सुश्रुत संहिता चौखम्बा — पृष्ठ 731–740

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 731–740

पृष्ठ 731

सुश्रुत संहिता चौखम्बा, पृष्ठ 731 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Arya चिकित्सास्थानम् endnai and eGangotri ५७३ तथैवार्शांसि सर्वाणि वृक्षकौरुष्करौ हतः ॥ १ ९ ॥

साध्या नाप्यतिवर्त्तन्ते प्रमेहा रजनीं यथा ।

क्षाराग्निं नातिवर्त्तन्ते तथा दृश्या गुदोद्भवाः ॥ २० ॥

घृतानि दीपनीयानि लेहायस्कृतयः सुराः ।

आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितिम् ॥ २१ ॥

वेगावरोधस्त्री पृष्ठयानान्युत्कटुकासनम् ।

यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत् ॥ २२ ॥

इति सुश्रुतसंहितायां चिकित्सास्थानेऽर्शचिकित्सितं नाम षष्ठोऽध्यायः ॥ ६ ॥

सप्तमोऽध्यायः ।

अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः ।

औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ॥ ३ ॥

तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ।

तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ॥ ५ ॥

-सार ' इति ख्यातः । १ वृक्षकारुष्करौ = कुटजभल्लातकौ । २ रजनीं = हरिद्राम् । ३ अर्शस्सु वर्जितकर्माणि निर्दिशति – वेगेति । वेगावरोधः = मलमूत्रावरोधः । ४ उत्कटुकासनं = विषमासनस्थितिरित्यर्थः । ' गुदपाणी समायोगः प्राहुरुत्कटुकास--नम् " इति बोध्यम् । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां षष्टोऽध्यायः । सप्तमोऽध्यायः । ५ अन्तकप्रतिमः = यमोपम इत्यर्थः । ६ तरुण: = सद्यस्कः । ७ अस्याः पूर्व-रूपम्– “ बस्त्याध्मानं तदासन्नदेशेषु परितोऽनिरुक् । मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ॥ ' ' इति 1 । ८ मूलानि = श्रारम्भकदोषाः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 732

सुश्रुत संहिता चौखम्बा, पृष्ठ 732 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५७४.Digitized by Arya Samaj F सुश्रुतसहिताया nde Gangotri [ अ ० ७

' पाषाणभेदो वसुको वशिराश्मन्तकौ तथा ।

शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥ ५ ॥

कपोतवङ्काऽऽर्तगलः कच्चकोशी र कुब्जकाः ।

वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ॥ ६ ॥

यवाः कुलत्थाः कोलानि कतकस्य फलानि च ।

ऊषैकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ॥ ७ ॥

भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु ।

क्षारान यवागूर्यूषांश्च कषायाणि पयांसि च ॥ ८ ॥

भोजनानि चं कुर्वीत वर्गेऽस्मिन् वातनाशने ।

कुशः काशः सरो गुन्द्रा उत्कटो मोरटोऽश्मभित् ॥ ९ ॥

वँरी विदारी वाराही शालिमूलत्रिकण्टकम् ।

भल्लूकः पार्टला पाठा पत्तूरोऽथ कुरुण्टिका ॥ १० ॥

पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् ।

घृत शिलाजमधुकबीजैरिन्दीवरस्य च ॥ ११ ॥

पुर्वारुकादीनां बीजैचावापितं शुभम् ।

भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ॥ १२ ॥

क्षारान् यवागूर्यूषांश्च कषायाणि पर्यासि च । १ वातजन्याश्मरीचिकित्सामभिधत्ते - पाषाणेति । पाषाणभेदः = ' पखानभेद '. ‘ पत्थरचूर ' इति भाषा । वसुकः = बकपुष्पम्, अश्मन्तकः = कोविदारसदृशदलः । २ कपोतवङ्का = ब्राह्मी, कच्चकः = मध्य लेखानिचितः ऋजुकपत्र ईषद्रक्तमूल: ' कवहक ' ' इति मालव के प्रसिद्ध इति ढल्द्दणः । ' कच्चक ' इत्यत्र ' ककुभ ' इति श्रीहाराय चन्द्रसम्म -तपाठः । उशीरः = ‘ खस ' कुब्जकः = ' चिरमिटी ' वृक्षादनी = वन्दा, भल्लुकः = इयो. नाकः, वरुणः प्रसिद्धः । ३ ऊषकादीनां द्रव्यसङ्ग्रहणीयाध्यायोक्तानां द्रव्याणां प्रती--वापः प्रक्षेपः । ४ चकाराच्चूर्णादीनां समुच्चयः । ५ पित्तजन्याश्मरीचिकित्सां निर्दिशति - कुश इति । = ' दालचीनी ' उत्कटः उद्गतः कट आवरणमावरको वाऽस्येति विग्रहः । उत्कटो महती खगालीति डल्हणः । मोरटः = इक्षुमूलम् । ६ वरी = शतावरी, ७ पाटला ' पाढर ' इति भाषा, ' पाठा = ' पाढ ' इति भाषा, पत्तूरः = ' सिरवालिका ' इति ख्यातः । कुरुण्टिका = सिरवालिकाभेदः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 733

