऽङ्गचेष्टा सङ्गश्च ससन्तापः सवेदनः । समान उष्मोपहतिरतिस्वेदोऽरतिः सतृट् ॥

दाइश्च स्यादपाने तु मले हारिद्रवता । रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु ॥ श्लेष्म-णात्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः । ष्ठीवनक्षवथूद्गारनिःश्वासोच्छ्वासङ्ग्रहाः ॥ उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः । बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहाः ॥ गुरुताऽङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् । समानेऽतिहिमाङ्गत्वमस्वेदोमन्दवह्निता ॥ - अपाने सकफं मूत्रशकृतः स्यात् प्रवर्तनम् । इति द्वाविंशतिविधं वायोरावरणं विदुः ॥ प्राणादयस्तथाऽन्योन्यमावृण्वन्ति यथाक्रमम् । सर्वेऽपि विंशतिविधं विद्यादावरणं च तत् ॥ निःश्वासोच्छ्वास संरोधः प्रतिश्यायः शिरोग्रहः । हृद्रोगो मुखशोषश्च प्राणे-नोदान आवृते ॥ उदानेनावृते प्राणे त्रणजोबलसङ्क्षयः । दिशाऽनयाच विभजेत्सर्व-मावरणं भिषक् ॥ ” इति । १ शोफम् = अपक्कशोफमित्यर्थः । २ स्पर्शाज्ञानात्परकीयाविव मन्यत इति भावः । ३ षड्धरणं = प्रागुक्तं चूर्णम् । ४ प्रभञ्जनः = वायुरित्यर्थः । ५ दिह्यात् = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 723

सुश्रुत संहिता चौखम्बा, पृष्ठ 723 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] Digitized by चिकित्सास्थानम् Chennai and eGangotri ५६4

शुष्कमूलकयूषेण पटोलस्य रसेन वा ।

जाङ्गलैरघृतैर्मासैः शाकैश्चालवणैर्हितैः ॥ ३८ ॥

यदा स्यातां रिक्षीणे भूयिष्ठे कफमेदसी ।

तदा स्नेहादिकं कर्म पुनरत्रावचारयेत् ॥ ३ ९ ॥

सुर्गान्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे ।

कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः ॥ ४० ॥

स नो बृंहणो वृष्यः पुराणस्त्वपकणः ।

तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत् ॥ ४१ ॥

सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः ।

तं प्रातस्त्रिफलादार्वौपटोलकुशवारिभिः ॥ ४२ ॥

पिवेदावाप्य वा मूत्रैः क्षौरैरुष्णोदकेन वा ।

जीर्णे यूषरसैः क्षीरैर्भञ्जानो हन्ति मासतः ॥ ४३ ॥

गुल्मं मेहमुदावर्त्तमुदरं सभगन्दरम् ।

कृमिकण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च ॥ ४४ ॥

' नाड्याढ्य वातश्वयथुकुष्ठदुष्टव्रणांश्च सः ।

कोष्ठसन्ध्यस्थिगं वायुं वृक्ष मिन्द्राशनिर्यथा ॥ ४५ ॥।

इति सुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं नाम पञ्चमोऽध्यायः ॥ ५ ॥

लेपयेत्, मूत्राढ्यैः = गोमूत्रपिष्टैरुष्णैः करञ्जफलश्वेत सर्षपैरित्यर्थः । १ परितः क्षीणे इत्यर्थः । ३ कोष्ठस्य पक्वाशयादेः । २ गुग्गुलुकल्पमुपदिशति — सुगन्धिरिति पूतिर्दुर्गन्धः पूतिकोष्ठस्तं इन्तीति पूर्तिकोष्ठघ्नः । ४ अत्र वारिशब्देन क्वाथो बोध्यः । ५ क्षारैः = क्षारोद कैरित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 724

सुश्रुत संहिता चौखम्बा, पृष्ठ 724 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ by Arya Samaj Fourte and eGangotri सुश्रुतसंहितायां

