सुश्रुत संहिता चौखम्बा — पृष्ठ 791–800
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 791–800
पृष्ठ 791
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ] Digitized by Arya shmanai and eGangotri
पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः ।
तैलैर्भद्रादिमधुकसंयुक्तः प्रतिपूरयेत् ॥ ८ ॥
वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च ।
पृथक्पर्ण्यादिसिद्धेन त्रैघृतेन च रोपयेत् ॥ ९ ॥
पैत्तिक " शर्करालाजामधुकैः सारिवायुतैः ।
प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ॥ १० ॥
पाक्यैः शीतकपायैर्वा क्षीरैरिक्षुरसैस्तथा ।
जीवनीयं घृतैर्वाऽपि सेचयेच्छर्करायुतैः ॥ ११ ॥
त्रिवृर्द्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम् ।
र्जंलौकोभिर्हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् ॥ १२ ॥
क्षीरवृक्षकषायेण " प्रक्षाल्यौदकजेन वा ।
तिलैः सयष्टिमधुकैः सक्षौद्रैः सर्पिषा युतैः ॥ १३ ॥
उपदिह्म प्रतनुना वाससा वेष्टयेद् ब्ररणम् ।
प्रपौण्डरीकमञ्जिष्ठा मधुकोशीरपद्मकैः ॥ १४ ॥
सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् ।
क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः " ॥ १५ ॥
न्यग्रोधादिप्रवालेषु १२ तेषां त्वक्ष्वथवा कृतम् । ६३३ १ भद्रादिः = भद्रदार्वादिः । २ वैरेचनिकानि = त्रिवृनादीनि, चूर्णीकृतैस्तैर्युक्तेने -त्यर्थः । त्रैवृतेन, त्रिभिर्वृतवसामज्जभिर्वृतं व्याप्तं त्रैवृतं तेन । ३ पृथक्पर्ण्यादीनि मिश्रकाध्यायोक्तानि, तैः सिद्धेनेत्यर्थः । ४ पित्तविद्रधिचिकित्सां ब्रवीति -- पैत्तिकमिति । ५ पयस्या = क्षीरकाकोली । ६ पाक्यैः = सद्यःपाकेन निवृत्तैरित्यर्थः । ७ जीवनीयानि द्रव्यसङ्ग्रहणीयाध्यायो. क्तानि काकोल्यादीनि, तैः सिद्धानि गव्यादिघृतानि तैजीवनीयघृतैः । = दाहवेदनाशान्तये विरेचनं निर्दिशति - त्रिवृदिति । ९ पक्वे विद्रधौ चिकित्सामाद -- जलौकोभिरिति । १० क्षीरवृक्षाणां न्यग्रोधोदुम्बराश्वत्थप्लक्ष शिरी. षपादपानां कषायः क्षीरवृक्षकषायस्तेन, औदकजेन = कमल कुमुद कल्हा रजन्यक्काथेने... त्यर्थः । ११ समङ्गा = मञ्जिष्ठा । १२ प्रवालेषु = पल्लवेषु । कृतं = पाचितं,. घृतमिति शेषः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 792
पाठ पढ़ें पाठ छिपाएँ
६३४ सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १६ नक्तमालस्य पत्राणि तरुणानि फलानि च ॥ १६ ॥
सुमनौयाश्च पत्राणि पटोलारिष्टयोस्तथा ।
द्वे हरिद्रे मधुच्छिष्टं मधुकं तिक्तरोहिणी ॥ १७ ॥
प्रियङ्गुः कुशमूलं च निचुलैस्य त्वगेव च ।
मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवा त्रिवृत् ॥ १८ ॥
एतेषां कार्षिकैर्भागैर्धृतप्रस्थं विपाचयेत् ।
दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम् ॥ १ ९ ॥
सद्यश्छिन्नत्रणानां च करञ्जाद्यमिदं शुभम् ।
दुष्टव्रणाश्च ये केचिद् ये चोत्सृष्टक्रिया व्रणाः ॥ २० ॥
नाड्य गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च ।
अग्निक्षारकृताश्चैव ये व्रणा दौरुणा अपि ॥ २१ ॥
करञ्जाद्येन र्हविषा प्रशाम्यन्ति न संशयः ।
