सुश्रुत संहिता चौखम्बा — पृष्ठ 791–800

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 791–800

पृष्ठ 791

सुश्रुत संहिता चौखम्बा, पृष्ठ 791 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Arya shmanai and eGangotri

पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः ।

तैलैर्भद्रादिमधुकसंयुक्तः प्रतिपूरयेत् ॥ ८ ॥

वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च ।

पृथक्पर्ण्यादिसिद्धेन त्रैघृतेन च रोपयेत् ॥ ९ ॥

पैत्तिक " शर्करालाजामधुकैः सारिवायुतैः ।

प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ॥ १० ॥

पाक्यैः शीतकपायैर्वा क्षीरैरिक्षुरसैस्तथा ।

जीवनीयं घृतैर्वाऽपि सेचयेच्छर्करायुतैः ॥ ११ ॥

त्रिवृर्द्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम् ।

र्जंलौकोभिर्हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् ॥ १२ ॥

क्षीरवृक्षकषायेण " प्रक्षाल्यौदकजेन वा ।

तिलैः सयष्टिमधुकैः सक्षौद्रैः सर्पिषा युतैः ॥ १३ ॥

उपदिह्म प्रतनुना वाससा वेष्टयेद् ब्ररणम् ।

प्रपौण्डरीकमञ्जिष्ठा मधुकोशीरपद्मकैः ॥ १४ ॥

सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् ।

क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः " ॥ १५ ॥

न्यग्रोधादिप्रवालेषु १२ तेषां त्वक्ष्वथवा कृतम् । ६३३ १ भद्रादिः = भद्रदार्वादिः । २ वैरेचनिकानि = त्रिवृनादीनि, चूर्णीकृतैस्तैर्युक्तेने -त्यर्थः । त्रैवृतेन, त्रिभिर्वृतवसामज्जभिर्वृतं व्याप्तं त्रैवृतं तेन । ३ पृथक्पर्ण्यादीनि मिश्रकाध्यायोक्तानि, तैः सिद्धेनेत्यर्थः । ४ पित्तविद्रधिचिकित्सां ब्रवीति -- पैत्तिकमिति । ५ पयस्या = क्षीरकाकोली । ६ पाक्यैः = सद्यःपाकेन निवृत्तैरित्यर्थः । ७ जीवनीयानि द्रव्यसङ्ग्रहणीयाध्यायो. क्तानि काकोल्यादीनि, तैः सिद्धानि गव्यादिघृतानि तैजीवनीयघृतैः । = दाहवेदनाशान्तये विरेचनं निर्दिशति - त्रिवृदिति । ९ पक्वे विद्रधौ चिकित्सामाद -- जलौकोभिरिति । १० क्षीरवृक्षाणां न्यग्रोधोदुम्बराश्वत्थप्लक्ष शिरी. षपादपानां कषायः क्षीरवृक्षकषायस्तेन, औदकजेन = कमल कुमुद कल्हा रजन्यक्काथेने... त्यर्थः । ११ समङ्गा = मञ्जिष्ठा । १२ प्रवालेषु = पल्लवेषु । कृतं = पाचितं,. घृतमिति शेषः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 792

सुश्रुत संहिता चौखम्बा, पृष्ठ 792 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३४ सुश्रुतसंहितायां Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १६ नक्तमालस्य पत्राणि तरुणानि फलानि च ॥ १६ ॥