सुश्रुत संहिता चौखम्बा, पृष्ठ 733 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Ary तस्तान hennai and eGangotri ५७५ भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने । १३ ॥

गंणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः ।

कुष्ठभद्रौदिमरिचचित्रकैः ससुराह्वयैः ॥ १४ ॥

एतैः सिद्धमजासर्पिरूषकादिगणेन च ।

भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ॥ १५ ॥

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ।

भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने । १६ ॥

पिचुका कोलकतकश । केन्दीवरजैः फलैः ।

चूर्णितैः सँगुडं तोयं शकॅर शमनं पिवेत् ॥ १७ ॥

क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका ।

अजमोदा कदम्बस्य मूलं नागरमेव च ॥ १८ ॥

पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ।

त्रिर्कण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ॥ १ ९ ॥

अविक्षीरेण सप्ताहमश्मरीभेदनं पिवेत् ।

द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः ॥ २० ॥

ग्राम्यंसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः । १ कफाश्मरीचिकित्सामाचष्टे - गण इति । २ हरेणु: रेणुका ' इति ख्यातः । ३ भद्रादिगण हत्यर्थः । ससुराह्वयैः = देवदारुसहितैरित्यर्थः । शुकाश्मरीचिकित्सा तु कफाइमरीचिकित्साऽनुसारेणैव कार्या, कफशुक्रयोस्तुल्यगुणत्वात् । ४ शर्कराचिकित्सामभिधत्ते - पिचुकेति । पिचुकः = कार्पासफलम् अङ्कोलः =. ङ्कोटः । अवस्थाभेदादश्मरी शर्करा सिकता भवति । तदुक्तम्- " पीडिते खवकाशेऽस्मिन्न · श्मर्येव च शर्करा । स भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते ॥ ” इति । शर्करासिकतयोश्च भेदो महत्त्वात्पस्वाभ्यां बोद्धयः । शुकाश्मरी वालानां न भवति । तदुक्तम्- ' शुक्राश्मरी तु महतां जायते शुक्रधारणात् । स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः । शोषय-त्युपसंगृह्य शुक्रं तच्छुष्कमश्मरी ॥ ” इति ५ “ चूर्णे चूर्णसमो देयो मोदके द्विगुणेो गुरुः " इति तन्त्रान्तरीयाच्चूर्णसमगुडस-हितमित्यर्थः । तोयं = जलं, तच्चोष्णं ग्राह्यम् । ६ त्रिकण्टकस्य गोक्षुरकस्य । ` ७ ग्राम्यसत्त्वानामश्वादीनां पुरीषक्षारैः संयुक्तः षड्गुणाविमूत्रगालितः । तस्य क्षारोद -कस्य पाकसिद्धिसमये चतुर्थीशेन ऊषकादित्रिकटुकयोः समभागेन मिश्रितयोः प्रक्षेपः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 734

सुश्रुत संहिता चौखम्बा, पृष्ठ 734 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५७६ सहिताया Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०७ तत्रोपकादिरावापः कार्यस्त्रिकटुकान्वितः ॥ २१ ॥