षष्ठोऽध्यायः ।

अथातोऽर्शसां चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

[ अ ० ६ चतुर्विधोऽशंसां साधनोपायः । तद्यथा – भेषजं क्षारोऽग्निः शस्त्रमिति । तत्र, अचिरकालजातान्यल्पदोषलिङ्गोपद्रवाणि भेषज-साध्यानि । मृदुप्रसृतावगाढान्युच्छ्रितानि क्षारेण । ककँशस्थिरपृथु-कठिनान्यग्निना । तनुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण । तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति; क्षौराग्निश-स्त्रसाध्यानां तु विधानमुच्यमानमुपधारय ॥ ३ ॥

" तत्र, बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं परिस्विन्नमनिल-वेदनाऽभिवृद्धिप्रशमार्थं स्निग्धमुष्ण मल्पमन्नं द्रवप्रायं भुक्तवन्तमुप-वेश्य संवृते शुचौ देशे साधारण व्यभ्रे काले समे फलके शय्यायां वा प्रयादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्न-षष्ठोऽध्यायः । १ अर्शःसम्भवे प्रकुपितस्य वातस्य प्राधान्याद्यथाकथञ्चिद् वातव्याधिचिकित्साऽ-नन्तरमर्शसा चिकित्सितमधिकरोति — प्रथेति । २ प्रसृतानि = विस्तृतानि, अवगा ढानि = उपर्यणुत्वेन अन्तस्तुं महत्त्वेन गम्भीराणीत्यर्थः । ३ स्थिराणि = अप्रसरणशी लानि, पृथूनि = विशालानि । ४ उच्छ्रितानि = बहिरुद्गतानि । ५ तन्त्रस्यास्य शत्याङ्गप्राधान्यात् क्रमं विहाय प्रथमं तावत् क्षारादिसाध्यान्य. -धिकृत्य ब्रवीति - क्षारेति । ६ श्रस्तु क्षारपातनविधिमभिधत्ते - तत्रेति । बल. -वन्तमित्यनेन वृद्धत्वरहितः सत्त्वभूयिष्ठो वा बोध्यः । सूत्रस्थानेऽर्शोव्याधि-७ प्राक् मधिकृत्य “ अभुक्तवतः कर्म कुर्वीत " इति यदुक्तं तन्मुखाश्रितानामर्शसां कर्मणि भोजन-प्रतिषेधार्थमिति न विरोधः । अत एव ' प्राक् शस्त्रकर्मणः श्रेष्ठं भोजयेदातुरं भिष-क् ” इति प्रागुक्तं सङ्गच्छते । ८ साधारणे = शारद्वसन्तिके, नातिशीतोष्णे वा, काले इत्यस्य विशेषणम् । व्यभ्रे = मेघरहिते दिने इत्यर्थः । समे फलके = समतल काष्ठपट्टादौ । प्रत्यभिमुखेनादित्यं प्रत्या-दित्यं, प्रत्यादित्यं मुखं यस्य तम् । यस्यां दिश्यादित्यो गतस्तस्यां दिश्यर्शसेन सम्मु-खगुदं कृत्वां स्नातव्यमित्यर्थः । अन्यस्य उत्सङ्गे क्रोडे निषण्णपूर्वकायं पूर्वेण कायेनो-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 725

सुश्रुत संहिता चौखम्बा, पृष्ठ 725 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by An च्किकिरसवस्थानम् Chennai and eGangotri ५६७ तकटिकं वस्त्रकम्बलकोपविष्टं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा घृताभ्यक्तं यन्त्रमृ-ज्वणुमुखं पौयौ शनैः शनैः प्रवाहमाणस्य प्रणिधाय प्रविष्टे चार्शो वीक्ष्य शलाकयोत्पीड्य पिचुवस्त्रयोरन्यतरेण प्रमृज्य द्वारं पातयेत् । पातयित्वा च पाणिना यन्त्रद्वारं पिधाय वाक्च्छ मात्रमुपेक्षेत, ततः प्रमृज्य क्षारबलं व्याधिबलं चावेक्ष्यँ पुनरालेपयेत् । अथार: ' पक्कजाम्बवै'प्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्त्तयेत् । क्षारं प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा । ततो यष्टीमधुकमि-श्रेण सर्पिषा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत्, अशीताभिरित्येके । ततो निर्वातमागारं प्रवेश्याचारिकमादिशेत्, सावशेषं पुनर्दहेत् । एवं सप्तरात्रात् सप्त-रात्रादेकैकमुपक्रमेत; तत्र बहुषु पूर्व दक्षिणं साधयेत्, दक्षिणा-द्वामं, वामात् पृष्ठजं, ततोऽग्रजमिति ॥ ४ ॥