सुमनौयाश्च पत्राणि पटोलारिष्टयोस्तथा ।

द्वे हरिद्रे मधुच्छिष्टं मधुकं तिक्तरोहिणी ॥ १७ ॥

प्रियङ्गुः कुशमूलं च निचुलैस्य त्वगेव च ।

मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवा त्रिवृत् ॥ १८ ॥

एतेषां कार्षिकैर्भागैर्धृतप्रस्थं विपाचयेत् ।

दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम् ॥ १ ९ ॥

सद्यश्छिन्नत्रणानां च करञ्जाद्यमिदं शुभम् ।

दुष्टव्रणाश्च ये केचिद् ये चोत्सृष्टक्रिया व्रणाः ॥ २० ॥

नाड्य गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च ।

अग्निक्षारकृताश्चैव ये व्रणा दौरुणा अपि ॥ २१ ॥

करञ्जाद्येन र्हविषा प्रशाम्यन्ति न संशयः ।

• इष्टकासिकतालोष्ठगोशकृत्तुषपांशुभिः ॥ २२ ॥

मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम् ।

कषायपानैर्वमनैरालेपैरुपनाहनैः ॥ २३ ॥

हरेंद् दोषानभीक्ष्णं चायलाब्वाऽसृक् तथैव च ।

औरग्वधकषायेण पक्कं चापाट्य धावयेत् ॥ २४ ॥

हरिद्रात्रिवृतासक्तुतिलैर्मधु समायुतैः ।

पूरयित्वा व्रणं सम्यग् बध्नीयात् कीर्त्तितं यथा ॥ २५ ॥

ततः कुलत्थिकादन्तीत्रिवृच्छ्यामाऽर्कतिल्वकैः ।

कुर्य्यात् ैलं सगोमूत्रं हितं तत्र ससैन्धवम् ॥ २६ ॥

पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः ।

विद्रध्योः कुशलः कुर्य्याद्रक्तागन्तुनिमित्तयोः ॥ २७ ॥

१ करन्जादिघृतं वर्णयति - नक्तमालस्येति । नक्तमाल: करन्जः । २ सु-मना = ' चमेली ' इति । ३ निचुलस्य - जलवेतसस्य । ४ अतिभयङ्करत्वेन उत्सृष्टा क्रिया चिकित्सा येषां ते उत्सृष्टक्रियाः । ५ दारुणाः = भयङ्कराः । ६ इविषा = घृतेन । ७ कफविद्रधिचिकित्सामभिधत्ते - इष्टकेति । “ सर्वाणि सर्वैर्वा " इति नलौ -' कावचारणीयाध्यायोक्तत्वाज्जलौको भी रुधिरमोक्षणं नानुपपन्नमित्युन्नेयम् । ९ पक्के CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 793

सुश्रुत संहिता चौखम्बा, पृष्ठ 793 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ६३५ ] Digitized by Any चिकित्सास्थानम् hennai and eGangotri