एष चारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि ।

तिलोपामार्गकदलीपलाशय वकल्कजः ॥ २२ ॥

क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः ।

पाटलाकरवीराणां क्षारमेवं समाचरेत् ॥ २३ ॥

श्वदंद्रायष्टिकाब्राह्मोकल्कं वाऽक्षसमं पिबेत् ।

सहैडकाख्यौ पेयौ वा शोभाञ्जनक मौकवौ ॥ २४ ॥

कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः ।

तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः ॥ २५ ॥

हरीतक्यादिसिद्धं वा वर्षाभू सिद्धमेव वा ।

सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः ॥ २६ ॥

घृतैः चारैः कषायैश्च क्षीरैः सत्तरवस्तिभिः ।

यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः ॥ २७ ॥

कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाभ्रुवा ।

उपक्रमो जघन्योऽयमतः स परिकीर्तितः ॥ २८ ॥

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।

तस्मादापृच्छ्य कर्त्तव्यमीश्वरं साधुकारिणा ॥ २ ९ ॥

अथ 40 रोगान्वितमुपस्निग्धमपकृष्टदोषमी पत्कर्षितमभ्यक्तस्विन्न १ तिलापामार्गकदलीपलाशयवकल्कजक्षारस्य कर्षद्वयं कर्षत्रयं वा षड्गुणेन श्रविमूत्रेण बहुशः स्रावितं पूतं पेयमिति तात्पर्यम् । २ योगोऽयं वातश्लेष्मसम्भूता. श्र्या बोद्धव्यः । ३ अविमूत्रेण पिबेदित्यर्थः । ४ एडकाख्या मेषी तस्या इदं मूत्रमैढकाख्यम्, तेन सह वर्तमानौ सहैडकाख्यौ । ५ मार्कत्रः = ' भाङ्गरा’इति ख्यातः । ६ हरीतक्यादिसिद्धं = त्रिफलादिसिद्धम् । वर्षाभूः = पुनर्नवा । ७ वीर-तरादिकः = द्रव्यसङग्रहणीयो वीरतर्वादिगण इत्यर्थः । अश्मरीहरद्रव्यसिद्धै नैं रू-हिकैः स्नैहिकैश्चोत्तरवस्तिभिरित्यर्थः । ९ ईश्वरं = स्वामिनम्, राजानमिति यावत् । ' ईभ्य श्राढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ' इत्यमरः । १० “ प्रवृद्धश्छेद मर्हति ' इति प्रागुक्तस्मरणाद् शस्त्रेणाश्मर्याहरणविधिं दर्शयति-अथेति । अपकृष्टदोषं = पूर्वेद्युर्वमनविरेचनादिना निर्हृतदोषमित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 735

सुश्रुत संहिता चौखम्बा, पृष्ठ 735 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ७ ] Digitized by Ary ञ्चिदचिनसारथ hennai and eGangotri ५७७ शरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रो पहरणीयोक्तेन वि-धानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नत-कटीकं वस्त्रधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्ध सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्व विमृद्य मुष्टिनाऽवपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति । ततः स्नेहाभ्यक्ते क्लृप्तनखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकंमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ॥ ३० ॥

र्सं चेद् गृहोतशल्ये तु विवृताक्षो विचेतनः ।

तल्लम्बशीर्षश्च निर्विकारो मृतोपमः ॥ ३१ ॥

न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः ।

विना त्वेतेषु रूपेषु निर्हर्त्तं " प्रयतेत वै ॥ ३२ ॥।

सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरी-प्रमाणं, दक्षिणतो वा क्रियासौकर्यहेतोरित्येके । यथा च न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धि-१ अग्रोपइरणोयोक्तेन विधानेन: | = यन्त्रशस्त्रक्षारशलाका दिविधिना । २ बलव-न्तम् = आतुरापेक्षया बलीयांसमित्यर्थः । श्रपकृष्टदोषं विशुद्धमन्नसंसर्जनेन सञ्जनितब लमिति ढल्द्दणः । ३ तस्योत्सङ्गे = उपवेशित पुरुषक्रोडे । ४ इतरेण प्रागुपवेशितपुरुषेण सहेत्यर्थः । ५ श्रधः प्रपन्ना = अधोगता । ६ सेवनीमनु लक्ष्यीकृत्य, प्रणिधाय प्रवे-श्येत्यर्थः । श्रसाद्य = श्रश्मरीं प्राप्य । ७ निर्व्यलीकं = त्वक्सङ्कोचरहितम्, अनाय तम् = आकर्षणेनादीर्घीभूतम् श्रविषमं निम्नोन्नतरवरहितं यथा स्यात्तथा बस्ति सन्निवेश्य, उत्पीडयेत् = बहिर्मुखं प्रपीडयेदित्यर्थः । अश्मरीशल्ये गृहीते यादृशस्य पुरुषस्य मरणभयादनादरणीयाश्मरी तादृशं पुरुषं निर्दिशति - स चेदिति । विवृताक्षः, विवृते स्तब्धेऽक्षिणो यस्य सः । ९ वि. कारेभ्यो व्यापारेभ्यो निष्क्रान्त इति निर्व्यापारः । १० प्रयतेत = प्रयत्नं कुर्यादित्यर्थः । ३७ पान - पुस्तक विभाग CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 736