तत्र वातश्लेष्मनिमित्तान्यग्निर्क्षौराभ्यां साधयेत्, क्षारेणैव मृदुना " पित्तरक्तनिमित्तानि ॥ ५ ॥

त्तानं कृत्वा स्थितं नाघरेणेत्यर्थः । १ परिक्षिप्तमाकृष्टनिबद्धं ग्रीवासक्थि यस्य तम् । २ पायौ = गुदै । ३ वाक्छतमात्रं = लध्वक्षरशतोपलक्षितकाल मात्रम् । " यद्येरण्डजनालमेष दहति क्षारो वरो वाक्शतात् ' इति । ४ इयता क्षारेण श्यानंशः सम्यग्दग्धो भविष्यति, इय-तेयानित्याद्यालोच्येत्यर्थः । क्षारमात्रा तन्त्रान्तरे - " क्षारमात्रा नखोत्सेधप्रमाणाद्या प्रकीर्तिता । द्विगुणा मध्यमा मात्रा त्रिगुणा महती मता । पित्ते श्लेष्मणि वाते च यथासंख्यं प्रयोजयेत् ॥ ” इति । ५ तन्त्रान्तरे विशेषः – “ पक्कजाम्बवकाश्मर्यवर्णं दग्धेऽनिलार्शसि । पित्तजे भृङ्ग-मायूरकण्ठवर्णं विनिर्दिशेत् । बृहतीपुष्पवर्णत्वं सम्यग्दग्धे कफार्शसि ॥ ” इति । उपा • वर्तयेत् = क्षारक्रियां निवर्तयेदित्यर्थः । ६ शुक्तं = चुक्रम्, फलाम्लं = बीजपूररसः । ७ सप्तरात्रमतीत्येति सप्तरात्रात् । ल्यब्लोपे पञ्चमी । ८ एतत्तन्त्रानुवादी वाग्भ-टोऽपि – “ प्राग्दक्षिणं ततो वाममर्शः पृष्ठाग्रजं ततः । बह्वर्शसः " इति । ९ सूत्रस्थाने द्वादशाध्यायोक्तेन इहोक्तेन च विधानेनेति शेषः । १० पित्तरक्तनिमित्तानि मृद्वादी--नीत्यर्थः । तदुक्तम् – - " " पित्तोत्तरा नीलमुखास्तनवो मृदवः श्लथा " इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 726

सुश्रुत संहिता चौखम्बा, पृष्ठ 726 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६८ सुश्रुतसहिताया— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६ तत्र वातानुलोम्यमन्नरुचिरमिदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मन-स्तुष्टिरिति सम्यग्दग्धलिङ्गानि । अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवा भवन्ति । श्यामाल्पव्ररणता कण्डूरनिलवैगुण्यमिन्द्रियाणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे ॥ ६ ॥

महान्ति च प्राणवतश्छित्वा देहेत् । निर्गतानि चात्यर्थं दोष-पूर्णानि यन्त्राद्विना स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणालेपक्षा-राग्निशस्त्रैरुपाचरेत् । प्रवृत्तरक्तानि च रक्तपित्तविधानेन, भिन्न-पुरीषाणि चातीसारविधानेन, बद्धवर्चांसि स्नेहपानविधानेनोदा-वर्तविधानेन वा । एष सर्वस्थानगतानामर्शसां दहनकल्पः ॥ ७ ॥

आसाद्य च दर्वौकूर्चकशलाकानामन्यतमेन क्षारं पातयेत् । भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत । सर्वेषु च शालि षष्टिकयवगोधूमान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूपेण पटोल-यूषेण वा यथादो ' शाकैर्वास्तू कतण्डुलीयक जीवन्त्यु पोदिकाऽश्वबला-बालमूलकपालङ्क्यसनचिल्ली चुच्चूकलायै वल्लीभिरन्यैर्वा । यच्चा-न्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत || ८ || दुग्धेषु चार्शः स्वभ्यक्तोऽनलसन्धु क्षरणार्थमनिलप्रकोप सङ्क्षर-णार्थं च स्नेहादीनां सामान्यतो विशेषतस्तु क्रियापथमुपसेवेत ॰। सर्पषि च दीपनीय वातहर सिद्धानि हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य-१ स्थानादिविशेषेणार्शसां दद्दनविकल्पं निर्दिशति - महान्तीति । प्राणवतः = बलवत इत्यर्थः । २ क्षारदाहोस्योक्तत्वादग्निना दहेदित्यर्थः । ३ सर्वशब्देन मेढा-दीनां परिग्रहो बोध्यः । दहनकल्पः = श्रग्निक्षारदाहे शास्त्रीय विधिरित्यर्थः । ‘ कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने ' इति मेदिनी । ४ क्षारपाते विशेषविधिमुपदिशति - आसाद्येति । == ' चौलाई ' ५ तण्डुलीयकः तण्डुलीय एव तण्डुलीयकः, स्वार्थेऽय् ६ कलायवल्ली वर्तुलकलाय लता । ७ क्षा. रकर्मणः पश्चात्कर्म निर्दिशति - दग्धेष्विति । ८ सामान्यतः = सर्वार्शोघ्नविधिना, विशेषतः = वाताद्यर्शसां यथादोषं दद्दनविधिना । ९ दीपनीयानि = पिप्पल्यादीनि, वातहराणि = भद्रदार्वादीनि हिङ्ग्वादिभिः = चिकित्सास्थाने पञ्चमाध्यायोक्तैश्चू-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 727

सुश्रुत संहिता चौखम्बा, पृष्ठ 727 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०६ ] Digitized by Ary र्व आकिम्वा ख्याल hennai and eGangotri ५६ ९ पिबेत् । पित्तार्शःसु पृथक्पर्यादीनां कषाये ए दीपनीयप्रतीवापं सर्पिः । शोणिताशः मञ्जिष्ठ मुरुगन्यादीनां कषायैः । श्लेष्मार्शः सु

सुरसादीनां कषायैः सर्पिः । उपद्रवांश्च यथास्त्रमुपाचरेत् ॥ ९ ॥

परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत्, तद्वि-भ्रमाद्धि पाण्ढ्यशोफदाहमदमूर्च्छाटो पानाहातीसारप्रवाहणानि भव-न्ति मरणं वा ॥ १० ॥

प्रमाणमुपदेक्ष्यामः- तत्र, यन्त्रं लौहं दान्तं शार्ङ्गं वार्त्तं वा गोश्तनाकारं चतुरङ्गुलायेतं पञ्चाङ्गुलपरिणाहं पुंसां, पडङ्गुलपरिणाहं नारीणां तलायतम् । तद् द्विच्छिद्रं - दर्शनार्थमेकं छिद्रं, एक छिद्रं तु कर्मणि । एकद्वारे हि शस्त्रक्षाराग्नीनामतिक्रमो न भवति । छिद्रप्रमाणं तु त्र्यङ्गुलायतमङ्गुष्ठोदरपरिणाहम् । यदङ्गु-लमवशिष्टं तस्यार्द्धाङ्गुलमधस्तादर्द्धाङ्गुलोच्छ्रितो परिवृत्त कर्णिकं । एष यन्त्राकृतिसमासः ॥। ११ ॥ अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामः – स्नुहीतीरयुक्तं हरिद्रा-चूर्णमालेपः प्रथमः । कुक्कुटपुरीपगुञ्जाहरिद्रापिप्पलीचूर्णमिति गोमूत्र पित्तपि द्वितीयः । दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः । पिप्पली सैन्धवकुष्ठशिरीषफलकल्कः स्नुही-क्षीरपिष्टोऽर्क क्षीरपिष्टो वा चतुर्थः । कासीसहरिताल सैन्धवाश्वमारक-विडङ्गपूतीककृतवेधनजम्ब्वत्तमार गोदन्तीचित्र कालर्कस्नुद्दीपयःसु रित्यर्थः । प्रतिसंसृज्य = दोषबलप्रातिकूल्येन संयोज्य १ पृथक्पण्र्यादीनां = मिश्रका ध्यायोक्तरोपणघृतसाधनद्रव्याणामित्यर्थः । २ मुरुङ्गी रक्तशोभान्जनः, तदादीनाम्, द्रव्यसङ्ग्रहणीयाध्याये वरुणादिगणान्तर्गतमधुशिग्वादीनामित्यर्थ: । ' मुरुङ्गी ' इत्यत्र ' सुरङ्गी ' इति पाठान्तरम् । ३ परम् = उत्तमम् । ४ श्रवचारणप्रकारः सूत्रस्थाने पन्चमाष्टमद्वादशै कोनविंशतिपञ्चविंशत्यध्यायेषु द्रव्यव्यः । ५ श्रायतं = दीर्घम्, परिणादः = वर्तुलता, तलायतं = स्वहस्तषद् वर्तु-लम् । ६ अर्धाङ्गुलच्छाये उपरि वृत्ता कर्णिका यस्य तदित्यर्थः यन्त्राकृतिसमा-सः = यन्त्राकारसङ्क्षेपः । ७ गोमूत्रं च गोपित्तं च गोमूत्रपित्ते, ताभ्यां पिष्ट इत्यर्थः । ८ सुवचिका = ' सज्जीखार ' इति । ९ उत्तमारणी = भूम्यामलकी, श्रलकैः = श्वेता-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 728

सुश्रुत संहिता चौखम्बा, पृष्ठ 728 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chennal and eGangotri ५७० G Digitized by Arya Samaj | सुश्रुतसंहितायां-तैलं विपक्वमभ्यञ्जनेनाशः शातयति ॥ १२ ॥

[ अ ० ६ अत ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामः-प्रातः प्रार्गुडहरीतकीमासेवेत । ब्रह्मचारी गोमूत्रद्रोणसिद्धं वा हरीतकीशतं प्रातः प्रातर्यथाबलं क्षौद्रेण । अपामार्गमूलं वा तण्डुलोद-केन सक्षौद्रमहरहः । शतावरीमूलकंल्कं वा क्षीरेण । चित्रकचूर्णयुक्तं वा सीधुराम् । भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण । कलशे वाऽन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा पानभोजनेषूपयुञ्जीत । एष एव भाग्यस्फोतोयवान्यामलकगुडूचीषु तककल्पः । पिप्पलीपिप्पलीमूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च पूर्ववदेव, निरन्नो वा तक्रमहरहर्मासमुपसेवेत । शृङ्गवेरपुनर्नवा-चित्रककषायसिद्धं वा पयः । कुटजमूलत्व + फोणितं वा पिप्पल्या-दिप्रतीवापं क्षौद्रेण । वातव्याध्युक्तं हिङ्वादिचूर्णमुपसेवेत तक्रा हारः, क्षीराहारो वा क्षारलवणान्, चित्रकमूलक्षारोदकसिद्धान् वा कुल्माषान् भक्षयेत् । चित्रकमूल क्षारोद कसिद्धं वा पयः । पलाशत-रुक्षारसिद्धान् वा कुल्माषान् । पाटलापामार्ग बृहती पलाशक्षारं वा परिस्रुतमहरहर्घृतसंसृष्टम् । कुटजबन्दाकमूलकल्कं वा तक्रेण । चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण । क्षारोदकसिद्धं वा र्कः । १ गोमूत्र हरीतकीयोगोऽयं गाढपुरीषमन्दाग्नैर्बोध्यः । २ एषोऽपामार्गमूल-योगः पित्तरक्तार्शसि ज्ञातव्यः । ३ शतावरीमूलकल्कयोगोऽयं वातपित्तानुबद्धरक्तजेषु बोध्यः । ४ परार्ध्यं = श्रे • ष्ठम् । ५ आस्फोता = सारिवा । ६ वातकफजानां शुष्कार्शसामन्नपाने तक्रं निर्दिश्य रक्तपित्तजानामार्द्राणामन्नपानै गोरसमेव निर्दिशति शृङ्गवेरति । योगोऽयं कफवाता-नुबद्धरक्तजेषु बोध्यः । ७ फाणितं = ' राब ' इति हिन्दीभाषायां प्रसिद्धम् । अत्र परिमाणं तु कुटजत्वचां शतपलफाणिते पिप्पल्यादिचूर्ण षट्पलम् । अयं योगः कफपित्तानुबद्धरक्तजेषु ज्ञातव्यः । ८ एष योगो वातकफजेषु बोद्धव्यः । तक्रा-हारो वातकफानुद्धरक्तजेषु । क्षीराहारो वातपित्तानुबन्धजेषु । ९ कुल्माषान् = यवौ-दनाम् । “ अर्धस्विन्नाश्च गोधूमा अन्ये च चणकादयः । कुल्माषा इति कथ्यन्ते ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 729

सुश्रुत संहिता चौखम्बा, पृष्ठ 729 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Foundation Chennai and eGangotri ५७१ प्र ० ६ ] Digitized by Arya चिकित्सास्थानम् a सर्पिः पिप्पल्यादिप्रतीवाम् । कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः

प्रातरुपसेवेत शीतोदकानुपानम् । एभिरभिवर्धतेऽग्निरर्शांसि चोप-शाम्यन्ति ॥ १३ ॥

द्विपञ्चमूली दन्तीचित्रकपथ्यानां तुलौमाहृत्य जलचतुर्द्रोणे वि-पाचयेत् । ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहो-न्मिश्रच घृतभाजने निःक्षिप्य मासमुपेक्षेत यँवपल्ले । ततः प्रातः प्रातर्मात्रां पाययेत । तेनार्शोग्रहणी दोषपाण्डुरोगोदावरीचका न भवन्ति दीप्तोऽग्निश्च भवति ॥ १४ ॥

पिप्पलीमरिचविडङ्गैलवालुकलोघ्राणां द्वे द्वे पले, इन्द्रवारु-ण्याः पञ्च पलानि, कपित्थमध्यस्य दश, पथ्याफलानामर्धप्रस्थः, प्रस्थो धात्रीफलानाम्; एतदैकध्यं जलचतुर्द्रोणे विपाच्य, पादावशेषं परिस्राव्य, सुशीतं गुडतुलाद्वये नोन्मिश्रय, घृतभाजने निःक्षिप्य पक्षमुपेक्षेत यवपल्ले । ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत एष खल्वरिष्टः प्लीहाग्निपङ्गाशग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृ-मिहरो बलवर्णकरश्चेति ॥ १५ ॥

तत्र, वातप्रायेषु स्नेहस्वेद वमन विरेचनास्थापनानुवासनमप्रति-षिद्धम् । पित्तजेषु विरेचनम् । एवं रक्तजेषु संशमनम् । कफजेषु १ प्रसृतं = पलद्वयम् अष्टौ तोलकानीति यावत् । प्रकुन्चं = पलम्, चत्वारि तोल-• कानीति यावत् । २ अर्शोरोगे दन्त्यरिष्टं ब्रवीति - द्विपञ्चमूलीति । लघुपञ्चमूली बृहत्पञ्चमूली चेति द्वयमित्यर्थः । ३ तुलां = पलशतम् । ४ यवपल्ले = यवपूर्णस्थूलकुसूलके, ' पल्लः स्थूलकुसूलके ' इति शब्दार्थचिन्तामणिः । श्ररिष्टेऽस्मिन् धातकीपुष्पाण्यनुक्ता-न्यपि पलद्वयं पलत्रयं वा दातव्यानि, सर्वेष्वरिष्टेष्वधिवासनार्थं घातकीपुष्पप्रक्षेपस्य वृद्धैः स्वीकृतत्वात् । ५ अशस्तुअभयाऽरिष्टनिर्माणप्रकारं प्रतिपादयति- पिप्पलीति । " हरीतकोनां प्रस्थार्धं प्रस्थमामलकस्य च । स्यात्कपित्थाद्द शपलं ततोऽर्धा चेन्द्रवारुणी ॥ " इत्यादि-नाऽभयारिष्टश्चरकेणाप्युक्तः । किन्त्वत्र कटुकत्वपरिहारार्थमिन्द्रवारुण्याः साधंद्वयपला-न्येव प्रक्षिपन्ति । ६ सम्यक् शमयतीति संशमनम्, सम्यग् दुष्टदोषस्यानिईरणपूर्वकं शमनम्, CC - 0. Gurukul Kangri Collection, Haridwar 1

पृष्ठ 730

सुश्रुत संहिता चौखम्बा, पृष्ठ 730 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५७२ iland eGangotri by Arya Samaj Foujiy सुश्रुतसहिताया [ अ ० ६ शृङ्गवेरकुलत्थोपयोगः । सर्वदोषहरं यथोक्तं सर्वजेषु यथास्वौषध. सिद्धं वा पयः सर्वेष्विति ॥ १६ ॥

ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः – भल्लातकानि परि-पक्कान्यनुपहतान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्द्धा वा छेदयित्वा कषायकल्पेन विपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत, ततोऽपराह्ने क्षीरं सर्पिरोदन इत्याहारः । एवमेकैकं वर्द्धयेद्यावत् पचेति, ततः पञ्च पञ्चाभिवर्धयेद्यावत् सप्ततिरिति, प्राप्य च सप्ततिमपकर्षेयेद् भू-यः पञ्च पञ्च यावत्पञ्चेति, पञ्चभ्यश्चैकैकं यावदेकमिति । एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्टाशभिर्विमुक्तो बलवानरोगः शता-युर्भवति ॥ १७ ॥

द्वित्रेणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत, जीर्णे पूर्ववदाहारः फलप्रकर्षश्च । भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं वोपयुञ्जीत । तस्मिन् जीर्णे क्षीरं सर्पिरोदन इत्याहारः । एवं मासमुपयुज्य मास-त्रयमादिष्टाहारो रक्षेदात्मानम् । ततः सर्वोपतापानपहृत्य वर्णवान् बलवान् श्रवणग्रहणधारणशक्तिसम्पन्नो वर्षशतायुर्भवति । मा मासे च प्रयोगे वर्षेशतं वर्षशतमायुषोऽभिवृद्धिर्भवति । एवं दश--मासानुपयुज्य वर्षसहस्रायुर्भवति ॥ १८ ॥

भवन्ति चात्र । यथा सर्वाणि कुष्ठानि हतः खदिरबीजंकौ । अदुष्टस्यानुदीरणं च । व्याधिशमने तु प्रस्तुतव्याधिशमनम् अप्रस्तुतव्याधेरनुदीर • णम् । “ न शोधयति यद्दोषान् सन्नोदीरयत्यपि । समीकरोति च क्रुद्धान् तत् संशम ' नमुच्यते ॥ " इति । संशमनी = गुडूची । १ भल्लातकविधानमुपदिशति - अत इति । ३ भल्लातकप्रयोगान्तरं दर्शयति – द्वित्रणीयेति । २ अपकर्षयेत् = न्यूनं कुर्यात् । ४ स्नेहं = तेलम् । उपयु • न्जीत = भुञ्जीत । ५ प्रसृतिः - पलद्वयम् प्रकुन्चं = पलम् । ६ बीजकः = ‘ विजय-2 CC - 0. Gurukul Kangri Collection, Haridwar