रुणादिगणक्काथमपक्वेऽभ्यन्तरोत्थिते ।

ऊषेकादिप्रतीवापं पिबेत् सुखकरं नरः ॥ २८ ॥

अनयोर्वगयोः सिद्धं सर्पिर्वैरेचनेन च ।

अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम् ॥ २ ९ ॥

एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम् ।

कार्य्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ॥ ३० ॥

पानालेपनभोज्येषु मधुशिमोऽपि वा ।

दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम् ॥ ३१ ॥

तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः ।

यथादोषगणक्काथैः पिबेद्वाऽपि शिलाजतु ॥ ३२ ॥

प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च ।

स्नेहोपनाहौ कुर्य्याच्च सदा चाप्यनुलोमनम् ॥ ३३ ॥ ७

यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक् ।

रंक्तपित्तानिलोत्थेषु केचिद् बाहौ वदन्ति तु ॥ ३४ ॥

पक्कं वा बहिरुन्नद्धं भित्त्वा ब्रणवदाचरेत् ।

8" स्रुते पूर्ध्वमधो वाऽपि मैरेयाम्लसुरासवैः ॥ ३५ ॥

पेयो वरुणकादिस्तु मधुशिमुद्रुमोऽपि वा ।

शिग्रुमूलजले सिद्धं संसिद्धार्थकमोदनम् ॥ ३६ ॥

यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः । कफविद्रधौ क्रियां निर्दिशति - आरग्वधेति । १ बरुणादिर्द्रत्र्यसङ्ग्रहणीयाध्या-योक्तः। २ ऊषकादिरपि तत्रैव द्रष्टव्यः । ३ वैरेचनेन = संशोधन संशमनीयाध्यायो-क्तेन " त्रिवृताश्यामादन्तीद्रवन्ती सप्तलाशङ्खिनी " इत्यादिनोक्तेन विरेचनद्रव्येण कल्की-कृतेनेत्यर्थः । ४ यथादोषं गणोक्तवातादिहरद्रव्यक्काथै रित्यर्थः । ५ विद्रधौ सिराव्यधं प्रतिपादयति — यथोद्दिष्टामिति । कक्षास्तनयोरन्तरेऽन्तविंद्रधौ ” इति शारीरस्थानोक्तामित्यर्थः । फूर्परे । ७ स्वयमन्तभिन्नत्वेन स्रुतेष्वित्यर्थः । यथोद्दिष्टां = " वामपश् ६ बाहौ = बाहुमध्ये मैरेयलक्षणं यथा-" आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तद्विजानीयान्मैरेयमुभयान-यम् ॥ ” इति । ८ सिद्धार्थकः श्वेतसर्षपस्तेन सहितं ससिद्धार्थकम् श्रोदनम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 794

सुश्रुत संहिता चौखम्बा, पृष्ठ 794 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ अ ० १७ ६३६ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri प्रातः प्रातश्च सेवेत मात्रया ' तैल्वकं घृतम् ॥ ३७ ॥

त्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये ।

नोपगच्छेद् यथापाकं प्रयतेत तथा भिषक् ॥ ३८ ॥

पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता ।

प्रत्याख्याय तु कुर्वीत मज्जजातं तु विद्रधिम् ॥ ३ ९ ॥

स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचनम् ।

विद्रव्यक्तां क्रियां कुर्य्यात पक्वे वाऽस्थि तु भेदयेत् ॥ ४० ॥

निःशल्यमथ विज्ञाय कत्तव्यं व्रणशोधनम् ।

धावेत् तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ॥ ४१ ॥

यदि मज्जपरिस्रावो न निवर्त्तेत देहिनः ।

कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ॥ ४२ ॥

प्रियङ्गुधातकीरोधकट्फलं तिनिसैन्धवम् ।

एतैस्तैलं विक्तव्यं विद्रधित्रणरोपणम् ॥ ४३ ॥

इतिसुश्रुतसंहितायां चिकित्सास्थाने विद्रधिचिकित्सितनाम षोडशोऽध्यायः ॥ १६ ॥

सप्तदशोऽध्यायः ।

अथातो विसर्पनाडीग्तन रोगचिकित्सितं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ । १ तैल्वक घृत = तिल्वकघृतम्, तच्च वातव्याधिचिकित्सिते द्रष्टव्यम् । २ अत्र सर्पिरित्यनुवर्तनायम् । ३ विद्रधिर्यथा पाकं न प्राप्नुयात्तथा यतितव्यमित्युपदिशति - नोपगच्छेदिति । ४ पर्यागते = परितः पाकं प्राप्ते इत्यर्थः । ५ मज्जजातविद्रधिचिकित्सां प्रतिपादयति-प्रत्याख्यायेति । प्रत्याख्यायः = असाध्योऽयं व्याधिरिति निराकृत्येत्यथः । ६ तिनि: = तिनिशः रतनाम्नाऽपि प्रसिद्धः । तिनिपदेन तिनिशस्य बोधः, ' नामैकदेशे नाममा • त्रः इणम् ' इत्युक्तेः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्य टिप्पन्यां षोडशोऽध्यायः । ७ क्रमागतत्वाद् विसर्पादीनां सप्तदशोऽध्यायः । चिकित्सामधिकरोति- - अथात इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 795