सुश्रुत संहिता चौखम्बा, पृष्ठ 736 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( Upigitized by Arya Samaj Fou तुश्रुतसहिताया reGangotri [ अ ० ७ मेति, तस्मात् समस्तामग्रर्वक्त्रेणाददीत 1 । स्त्रीणां तु बस्तिपार्श्वगतो गभाशयः सन्निकृष्टः, तस्मान्नासामुत्सङ्गवच्छस्त्रं पातयेत्; अतो-ऽन्यंथा खल्वासां मूत्रस्रावी व्रणो भवेत् । पुरुषस्य वौ मूत्रप्रसेकक्ष-णनान्मूत्रक्षरणम् । अश्मरीत्रणादृतं भिन्नो बस्तिरेकधा न भवति, द्विधा भिन्नवस्तिराश्मरिको न सिध्यति, अश्मरीत्रणनिमित्तमे-कधाभिन्नवस्तिर्जीवति क्रियाऽभ्यासाच्छास्त्रविहितच्छेदान्निस्यन्द-श्रत्र ' समुपाचरेत् ' इति पाठान्तरम् । १ अग्रभागे सर्पफणाकारं वक्त्रं मुखमस्येति तेन अग्रवक्त्रेण यन्त्रविध्यध्यायोक्तेन सर्पफणामुखेन शलाकायन्त्रेणेत्यर्थः । २ स्त्रीणां पुंवच्छस्त्रनिपातने वस्तिनिकटस्थगर्भाशयस्य छेदभयाच्छेदविशेषमुपदि. शति — स्त्रीणामिति । ३ उद् ऊर्ध्वं सङ्ग उत्सङ्गः सोऽस्यास्तीति तदुत्सङ्गवद् उत्तानमित्यर्थः । हाराणचन्द्रस्तु - उत्सङ्गः क्रोडो गर्भाशय संसङ्गार्हो भाग इति यावत्, तमईतीत्युत्सङ्गवत्, ' वदर्हम् ' इति वतिः तादृशं शस्त्रं न पातयेत्; गर्भाशयस्य तद्द्द्वारस्य च च्छेदभयादित्याकृतम् । एतदेव भङ्गीविशेषेणावगमयति- श्रत इत्यादि • नेति । ४ यदाऽवगाढः शस्त्रपातः स्यात्तदा बहिर्गतं त्वङ्मांसं भित्त्वा बस्तित्वचा सह भगवस्तुवस्तिपार्श्वाश्रयस्य गर्भाश्रयस्यापि त्वचो भेदः स्यात् । ततस्तासां भगा-न्तर्गतो मूत्रस्रावी व्रणः स्यादित्यर्थः । तथा च वैतरणः - " भगस्याधः स्त्रिया वस्तिरूर्ध्व गर्भाशयः स्थितः । गर्भाशयश्च बस्तिश्च महास्रोतः समाश्रितौ ॥ वस्तिभागं समुन्नम्य अवनम्याश्मरीं वुधः । स्फिगये भेदनं तासां हितमन्यत्र दोषकृत् ॥ ' ' इति । श्रीहाराणचन्द्रस्तु खल्विति हेतौ ' खलु हेतौ निषेधे च ' इति कोशान्तरच । तदयमर्थः-यस्मादत उत्सङ्गवच्छ्त्रपातनान्मूत्रस्रावी व्रणोऽन्यथाप्रकारो भवेत्, योनित्रणोभयमुख प्रस्रावित्वादिति हृदयम् । एतावता वस्तेदक्षिणे पाइ तिर्यक्छेदस्य नितरामात्ययिक-त्वात् प्रागुक्तमेक इत्यस्यास्वारसिकं समन्वितं भवति । इति । वाग्भटस्तु स्त्रीणामुत्स-ङ्गवच्छस्त्रं पातयेदित्याद्द । तथा हि- " स्त्रीणां बस्तिस्तु पार्श्वगः । गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः । न्यसेदतोऽन्यथा ह्यासां मूत्रनावी व्रणो भवेत् ॥ ” इति । ५ वाशब्दश्चार्थे । तेन स्त्रियाः पुरुषस्य चेत्यर्थः । मूत्रप्रसेकः, मूत्रमार्गमूलसंसक्तं स्रोतःक्षणनं छेदनं तस्मात् । ६ एकधा न भवति = एकीभावं न गच्छति, न जीव-तीति तात्पर्यम् । ७ अश्मरीनिमित्ताघातेन पुनरेकषा भिन्न बस्तेजविते हेतुं निर्दिशति - अश्मरीति । ८ क्रियाणामुष्णोदकस्वेदक्षीरवृक्ष कषाययोजनादीनामभ्यासादित्यर्थः । ९ निस्यन्दो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 737