• इष्टकासिकतालोष्ठगोशकृत्तुषपांशुभिः ॥ २२ ॥
मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम् ।
कषायपानैर्वमनैरालेपैरुपनाहनैः ॥ २३ ॥
हरेंद् दोषानभीक्ष्णं चायलाब्वाऽसृक् तथैव च ।
औरग्वधकषायेण पक्कं चापाट्य धावयेत् ॥ २४ ॥
हरिद्रात्रिवृतासक्तुतिलैर्मधु समायुतैः ।
पूरयित्वा व्रणं सम्यग् बध्नीयात् कीर्त्तितं यथा ॥ २५ ॥
ततः कुलत्थिकादन्तीत्रिवृच्छ्यामाऽर्कतिल्वकैः ।
कुर्य्यात् ैलं सगोमूत्रं हितं तत्र ससैन्धवम् ॥ २६ ॥
पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः ।
विद्रध्योः कुशलः कुर्य्याद्रक्तागन्तुनिमित्तयोः ॥ २७ ॥
१ करन्जादिघृतं वर्णयति - नक्तमालस्येति । नक्तमाल: करन्जः । २ सु-मना = ' चमेली ' इति । ३ निचुलस्य - जलवेतसस्य । ४ अतिभयङ्करत्वेन उत्सृष्टा क्रिया चिकित्सा येषां ते उत्सृष्टक्रियाः । ५ दारुणाः = भयङ्कराः । ६ इविषा = घृतेन । ७ कफविद्रधिचिकित्सामभिधत्ते - इष्टकेति । “ सर्वाणि सर्वैर्वा " इति नलौ -' कावचारणीयाध्यायोक्तत्वाज्जलौको भी रुधिरमोक्षणं नानुपपन्नमित्युन्नेयम् । ९ पक्के CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 793
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ६३५ ] Digitized by Any चिकित्सास्थानम् hennai and eGangotri
रुणादिगणक्काथमपक्वेऽभ्यन्तरोत्थिते ।
ऊषेकादिप्रतीवापं पिबेत् सुखकरं नरः ॥ २८ ॥
अनयोर्वगयोः सिद्धं सर्पिर्वैरेचनेन च ।
अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम् ॥ २ ९ ॥
एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम् ।
कार्य्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ॥ ३० ॥
पानालेपनभोज्येषु मधुशिमोऽपि वा ।
दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम् ॥ ३१ ॥
तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः ।
यथादोषगणक्काथैः पिबेद्वाऽपि शिलाजतु ॥ ३२ ॥
प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च ।
स्नेहोपनाहौ कुर्य्याच्च सदा चाप्यनुलोमनम् ॥ ३३ ॥ ७
यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक् ।
रंक्तपित्तानिलोत्थेषु केचिद् बाहौ वदन्ति तु ॥ ३४ ॥
पक्कं वा बहिरुन्नद्धं भित्त्वा ब्रणवदाचरेत् ।
8" स्रुते पूर्ध्वमधो वाऽपि मैरेयाम्लसुरासवैः ॥ ३५ ॥
पेयो वरुणकादिस्तु मधुशिमुद्रुमोऽपि वा ।
शिग्रुमूलजले सिद्धं संसिद्धार्थकमोदनम् ॥ ३६ ॥
यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः । कफविद्रधौ क्रियां निर्दिशति - आरग्वधेति । १ बरुणादिर्द्रत्र्यसङ्ग्रहणीयाध्या-योक्तः। २ ऊषकादिरपि तत्रैव द्रष्टव्यः । ३ वैरेचनेन = संशोधन संशमनीयाध्यायो-क्तेन " त्रिवृताश्यामादन्तीद्रवन्ती सप्तलाशङ्खिनी " इत्यादिनोक्तेन विरेचनद्रव्येण कल्की-कृतेनेत्यर्थः । ४ यथादोषं गणोक्तवातादिहरद्रव्यक्काथै रित्यर्थः । ५ विद्रधौ सिराव्यधं प्रतिपादयति — यथोद्दिष्टामिति । कक्षास्तनयोरन्तरेऽन्तविंद्रधौ ” इति शारीरस्थानोक्तामित्यर्थः । फूर्परे । ७ स्वयमन्तभिन्नत्वेन स्रुतेष्वित्यर्थः । यथोद्दिष्टां = " वामपश् ६ बाहौ = बाहुमध्ये मैरेयलक्षणं यथा-" आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तद्विजानीयान्मैरेयमुभयान-यम् ॥ ” इति । ८ सिद्धार्थकः श्वेतसर्षपस्तेन सहितं ससिद्धार्थकम् श्रोदनम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 794