सुश्रुत संहिता चौखम्बा, पृष्ठ 795 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १७ ] Digitized by Any चिकित्सास्थान Hennai and eGangotri ६३७ साध्येषु तत्पथ्यगणैविदध्याद् घृतानि सेकांश्च तथोपदेहान् ॥ ३ ॥

मुम्तांशताहासुरदारुकुष्ठ वाराहि कुस्तुम्बुरुकृष्णगन्धाः ।

वातात्मके चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा शृतेषु ॥ ४ ॥

यत् पञ्चमूलं खलु कैण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च ।

तच्चोपयाज्यं भिषजा प्रदेहे सेके घृते चापि तथैव तैले ॥ ५ ॥

कंसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकदमाश्च ।

वस्त्रान्तराः पित्तकृते विसर्प लेपा विधेयाः सघृताः सुशीताः ॥ ६ ॥

ह्रीवेरलामैज्जकचन्दनानि स्रातोजमुक्तामणिगैरिकाश्च । II क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तर्नवः सुखाय ॥७ ॥

प्रपौण्डरीकं मधुकं " पयस्या मञ्जिष्ठिका पद्मकचन्दने च ।

सुरन्धिका " चेति सुखाय लेपाः पैत्ते विसर्पे भिषजा प्रयोज्याः ॥ ८ ॥

न्यग्रोधवगैः परिषेचनं च घृतं च कुर्य्यात् स्वरसेन तस्य ।

शोतैः पयाभिश्च " धूदकैश्च सशर्करैरिक्षु सैश्च सेकान् ॥ ९ ॥

१ तत्पथ्यगणैः = वातपित्तकफजन्येषु तत्तद्वातादिहरगणैरित्यर्थः । २ वातजन्य -विसर्पचिकित्सामभिदधाति - मुस्तेति । ३ कुस्तुम्बुरु = धान्याकम् ' धनिया ' इति लोके कथितम् । कृष्णगन्धा = शोभाञ्जनः । उष्णगणाः भद्रदार्वादयः पिप्पल्यादयश्च । ४ घृतेष्विति पाठान्तरम् । ५ कण्टकाख्यं = " करमर्दत्रिकण्टक सैरीयकशतावरी · -गृधनख्य " इति कण्टकसंज्ञकपञ्चमूलम्, अल्प = लघुपञ्चमूलम्, तच्च " त्रिकण्टक · हतीद्वयपृथक्पण्यों विदारिगन्धा च " इति । महत् = बृहत्पञ्चमूलम्, तच्च " बिल्वाग्नि--मन्थटिटुकपाटलाः काश्मर्थ्यश्च ' इति । वल्लिजं = " विदारीसारिवारजनीगुडूच्योऽजशृङ्गी च " इति वल्लीसंज्ञकमित्यर्थः । 8 पित्तजनितविसर्पचिकित्सित माचष्टे – कसेर्विति । गुन्द्रा = भद्रमुस्तकः, ' स्या-मुस्तको गुन्द्रा इत्यमरः । धन्वन्तरिणा गुन्द्राभद्र मुस्तकयोरभेद उक्त: - " मुस्त • मम्बुधरो मेघो घनो राजकशेरुकः । भद्रमुस्तो वराहोऽब्दो गाङ्गेयः कुरुबिन्दकः ॥ ’ इति । ७ वस्त्रान्तराः = वसनेनान्तरीकृताः । = लामज्जकः = उशीरम्, स्रोतोजं -सौवोरमञ्जनम् । ९ यतो घनलेपेन त्वग्गतस्योष्मणो रोधाद् ऊष्मा दाहश्च सञ्जायते । तदुक्तं वाग्भटे — लक्ष्णशुष्कवनो लेपश्चन्दनस्यापि दाहकृत् । त्वग्गतस्योष्मणो रोधा-च्छोतकृच्चान्यथा गुरोः ॥ ” इति । १० पयस्या = क्षीरविदारी । ११ सुगन्धिका = उशीरम् । १२ मधूदकैः = मधुमिश्रजले रित्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 796

सुश्रुत संहिता चौखम्बा, पृष्ठ 796 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १७

घृतस्य गौरीमधुकारविन्दरोधाम्बुराजादनगैरिकेषु ।

तथर्षभे पद्मकसारिवासु काकोलि मेदाकुमुदोत्पलेषु ॥ १० ॥

सचन्दनायां मधुशर्करायां द्राक्षास्थि रोपृश्निशताह्वयासु ।

कल्कीकृतासुदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः ॥ ११ ॥

गरणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत् ।

प्रस्थं विपक्वं परिषेचनेन पैत्तीनिहन्यात्तु विसर्पनाडीः ॥ १२ ॥

विस्फोटदुष्टव्रणशीर्षेरोगान् पार्क तथाऽऽस्यस्य निहन्ति पानात् ।

ग्रहार्दिते शोषिण चापि बाले घृतं हि गौर्यादिकमेतदिष्टम् ॥१३ ॥

अंजाऽश्वगन्धा सरला सकाला सैकैषिका चाप्यथवाऽजशृङ्गी ।

गोमूत्रपिष्टो विहितः प्रदेहो हन्याद् विसर्प कफजं स शीघ्रम् ॥१४ ॥

कौलानुसार्या गुरुचोचगुञ्जारास्नावचाशीत शिवेन्द्रपर्ण्यः ।

पौलिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु ॥ १५ ॥

गँरणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन ।

संशोधनं शोणिर्तमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि ॥१६ ॥

१ पित्तविसर्पे गौर्यादिघृतमाचष्टे - घृतस्येति । गौरी = हरिद्रा । अम्बु = " वालकम्, राजादनं = प्रियालः, ऋषभः = ऋषभकनाम्ना प्रसिद्ध: । एतदलाभे वंश-लोचनप्रक्षेपः । २ स्थिरा = शालपर्णी, पृश्निः = पृथक्पर्णी, शताह्वया = शतावरी । अत्र गौर्यादीनां शताह्वयान्तां चतुर्णौ पलानां कल्कः, न्यग्रोधादीनां विदारिगन्धादीनां मद्दतोऽपि पञ्चमूलग्य मिलितानां त्रयाणां गणानां क्काथो घृतस्य चतुर्गुणः, गव्यं क्षीरमपि चतुर्गुणं घृतस्य प्रस्थमित्युन्नैयम् । १३ गौर्यादिघृतगुणं वक्ति— विस्फोटेति । ४. कफजनितपित्तविसर्पचिकित्सामाचष्टे - अजेति । अजा = अजगन्धा, लोके. ' बबई ' इति ख्याता सरला = कृष्णा त्रिवृत्, कालः = कासमर्दः, एकैषिका = शतावरी । ५ कालानुसार्या = तगरम्, चोच: - ' तज ' इति, शीतशिवं = शतपुष्पाभेदः, सैन्धव-मिति सुश्रुताथसन्दीपनम् । इन्द्रपर्णी = इन्द्रवारुणी । ६ पालिन्दिः = कालवल्ली,. मुञ्जातः = उत्तरापथजः स्वल्पकन्द इति डल्दणः । महीकदम्बः मुण्डी । ७ सर्वविसर्पेषु सामान्यचिकित्सितमभिधत्ते - गणस्त्विति । वरुणप्रदत्तः = वरु--णादिः । ८ शोणितमोक्षणं जलौकोभिरेव सर्वेषां रक्तपित्तप्रधानखात् । अस्य रक्त पित्तप्राधान्यमाह — वाग्भट: -- " विसर्पो न ह्यसंसृष्टः सोऽस्रपित्तेन जायते । रक्तमेवा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 797

सुश्रुत संहिता चौखम्बा, पृष्ठ 797 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' अ ० १७ ] Digitized by Ary: युक्तियाज hennai and eGangotri ६३ ९

सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तंम् ।

नौडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः प्रतियत्नसाध्याः ॥ १७ ॥

तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य ।

तिलैरपामार्गफलैश्च पिष्ट्रा ससैन्धवैर्बन्धनमत्र कुर्यात् ॥ १८ ॥

प्रक्षालने चापि सदा व्रणस्य योज्यं महद् यत् खलु पञ्चमूलम् ।

हिंस्रां ' हरिद्रां कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम् ॥१ ९ ॥

संहृत्य तैलं विपचेद् ब्रणस्य संशोधनं पूरणरोपणं च ।

पापा धीमानुत्कारिकाभिः सपयोघृताभिः ॥२० ॥

निपात्य शस्त्रं तिलनागर्दन्तो यष्ट्याहकल्कैः परिपूरयेत्ताम् ।

प्रक्षालने चापि ससोर्मनिम्बा निशा प्रयोज्या कुशलेन नित्यम् ॥ २१ ॥

श्यामात्रिभण्डीत्रिफलासु 10 सिद्धं हरिद्रयो रोधकवृक्षयोश्च ।

घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् ॥ २२ ॥

" नाडीं कफोत्थामुपनाह्य सम्यक् " कुलत्थसिद्धार्थ कसक्तुकिण्वैः । श्रयश्चास्य बहुशोऽस्रं हरेत्ततः ॥ इति । १ यथोक्तं = द्विव्रणीयोक्तमित्यर्थः । अथ नाडीचिकित्सा । २ वातजनित नाडी चिकित्सितमभिदधाति - नाडीति । त्रिभिर्दोषैः ३ पृथक् शल्यनिमित्ततश्चैवं चतस्र इत्यर्थः । ४ उपनाच = तैस्तैर्वातहर द्रव्यैः प्रदियेत्यर्थः । ५ व्रणालेपनबन्धविध्युक्तरीत्या बन्धनं कुर्यादित्यर्थः । ६ हिंस्रा = ‘ बालछड़ ’ .. इति ख्याता । अत्र द्रव्यकल्कः स्नेहचतुर्थांशः, द्रवः स्नेहचतुर्गुणः । " अनु के द्रव कार्ये तु सर्वत्र सलिलं स्मृतम् ” इति वचनादत्र द्रवो जलम् । ७ पित्तजन्यनाडीचिकित्सितं ब्रवीति -- पित्तात्मिकामिति । ८ नागदन्ती -इन्द्रवारुणी । ९ ' सोमं काञ्जिकम् ' इति कोशान्तरम् । व्यवहारस्तु धान्याम्लस्यैवेति हाराणचन्द्रः । निशा = हरिद्रा । १० पित्तजन्यनाढ्यां श्यामादिघृतमभिधत्ते— श्यामेति । श्यामा = श्याममूला त्रिवृत्, त्रिभण्डी = रक्तमूला त्रिवृत् । अत्र श्या-मादिघृते श्यामादीनां कल्कः, चतुर्गुणं दुग्धं, जलं च चतुर्गुणम् । तदुक्तम् -- " क्षीर.. मस्त्वारणालाद्यैः पाको यत्रेरितः क्वचित् । जलं चतुर्गुणं तत्र वीर्याधानार्थमावपेत् ॥ ' ” > इति । वृक्षः = वृक्षकः, कुटज इत्यर्थः । ११ कफजन्यनाडीचिकित्सितं ब्रवीति - नाडीमिति । १२ सिद्धार्थकः श्वेत-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 798

सुश्रुत संहिता चौखम्बा, पृष्ठ 798 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४० Digitized by Arya Samaj सुश्रुतसहिताया and eGangotri [ अ ० १७ मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी ॥ २३ ॥

दद्याद् व्रणे निम्बतिलान् सुपिष्टान् सुराष्ट्रजा सैन्धवसम्प्रयुक्तान् ।

प्रक्षालने चापि करञ्जनिम्बजात्य क्षेपीलुस्वरसाः प्रयोज्याः ॥ २४ ॥

सुवर्चिका सैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु ।

फलेष्वपामार्गेभवेषु चैव कुर्य्यात सँमूत्रेषु हिताय तैलम् ॥ २५ ॥

नाडीं ' तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम् ।

संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमस्य कुर्य्यात् ॥ २६ ॥

कुम्भीक खर्जूरकपित्थ बिल्ववनस्पतीनां च शलाटुवर्गे ।

कृत्वा कषायं विपचेत्तु तैलमावाप्य मुम्तासरलाप्रियङ्गुः ॥ ३७ ॥

सुगन्धिकामोचरसाहिपुष्पं रोधं विदध्यादपि धातकीं च ।

एतेन शल्यप्रभवा च नाडी, रोहेद् व्रणो वा सुखमाशु चैव ॥२८ ॥

दुर्बलभीरूणां नाडी मर्माश्रिता च या ।

क्षारसूत्रेण तां छिन्द्यान्न तु शस्त्रेण बुद्धिमान् ॥ २ ९ ॥

एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ।

सूचीं निदध्याद् ' ' गत्यन्ते तथोन्नम्याशु निर्हरेत् ॥ ३० ॥

सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् ।

ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ॥ ३१ ॥

क्षाराक्तं मतिमान् वैद्यो यावन्न क्लिद्यते गतिः ।

भगन्दरेऽप्येष विधिः काय्र्यो वैद्येन जानता ॥ ३२ ॥

* अर्बुदादिषु " चोत्क्षिप्य मूले सूत्रं निधापयेत् । सर्षपः । १ सुराष्ट्रजा = ' फिटकिरी इति ख्याता । २ अक्षः = बिभीतकः । ३ निकुम्भः = दन्ती, ताली = तालमूली रूपिका = श्वेतार्कः । ४ चतुर्गुणेषु गोमूत्रे-ष्वित्यर्थः । ५ श्रागन्तुज नाडीचिकित्सितं वक्ति -- नाडीन्त्विति । ६ कुम्भीक: - = पुन्नागः । ७ ' श्रमे फले शलाटुः स्यात् ' इत्यमरः । कुम्भीकादीनां शलाटूनि श्रम-फलानीत्यर्थः । ८ सुगन्धिका = उशीरम्, श्रहिपुष्पं = नागकेशरम् । ९ क्षारसूत्रेण नाडीच्छेदनविधिमभिदधाति -- कृशेति I । च येति चकारेण अकृशा-दीनामपि मर्माश्रिता नाडी समुच्चीयते । १० गत्यन्ते = नाडीसीमायाम्, उन्नम्य = उन्मुखीकृत्य, निर्हरेत् = बहिराहरेत् । ११ आदिशब्दाद् ग्रन्थ्यादीनां परिग्रहः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 799

सुश्रुत संहिता चौखम्बा, पृष्ठ 799 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०१७ ] चिकित्सास्थानम् । Digitized by Arya Samaj Foundation Chennai and eGangotri सूचीभिर्यववक्त्राभिराचितं वा समन्ततः । ` ६४१ मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम् ॥ ३३ ॥

यो द्वित्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग् विदध्यात् ।

घोण्टोफलत्वग्लवणानि लाक्षा पूगीफलं चालवणं च पत्रम् ॥ ३४ ॥

स्नुह्यर्कदुग्धेन तु कल्क एष वर्त्तीकृतो हन्त्यचिरेण नाडीः ।

बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः ॥ ३५ ॥

वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा ॥ ३६ ॥

धुत्तूरजं मदनकोद्रवजं च बीजं कोशातकी शुकनसा मृगँभोजनी च । अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ३७ तथा च गोमांसमसी हिताय कोष्ठाश्रितस्यादरतो दिशन्ति ॥ वर्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ॥३८ ॥