सुश्रुत संहिता चौखम्बा, पृष्ठ 737 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०७ ] Digitized by Fountain Chennai and eGangotri ५७ ९ परिवृद्धत्वाच्च शल्यस्येति । उद्धृतशल्यं तृष्णोदकद्रोण्यामा स्वेदयेत्, तथा हि वस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ॥ ३३ ॥

भवति चात्र ।

क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः ।

निर्हरेदश्रीं तूर्ण रक्तं बस्तिगतं च यत् ॥ ३४ ॥

मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत् । उद्धृत्य चैनां मधुघृताभ्यक्तत्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेदुभयकालं त्रिरात्रम् । त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोद-नमल्पं भोजयेदशरात्रं मूत्रसृग्विशुद्धयर्थं व्रणक्लेदनार्थं च दशरा-त्रादूर्ध्वं फलाम्लैर्जाङ्गलर सैरुपाचरेत् । ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा, क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षा. लयेत् । रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्ब्रणं प्रतिग्राहयेत् । एते-वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति । मूत्रं तेन परिवृद्धं शल्यं तस्मादित्यर्थः । एतदुक्तं भवति येन निःस्यन्देन मूत्रेण वृद्धेन सता शल्यं परिवृद्धं तस्य शल्यापहरणेऽपि निःशेषापरिस्रुतत्वाद्भिन्नवस्तिजवतोति निबन्धसङ्ग्रहव्याख्य।कारः । सुश्रुतार्थसन्दीपने तु — निस्यन्दनं निःस्यन्दोऽत्र मूत्रसम्पृक्तो मल एव ' कृदभि • हितो भावो द्रव्यवत्प्रकाशते ' इति हि न्यायः । तथा च शल्यस्याश्मर्या बस्तेरुपादान-भूतं मांसशोणितमनधिष्ठाय मूत्रमलमात्रेण परिवृद्धत्वान्नास्त्यत्र बस्तेः शल्याभिनिर्वृत्तःः स्वरूपतो दोषलेशोऽपि तस्मान्निरङ्कुशमिदमुपदिश्यते जीवतिक्रियाऽभ्यासादित्ययम--भिसन्धिरिति । १ स्वेदनार्थमवतारयेदिति तात्पर्यम् । २ पुष्पनेत्रेण = विवक्षितेन उत्तरवस्तिनै--त्यर्थः । ३ गुडसौहित्यं = गुडवासितं भक्तम्, वितरेत् = दद्यात् । एनाम् = अश्मरीम्, ' उद्धृत्य चैनमिति उष्णोदकद्रोण्या इति शेषः ' इति ढल्द्दणः । ४ मूत्रविशोधनद्रव्यै.. स्तृणपञ्चमूलीगोक्षुरककूष्माण्डकपाषाणभेदप्रभृतिभिः सिद्धामित्यर्थः । ५ मूत्राग्वि शुद्धयर्थं == मूत्ररुधिरशुद्धये, व्रणक्लेदनार्थं, क्लेदो ह्यन्तर्गतं दोषमपाकृत्य व्रणं रोपण--मार्गमापादयति । ६ प्रतिग्राहयेत् = लेपयेदित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 738

सुश्रुत संहिता चौखम्बा, पृष्ठ 738 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

gitized by Arya Samaj Found Gangotri [ अ ० ७ स्त्याने॑शोणितं चोत्तरबस्तिभिरुपाचरेत् । सप्तरात्राच्च स्वमार्गम-प्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना । स्वमार्ग-प्रतिपन्ने चोत्तरवस्त्यास्थापनानुवासनैरुपचरेन्मधुरकषायैरिति । यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपहरेत् । एवं चाशक्ये विदार्य वा नाडीं शस्त्रेण बडि-- शेनोद्धरेत् । रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान्नारोहेत वर्षे नाप्सु प्लवेत भुञ्जीत वा गुरु ॥ ३५ ॥

मूत्रैवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसे वनीयोनिगुदबस्तीन् परि • हरेत् । तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः शुक्रवहुच्छेदा-न्मरणं क्लैब्यं वा मुष्कस्रोत उपघाताद् ध्वजभङ्गः । मूत्रप्रसेकक्ष-रणनान्मूत्रप्रक्षरणम् । सेवनीयोनिच्छेदाद् रुजः प्रादुर्भावः । बस्ति-गुदविद्धलक्षणं प्रागुक्तमिति ॥ ३६ ॥

भवतश्चात्र ।

मर्माण्यष्टाव सम्बुध्य स्रोतोजानि शरीरिणाम् ।

व्यापादयेद्बहून् मर्त्यान् शस्त्रकर्मापटुर्भिषक् ॥ ३७ ॥

सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम् ।

मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ॥ ३८ ॥

इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ॥ ७ ॥

१ स्त्यानं बस्तौ संहतं शोणितमस्येति स्त्यानशोणितम् । २ मधुराणि सूत्रस्थाने द्विचत्वारिंशदध्यायोक्तानि काकोल्यादीनि कषायाणि क्षीरवृक्षादीनि तैः । मधुरवर्गाणां कषायो यत्र तैर्मधुरकषायैरुत्तरबस्त्यास्थापनानुवासनैरिति सम्बन्ध इति सुश्रुतार्थसन्दी-पनम् । ३ स्रोतसा = मूत्रमार्गेणेत्यर्थः । ४ नाडीं मेढ्रानुशायिनीम् । ५ शस्त्रक-मणि रक्षणीयान्यष्टौ मर्माणि निर्दिशति - मूत्रवहेति । ६ शस्त्रकर्मणि अपटुः श्रचतुर इत्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां सप्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 739

सुश्रुत संहिता चौखम्बा, पृष्ठ 739 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ८ ] Digitized by Arya Samaj Pour चिकित्सास्थानम् Chennai and eGangotri ५८१

अष्टमोऽध्यायः ।

अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

पञ्च॑ भगन्दरा व्याख्याताः, तेष्वसाध्यः शम्बूकावर्त्तः शल्य-निमित्तश्चेति । शेषाः कृच्छ्रसाध्याः ॥ ३ ॥

तत्रे, भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैका-दशविधेनोपक्रमेणोपक्रमेतापक्कपिडकम् । पक्केषु चोपस्निग्धमव-गाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पैराचीनमवाचीनं वा, बहिर्मुखमन्तर्मुखं वा । ततः प्रणि-धायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण । अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पात-येत् । आसाद्य वाऽग्निक्षारं चेत्येतत्सामान्यं सर्वेषु ॥ ४ ॥