पाठ पढ़ें पाठ छिपाएँ
[ अ ० १७ ६३६ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri प्रातः प्रातश्च सेवेत मात्रया ' तैल्वकं घृतम् ॥ ३७ ॥
त्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये ।
नोपगच्छेद् यथापाकं प्रयतेत तथा भिषक् ॥ ३८ ॥
पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता ।
प्रत्याख्याय तु कुर्वीत मज्जजातं तु विद्रधिम् ॥ ३ ९ ॥
स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचनम् ।
विद्रव्यक्तां क्रियां कुर्य्यात पक्वे वाऽस्थि तु भेदयेत् ॥ ४० ॥
निःशल्यमथ विज्ञाय कत्तव्यं व्रणशोधनम् ।
धावेत् तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ॥ ४१ ॥
यदि मज्जपरिस्रावो न निवर्त्तेत देहिनः ।
कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ॥ ४२ ॥
प्रियङ्गुधातकीरोधकट्फलं तिनिसैन्धवम् ।
एतैस्तैलं विक्तव्यं विद्रधित्रणरोपणम् ॥ ४३ ॥
इतिसुश्रुतसंहितायां चिकित्सास्थाने विद्रधिचिकित्सितनाम षोडशोऽध्यायः ॥ १६ ॥
सप्तदशोऽध्यायः ।
अथातो विसर्पनाडीग्तन रोगचिकित्सितं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ । १ तैल्वक घृत = तिल्वकघृतम्, तच्च वातव्याधिचिकित्सिते द्रष्टव्यम् । २ अत्र सर्पिरित्यनुवर्तनायम् । ३ विद्रधिर्यथा पाकं न प्राप्नुयात्तथा यतितव्यमित्युपदिशति - नोपगच्छेदिति । ४ पर्यागते = परितः पाकं प्राप्ते इत्यर्थः । ५ मज्जजातविद्रधिचिकित्सां प्रतिपादयति-प्रत्याख्यायेति । प्रत्याख्यायः = असाध्योऽयं व्याधिरिति निराकृत्येत्यथः । ६ तिनि: = तिनिशः रतनाम्नाऽपि प्रसिद्धः । तिनिपदेन तिनिशस्य बोधः, ' नामैकदेशे नाममा • त्रः इणम् ' इत्युक्तेः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्य टिप्पन्यां षोडशोऽध्यायः । ७ क्रमागतत्वाद् विसर्पादीनां सप्तदशोऽध्यायः । चिकित्सामधिकरोति- - अथात इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 795
पाठ पढ़ें पाठ छिपाएँ
अ ० १७ ] Digitized by Any चिकित्सास्थान Hennai and eGangotri ६३७ साध्येषु तत्पथ्यगणैविदध्याद् घृतानि सेकांश्च तथोपदेहान् ॥ ३ ॥
मुम्तांशताहासुरदारुकुष्ठ वाराहि कुस्तुम्बुरुकृष्णगन्धाः ।
वातात्मके चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा शृतेषु ॥ ४ ॥
यत् पञ्चमूलं खलु कैण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च ।
तच्चोपयाज्यं भिषजा प्रदेहे सेके घृते चापि तथैव तैले ॥ ५ ॥
कंसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकदमाश्च ।
वस्त्रान्तराः पित्तकृते विसर्प लेपा विधेयाः सघृताः सुशीताः ॥ ६ ॥
ह्रीवेरलामैज्जकचन्दनानि स्रातोजमुक्तामणिगैरिकाश्च । II क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तर्नवः सुखाय ॥७ ॥
प्रपौण्डरीकं मधुकं " पयस्या मञ्जिष्ठिका पद्मकचन्दने च ।
सुरन्धिका " चेति सुखाय लेपाः पैत्ते विसर्पे भिषजा प्रयोज्याः ॥ ८ ॥