दुष्टव्रणे यद्विहितं च तैलं तत्सर्वनाडीषु भिषग्विदध्यात् ॥ चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति ३ ९ एष्वेव मूत्रसहितेषु विधाय तैलं तत्साधितं गतिमपोहति सप्तरात्रात् । पिण्डीतँकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौर्वहेषु ४० तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चार्मंरवरायुधसाह्वयेषु ॥ भल्लातकार्कमरिचैर्लवगोत्तमेन सिद्धं विडङ्गरजनीद्वय चित्र कैश्च ॥ ४१ ॥

स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च । १ सर्वनाडीनां सामान्यविधिमभिधत्ते --येति । ३ अलवणायाः काकमर्द निकाया इदं पत्र मालवणम् । इर्ति ख्याता, तद्वीजमित्यर्थः । मस्यः - क्षाराः । ६ एषु = धन्त्तरकादिबीजादिषु । सुहाया एतानि सौवहानि तेषु सौवहेषु । २ घोण्टाफलं = बदरीफलम् । ४ शङ्खिनी = ' शङ्खाहुली ' ५ मृगभोजनी = इन्द्रवारुणी । ७ तैलत्रितयमुपदिशति -- पिण्डीतकस्येति । ९ अमरवरइन्द्रस्तस्यायुधं वज्रं तेन समान श्राह्वयः संज्ञा येषां ते अमरायुधसा-ह्वयास्तेषु, वज्रकन्देष्वित्यर्थः । १० मार्कवस्य = भृङ्गराजस्येत्यर्थः । श्रत्र भल्लातकादीनां चित्रकान्तानां कल्कः मार्कवस्य रसश्चतुर्गुणो बोध्यः । ४१ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 800

सुश्रुत संहिता चौखम्बा, पृष्ठ 800 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८५ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri स्त॒न्ये गते विकृति॒माशु भिषक् तु धात्री पीतां घृतं परिणतेऽहनि वामयेत्तु ॥ ४२ ॥

निम्बोदकेन मधुमागधिकायुतेन । वान्तागतेऽहनि च मुद्गरसाशना स्यात् । एवं त्र्यहं चतुरहं पडहं वमेद्वा । [ अ ० १७ सर्पिः पिबेत् त्रिफलया सह संयुतं वा ॥ ४३ ॥

भार्गी वचामतिविषां सुरदारु पाठां

मुस्तादिकं मधुरसां कटुरोहिणीं च ।

धात्रीं पिबेत्तु पयसः परिशोधनार्थ-मारग्वधादिषु वरं मधुना कषायम् ॥ ४४ ॥

सामान्यमेतदुपदिष्टमतो विशेषाद् दोषान् पयोनिपतितान् शमयेद् यथास्वम् । रोगं स्तनोत्थितमवेक्ष्य भिषग् विद्ध्याद् यद्विद्रधावभिहितं बहुशो विधानम् ॥ ४५ ॥

सम्पच्यमानमपि तं तु विनोपना है: सम्भोजनेन खलु पाचयितुं यतेत । शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोपमुपयात्यवदीर्य्यते च ॥ ४६ ॥

पक्के च दुग्धंहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम् । अथ स्तनरोग चिकित्सा । १ स्तन्यदोषचिकित्सितं वर्णयति -- स्तन्य इति । स्तन्ये दोषैविकृतिं गते सती. त्यर्थः । २ परिणतेऽहनि = सायङ्काले । ३ मागधिका = पिप्पली । ४ मुस्तादि-द्रव्य सङ्ग्रहणीयाध्याये द्रष्टव्यः । ५ आरग्वधादिरपि द्रव्यसङ्ग्रहणीयाध्यायोक्तः । ६ स्तनरोगचिकित्सामभिर्धत्ते - रोगमिति । ७ पाककारित्वादुपनाहं निषेधति-शीघ्रमिति । दुग्धहरिणी नाडीः = स्तव्यवाहिनीः सिरा इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar