सुश्रुत संहिता चौखम्बा — पृष्ठ 721–730
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 721–730
पृष्ठ 721
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] Digitized by Arya Samaj चिकित्सास्थानम chennai: maand chennai and eGangotri ५६३ वातस्य - लक्षणं तोदादिकं कृष्णारुणत्वं कम्पादिकं च, पित्तस्य - चोषादिकं पीतादि-वर्णखं, दाद्दादिकं, च, कफस्य - कण्ड्वादिकं शुक्लादिवर्णत्वं प्रसेकादिकं च । ऊइस्तर्कः, अश्रुतस्य परिकल्पनेति यावत् । विज्ञेयः वैद्यैरिति शेषः । वायोः पित्तकफाभ्यां धातु · भिश्चामूत्रैरावरणं युक्तं, वातेन वातस्यावरणं न युक्तमिति चेत्? उच्यते - वायोः वाय्ख-न्तरेण गनिइननरूपमावरणमुक्तमेव वायुना वाय्वन्तरेणोपहतेन वातकुण्डलिका बहिरपि दृश्यते च । तेन प्राणादीनां पञ्चानां वातानां परस्परमावार्यावरकभेदेन युक्त-मावरणम् । भगवता चरकेण विंशतिरावरणानि दर्शितानि । तद्यथा - " मारुतानां हि पञ्चा-नामन्योन्यावरणं शृणु । लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ ॥ प्राणो वृणोत्युदा-नादीन् प्राणं वृण्वन्ति तेऽपि च । उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम् ॥ विंश-तिर्वरणान्येतान्युल्बणानां परस्परम् । मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत् ॥ ” इति । ' प्राणो वृणोत्युदानादीन् ' इत्यनेन चत्वार्यावरणानि, ' प्राणं वृण्वन्ति च ' इत्यनेन च चत्वारि, ‘ उदानाद्यास्तथाऽन्योन्यम् ' इत्यनेन द्वादशावरणान्युच्यन्ते । तत्रोदानेन व्यानादीनां त्रयाणामावरणे त्रीणि, तथा व्यानाद्यैश्चोदानावरणे त्रीणि, तथा व्यानेन समानापानावरणे द्वौ, ताभ्यां च व्यानावरणे द्वौ, परिशिष्टयोश्चान्योन्यावरणे द्वे । एवं द्वादशावरणानि पूर्वाष्टकयुक्तानि विंशतिर्भवन्ति । वाग्भटे तु वायो द्वाविंशतिविधान्यावरणान्युक्तानि । प्रसङ्गादत्र तान्यपि प्रद • श्र्यन्ते— “ वायोरावहणं चातो बहुभेदं प्रवदयते । लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रम-स्तमः ॥ कटूष्णैश्चाम्ललवणैविंदाहः शीतकामिता । शैत्यगौरवशूलानि कट्वाद्युपशयो • ऽधिकम् ॥ लङ्घनायास रूक्षोष्णकामिता च कफावृते । रक्तावृते सदाहातिस्त्वङ्मांसान्त-रयोर्भृशम् ॥ भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च । मांसेन कठिनः शोफो विवर्णः पिढिकास्तथा ॥ हर्षः पिपीलिकानां च सन्चार इव जायते । चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः ॥ श्राढयवात इति ज्ञेया स कृच्छ्रो मेदसाऽऽवृते! स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति ॥ सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शुल्यते । मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ शूलं च पीड्यमानेन पाणिभ्यां लभते सु-खम् । शुक्रावृतेऽतिवेगो वा न वा निष्फलता s पि वा ॥ भुक्ते कुक्षौ रुजाजीर्णे शाम्य. त्यन्नावृतेऽनिले । मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृते भवेत् ॥ विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति । व्रजत्याशु जरां स्नेहो भुक्ते चानते नरः ॥ शकृत्पीडित मन्नेन दुःखं शुष्कं चिरात् सृजेत् । सर्वधात्वावृते वायौ श्रोणीव ङ्क्षणपृष्ठरुक् ॥ विलोमो मारु-तोऽस्वस्थं हृदयं पीढ्यतेऽपि च । भ्रमो मुर्च्छा रुजा दाहः पित्तेन प्राण आवृते । विद-ग्धेऽन्ने च वमनमुदानेऽपि भ्रमादयः । दाहोऽन्तरूर्जाभ्रंशश्च, दाहो व्यानेन सर्वगः ॥ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 722
पाठ पढ़ें पाठ छिपाएँ
५६४ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०५. विज्ञेयो लक्षणोहाभ्यां चिकित्सा चाविरोधतः ॥ २ ९ ॥
रुजावन्तं घनं शीतं ' शोफं मेदोयुतोऽनिलः ।
करोति यस्य तं वैद्यः शोथवत् समुपाचरेत् ॥ ३० ॥
कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते ।
तदाऽङ्गमर्दस्तै मित्यरोमहर्षरुजाज्वरैः ॥ ३१ ॥
निद्रया चार्दितौ स्तब्धौ शीतलावप्रचेतनौ ।
गुरुकावस्थिरावूरू न स्वाविवे च मन्यते ॥ ३२ ॥
तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ।
स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः ॥ ३३ ॥
हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम् ।
लिह्याद्वा त्रैफलं चूण क्षौद्रेण कटुकान्वितम् ॥ ३४ ॥
मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु ।
ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम् ॥ ३५ ॥
हृद्रोगमरुचिं गुल्मं तथाऽभ्यन्तरविद्र धिम् ।
सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च ॥ ३६ ॥
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपः ।
भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः ॥ ३७ ॥
क्लमोऽङ्गचेष्टा सङ्गश्च ससन्तापः सवेदनः । समान उष्मोपहतिरतिस्वेदोऽरतिः सतृट् ॥
दाइश्च स्यादपाने तु मले हारिद्रवता । रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु ॥ श्लेष्म-णात्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः । ष्ठीवनक्षवथूद्गारनिःश्वासोच्छ्वासङ्ग्रहाः ॥ उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः । बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहाः ॥ गुरुताऽङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् । समानेऽतिहिमाङ्गत्वमस्वेदोमन्दवह्निता ॥ - अपाने सकफं मूत्रशकृतः स्यात् प्रवर्तनम् । इति द्वाविंशतिविधं वायोरावरणं विदुः ॥ प्राणादयस्तथाऽन्योन्यमावृण्वन्ति यथाक्रमम् । सर्वेऽपि विंशतिविधं विद्यादावरणं च तत् ॥ निःश्वासोच्छ्वास संरोधः प्रतिश्यायः शिरोग्रहः । हृद्रोगो मुखशोषश्च प्राणे-नोदान आवृते ॥ उदानेनावृते प्राणे त्रणजोबलसङ्क्षयः । दिशाऽनयाच विभजेत्सर्व-मावरणं भिषक् ॥ ” इति । १ शोफम् = अपक्कशोफमित्यर्थः । २ स्पर्शाज्ञानात्परकीयाविव मन्यत इति भावः । ३ षड्धरणं = प्रागुक्तं चूर्णम् । ४ प्रभञ्जनः = वायुरित्यर्थः । ५ दिह्यात् = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 723
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] Digitized by चिकित्सास्थानम् Chennai and eGangotri ५६4
शुष्कमूलकयूषेण पटोलस्य रसेन वा ।
जाङ्गलैरघृतैर्मासैः शाकैश्चालवणैर्हितैः ॥ ३८ ॥
यदा स्यातां रिक्षीणे भूयिष्ठे कफमेदसी ।
तदा स्नेहादिकं कर्म पुनरत्रावचारयेत् ॥ ३ ९ ॥
सुर्गान्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे ।
कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः ॥ ४० ॥
स नो बृंहणो वृष्यः पुराणस्त्वपकणः ।
तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत् ॥ ४१ ॥
सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः ।
तं प्रातस्त्रिफलादार्वौपटोलकुशवारिभिः ॥ ४२ ॥
पिवेदावाप्य वा मूत्रैः क्षौरैरुष्णोदकेन वा ।
जीर्णे यूषरसैः क्षीरैर्भञ्जानो हन्ति मासतः ॥ ४३ ॥
गुल्मं मेहमुदावर्त्तमुदरं सभगन्दरम् ।
कृमिकण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च ॥ ४४ ॥
' नाड्याढ्य वातश्वयथुकुष्ठदुष्टव्रणांश्च सः ।
कोष्ठसन्ध्यस्थिगं वायुं वृक्ष मिन्द्राशनिर्यथा ॥ ४५ ॥।
इति सुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं नाम पञ्चमोऽध्यायः ॥ ५ ॥
लेपयेत्, मूत्राढ्यैः = गोमूत्रपिष्टैरुष्णैः करञ्जफलश्वेत सर्षपैरित्यर्थः । १ परितः क्षीणे इत्यर्थः । ३ कोष्ठस्य पक्वाशयादेः । २ गुग्गुलुकल्पमुपदिशति — सुगन्धिरिति पूतिर्दुर्गन्धः पूतिकोष्ठस्तं इन्तीति पूर्तिकोष्ठघ्नः । ४ अत्र वारिशब्देन क्वाथो बोध्यः । ५ क्षारैः = क्षारोद कैरित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 724
पाठ पढ़ें पाठ छिपाएँ
५६ by Arya Samaj Fourte and eGangotri सुश्रुतसंहितायां
षष्ठोऽध्यायः ।
अथातोऽर्शसां चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
[ अ ० ६ चतुर्विधोऽशंसां साधनोपायः । तद्यथा – भेषजं क्षारोऽग्निः शस्त्रमिति । तत्र, अचिरकालजातान्यल्पदोषलिङ्गोपद्रवाणि भेषज-साध्यानि । मृदुप्रसृतावगाढान्युच्छ्रितानि क्षारेण । ककँशस्थिरपृथु-कठिनान्यग्निना । तनुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण । तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति; क्षौराग्निश-स्त्रसाध्यानां तु विधानमुच्यमानमुपधारय ॥ ३ ॥
" तत्र, बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं परिस्विन्नमनिल-वेदनाऽभिवृद्धिप्रशमार्थं स्निग्धमुष्ण मल्पमन्नं द्रवप्रायं भुक्तवन्तमुप-वेश्य संवृते शुचौ देशे साधारण व्यभ्रे काले समे फलके शय्यायां वा प्रयादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्न-षष्ठोऽध्यायः । १ अर्शःसम्भवे प्रकुपितस्य वातस्य प्राधान्याद्यथाकथञ्चिद् वातव्याधिचिकित्साऽ-नन्तरमर्शसा चिकित्सितमधिकरोति — प्रथेति । २ प्रसृतानि = विस्तृतानि, अवगा ढानि = उपर्यणुत्वेन अन्तस्तुं महत्त्वेन गम्भीराणीत्यर्थः । ३ स्थिराणि = अप्रसरणशी लानि, पृथूनि = विशालानि । ४ उच्छ्रितानि = बहिरुद्गतानि । ५ तन्त्रस्यास्य शत्याङ्गप्राधान्यात् क्रमं विहाय प्रथमं तावत् क्षारादिसाध्यान्य. -धिकृत्य ब्रवीति - क्षारेति । ६ श्रस्तु क्षारपातनविधिमभिधत्ते - तत्रेति । बल. -वन्तमित्यनेन वृद्धत्वरहितः सत्त्वभूयिष्ठो वा बोध्यः । सूत्रस्थानेऽर्शोव्याधि-७ प्राक् मधिकृत्य “ अभुक्तवतः कर्म कुर्वीत " इति यदुक्तं तन्मुखाश्रितानामर्शसां कर्मणि भोजन-प्रतिषेधार्थमिति न विरोधः । अत एव ' प्राक् शस्त्रकर्मणः श्रेष्ठं भोजयेदातुरं भिष-क् ” इति प्रागुक्तं सङ्गच्छते । ८ साधारणे = शारद्वसन्तिके, नातिशीतोष्णे वा, काले इत्यस्य विशेषणम् । व्यभ्रे = मेघरहिते दिने इत्यर्थः । समे फलके = समतल काष्ठपट्टादौ । प्रत्यभिमुखेनादित्यं प्रत्या-दित्यं, प्रत्यादित्यं मुखं यस्य तम् । यस्यां दिश्यादित्यो गतस्तस्यां दिश्यर्शसेन सम्मु-खगुदं कृत्वां स्नातव्यमित्यर्थः । अन्यस्य उत्सङ्गे क्रोडे निषण्णपूर्वकायं पूर्वेण कायेनो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 725
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by An च्किकिरसवस्थानम् Chennai and eGangotri ५६७ तकटिकं वस्त्रकम्बलकोपविष्टं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा घृताभ्यक्तं यन्त्रमृ-ज्वणुमुखं पौयौ शनैः शनैः प्रवाहमाणस्य प्रणिधाय प्रविष्टे चार्शो वीक्ष्य शलाकयोत्पीड्य पिचुवस्त्रयोरन्यतरेण प्रमृज्य द्वारं पातयेत् । पातयित्वा च पाणिना यन्त्रद्वारं पिधाय वाक्च्छ मात्रमुपेक्षेत, ततः प्रमृज्य क्षारबलं व्याधिबलं चावेक्ष्यँ पुनरालेपयेत् । अथार: ' पक्कजाम्बवै'प्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्त्तयेत् । क्षारं प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा । ततो यष्टीमधुकमि-श्रेण सर्पिषा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत्, अशीताभिरित्येके । ततो निर्वातमागारं प्रवेश्याचारिकमादिशेत्, सावशेषं पुनर्दहेत् । एवं सप्तरात्रात् सप्त-रात्रादेकैकमुपक्रमेत; तत्र बहुषु पूर्व दक्षिणं साधयेत्, दक्षिणा-द्वामं, वामात् पृष्ठजं, ततोऽग्रजमिति ॥ ४ ॥
तत्र वातश्लेष्मनिमित्तान्यग्निर्क्षौराभ्यां साधयेत्, क्षारेणैव मृदुना " पित्तरक्तनिमित्तानि ॥ ५ ॥
त्तानं कृत्वा स्थितं नाघरेणेत्यर्थः । १ परिक्षिप्तमाकृष्टनिबद्धं ग्रीवासक्थि यस्य तम् । २ पायौ = गुदै । ३ वाक्छतमात्रं = लध्वक्षरशतोपलक्षितकाल मात्रम् । " यद्येरण्डजनालमेष दहति क्षारो वरो वाक्शतात् ' इति । ४ इयता क्षारेण श्यानंशः सम्यग्दग्धो भविष्यति, इय-तेयानित्याद्यालोच्येत्यर्थः । क्षारमात्रा तन्त्रान्तरे - " क्षारमात्रा नखोत्सेधप्रमाणाद्या प्रकीर्तिता । द्विगुणा मध्यमा मात्रा त्रिगुणा महती मता । पित्ते श्लेष्मणि वाते च यथासंख्यं प्रयोजयेत् ॥ ” इति । ५ तन्त्रान्तरे विशेषः – “ पक्कजाम्बवकाश्मर्यवर्णं दग्धेऽनिलार्शसि । पित्तजे भृङ्ग-मायूरकण्ठवर्णं विनिर्दिशेत् । बृहतीपुष्पवर्णत्वं सम्यग्दग्धे कफार्शसि ॥ ” इति । उपा • वर्तयेत् = क्षारक्रियां निवर्तयेदित्यर्थः । ६ शुक्तं = चुक्रम्, फलाम्लं = बीजपूररसः । ७ सप्तरात्रमतीत्येति सप्तरात्रात् । ल्यब्लोपे पञ्चमी । ८ एतत्तन्त्रानुवादी वाग्भ-टोऽपि – “ प्राग्दक्षिणं ततो वाममर्शः पृष्ठाग्रजं ततः । बह्वर्शसः " इति । ९ सूत्रस्थाने द्वादशाध्यायोक्तेन इहोक्तेन च विधानेनेति शेषः । १० पित्तरक्तनिमित्तानि मृद्वादी--नीत्यर्थः । तदुक्तम् – - " " पित्तोत्तरा नीलमुखास्तनवो मृदवः श्लथा " इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 726
पाठ पढ़ें पाठ छिपाएँ
५६८ सुश्रुतसहिताया— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ६ तत्र वातानुलोम्यमन्नरुचिरमिदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मन-स्तुष्टिरिति सम्यग्दग्धलिङ्गानि । अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवा भवन्ति । श्यामाल्पव्ररणता कण्डूरनिलवैगुण्यमिन्द्रियाणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे ॥ ६ ॥
महान्ति च प्राणवतश्छित्वा देहेत् । निर्गतानि चात्यर्थं दोष-पूर्णानि यन्त्राद्विना स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणालेपक्षा-राग्निशस्त्रैरुपाचरेत् । प्रवृत्तरक्तानि च रक्तपित्तविधानेन, भिन्न-पुरीषाणि चातीसारविधानेन, बद्धवर्चांसि स्नेहपानविधानेनोदा-वर्तविधानेन वा । एष सर्वस्थानगतानामर्शसां दहनकल्पः ॥ ७ ॥
आसाद्य च दर्वौकूर्चकशलाकानामन्यतमेन क्षारं पातयेत् । भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत । सर्वेषु च शालि षष्टिकयवगोधूमान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूपेण पटोल-यूषेण वा यथादो ' शाकैर्वास्तू कतण्डुलीयक जीवन्त्यु पोदिकाऽश्वबला-बालमूलकपालङ्क्यसनचिल्ली चुच्चूकलायै वल्लीभिरन्यैर्वा । यच्चा-न्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत || ८ || दुग्धेषु चार्शः स्वभ्यक्तोऽनलसन्धु क्षरणार्थमनिलप्रकोप सङ्क्षर-णार्थं च स्नेहादीनां सामान्यतो विशेषतस्तु क्रियापथमुपसेवेत ॰। सर्पषि च दीपनीय वातहर सिद्धानि हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य-१ स्थानादिविशेषेणार्शसां दद्दनविकल्पं निर्दिशति - महान्तीति । प्राणवतः = बलवत इत्यर्थः । २ क्षारदाहोस्योक्तत्वादग्निना दहेदित्यर्थः । ३ सर्वशब्देन मेढा-दीनां परिग्रहो बोध्यः । दहनकल्पः = श्रग्निक्षारदाहे शास्त्रीय विधिरित्यर्थः । ‘ कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने ' इति मेदिनी । ४ क्षारपाते विशेषविधिमुपदिशति - आसाद्येति । == ' चौलाई ' ५ तण्डुलीयकः तण्डुलीय एव तण्डुलीयकः, स्वार्थेऽय् ६ कलायवल्ली वर्तुलकलाय लता । ७ क्षा. रकर्मणः पश्चात्कर्म निर्दिशति - दग्धेष्विति । ८ सामान्यतः = सर्वार्शोघ्नविधिना, विशेषतः = वाताद्यर्शसां यथादोषं दद्दनविधिना । ९ दीपनीयानि = पिप्पल्यादीनि, वातहराणि = भद्रदार्वादीनि हिङ्ग्वादिभिः = चिकित्सास्थाने पञ्चमाध्यायोक्तैश्चू-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 727
पाठ पढ़ें पाठ छिपाएँ
अ ०६ ] Digitized by Ary र्व आकिम्वा ख्याल hennai and eGangotri ५६ ९ पिबेत् । पित्तार्शःसु पृथक्पर्यादीनां कषाये ए दीपनीयप्रतीवापं सर्पिः । शोणिताशः मञ्जिष्ठ मुरुगन्यादीनां कषायैः । श्लेष्मार्शः सु
सुरसादीनां कषायैः सर्पिः । उपद्रवांश्च यथास्त्रमुपाचरेत् ॥ ९ ॥
परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत्, तद्वि-भ्रमाद्धि पाण्ढ्यशोफदाहमदमूर्च्छाटो पानाहातीसारप्रवाहणानि भव-न्ति मरणं वा ॥ १० ॥
प्रमाणमुपदेक्ष्यामः- तत्र, यन्त्रं लौहं दान्तं शार्ङ्गं वार्त्तं वा गोश्तनाकारं चतुरङ्गुलायेतं पञ्चाङ्गुलपरिणाहं पुंसां, पडङ्गुलपरिणाहं नारीणां तलायतम् । तद् द्विच्छिद्रं - दर्शनार्थमेकं छिद्रं, एक छिद्रं तु कर्मणि । एकद्वारे हि शस्त्रक्षाराग्नीनामतिक्रमो न भवति । छिद्रप्रमाणं तु त्र्यङ्गुलायतमङ्गुष्ठोदरपरिणाहम् । यदङ्गु-लमवशिष्टं तस्यार्द्धाङ्गुलमधस्तादर्द्धाङ्गुलोच्छ्रितो परिवृत्त कर्णिकं । एष यन्त्राकृतिसमासः ॥। ११ ॥ अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामः – स्नुहीतीरयुक्तं हरिद्रा-चूर्णमालेपः प्रथमः । कुक्कुटपुरीपगुञ्जाहरिद्रापिप्पलीचूर्णमिति गोमूत्र पित्तपि द्वितीयः । दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः । पिप्पली सैन्धवकुष्ठशिरीषफलकल्कः स्नुही-क्षीरपिष्टोऽर्क क्षीरपिष्टो वा चतुर्थः । कासीसहरिताल सैन्धवाश्वमारक-विडङ्गपूतीककृतवेधनजम्ब्वत्तमार गोदन्तीचित्र कालर्कस्नुद्दीपयःसु रित्यर्थः । प्रतिसंसृज्य = दोषबलप्रातिकूल्येन संयोज्य १ पृथक्पण्र्यादीनां = मिश्रका ध्यायोक्तरोपणघृतसाधनद्रव्याणामित्यर्थः । २ मुरुङ्गी रक्तशोभान्जनः, तदादीनाम्, द्रव्यसङ्ग्रहणीयाध्याये वरुणादिगणान्तर्गतमधुशिग्वादीनामित्यर्थ: । ' मुरुङ्गी ' इत्यत्र ' सुरङ्गी ' इति पाठान्तरम् । ३ परम् = उत्तमम् । ४ श्रवचारणप्रकारः सूत्रस्थाने पन्चमाष्टमद्वादशै कोनविंशतिपञ्चविंशत्यध्यायेषु द्रव्यव्यः । ५ श्रायतं = दीर्घम्, परिणादः = वर्तुलता, तलायतं = स्वहस्तषद् वर्तु-लम् । ६ अर्धाङ्गुलच्छाये उपरि वृत्ता कर्णिका यस्य तदित्यर्थः यन्त्राकृतिसमा-सः = यन्त्राकारसङ्क्षेपः । ७ गोमूत्रं च गोपित्तं च गोमूत्रपित्ते, ताभ्यां पिष्ट इत्यर्थः । ८ सुवचिका = ' सज्जीखार ' इति । ९ उत्तमारणी = भूम्यामलकी, श्रलकैः = श्वेता-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 728
पाठ पढ़ें पाठ छिपाएँ
Chennal and eGangotri ५७० G Digitized by Arya Samaj | सुश्रुतसंहितायां-तैलं विपक्वमभ्यञ्जनेनाशः शातयति ॥ १२ ॥
[ अ ० ६ अत ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामः-प्रातः प्रार्गुडहरीतकीमासेवेत । ब्रह्मचारी गोमूत्रद्रोणसिद्धं वा हरीतकीशतं प्रातः प्रातर्यथाबलं क्षौद्रेण । अपामार्गमूलं वा तण्डुलोद-केन सक्षौद्रमहरहः । शतावरीमूलकंल्कं वा क्षीरेण । चित्रकचूर्णयुक्तं वा सीधुराम् । भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण । कलशे वाऽन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा पानभोजनेषूपयुञ्जीत । एष एव भाग्यस्फोतोयवान्यामलकगुडूचीषु तककल्पः । पिप्पलीपिप्पलीमूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च पूर्ववदेव, निरन्नो वा तक्रमहरहर्मासमुपसेवेत । शृङ्गवेरपुनर्नवा-चित्रककषायसिद्धं वा पयः । कुटजमूलत्व + फोणितं वा पिप्पल्या-दिप्रतीवापं क्षौद्रेण । वातव्याध्युक्तं हिङ्वादिचूर्णमुपसेवेत तक्रा हारः, क्षीराहारो वा क्षारलवणान्, चित्रकमूलक्षारोदकसिद्धान् वा कुल्माषान् भक्षयेत् । चित्रकमूल क्षारोद कसिद्धं वा पयः । पलाशत-रुक्षारसिद्धान् वा कुल्माषान् । पाटलापामार्ग बृहती पलाशक्षारं वा परिस्रुतमहरहर्घृतसंसृष्टम् । कुटजबन्दाकमूलकल्कं वा तक्रेण । चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण । क्षारोदकसिद्धं वा र्कः । १ गोमूत्र हरीतकीयोगोऽयं गाढपुरीषमन्दाग्नैर्बोध्यः । २ एषोऽपामार्गमूल-योगः पित्तरक्तार्शसि ज्ञातव्यः । ३ शतावरीमूलकल्कयोगोऽयं वातपित्तानुबद्धरक्तजेषु बोध्यः । ४ परार्ध्यं = श्रे • ष्ठम् । ५ आस्फोता = सारिवा । ६ वातकफजानां शुष्कार्शसामन्नपाने तक्रं निर्दिश्य रक्तपित्तजानामार्द्राणामन्नपानै गोरसमेव निर्दिशति शृङ्गवेरति । योगोऽयं कफवाता-नुबद्धरक्तजेषु बोध्यः । ७ फाणितं = ' राब ' इति हिन्दीभाषायां प्रसिद्धम् । अत्र परिमाणं तु कुटजत्वचां शतपलफाणिते पिप्पल्यादिचूर्ण षट्पलम् । अयं योगः कफपित्तानुबद्धरक्तजेषु ज्ञातव्यः । ८ एष योगो वातकफजेषु बोद्धव्यः । तक्रा-हारो वातकफानुद्धरक्तजेषु । क्षीराहारो वातपित्तानुबन्धजेषु । ९ कुल्माषान् = यवौ-दनाम् । “ अर्धस्विन्नाश्च गोधूमा अन्ये च चणकादयः । कुल्माषा इति कथ्यन्ते ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 729
पाठ पढ़ें पाठ छिपाएँ
Foundation Chennai and eGangotri ५७१ प्र ० ६ ] Digitized by Arya चिकित्सास्थानम् a सर्पिः पिप्पल्यादिप्रतीवाम् । कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः
प्रातरुपसेवेत शीतोदकानुपानम् । एभिरभिवर्धतेऽग्निरर्शांसि चोप-शाम्यन्ति ॥ १३ ॥
द्विपञ्चमूली दन्तीचित्रकपथ्यानां तुलौमाहृत्य जलचतुर्द्रोणे वि-पाचयेत् । ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहो-न्मिश्रच घृतभाजने निःक्षिप्य मासमुपेक्षेत यँवपल्ले । ततः प्रातः प्रातर्मात्रां पाययेत । तेनार्शोग्रहणी दोषपाण्डुरोगोदावरीचका न भवन्ति दीप्तोऽग्निश्च भवति ॥ १४ ॥
पिप्पलीमरिचविडङ्गैलवालुकलोघ्राणां द्वे द्वे पले, इन्द्रवारु-ण्याः पञ्च पलानि, कपित्थमध्यस्य दश, पथ्याफलानामर्धप्रस्थः, प्रस्थो धात्रीफलानाम्; एतदैकध्यं जलचतुर्द्रोणे विपाच्य, पादावशेषं परिस्राव्य, सुशीतं गुडतुलाद्वये नोन्मिश्रय, घृतभाजने निःक्षिप्य पक्षमुपेक्षेत यवपल्ले । ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत एष खल्वरिष्टः प्लीहाग्निपङ्गाशग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृ-मिहरो बलवर्णकरश्चेति ॥ १५ ॥
तत्र, वातप्रायेषु स्नेहस्वेद वमन विरेचनास्थापनानुवासनमप्रति-षिद्धम् । पित्तजेषु विरेचनम् । एवं रक्तजेषु संशमनम् । कफजेषु १ प्रसृतं = पलद्वयम् अष्टौ तोलकानीति यावत् । प्रकुन्चं = पलम्, चत्वारि तोल-• कानीति यावत् । २ अर्शोरोगे दन्त्यरिष्टं ब्रवीति - द्विपञ्चमूलीति । लघुपञ्चमूली बृहत्पञ्चमूली चेति द्वयमित्यर्थः । ३ तुलां = पलशतम् । ४ यवपल्ले = यवपूर्णस्थूलकुसूलके, ' पल्लः स्थूलकुसूलके ' इति शब्दार्थचिन्तामणिः । श्ररिष्टेऽस्मिन् धातकीपुष्पाण्यनुक्ता-न्यपि पलद्वयं पलत्रयं वा दातव्यानि, सर्वेष्वरिष्टेष्वधिवासनार्थं घातकीपुष्पप्रक्षेपस्य वृद्धैः स्वीकृतत्वात् । ५ अशस्तुअभयाऽरिष्टनिर्माणप्रकारं प्रतिपादयति- पिप्पलीति । " हरीतकोनां प्रस्थार्धं प्रस्थमामलकस्य च । स्यात्कपित्थाद्द शपलं ततोऽर्धा चेन्द्रवारुणी ॥ " इत्यादि-नाऽभयारिष्टश्चरकेणाप्युक्तः । किन्त्वत्र कटुकत्वपरिहारार्थमिन्द्रवारुण्याः साधंद्वयपला-न्येव प्रक्षिपन्ति । ६ सम्यक् शमयतीति संशमनम्, सम्यग् दुष्टदोषस्यानिईरणपूर्वकं शमनम्, CC - 0. Gurukul Kangri Collection, Haridwar 1
पृष्ठ 730
पाठ पढ़ें पाठ छिपाएँ
५७२ iland eGangotri by Arya Samaj Foujiy सुश्रुतसहिताया [ अ ० ६ शृङ्गवेरकुलत्थोपयोगः । सर्वदोषहरं यथोक्तं सर्वजेषु यथास्वौषध. सिद्धं वा पयः सर्वेष्विति ॥ १६ ॥
ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः – भल्लातकानि परि-पक्कान्यनुपहतान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्द्धा वा छेदयित्वा कषायकल्पेन विपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वौष्ठः प्रातः प्रातरुपसेवेत, ततोऽपराह्ने क्षीरं सर्पिरोदन इत्याहारः । एवमेकैकं वर्द्धयेद्यावत् पचेति, ततः पञ्च पञ्चाभिवर्धयेद्यावत् सप्ततिरिति, प्राप्य च सप्ततिमपकर्षेयेद् भू-यः पञ्च पञ्च यावत्पञ्चेति, पञ्चभ्यश्चैकैकं यावदेकमिति । एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्टाशभिर्विमुक्तो बलवानरोगः शता-युर्भवति ॥ १७ ॥
द्वित्रेणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत, जीर्णे पूर्ववदाहारः फलप्रकर्षश्च । भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं वोपयुञ्जीत । तस्मिन् जीर्णे क्षीरं सर्पिरोदन इत्याहारः । एवं मासमुपयुज्य मास-त्रयमादिष्टाहारो रक्षेदात्मानम् । ततः सर्वोपतापानपहृत्य वर्णवान् बलवान् श्रवणग्रहणधारणशक्तिसम्पन्नो वर्षशतायुर्भवति । मा मासे च प्रयोगे वर्षेशतं वर्षशतमायुषोऽभिवृद्धिर्भवति । एवं दश--मासानुपयुज्य वर्षसहस्रायुर्भवति ॥ १८ ॥
भवन्ति चात्र । यथा सर्वाणि कुष्ठानि हतः खदिरबीजंकौ । अदुष्टस्यानुदीरणं च । व्याधिशमने तु प्रस्तुतव्याधिशमनम् अप्रस्तुतव्याधेरनुदीर • णम् । “ न शोधयति यद्दोषान् सन्नोदीरयत्यपि । समीकरोति च क्रुद्धान् तत् संशम ' नमुच्यते ॥ " इति । संशमनी = गुडूची । १ भल्लातकविधानमुपदिशति - अत इति । ३ भल्लातकप्रयोगान्तरं दर्शयति – द्वित्रणीयेति । २ अपकर्षयेत् = न्यूनं कुर्यात् । ४ स्नेहं = तेलम् । उपयु • न्जीत = भुञ्जीत । ५ प्रसृतिः - पलद्वयम् प्रकुन्चं = पलम् । ६ बीजकः = ‘ विजय-2 CC - 0. Gurukul Kangri Collection, Haridwar