सुश्रुत संहिता चौखम्बा — पृष्ठ 731–740
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 731–740
पृष्ठ 731
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] Digitized by Arya चिकित्सास्थानम् endnai and eGangotri ५७३ तथैवार्शांसि सर्वाणि वृक्षकौरुष्करौ हतः ॥ १ ९ ॥
साध्या नाप्यतिवर्त्तन्ते प्रमेहा रजनीं यथा ।
क्षाराग्निं नातिवर्त्तन्ते तथा दृश्या गुदोद्भवाः ॥ २० ॥
घृतानि दीपनीयानि लेहायस्कृतयः सुराः ।
आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितिम् ॥ २१ ॥
वेगावरोधस्त्री पृष्ठयानान्युत्कटुकासनम् ।
यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत् ॥ २२ ॥
इति सुश्रुतसंहितायां चिकित्सास्थानेऽर्शचिकित्सितं नाम षष्ठोऽध्यायः ॥ ६ ॥
सप्तमोऽध्यायः ।
अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः ।
औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ॥ ३ ॥
तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ।
तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ॥ ५ ॥
-सार ' इति ख्यातः । १ वृक्षकारुष्करौ = कुटजभल्लातकौ । २ रजनीं = हरिद्राम् । ३ अर्शस्सु वर्जितकर्माणि निर्दिशति – वेगेति । वेगावरोधः = मलमूत्रावरोधः । ४ उत्कटुकासनं = विषमासनस्थितिरित्यर्थः । ' गुदपाणी समायोगः प्राहुरुत्कटुकास--नम् " इति बोध्यम् । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां षष्टोऽध्यायः । सप्तमोऽध्यायः । ५ अन्तकप्रतिमः = यमोपम इत्यर्थः । ६ तरुण: = सद्यस्कः । ७ अस्याः पूर्व-रूपम्– “ बस्त्याध्मानं तदासन्नदेशेषु परितोऽनिरुक् । मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ॥ ' ' इति 1 । ८ मूलानि = श्रारम्भकदोषाः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 732
पाठ पढ़ें पाठ छिपाएँ
५७४.Digitized by Arya Samaj F सुश्रुतसहिताया nde Gangotri [ अ ० ७
' पाषाणभेदो वसुको वशिराश्मन्तकौ तथा ।
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥ ५ ॥
कपोतवङ्काऽऽर्तगलः कच्चकोशी र कुब्जकाः ।
वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ॥ ६ ॥
यवाः कुलत्थाः कोलानि कतकस्य फलानि च ।
ऊषैकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ॥ ७ ॥
भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु ।
क्षारान यवागूर्यूषांश्च कषायाणि पयांसि च ॥ ८ ॥
भोजनानि चं कुर्वीत वर्गेऽस्मिन् वातनाशने ।
कुशः काशः सरो गुन्द्रा उत्कटो मोरटोऽश्मभित् ॥ ९ ॥
वँरी विदारी वाराही शालिमूलत्रिकण्टकम् ।
भल्लूकः पार्टला पाठा पत्तूरोऽथ कुरुण्टिका ॥ १० ॥
पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् ।
घृत शिलाजमधुकबीजैरिन्दीवरस्य च ॥ ११ ॥
पुर्वारुकादीनां बीजैचावापितं शुभम् ।
भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ॥ १२ ॥