विशेषतस्तु -नौड्यन्तरे णान् कुर्य्याद्भिषक् तु शतपोनके DOGE ।

ततस्ते पूर्व रूढेषु शेषा नाडीरुपाचरेत् ॥ ५ ॥

गंतयोऽन्योऽन्यसम्बद्धा बाह्याश्छेद्यास्त्वनेकधा । अष्टमोऽध्यायः । १ पश्ञ्च भगन्दरा व्याख्याता निदाने इति शेषः । “ भगं परिसमन्ताच्च गुदं वस्ति तथैव च । भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः " || भजन्त्यनेनेति भगो मेहनम्, भज-न्त्यस्मिन्निति भगं योनिः । श्रत्र भगशब्देन द्वयमपि कथ्यते । भगवत् = योनिवत्, इति तदर्थः । २ भगन्दरेषु शस्त्रचिकित्सायाः सामान्यविधिं दर्शयति - तत्रेति । अपतर्पणादि • विरेचनान्तेनैकादशविधेन द्विव्रणीयोक्तेनेत्यर्थः । ३ पराचीनं = पराङ्मुखम्, बहिर्मुख-मिति यावत्; अवाचीनम् = अन्तर्मुखम् । उन्नम्य शस्त्रमार्गनिरूपणार्थं प्रणिहितां ता-मेषणोमुन्नतां कृत्वा साशयं भगन्दराधिष्ठानभूततत्समीपवर्तिप्रदेशसहितम् उद्धरेच्छिन्द्या. दित्यर्थः। ४ सर्वेषु = भगन्दरेष्वित्यर्थः । ५ शतपोनकाख्ये भगन्दरे शस्त्रक्रियायां विशेषविधिमभिधत्ते - नाड्यन्तर इति । नाडीनां निकटस्थानामन्तरं मध्यं नाड्यन्तरं तस्मिन् । व्रणान् कुर्यात् छेदेनेत्यर्थः । ६ उपरूढेषु = सम्यग्रूढ लिङ्गेनोपलक्षितेषु व्रणेष्वित्यर्थ: । ७ अनिश्चिवनिकटासु नाडी. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 740

सुश्रुत संहिता चौखम्बा, पृष्ठ 740 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८२ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ८ नाडीरनभिसम्बद्धा यश्छिनत्त्येकधा भिषक् ॥ ६ ॥

स कुर्य्याद्विवृतं जन्तोर्व्रणं गुदविदारणम् ।

तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ॥ ७ ॥

आटोपगुदशूलं च करोति पवनो भृशम् ।

तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ॥ ८ ॥

तस्मान्न विवृतः कार्यो णस्तु शतपोनके ।

व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ॥ ९ ॥

अर्द्धलाङ्गलकश्छेदः कार्यों लाङ्गलकोऽपि वा ।

सर्वतोभद्रको वाऽपि कार्यों गोतीर्थकोऽपि वा ॥ १० ॥

सर्वतः स्रावमार्गांस्तु दहेद्वै द्यस्तथाऽग्निना ।

सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ॥ ११ ॥

रुजास्रावापहं तत्र स्वेद माशु प्रयोजयेत् ।

स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः ॥ १२ ॥

ग्राम्यानूपौदकैर्मासैर्लावाद्यैर्वाऽपि विष्किरैः । छेदकरणे दोषं दर्शयति - गतय इति । गतयः = नाढ्थः । १ अनभिसम्बद्धा: = पर • स्परममिलिताः । २ विवृतं = व्यात्तमुखं व्रणमित्यर्थः । ३ व्याप्तमुखत्रणेन मलमूत्रं निस्सरतीत्यर्थः । ४ लाङ्गलं इलम्, अर्धलाङ्गल इव अर्धलाङ्गलकः । ५ सर्वतोभद्रस्त्वासनविशेषः पर्यङ्ककाकारो मण्डलाकारसदृशो वा । -गोतीर्थकस्य कियन्तोऽर्था ढल्हणेन कृताः । तद्यथा - गच्छतो गो: मूत्र गतिसदृशः, अथवा गोतीर्थं गोयोनिः, तदाकारो गोतीर्थंकः, अथवा गोतीर्थं निपानं ( प्याऊ ) येन गावः पिबन्ति, तरखुराङ्कित वच्छेदविशेषः । तथा च तन्त्रान्तरम् - " द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः । ह्रस्वमेकतरं यच्च सोऽर्द्धलाङ्गलकः स्मृतः ॥ सेवन वर्जयित्वा • च चतुर्द्धा दारिते गुदे । सर्वतोभद्रकं छेदमाहुरछेदविदो जनाः ॥ पार्श्वगतेन शस्त्रेण छेदो गोतीर्थको भवेत् । " इति । ६ श्रग्निनेति प्राधान्येनोपदिश्यते, तेन क्षारेणा • पि दाहो बोध्यः । ७ शतपोनके शस्त्रकर्मणः पश्चात्कर्म निर्दिशति -- रुजास्रावेति । तत्र - शतपो नके । ८ द्वात्रिंशत्तमस्वेदावचारणीयाध्यायोक्तैः स्वेदद्रव्यैरित्यर्थः । ९ " वर्तकाला · वविकिरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः । विकीर्य -भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः || " इति । विष्किरैरिति सिद्धे लावाद्यैरिति विशे-CC - 0. Gurukul Kangri Collection, Haridwar