न्यग्रोधवगैः परिषेचनं च घृतं च कुर्य्यात् स्वरसेन तस्य ।
शोतैः पयाभिश्च " धूदकैश्च सशर्करैरिक्षु सैश्च सेकान् ॥ ९ ॥
१ तत्पथ्यगणैः = वातपित्तकफजन्येषु तत्तद्वातादिहरगणैरित्यर्थः । २ वातजन्य -विसर्पचिकित्सामभिदधाति - मुस्तेति । ३ कुस्तुम्बुरु = धान्याकम् ' धनिया ' इति लोके कथितम् । कृष्णगन्धा = शोभाञ्जनः । उष्णगणाः भद्रदार्वादयः पिप्पल्यादयश्च । ४ घृतेष्विति पाठान्तरम् । ५ कण्टकाख्यं = " करमर्दत्रिकण्टक सैरीयकशतावरी · -गृधनख्य " इति कण्टकसंज्ञकपञ्चमूलम्, अल्प = लघुपञ्चमूलम्, तच्च " त्रिकण्टक · हतीद्वयपृथक्पण्यों विदारिगन्धा च " इति । महत् = बृहत्पञ्चमूलम्, तच्च " बिल्वाग्नि--मन्थटिटुकपाटलाः काश्मर्थ्यश्च ' इति । वल्लिजं = " विदारीसारिवारजनीगुडूच्योऽजशृङ्गी च " इति वल्लीसंज्ञकमित्यर्थः । 8 पित्तजनितविसर्पचिकित्सित माचष्टे – कसेर्विति । गुन्द्रा = भद्रमुस्तकः, ' स्या-मुस्तको गुन्द्रा इत्यमरः । धन्वन्तरिणा गुन्द्राभद्र मुस्तकयोरभेद उक्त: - " मुस्त • मम्बुधरो मेघो घनो राजकशेरुकः । भद्रमुस्तो वराहोऽब्दो गाङ्गेयः कुरुबिन्दकः ॥ ’ इति । ७ वस्त्रान्तराः = वसनेनान्तरीकृताः । = लामज्जकः = उशीरम्, स्रोतोजं -सौवोरमञ्जनम् । ९ यतो घनलेपेन त्वग्गतस्योष्मणो रोधाद् ऊष्मा दाहश्च सञ्जायते । तदुक्तं वाग्भटे — लक्ष्णशुष्कवनो लेपश्चन्दनस्यापि दाहकृत् । त्वग्गतस्योष्मणो रोधा-च्छोतकृच्चान्यथा गुरोः ॥ ” इति । १० पयस्या = क्षीरविदारी । ११ सुगन्धिका = उशीरम् । १२ मधूदकैः = मधुमिश्रजले रित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 796
पाठ पढ़ें पाठ छिपाएँ
६३८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १७
घृतस्य गौरीमधुकारविन्दरोधाम्बुराजादनगैरिकेषु ।
तथर्षभे पद्मकसारिवासु काकोलि मेदाकुमुदोत्पलेषु ॥ १० ॥
सचन्दनायां मधुशर्करायां द्राक्षास्थि रोपृश्निशताह्वयासु ।
कल्कीकृतासुदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः ॥ ११ ॥
गरणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत् ।
प्रस्थं विपक्वं परिषेचनेन पैत्तीनिहन्यात्तु विसर्पनाडीः ॥ १२ ॥
विस्फोटदुष्टव्रणशीर्षेरोगान् पार्क तथाऽऽस्यस्य निहन्ति पानात् ।
ग्रहार्दिते शोषिण चापि बाले घृतं हि गौर्यादिकमेतदिष्टम् ॥१३ ॥
अंजाऽश्वगन्धा सरला सकाला सैकैषिका चाप्यथवाऽजशृङ्गी ।
गोमूत्रपिष्टो विहितः प्रदेहो हन्याद् विसर्प कफजं स शीघ्रम् ॥१४ ॥
कौलानुसार्या गुरुचोचगुञ्जारास्नावचाशीत शिवेन्द्रपर्ण्यः ।
पौलिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु ॥ १५ ॥
गँरणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन ।
संशोधनं शोणिर्तमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि ॥१६ ॥