क्षारान् यवागूर्यूषांश्च कषायाणि पर्यासि च । १ वातजन्याश्मरीचिकित्सामभिधत्ते - पाषाणेति । पाषाणभेदः = ' पखानभेद '. ‘ पत्थरचूर ' इति भाषा । वसुकः = बकपुष्पम्, अश्मन्तकः = कोविदारसदृशदलः । २ कपोतवङ्का = ब्राह्मी, कच्चकः = मध्य लेखानिचितः ऋजुकपत्र ईषद्रक्तमूल: ' कवहक ' ' इति मालव के प्रसिद्ध इति ढल्द्दणः । ' कच्चक ' इत्यत्र ' ककुभ ' इति श्रीहाराय चन्द्रसम्म -तपाठः । उशीरः = ‘ खस ' कुब्जकः = ' चिरमिटी ' वृक्षादनी = वन्दा, भल्लुकः = इयो. नाकः, वरुणः प्रसिद्धः । ३ ऊषकादीनां द्रव्यसङ्ग्रहणीयाध्यायोक्तानां द्रव्याणां प्रती--वापः प्रक्षेपः । ४ चकाराच्चूर्णादीनां समुच्चयः । ५ पित्तजन्याश्मरीचिकित्सां निर्दिशति - कुश इति । = ' दालचीनी ' उत्कटः उद्गतः कट आवरणमावरको वाऽस्येति विग्रहः । उत्कटो महती खगालीति डल्हणः । मोरटः = इक्षुमूलम् । ६ वरी = शतावरी, ७ पाटला ' पाढर ' इति भाषा, ' पाठा = ' पाढ ' इति भाषा, पत्तूरः = ' सिरवालिका ' इति ख्यातः । कुरुण्टिका = सिरवालिकाभेदः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 733
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] Digitized by Ary तस्तान hennai and eGangotri ५७५ भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने । १३ ॥
गंणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः ।
कुष्ठभद्रौदिमरिचचित्रकैः ससुराह्वयैः ॥ १४ ॥
एतैः सिद्धमजासर्पिरूषकादिगणेन च ।
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ॥ १५ ॥
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ।
भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने । १६ ॥
पिचुका कोलकतकश । केन्दीवरजैः फलैः ।
चूर्णितैः सँगुडं तोयं शकॅर शमनं पिवेत् ॥ १७ ॥
क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका ।
अजमोदा कदम्बस्य मूलं नागरमेव च ॥ १८ ॥
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ।
त्रिर्कण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ॥ १ ९ ॥
अविक्षीरेण सप्ताहमश्मरीभेदनं पिवेत् ।
द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः ॥ २० ॥
ग्राम्यंसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः । १ कफाश्मरीचिकित्सामाचष्टे - गण इति । २ हरेणु: रेणुका ' इति ख्यातः । ३ भद्रादिगण हत्यर्थः । ससुराह्वयैः = देवदारुसहितैरित्यर्थः । शुकाश्मरीचिकित्सा तु कफाइमरीचिकित्साऽनुसारेणैव कार्या, कफशुक्रयोस्तुल्यगुणत्वात् । ४ शर्कराचिकित्सामभिधत्ते - पिचुकेति । पिचुकः = कार्पासफलम् अङ्कोलः =. ङ्कोटः । अवस्थाभेदादश्मरी शर्करा सिकता भवति । तदुक्तम्- " पीडिते खवकाशेऽस्मिन्न · श्मर्येव च शर्करा । स भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते ॥ ” इति । शर्करासिकतयोश्च भेदो महत्त्वात्पस्वाभ्यां बोद्धयः । शुकाश्मरी वालानां न भवति । तदुक्तम्- ' शुक्राश्मरी तु महतां जायते शुक्रधारणात् । स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः । शोषय-त्युपसंगृह्य शुक्रं तच्छुष्कमश्मरी ॥ ” इति ५ “ चूर्णे चूर्णसमो देयो मोदके द्विगुणेो गुरुः " इति तन्त्रान्तरीयाच्चूर्णसमगुडस-हितमित्यर्थः । तोयं = जलं, तच्चोष्णं ग्राह्यम् । ६ त्रिकण्टकस्य गोक्षुरकस्य । ` ७ ग्राम्यसत्त्वानामश्वादीनां पुरीषक्षारैः संयुक्तः षड्गुणाविमूत्रगालितः । तस्य क्षारोद -कस्य पाकसिद्धिसमये चतुर्थीशेन ऊषकादित्रिकटुकयोः समभागेन मिश्रितयोः प्रक्षेपः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 734
पाठ पढ़ें पाठ छिपाएँ
५७६ सहिताया Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०७ तत्रोपकादिरावापः कार्यस्त्रिकटुकान्वितः ॥ २१ ॥
एष चारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि ।
तिलोपामार्गकदलीपलाशय वकल्कजः ॥ २२ ॥
क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः ।
पाटलाकरवीराणां क्षारमेवं समाचरेत् ॥ २३ ॥
श्वदंद्रायष्टिकाब्राह्मोकल्कं वाऽक्षसमं पिबेत् ।
सहैडकाख्यौ पेयौ वा शोभाञ्जनक मौकवौ ॥ २४ ॥
कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः ।
तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः ॥ २५ ॥
हरीतक्यादिसिद्धं वा वर्षाभू सिद्धमेव वा ।
सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः ॥ २६ ॥
घृतैः चारैः कषायैश्च क्षीरैः सत्तरवस्तिभिः ।
यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः ॥ २७ ॥
कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाभ्रुवा ।
उपक्रमो जघन्योऽयमतः स परिकीर्तितः ॥ २८ ॥
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।
तस्मादापृच्छ्य कर्त्तव्यमीश्वरं साधुकारिणा ॥ २ ९ ॥
अथ 40 रोगान्वितमुपस्निग्धमपकृष्टदोषमी पत्कर्षितमभ्यक्तस्विन्न १ तिलापामार्गकदलीपलाशयवकल्कजक्षारस्य कर्षद्वयं कर्षत्रयं वा षड्गुणेन श्रविमूत्रेण बहुशः स्रावितं पूतं पेयमिति तात्पर्यम् । २ योगोऽयं वातश्लेष्मसम्भूता. श्र्या बोद्धव्यः । ३ अविमूत्रेण पिबेदित्यर्थः । ४ एडकाख्या मेषी तस्या इदं मूत्रमैढकाख्यम्, तेन सह वर्तमानौ सहैडकाख्यौ । ५ मार्कत्रः = ' भाङ्गरा’इति ख्यातः । ६ हरीतक्यादिसिद्धं = त्रिफलादिसिद्धम् । वर्षाभूः = पुनर्नवा । ७ वीर-तरादिकः = द्रव्यसङग्रहणीयो वीरतर्वादिगण इत्यर्थः । अश्मरीहरद्रव्यसिद्धै नैं रू-हिकैः स्नैहिकैश्चोत्तरवस्तिभिरित्यर्थः । ९ ईश्वरं = स्वामिनम्, राजानमिति यावत् । ' ईभ्य श्राढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ' इत्यमरः । १० “ प्रवृद्धश्छेद मर्हति ' इति प्रागुक्तस्मरणाद् शस्त्रेणाश्मर्याहरणविधिं दर्शयति-अथेति । अपकृष्टदोषं = पूर्वेद्युर्वमनविरेचनादिना निर्हृतदोषमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 735
पाठ पढ़ें पाठ छिपाएँ
अ ० ७ ] Digitized by Ary ञ्चिदचिनसारथ hennai and eGangotri ५७७ शरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रो पहरणीयोक्तेन वि-धानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नत-कटीकं वस्त्रधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्ध सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्व विमृद्य मुष्टिनाऽवपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति । ततः स्नेहाभ्यक्ते क्लृप्तनखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकंमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ॥ ३० ॥
र्सं चेद् गृहोतशल्ये तु विवृताक्षो विचेतनः ।
तल्लम्बशीर्षश्च निर्विकारो मृतोपमः ॥ ३१ ॥
न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः ।
विना त्वेतेषु रूपेषु निर्हर्त्तं " प्रयतेत वै ॥ ३२ ॥।
सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरी-प्रमाणं, दक्षिणतो वा क्रियासौकर्यहेतोरित्येके । यथा च न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धि-१ अग्रोपइरणोयोक्तेन विधानेन: | = यन्त्रशस्त्रक्षारशलाका दिविधिना । २ बलव-न्तम् = आतुरापेक्षया बलीयांसमित्यर्थः । श्रपकृष्टदोषं विशुद्धमन्नसंसर्जनेन सञ्जनितब लमिति ढल्द्दणः । ३ तस्योत्सङ्गे = उपवेशित पुरुषक्रोडे । ४ इतरेण प्रागुपवेशितपुरुषेण सहेत्यर्थः । ५ श्रधः प्रपन्ना = अधोगता । ६ सेवनीमनु लक्ष्यीकृत्य, प्रणिधाय प्रवे-श्येत्यर्थः । श्रसाद्य = श्रश्मरीं प्राप्य । ७ निर्व्यलीकं = त्वक्सङ्कोचरहितम्, अनाय तम् = आकर्षणेनादीर्घीभूतम् श्रविषमं निम्नोन्नतरवरहितं यथा स्यात्तथा बस्ति सन्निवेश्य, उत्पीडयेत् = बहिर्मुखं प्रपीडयेदित्यर्थः । अश्मरीशल्ये गृहीते यादृशस्य पुरुषस्य मरणभयादनादरणीयाश्मरी तादृशं पुरुषं निर्दिशति - स चेदिति । विवृताक्षः, विवृते स्तब्धेऽक्षिणो यस्य सः । ९ वि. कारेभ्यो व्यापारेभ्यो निष्क्रान्त इति निर्व्यापारः । १० प्रयतेत = प्रयत्नं कुर्यादित्यर्थः । ३७ पान - पुस्तक विभाग CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 736
पाठ पढ़ें पाठ छिपाएँ
( Upigitized by Arya Samaj Fou तुश्रुतसहिताया reGangotri [ अ ० ७ मेति, तस्मात् समस्तामग्रर्वक्त्रेणाददीत 1 । स्त्रीणां तु बस्तिपार्श्वगतो गभाशयः सन्निकृष्टः, तस्मान्नासामुत्सङ्गवच्छस्त्रं पातयेत्; अतो-ऽन्यंथा खल्वासां मूत्रस्रावी व्रणो भवेत् । पुरुषस्य वौ मूत्रप्रसेकक्ष-णनान्मूत्रक्षरणम् । अश्मरीत्रणादृतं भिन्नो बस्तिरेकधा न भवति, द्विधा भिन्नवस्तिराश्मरिको न सिध्यति, अश्मरीत्रणनिमित्तमे-कधाभिन्नवस्तिर्जीवति क्रियाऽभ्यासाच्छास्त्रविहितच्छेदान्निस्यन्द-श्रत्र ' समुपाचरेत् ' इति पाठान्तरम् । १ अग्रभागे सर्पफणाकारं वक्त्रं मुखमस्येति तेन अग्रवक्त्रेण यन्त्रविध्यध्यायोक्तेन सर्पफणामुखेन शलाकायन्त्रेणेत्यर्थः । २ स्त्रीणां पुंवच्छस्त्रनिपातने वस्तिनिकटस्थगर्भाशयस्य छेदभयाच्छेदविशेषमुपदि. शति — स्त्रीणामिति । ३ उद् ऊर्ध्वं सङ्ग उत्सङ्गः सोऽस्यास्तीति तदुत्सङ्गवद् उत्तानमित्यर्थः । हाराणचन्द्रस्तु - उत्सङ्गः क्रोडो गर्भाशय संसङ्गार्हो भाग इति यावत्, तमईतीत्युत्सङ्गवत्, ' वदर्हम् ' इति वतिः तादृशं शस्त्रं न पातयेत्; गर्भाशयस्य तद्द्द्वारस्य च च्छेदभयादित्याकृतम् । एतदेव भङ्गीविशेषेणावगमयति- श्रत इत्यादि • नेति । ४ यदाऽवगाढः शस्त्रपातः स्यात्तदा बहिर्गतं त्वङ्मांसं भित्त्वा बस्तित्वचा सह भगवस्तुवस्तिपार्श्वाश्रयस्य गर्भाश्रयस्यापि त्वचो भेदः स्यात् । ततस्तासां भगा-न्तर्गतो मूत्रस्रावी व्रणः स्यादित्यर्थः । तथा च वैतरणः - " भगस्याधः स्त्रिया वस्तिरूर्ध्व गर्भाशयः स्थितः । गर्भाशयश्च बस्तिश्च महास्रोतः समाश्रितौ ॥ वस्तिभागं समुन्नम्य अवनम्याश्मरीं वुधः । स्फिगये भेदनं तासां हितमन्यत्र दोषकृत् ॥ ' ' इति । श्रीहाराणचन्द्रस्तु खल्विति हेतौ ' खलु हेतौ निषेधे च ' इति कोशान्तरच । तदयमर्थः-यस्मादत उत्सङ्गवच्छ्त्रपातनान्मूत्रस्रावी व्रणोऽन्यथाप्रकारो भवेत्, योनित्रणोभयमुख प्रस्रावित्वादिति हृदयम् । एतावता वस्तेदक्षिणे पाइ तिर्यक्छेदस्य नितरामात्ययिक-त्वात् प्रागुक्तमेक इत्यस्यास्वारसिकं समन्वितं भवति । इति । वाग्भटस्तु स्त्रीणामुत्स-ङ्गवच्छस्त्रं पातयेदित्याद्द । तथा हि- " स्त्रीणां बस्तिस्तु पार्श्वगः । गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः । न्यसेदतोऽन्यथा ह्यासां मूत्रनावी व्रणो भवेत् ॥ ” इति । ५ वाशब्दश्चार्थे । तेन स्त्रियाः पुरुषस्य चेत्यर्थः । मूत्रप्रसेकः, मूत्रमार्गमूलसंसक्तं स्रोतःक्षणनं छेदनं तस्मात् । ६ एकधा न भवति = एकीभावं न गच्छति, न जीव-तीति तात्पर्यम् । ७ अश्मरीनिमित्ताघातेन पुनरेकषा भिन्न बस्तेजविते हेतुं निर्दिशति - अश्मरीति । ८ क्रियाणामुष्णोदकस्वेदक्षीरवृक्ष कषाययोजनादीनामभ्यासादित्यर्थः । ९ निस्यन्दो CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 737
पाठ पढ़ें पाठ छिपाएँ
अ ०७ ] Digitized by Fountain Chennai and eGangotri ५७ ९ परिवृद्धत्वाच्च शल्यस्येति । उद्धृतशल्यं तृष्णोदकद्रोण्यामा स्वेदयेत्, तथा हि वस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ॥ ३३ ॥
भवति चात्र ।
क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः ।
निर्हरेदश्रीं तूर्ण रक्तं बस्तिगतं च यत् ॥ ३४ ॥
मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत् । उद्धृत्य चैनां मधुघृताभ्यक्तत्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेदुभयकालं त्रिरात्रम् । त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोद-नमल्पं भोजयेदशरात्रं मूत्रसृग्विशुद्धयर्थं व्रणक्लेदनार्थं च दशरा-त्रादूर्ध्वं फलाम्लैर्जाङ्गलर सैरुपाचरेत् । ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा, क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षा. लयेत् । रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्ब्रणं प्रतिग्राहयेत् । एते-वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति । मूत्रं तेन परिवृद्धं शल्यं तस्मादित्यर्थः । एतदुक्तं भवति येन निःस्यन्देन मूत्रेण वृद्धेन सता शल्यं परिवृद्धं तस्य शल्यापहरणेऽपि निःशेषापरिस्रुतत्वाद्भिन्नवस्तिजवतोति निबन्धसङ्ग्रहव्याख्य।कारः । सुश्रुतार्थसन्दीपने तु — निस्यन्दनं निःस्यन्दोऽत्र मूत्रसम्पृक्तो मल एव ' कृदभि • हितो भावो द्रव्यवत्प्रकाशते ' इति हि न्यायः । तथा च शल्यस्याश्मर्या बस्तेरुपादान-भूतं मांसशोणितमनधिष्ठाय मूत्रमलमात्रेण परिवृद्धत्वान्नास्त्यत्र बस्तेः शल्याभिनिर्वृत्तःः स्वरूपतो दोषलेशोऽपि तस्मान्निरङ्कुशमिदमुपदिश्यते जीवतिक्रियाऽभ्यासादित्ययम--भिसन्धिरिति । १ स्वेदनार्थमवतारयेदिति तात्पर्यम् । २ पुष्पनेत्रेण = विवक्षितेन उत्तरवस्तिनै--त्यर्थः । ३ गुडसौहित्यं = गुडवासितं भक्तम्, वितरेत् = दद्यात् । एनाम् = अश्मरीम्, ' उद्धृत्य चैनमिति उष्णोदकद्रोण्या इति शेषः ' इति ढल्द्दणः । ४ मूत्रविशोधनद्रव्यै.. स्तृणपञ्चमूलीगोक्षुरककूष्माण्डकपाषाणभेदप्रभृतिभिः सिद्धामित्यर्थः । ५ मूत्राग्वि शुद्धयर्थं == मूत्ररुधिरशुद्धये, व्रणक्लेदनार्थं, क्लेदो ह्यन्तर्गतं दोषमपाकृत्य व्रणं रोपण--मार्गमापादयति । ६ प्रतिग्राहयेत् = लेपयेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 738
पाठ पढ़ें पाठ छिपाएँ
gitized by Arya Samaj Found Gangotri [ अ ० ७ स्त्याने॑शोणितं चोत्तरबस्तिभिरुपाचरेत् । सप्तरात्राच्च स्वमार्गम-प्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना । स्वमार्ग-प्रतिपन्ने चोत्तरवस्त्यास्थापनानुवासनैरुपचरेन्मधुरकषायैरिति । यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपहरेत् । एवं चाशक्ये विदार्य वा नाडीं शस्त्रेण बडि-- शेनोद्धरेत् । रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान्नारोहेत वर्षे नाप्सु प्लवेत भुञ्जीत वा गुरु ॥ ३५ ॥
मूत्रैवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसे वनीयोनिगुदबस्तीन् परि • हरेत् । तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः शुक्रवहुच्छेदा-न्मरणं क्लैब्यं वा मुष्कस्रोत उपघाताद् ध्वजभङ्गः । मूत्रप्रसेकक्ष-रणनान्मूत्रप्रक्षरणम् । सेवनीयोनिच्छेदाद् रुजः प्रादुर्भावः । बस्ति-गुदविद्धलक्षणं प्रागुक्तमिति ॥ ३६ ॥
भवतश्चात्र ।
मर्माण्यष्टाव सम्बुध्य स्रोतोजानि शरीरिणाम् ।
व्यापादयेद्बहून् मर्त्यान् शस्त्रकर्मापटुर्भिषक् ॥ ३७ ॥
सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम् ।
मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ॥ ३८ ॥
इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ॥ ७ ॥
१ स्त्यानं बस्तौ संहतं शोणितमस्येति स्त्यानशोणितम् । २ मधुराणि सूत्रस्थाने द्विचत्वारिंशदध्यायोक्तानि काकोल्यादीनि कषायाणि क्षीरवृक्षादीनि तैः । मधुरवर्गाणां कषायो यत्र तैर्मधुरकषायैरुत्तरबस्त्यास्थापनानुवासनैरिति सम्बन्ध इति सुश्रुतार्थसन्दी-पनम् । ३ स्रोतसा = मूत्रमार्गेणेत्यर्थः । ४ नाडीं मेढ्रानुशायिनीम् । ५ शस्त्रक-मणि रक्षणीयान्यष्टौ मर्माणि निर्दिशति - मूत्रवहेति । ६ शस्त्रकर्मणि अपटुः श्रचतुर इत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां सप्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 739
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya Samaj Pour चिकित्सास्थानम् Chennai and eGangotri ५८१
अष्टमोऽध्यायः ।
अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
पञ्च॑ भगन्दरा व्याख्याताः, तेष्वसाध्यः शम्बूकावर्त्तः शल्य-निमित्तश्चेति । शेषाः कृच्छ्रसाध्याः ॥ ३ ॥
तत्रे, भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैका-दशविधेनोपक्रमेणोपक्रमेतापक्कपिडकम् । पक्केषु चोपस्निग्धमव-गाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पैराचीनमवाचीनं वा, बहिर्मुखमन्तर्मुखं वा । ततः प्रणि-धायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण । अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पात-येत् । आसाद्य वाऽग्निक्षारं चेत्येतत्सामान्यं सर्वेषु ॥ ४ ॥
विशेषतस्तु -नौड्यन्तरे णान् कुर्य्याद्भिषक् तु शतपोनके DOGE ।
ततस्ते पूर्व रूढेषु शेषा नाडीरुपाचरेत् ॥ ५ ॥
गंतयोऽन्योऽन्यसम्बद्धा बाह्याश्छेद्यास्त्वनेकधा । अष्टमोऽध्यायः । १ पश्ञ्च भगन्दरा व्याख्याता निदाने इति शेषः । “ भगं परिसमन्ताच्च गुदं वस्ति तथैव च । भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः " || भजन्त्यनेनेति भगो मेहनम्, भज-न्त्यस्मिन्निति भगं योनिः । श्रत्र भगशब्देन द्वयमपि कथ्यते । भगवत् = योनिवत्, इति तदर्थः । २ भगन्दरेषु शस्त्रचिकित्सायाः सामान्यविधिं दर्शयति - तत्रेति । अपतर्पणादि • विरेचनान्तेनैकादशविधेन द्विव्रणीयोक्तेनेत्यर्थः । ३ पराचीनं = पराङ्मुखम्, बहिर्मुख-मिति यावत्; अवाचीनम् = अन्तर्मुखम् । उन्नम्य शस्त्रमार्गनिरूपणार्थं प्रणिहितां ता-मेषणोमुन्नतां कृत्वा साशयं भगन्दराधिष्ठानभूततत्समीपवर्तिप्रदेशसहितम् उद्धरेच्छिन्द्या. दित्यर्थः। ४ सर्वेषु = भगन्दरेष्वित्यर्थः । ५ शतपोनकाख्ये भगन्दरे शस्त्रक्रियायां विशेषविधिमभिधत्ते - नाड्यन्तर इति । नाडीनां निकटस्थानामन्तरं मध्यं नाड्यन्तरं तस्मिन् । व्रणान् कुर्यात् छेदेनेत्यर्थः । ६ उपरूढेषु = सम्यग्रूढ लिङ्गेनोपलक्षितेषु व्रणेष्वित्यर्थ: । ७ अनिश्चिवनिकटासु नाडी. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 740
पाठ पढ़ें पाठ छिपाएँ
५८२ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ८ नाडीरनभिसम्बद्धा यश्छिनत्त्येकधा भिषक् ॥ ६ ॥
स कुर्य्याद्विवृतं जन्तोर्व्रणं गुदविदारणम् ।
तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ॥ ७ ॥
आटोपगुदशूलं च करोति पवनो भृशम् ।
तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ॥ ८ ॥
तस्मान्न विवृतः कार्यो णस्तु शतपोनके ।
व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ॥ ९ ॥
अर्द्धलाङ्गलकश्छेदः कार्यों लाङ्गलकोऽपि वा ।
सर्वतोभद्रको वाऽपि कार्यों गोतीर्थकोऽपि वा ॥ १० ॥
सर्वतः स्रावमार्गांस्तु दहेद्वै द्यस्तथाऽग्निना ।
सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ॥ ११ ॥
रुजास्रावापहं तत्र स्वेद माशु प्रयोजयेत् ।
स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः ॥ १२ ॥
ग्राम्यानूपौदकैर्मासैर्लावाद्यैर्वाऽपि विष्किरैः । छेदकरणे दोषं दर्शयति - गतय इति । गतयः = नाढ्थः । १ अनभिसम्बद्धा: = पर • स्परममिलिताः । २ विवृतं = व्यात्तमुखं व्रणमित्यर्थः । ३ व्याप्तमुखत्रणेन मलमूत्रं निस्सरतीत्यर्थः । ४ लाङ्गलं इलम्, अर्धलाङ्गल इव अर्धलाङ्गलकः । ५ सर्वतोभद्रस्त्वासनविशेषः पर्यङ्ककाकारो मण्डलाकारसदृशो वा । -गोतीर्थकस्य कियन्तोऽर्था ढल्हणेन कृताः । तद्यथा - गच्छतो गो: मूत्र गतिसदृशः, अथवा गोतीर्थं गोयोनिः, तदाकारो गोतीर्थंकः, अथवा गोतीर्थं निपानं ( प्याऊ ) येन गावः पिबन्ति, तरखुराङ्कित वच्छेदविशेषः । तथा च तन्त्रान्तरम् - " द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः । ह्रस्वमेकतरं यच्च सोऽर्द्धलाङ्गलकः स्मृतः ॥ सेवन वर्जयित्वा • च चतुर्द्धा दारिते गुदे । सर्वतोभद्रकं छेदमाहुरछेदविदो जनाः ॥ पार्श्वगतेन शस्त्रेण छेदो गोतीर्थको भवेत् । " इति । ६ श्रग्निनेति प्राधान्येनोपदिश्यते, तेन क्षारेणा • पि दाहो बोध्यः । ७ शतपोनके शस्त्रकर्मणः पश्चात्कर्म निर्दिशति -- रुजास्रावेति । तत्र - शतपो नके । ८ द्वात्रिंशत्तमस्वेदावचारणीयाध्यायोक्तैः स्वेदद्रव्यैरित्यर्थः । ९ " वर्तकाला · वविकिरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः । विकीर्य -भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः || " इति । विष्किरैरिति सिद्धे लावाद्यैरिति विशे-CC - 0. Gurukul Kangri Collection, Haridwar