१ पित्तविसर्पे गौर्यादिघृतमाचष्टे - घृतस्येति । गौरी = हरिद्रा । अम्बु = " वालकम्, राजादनं = प्रियालः, ऋषभः = ऋषभकनाम्ना प्रसिद्ध: । एतदलाभे वंश-लोचनप्रक्षेपः । २ स्थिरा = शालपर्णी, पृश्निः = पृथक्पर्णी, शताह्वया = शतावरी । अत्र गौर्यादीनां शताह्वयान्तां चतुर्णौ पलानां कल्कः, न्यग्रोधादीनां विदारिगन्धादीनां मद्दतोऽपि पञ्चमूलग्य मिलितानां त्रयाणां गणानां क्काथो घृतस्य चतुर्गुणः, गव्यं क्षीरमपि चतुर्गुणं घृतस्य प्रस्थमित्युन्नैयम् । १३ गौर्यादिघृतगुणं वक्ति— विस्फोटेति । ४. कफजनितपित्तविसर्पचिकित्सामाचष्टे - अजेति । अजा = अजगन्धा, लोके. ' बबई ' इति ख्याता सरला = कृष्णा त्रिवृत्, कालः = कासमर्दः, एकैषिका = शतावरी । ५ कालानुसार्या = तगरम्, चोच: - ' तज ' इति, शीतशिवं = शतपुष्पाभेदः, सैन्धव-मिति सुश्रुताथसन्दीपनम् । इन्द्रपर्णी = इन्द्रवारुणी । ६ पालिन्दिः = कालवल्ली,. मुञ्जातः = उत्तरापथजः स्वल्पकन्द इति डल्दणः । महीकदम्बः मुण्डी । ७ सर्वविसर्पेषु सामान्यचिकित्सितमभिधत्ते - गणस्त्विति । वरुणप्रदत्तः = वरु--णादिः । ८ शोणितमोक्षणं जलौकोभिरेव सर्वेषां रक्तपित्तप्रधानखात् । अस्य रक्त पित्तप्राधान्यमाह — वाग्भट: -- " विसर्पो न ह्यसंसृष्टः सोऽस्रपित्तेन जायते । रक्तमेवा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 797
पाठ पढ़ें पाठ छिपाएँ
' अ ० १७ ] Digitized by Ary: युक्तियाज hennai and eGangotri ६३ ९
सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तंम् ।
नौडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः प्रतियत्नसाध्याः ॥ १७ ॥
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य ।
तिलैरपामार्गफलैश्च पिष्ट्रा ससैन्धवैर्बन्धनमत्र कुर्यात् ॥ १८ ॥
प्रक्षालने चापि सदा व्रणस्य योज्यं महद् यत् खलु पञ्चमूलम् ।
हिंस्रां ' हरिद्रां कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम् ॥१ ९ ॥
संहृत्य तैलं विपचेद् ब्रणस्य संशोधनं पूरणरोपणं च ।
पापा धीमानुत्कारिकाभिः सपयोघृताभिः ॥२० ॥
निपात्य शस्त्रं तिलनागर्दन्तो यष्ट्याहकल्कैः परिपूरयेत्ताम् ।
प्रक्षालने चापि ससोर्मनिम्बा निशा प्रयोज्या कुशलेन नित्यम् ॥ २१ ॥
श्यामात्रिभण्डीत्रिफलासु 10 सिद्धं हरिद्रयो रोधकवृक्षयोश्च ।
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् ॥ २२ ॥
" नाडीं कफोत्थामुपनाह्य सम्यक् " कुलत्थसिद्धार्थ कसक्तुकिण्वैः । श्रयश्चास्य बहुशोऽस्रं हरेत्ततः ॥ इति । १ यथोक्तं = द्विव्रणीयोक्तमित्यर्थः । अथ नाडीचिकित्सा । २ वातजनित नाडी चिकित्सितमभिदधाति - नाडीति । त्रिभिर्दोषैः ३ पृथक् शल्यनिमित्ततश्चैवं चतस्र इत्यर्थः । ४ उपनाच = तैस्तैर्वातहर द्रव्यैः प्रदियेत्यर्थः । ५ व्रणालेपनबन्धविध्युक्तरीत्या बन्धनं कुर्यादित्यर्थः । ६ हिंस्रा = ‘ बालछड़ ’ .. इति ख्याता । अत्र द्रव्यकल्कः स्नेहचतुर्थांशः, द्रवः स्नेहचतुर्गुणः । " अनु के द्रव कार्ये तु सर्वत्र सलिलं स्मृतम् ” इति वचनादत्र द्रवो जलम् । ७ पित्तजन्यनाडीचिकित्सितं ब्रवीति -- पित्तात्मिकामिति । ८ नागदन्ती -इन्द्रवारुणी । ९ ' सोमं काञ्जिकम् ' इति कोशान्तरम् । व्यवहारस्तु धान्याम्लस्यैवेति हाराणचन्द्रः । निशा = हरिद्रा । १० पित्तजन्यनाढ्यां श्यामादिघृतमभिधत्ते— श्यामेति । श्यामा = श्याममूला त्रिवृत्, त्रिभण्डी = रक्तमूला त्रिवृत् । अत्र श्या-मादिघृते श्यामादीनां कल्कः, चतुर्गुणं दुग्धं, जलं च चतुर्गुणम् । तदुक्तम् -- " क्षीर.. मस्त्वारणालाद्यैः पाको यत्रेरितः क्वचित् । जलं चतुर्गुणं तत्र वीर्याधानार्थमावपेत् ॥ ' ” > इति । वृक्षः = वृक्षकः, कुटज इत्यर्थः । ११ कफजन्यनाडीचिकित्सितं ब्रवीति - नाडीमिति । १२ सिद्धार्थकः श्वेत-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 798
पाठ पढ़ें पाठ छिपाएँ
६४० Digitized by Arya Samaj सुश्रुतसहिताया and eGangotri [ अ ० १७ मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी ॥ २३ ॥
दद्याद् व्रणे निम्बतिलान् सुपिष्टान् सुराष्ट्रजा सैन्धवसम्प्रयुक्तान् ।
प्रक्षालने चापि करञ्जनिम्बजात्य क्षेपीलुस्वरसाः प्रयोज्याः ॥ २४ ॥
सुवर्चिका सैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु ।
फलेष्वपामार्गेभवेषु चैव कुर्य्यात सँमूत्रेषु हिताय तैलम् ॥ २५ ॥
नाडीं ' तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम् ।
संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमस्य कुर्य्यात् ॥ २६ ॥
कुम्भीक खर्जूरकपित्थ बिल्ववनस्पतीनां च शलाटुवर्गे ।
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुम्तासरलाप्रियङ्गुः ॥ ३७ ॥
सुगन्धिकामोचरसाहिपुष्पं रोधं विदध्यादपि धातकीं च ।
एतेन शल्यप्रभवा च नाडी, रोहेद् व्रणो वा सुखमाशु चैव ॥२८ ॥
दुर्बलभीरूणां नाडी मर्माश्रिता च या ।
क्षारसूत्रेण तां छिन्द्यान्न तु शस्त्रेण बुद्धिमान् ॥ २ ९ ॥
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ।
सूचीं निदध्याद् ' ' गत्यन्ते तथोन्नम्याशु निर्हरेत् ॥ ३० ॥
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् ।
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ॥ ३१ ॥
क्षाराक्तं मतिमान् वैद्यो यावन्न क्लिद्यते गतिः ।
भगन्दरेऽप्येष विधिः काय्र्यो वैद्येन जानता ॥ ३२ ॥
* अर्बुदादिषु " चोत्क्षिप्य मूले सूत्रं निधापयेत् । सर्षपः । १ सुराष्ट्रजा = ' फिटकिरी इति ख्याता । २ अक्षः = बिभीतकः । ३ निकुम्भः = दन्ती, ताली = तालमूली रूपिका = श्वेतार्कः । ४ चतुर्गुणेषु गोमूत्रे-ष्वित्यर्थः । ५ श्रागन्तुज नाडीचिकित्सितं वक्ति -- नाडीन्त्विति । ६ कुम्भीक: - = पुन्नागः । ७ ' श्रमे फले शलाटुः स्यात् ' इत्यमरः । कुम्भीकादीनां शलाटूनि श्रम-फलानीत्यर्थः । ८ सुगन्धिका = उशीरम्, श्रहिपुष्पं = नागकेशरम् । ९ क्षारसूत्रेण नाडीच्छेदनविधिमभिदधाति -- कृशेति I । च येति चकारेण अकृशा-दीनामपि मर्माश्रिता नाडी समुच्चीयते । १० गत्यन्ते = नाडीसीमायाम्, उन्नम्य = उन्मुखीकृत्य, निर्हरेत् = बहिराहरेत् । ११ आदिशब्दाद् ग्रन्थ्यादीनां परिग्रहः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 799
पाठ पढ़ें पाठ छिपाएँ
अ ०१७ ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri सूचीभिर्यववक्त्राभिराचितं वा समन्ततः । ` ६४१ मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम् ॥ ३३ ॥
यो द्वित्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग् विदध्यात् ।
घोण्टोफलत्वग्लवणानि लाक्षा पूगीफलं चालवणं च पत्रम् ॥ ३४ ॥
स्नुह्यर्कदुग्धेन तु कल्क एष वर्त्तीकृतो हन्त्यचिरेण नाडीः ।
बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः ॥ ३५ ॥
वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा ॥ ३६ ॥
धुत्तूरजं मदनकोद्रवजं च बीजं कोशातकी शुकनसा मृगँभोजनी च । अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ३७ तथा च गोमांसमसी हिताय कोष्ठाश्रितस्यादरतो दिशन्ति ॥ वर्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ॥३८ ॥
दुष्टव्रणे यद्विहितं च तैलं तत्सर्वनाडीषु भिषग्विदध्यात् ॥ चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति ३ ९ एष्वेव मूत्रसहितेषु विधाय तैलं तत्साधितं गतिमपोहति सप्तरात्रात् । पिण्डीतँकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौर्वहेषु ४० तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चार्मंरवरायुधसाह्वयेषु ॥ भल्लातकार्कमरिचैर्लवगोत्तमेन सिद्धं विडङ्गरजनीद्वय चित्र कैश्च ॥ ४१ ॥
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च । १ सर्वनाडीनां सामान्यविधिमभिधत्ते --येति । ३ अलवणायाः काकमर्द निकाया इदं पत्र मालवणम् । इर्ति ख्याता, तद्वीजमित्यर्थः । मस्यः - क्षाराः । ६ एषु = धन्त्तरकादिबीजादिषु । सुहाया एतानि सौवहानि तेषु सौवहेषु । २ घोण्टाफलं = बदरीफलम् । ४ शङ्खिनी = ' शङ्खाहुली ' ५ मृगभोजनी = इन्द्रवारुणी । ७ तैलत्रितयमुपदिशति -- पिण्डीतकस्येति । ९ अमरवरइन्द्रस्तस्यायुधं वज्रं तेन समान श्राह्वयः संज्ञा येषां ते अमरायुधसा-ह्वयास्तेषु, वज्रकन्देष्वित्यर्थः । १० मार्कवस्य = भृङ्गराजस्येत्यर्थः । श्रत्र भल्लातकादीनां चित्रकान्तानां कल्कः मार्कवस्य रसश्चतुर्गुणो बोध्यः । ४१ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 800
पाठ पढ़ें पाठ छिपाएँ
५८५ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri स्त॒न्ये गते विकृति॒माशु भिषक् तु धात्री पीतां घृतं परिणतेऽहनि वामयेत्तु ॥ ४२ ॥
निम्बोदकेन मधुमागधिकायुतेन । वान्तागतेऽहनि च मुद्गरसाशना स्यात् । एवं त्र्यहं चतुरहं पडहं वमेद्वा । [ अ ० १७ सर्पिः पिबेत् त्रिफलया सह संयुतं वा ॥ ४३ ॥
भार्गी वचामतिविषां सुरदारु पाठां
मुस्तादिकं मधुरसां कटुरोहिणीं च ।
धात्रीं पिबेत्तु पयसः परिशोधनार्थ-मारग्वधादिषु वरं मधुना कषायम् ॥ ४४ ॥
सामान्यमेतदुपदिष्टमतो विशेषाद् दोषान् पयोनिपतितान् शमयेद् यथास्वम् । रोगं स्तनोत्थितमवेक्ष्य भिषग् विद्ध्याद् यद्विद्रधावभिहितं बहुशो विधानम् ॥ ४५ ॥
सम्पच्यमानमपि तं तु विनोपना है: सम्भोजनेन खलु पाचयितुं यतेत । शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोपमुपयात्यवदीर्य्यते च ॥ ४६ ॥
पक्के च दुग्धंहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम् । अथ स्तनरोग चिकित्सा । १ स्तन्यदोषचिकित्सितं वर्णयति -- स्तन्य इति । स्तन्ये दोषैविकृतिं गते सती. त्यर्थः । २ परिणतेऽहनि = सायङ्काले । ३ मागधिका = पिप्पली । ४ मुस्तादि-द्रव्य सङ्ग्रहणीयाध्याये द्रष्टव्यः । ५ आरग्वधादिरपि द्रव्यसङ्ग्रहणीयाध्यायोक्तः । ६ स्तनरोगचिकित्सामभिर्धत्ते - रोगमिति । ७ पाककारित्वादुपनाहं निषेधति-शीघ्रमिति । दुग्धहरिणी नाडीः = स्तव्यवाहिनीः सिरा इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar