सुश्रुत संहिता चौखम्बा — पृष्ठ 811–820
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 811–820
पृष्ठ 811
पाठ पढ़ें पाठ छिपाएँ
ऋ ० १ ९ pigitized by Arya aphai and eGangotri तत्र या वङ्क्षणस्था तां दहेदर्द्धेन्दुवक्त्रया ॥ २१ ॥
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत् ।
त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्य्ययात् ॥ २२ ॥
अनेनैव विधानेन वृद्धी वातकफात्मिके ।
प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ॥ २३ ॥
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् ।
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये ॥ २४ ॥
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः ।
सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः ॥ २५ ॥
हरेदुभर्यंतश्चापि दोषानत्यर्थमुच्छ्रितान् ।
सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः ॥ २६ ॥
यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् ।
निरूहेण हरेत् तस्य दोषानत्यर्थमुच्छ्रितान् ॥ २७ ॥
प्रपौण्डरीकयष्ट्याह्नवर्षाभू कुष्ठदारुभिः ।
" सरला गुरुरास्नाभिर्वातजं सम्प्रलेपयेत् ॥ २८ ॥
निचुलैरण्डबीजानि यवगोधूमसक्तवः । ६५३ त्वेन दोषरहितायामित्यर्थः । १ अर्धेन्दुवक्त्रया लौहशलाकयेत्यर्थः । २ वामान्त्रवृद्धौ दक्षिणाङ्गुष्ठमध्ये त्वङ्मात्रं छित्त्वा दहेत्, दक्षिणान्त्रवृद्धौ वामाङ्गुष्ठमध्ये त्वङ्मात्रं छित्वा दहेदिति ‘ अङ्गविपर्ययात् ' इत्यस्याशयः । ३ सेवनीं शारीरस्थानोक्ताम्, तथा हि— “ सप्त सेवन्यः — शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका, ताः परिहर्तव्याः श-स्त्रेण ” इति । ४ व्यत्यासात् = वामदक्षिणान्त्रवृद्धिभेदेन श्रङ्गविपर्ययादित्यर्थः । अथोपदंशचिकित्सा । ५ तत्रोपदंशे सामान्यचिकित्सा विधिमभिधत्ते – उपदंशेष्विति । ६ वापदेनात्र व्यवस्था बोध्या । श्रर्थाद् बहुदोषे सिरां विध्येत् अल्पदोषे तु जलौकां पातयेदिति । ७ उभयतः = वमनविरेचनाभ्याम् । बलवतो विषय एषः । ८ दुर्बलविषयं दर्शयति-यदीति । न वा प्राप्तं = न युक्तम् । ९ वातजन्योपदंशचिकित्सां निर्दिशति - प्रपौण्डरीकेति । प्रपौण्डरीकं = शालप-णपत्रतुल्यच्छदम्, ' पुण्डरिया ' इति ख्यातम् । वर्षाभूः = ' गदहपूना ' इति । १०. सर-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 812
पाठ पढ़ें पाठ छिपाएँ
६५४, B Digitized by Arya Samaj - सनतसंहितायां and eGangotri [ श्र ० १ ९ Chennai एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् ॥ २ ९ ॥
प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते ।
गैरिकौञ्जनयष्ट्याह्नसारिवोशीरपद्मकैः ॥ ३० ॥
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं सम्प्रलेपयेत् ।
पद्मोत्पल मृणालैश्च संसर्जार्जन वेतसैः ॥ ३१ ॥
सापःस्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् ।
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ॥ ३२ ॥
अथवाऽपि सुशीतेन कषायेण वटादिना ।
शालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ॥ ३३ ॥
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् ।
रजन्यतिविषामुस्तासुरसासुरदारुभिः ॥ ३४ ॥
सपत्रपाठात्तरैरथवा सम्प्रलेपयेत् ।
सुरसाऽऽरग्वधाद्योश्च काथाभ्यां परिषेचयेत् ॥ ३५ ॥
एवं संशोधनालेपसेकशोणितमोक्षणैः ।
प्रतिकुर्य्यात् क्रियायोगः प्राक्स्थानोक्तैर्हितैरपि ॥ ३६ ॥
नायाति च यथा पाकं प्रयतेत तथा भिषक् ।
विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते र्ध्वजः ॥ ३७ ॥
शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै तदाऽपोह्यं ' तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत् ॥ ३८ ॥
+ करवीरस्य " पत्राणि जात्यारग्वधयोस्तथा । ला = त्रिवृत् । १ सृखोष्णैः = ईषदुष्णैरित्यर्थः । २ प्रपौण्डरीकपूर्वैः = प्रपौण्ड-रीकादिभिः सप्तभिः । ३ पित्तजन्योपदंशचिकित्सितं ब्रवीति — गैरिकेति । श्रज्ज -नं = रसाञ्जनम् । ४ कफजन्योपदंशचिकित्सितमभिधत्ते - शालेति । शालाश्वकर्णौ शालभेदौ, अजकर्णः । अतिविषा ' अतीस ' इति ख्याता । : - गजहढः । ५ रजनी = हरिद्रा, ६ पत्तूरः = सिरवालिका । ७ उपदंशस्यामाद्यवस्थाभेदेन चिकित्सां दर्शयति - एव-मिति । ८ मिश्रकाध्यायोक्तक्रियायोगेरित्यर्थः । ९ ध्वजः = मेदः । १० अपोह्य = कुथितां शमुपहृत्य ११ पत्राणां कषाय इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 813
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ९ ] Digitized by Ary.. कित्वायान ndnnai and eGangotri प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ॥ ३ ९ ॥
सौराष्ट्र गैरिकं तुत्थं पुष्पकासीससैन्धवम् ।
रोधं रसाञ्जनं दावीं हरितालं मनःशिलाम् ॥ ४० ॥
हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत् ।
तच्चूर्ण क्षौद्रसंयुक्तमुपदंशेषु पूजितम् ॥ ४१ ॥
जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः ।
शल्लकीबदरीबिल्व पलाशतिनिशत्त्रचः ॥ ४२ ॥
क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह ।
तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ॥ ४३ ॥
अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत् ।
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ॥ ४४ ॥
एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते ।
सर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ॥ १५ ॥
मनःशिलासमैश्चूण व्रणवीसर्पनाशनम् ।
गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ॥ ४३ ॥
उपदंशविसर्पाणामेतच्छान्तिकरं परम् ।
मार्कर्वंस्त्रिफला दन्तो ताम्रचूर्णमयोरजः ॥ ४७ ॥
उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा ।
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ॥। ४८ ॥
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् ।
उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ॥ ४ ९ ॥
दुष्टव्रणविधिं कुर्य्यात् कुथितं मेहनं त्यजेत् । ६५५ १ सौराष्ट्री = ' फिटकिरी ' इति ख्याता । २ पल्लवशब्दो जम्ब्वादिभिः प्रत्येकम भिसम्बध्यते । ३ क्षीरिणां = वटाश्वत्थादीनाम् । ४ सर्वगन्धैः = चातुर्जातकादिभिरित्य-र्थः । यथा — ' चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति । ५ गुन्द्रा - भद्रमुस्तकः । ६ माकवः = भृङ्गराजः । ७ असाध्यत्वेनोपदिष्टयोरुपदंशद्वयोश्चिकित्सितं ब्रवीति — उपदंशेति । उपदंश-द्वये = र क्तजसन्निपातजद्वये । ८ मेहनं लिङ्गं यावन्मात्रं कुथितं शटितं तावन्मात्र CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 814
पाठ पढ़ें पाठ छिपाएँ
६५६ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १ ९ जैम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ॥ ५० ॥
सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत् ।
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ॥ ५१ ॥
स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक् ।
कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ॥ ५२ ॥
समाप्यायितदेहं च बँस्तिभिः समुपाचरेत् ।
मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ॥ ५३ ॥
पयसौदनमश्नीयान्नागरक्कथितेन च ।
त्रै तं ' चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ॥ ५४ ॥
गुल्फँस्याधः सिरां विध्येच्छ्लीपदे पित्तसम्भवे ।
पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ॥ ५५ ॥
सिरां ' सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक् ।
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिवेन्नरः ॥ ५६ ॥
पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च ।
कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ॥ ५७ ॥
हितं वा लेपने नित्यं भद्रदारु सचित्रकम् ।
विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ॥ ५८ ॥
भद्रदार्वेलुकाख्ये " च सर्वेषु लवणेषु च । II तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ॥ ५ ९ ॥ त्यजेत्, छिन्द्यादित्यर्थः । १ जम्ब्वोष्ठेन = कृष्णपाषाणरचितजम्बूफल सदृशश-स्त्रेणेत्यर्थः । अथ श्लीपद चिकित्सा । २ तत्र वातिकश्लीपदचिकित्सां निर्दिशति - स्नेहेति । ३ बस्तिभिः = निरूह-चस्तिभिः । ४ त्रिभिरवयवैवतं वृतं, स्नैहत्रितयमित्यर्थः । ५ पित्तजन्यश्लीपदचि-कित्सामभिधत्ते – गुल्फख्येति । ६ श्लैष्मिकश्लीपदचिकित्सितमभिदधाति — सिरामिति । श्रङ्गुष्ठे क्षिप्राख्यमर्मण उपरि चतुरङ्गुले सुविदितां सिरां विध्येदित्यर्थः । ७ अन्यतमेन मूत्रेण = भ्रष्टसु मूत्रेषु एकतमेन । ८ एलुकाख्यः = ' एलुआ ' इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 815
पाठ पढ़ें पाठ छिपाएँ
` ० १ ९ ] Digitized by Arya S पि किस्सास्थानम् mai and eGangotri
पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये ।
पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ॥ ६० ॥
अनेनैव विधानेन पुत्रजीवकजं रसम् । ६५७ प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् । ६१ ॥
केवुकौकन्दनिर्यासं लवणं त्वथ पाकिमम् ।
रसं दत्त्वाऽथ ' पूर्वोक्तं पेयमेतद्भिषग्जितम् ॥ ६२ ॥
काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम् ।
कदम्बपुष्प मन्दारीं लम्बां शुकनसां तथा ॥ ६३ ॥
दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवित् ।
तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ॥ ६४ ॥
मदनाच्च फलात् क्वाथं शुकाख्यास्वरसं तथा ॥
एैष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ॥ ६५ ॥
अपचीं गलगण्डं च ग्रहणीदोषमेव च ।
भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ॥ ६६ ॥
-एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम् ।
एतानेवामयान् हन्ति ये च दुष्टब्रणा नृणाम् ॥ ६७ ॥
द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च ।
सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ॥ ६८ ॥
दद्याच्च त्रिफलाक्वाथमेव क्षारस्तु साधितः । १ पूतीकरअ: = कण्टकिकरअः । २ पुत्रञ्जीवकः = ' जीयापोता ' इति ख्यातः । ३ केबुका ' केमुश्रा ' इति । ४ पाकिमं = विडाख्यं लवणम् । ५ पूर्वोक्तं पुत्रञ्जीव-कोरवम् । ६ कदम्बपुष्पी = मुण्डी, लम्बा = कटुतुम्बी । ७ एष: -: - अनन्तरोक्तः क्षारः । क्षारपाकप्रकारस्तु षड्गुणेन गोमूत्रेण एकविंशति-चारान् काकादन्यादीनां क्षारं स्रावयेत् । तत्र काकोदुम्बरिकारसं मदनफलक्कार्थं शुकनासास्वरसं च प्रत्येकं गोमूत्रेण समम्, अपरेषां पादैकं प्रक्षिप्य क्षार-कल्पक्रमेण विपाच्य इति । | ८ एषु = काकादन्यादिषु । ९ नोलीं = श्रीफलम् । ४२ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 816
पाठ पढ़ें पाठ छिपाएँ
६५८ Digitized by Arya Samaj Foundation Chennai and eGangotri • सुश्रुतसंहितायां-[ अ ० २० अधो गच्छति पीतस्तु ' पूर्वैश्चाप्याशिषः समाः ॥ ६ ९ ॥ इति सुश्रुतसंहिताय चिकित्सास्थाने वृद्धयुपदंश श्लीपदचिकित्सितं नाम एकोनविंशोऽध्यायः ॥ १ ९ ॥
विंशतितमोऽध्यायः ।
अथोतः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
तंत्राजगल्लिकामामां जलौकोभिरुपाचरेत् ।
शुक्तिश्रुघ्नी यवक्षारकल्कैश्चाले पयेद्भिषक् ॥ ३ ॥
श्यामालाङ्गलकीपाठाकल्कैर्वाऽपि विचक्षणः ।
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ॥ ४ ॥
अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा ।
पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ॥ ५ ॥
मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत् ।
परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ॥ ६ ॥
विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्द्धभम् । १ पूर्वैः = पूर्वक्षारयोगैरित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सा स्थानीय सुधाऽऽख्यटिप्पन्या. कोनविंशोऽध्यायः । विंशतितमोऽध्यायः । २ निदानस्थानक्रमागतं क्षुद्ररोगाणां चिकित्सितं विवृणोति - अथात इति । ३ श्रजगल्लिकायाश्चिकित्सां वक्ति - तत्रेति । ४ श्रुघ्नी स्वर्जिकाक्षारः । भावप्र-काशे— “ शुक्तिसौराष्ट्रिकाक्षारकर कैश्चाले पयेन्मुहुः " इति पठघते । अत्र प्राग् आले-पस्योपक्रमः, पश्चाज्जलौकोभिरिति ध्येयम् । ५ अन्धालजी - यवप्रख्या- पनसी - कच्छपी - पाषाणगर्दभानां चिकित्सितमभिधत्ते-अन्धेति । ६ भित्त्वा = शस्त्रेण विदार्य्यं । ७ विवृतेन्द्रवृद्वा - गर्दभी- जालगर्दभे. रिवेल्ला - गन्धनाग्नी - कक्षाणां चिकित्सां ब्रवीति - विवृतामिति । अस्या भावप्रका-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 817
पाठ पढ़ें पाठ छिपाएँ
अ ० २० ] Digitized by Ary र्वस्वपस्थाम hennai and eGangotri ९ ६५ " इरिवेल्लां गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ॥ ७ ॥
पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक् ।
रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ॥ ८ ॥
चिप्पमुष्णाम्बुना सिक्तमुत्कृत्यं स्रावयेद्भिषक् ।
चैक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ॥ ९ ॥
बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत् ।
मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् ॥ १० ॥
कुनखे विधिरप्येर्षं कार्यो हि भिषजा भवेत् ।
उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक् ॥ ११ ॥
विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत् ।
नर्गवृत्तिकवर्षाभू बिल्वमूलैः सुपेषितैः ॥ १२ ॥
व्रणभावगतायां वा कृत्वा संशोधनक्रियाम् ।
रोपणार्थं हितं तैलं कषायमधुरैः शृतम् ॥ १३ ॥
प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्का विदारिका ।
अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् ॥ १४ ॥
शे लक्षणम् - " मण्डलं वृत्तमुत्सन्न सरक्तं पिढकाचितम् । रुजाकरीं गर्दभिकां तो विद्याद् वातपित्तजाम् ॥ ” इति । १ “ पिडकामुत्तमाङ्गस्थां वृत्तामुपरुजां ज्वराम् । सर्वात्मिकां सर्वलिङ्गां जानीया-दिरिवेल्लिकाम् || " इति तल्लक्षणम् । गन्धनाम्न्या लक्षणं तु एकां तु तादृश दृष्ट्वा पिडकां स्फोटसन्निभाम् । त्वग्जातां पित्तकोपेन गन्धनाम्नीं प्रचक्षते ॥ ” इति । तादृशीं कक्षासदृश बाह्रादिषु कृष्णां सवेदनान्चेति तदर्थः । गर्दभिके. रिवेल्लिकयोर्विवृतायां गन्धनाम्न्याश्च कक्षायां यथाकथञ्चिदन्तर्भावो भविष्यतीति भगवता सुश्रुतेन निदानस्थानेऽनुपदिष्टा अपि एतास्तिस्रः अत्र प्रकरणे चिकि • रसासंशयनिवारणाय नाममात्रेणोपदिष्टा इति विभावनीयम् । २ मधुरौषधैः -का-कोल्यादिभिः । ३ चिप्पस्य चिकित्सामाह - चिप्पमिति । ४ उत्कृत्य = शस्त्रेण दुष्टमांसं दूरी • कृत्येत्यर्थः । ५ चक्रेण पीडितं तैलं चक्रतैलं तेन । ६ २ ष विधिः = चिप्पोक्तविधा-नमित्यर्थः । विदारिकायाश्चिकित्सां दर्शयति - विदारिकामिति । ७ समभ्यज्य = संस्वेद्य । ८ नगवृत्तिकः = ' जीयाल - जीअल ' इति लोके । ९ कषायो न्यग्रोधादिपठितः, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 818
पाठ पढ़ें पाठ छिपाएँ
६६० सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri
पक्कां विदार्य्यं शस्त्रेण पटोलपिचुमर्दयोः ।
कल्केन तिलयुक्तेन समश्रेण लेपयेत् ॥ १५ ॥।
बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च ।
व्रणं प्रक्षालयेच्छुद्धास्ततस्ता रोपयेत् पुनः ॥ १६ ॥
मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम् । [ अ ० २० कंच्छं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् ॥ १७ ॥
लेपश्च शस्यते सिक्थॆशताह्नागौर सषपैः ।
वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् ॥ १८ ॥
सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम् ।
पार्दंदार्य्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् ॥ १ ९ ॥
मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः ।
यवाह्नगैरिकोन्मिश्रैः पादलेप: प्रशस्यते ॥ २० ॥
पादौ सिक्त्वाऽऽरनालेन लेपनं ह्यलसे हितम् ।
कल्कीकृतैर्निम्बतिलक सीसालैः ससैन्धवैः ॥ २१ ॥
लाक्षारसोऽभया वाऽपि कार्यं स्याद्रक्तमोक्षणम् ।
सिद्धं रसे कण्टकाय्र्यास्तैलं वा सार्षपं हितम् ॥ २२ ॥
कासीसरोचनशिला चूर्णैर्वा " प्रतिसारणम् ।
उत्कृत्यै ' दग्ध्वा स्नेहेन जयेत् कदरसंज्ञकम् ॥ २३ ॥
मधुरः काकोल्यादिः । १ पिचुमर्दः = निम्बः । स्थादिवृक्षस्य । २ क्षीरवृक्षस्य == न्यग्रोधोदुम्बराइव-३ शर्करार्बुदस्य चिकित्सामाह - मेद इति । ४ रकसा - विचचिका - पामाना चिकित्सा वक्ति - कच्छूरिति । कच्छू = रकसाम् । ५ सिक्थं = मधूच्छिष्टम्, ' मोम ' इति भाषायाम् । ‘ निक्थं नील्यां मधूच्छिष्टे ' इति हेमचन्द्रः । ६ सारतैलं = शिंशपा. ऽगुरुसरलदेवदार्वादिसिद्धतैलम् कटुकैः = कटुकौषधिभिः पिप्पल्यादिभिः । ७ पाद-दारिकायाश्चिकित्सामाइ - – पादेति । प्राक् स्नेहस्वेदौ पश्चात् सिरावेधनम् । ८ मधू. च्छिष्टं = ' मोम ' इति ख्यातम् । ९ अलसचिकित्सां वक्ति - पादाविति । १० कासीसः = ' कसीस ' इति, आलं = हरितालम् । ११ प्रतिसारणं = घषणमित्यर्थः । १२ कदरचिकित्सां ब्रवीति — उत्कृ · CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 819
पाठ पढ़ें पाठ छिपाएँ
अ ० २० ] Digitized by Any चिकित्सा hennai and eGangotri
इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत् ।
कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः ॥ २४ ॥
' कुटन्नटादारुकल्कैर्लेपनं वा प्रशस्यते ।
प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः ॥ २५ ॥
लेपयेदुपशान्त्यथ कुर्य्याद्वाऽपि रसायनम् ।
मालतीकरवीराग्निनक्तमालविपाचितम् ॥ २६ ॥
तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् ।
रूषिकां हृते रक्ते सेचयेन्निम्बवारिणा ॥ २७ ॥
दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु ।
हरितालनिशानिम्बकल्कैर्वा सपटोलजैः ॥ २८ ॥
यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत् । ६६१ सिरां दारुणके! विद्ध्वा स्निग्धस्विन्नस्य मूर्द्धनि ॥ २ ९ ॥
अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत् ।
क्षालने कोद्रवतृणचारतोयं प्रशस्यते ॥ ३० ॥
५०" उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम् ।
" मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ॥ ३१ ॥
त्येति । उत्कृत्य = शस्त्रेणावलिख्य, स्नेहेन = अग्नितप्ततै लेनेत्यर्थः । " दहेत्कदरमुद्धृ-स्य तैलेन दहनेन वा " इति भावमिश्रः । १ इन्द्रलुप्तचिकित्सितं निर्दिशति - इन्द्रलुप्त इति । ३ रसायनम् = अष्टादश दिव्यौषधयः । २ कुटन्नटः = तगरः । ४ श्रभ्यञ्जने = शिरोऽभ्यञ्जने । स्नेहपाककल्कपरिभाषया गोमूत्र-तत्तैलं जातीकरवीरचित्रककर अकल्पसिद्धेन चतुर्गुणेन कार्यम् । ५ श्ररूंषिकायाश्चिकित्सितं प्रतिपादयति - अरूषिकामिति । ६ वाजिविष्ठा. रसेन = अश्वपुरीषरसेनेत्यर्थः । ७ निशा = दरिद्रा! ८ मार्कवः = भृङ्गराजः । ९ दारुणकचिकित्सामभिदधाति - सिरामिति । १० पलितचिकित्सि माह-उपेति । उपरिष्टात् = पञ्चविंशतितमे मिश्रक चिकित्सिते । ११ मसूरिकायाश्चिकित्सां दर्शयति- मसूरिकायामिति । तत्र कुष्ठनाशकलेपनम् श्रादिशब्देन उद्वर्तनं घृतं च बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 820
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां--३६२ ५४ D CC - 0. Gurukul Kangri Collection, Haridwar | अ ० २० ५५ • अनन्तरोक्त-Digitized by Arya Samaj Foundation Chennai and eGangotri
पित्तश्लेष्मविसर्पोक्ता क्रिया वा सम्प्रशस्यते ।
जंतूमणिं समुत्कृत्य मषकं तिलकालकम् ॥ ३२ ॥
क्षारेण प्रदहेद् युक्त्या वह्निना वा शनैः शनैः ।
न्यच्छे व्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ॥ ३३ ॥
यथान्यायं यथाभ्यासं लालाव्यादिसिराव्यधः ।
घृष्ट्वा दिह्यात् त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ॥ ३४ ॥
बलाऽतिबलयष्ट्याह्न ' रजनीर्वा प्रलेपनम् ।
पर्यंस्याऽगुरुकालीयलेपनं वा सगैरिकम् ॥ ३५ ॥
क्षौद्राज्ययुक्तया लिम्पेद् दंष्ट्र्या शूकरस्य च ।
कपित्थराजादनयोः कल्कं वा हितमुच्यते ॥ ३६ ॥
यौवने पिडकास्वेष विशेषाच्छर्दनं हितम् ।
लेपनं च वचारोघ्रसैन्धवैः सर्षपान्वितैः ॥ ३७ ॥
कुस्तुम्बुरुवचालकुष्ठैर्वा लेपनं हितम् ।
' पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ॥ ३८ ॥
तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत् ।
निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ॥ ३ ९ ॥
परिवृत्तिं ५२ घृताभ्यक्तां सुस्विन्नामुपनाहयेत् ३ ।
ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ॥ ४० ॥
१ जतुमणि - मशक तिलकालकाना चिकित्सा वक्ति - जत्विति । समुत्कृत्य = शस्त्रेण सम्यगवलिख्य । २ न्यच्छ - व्यङ्ग - नीलिकानां चिकित्सितमाचष्टे - न्यच्छ इति । - नीलिका व्यङ्गभेदः, तथा हि- ' कृष्णमेवं गुणं गात्रे मुखे वा नीलिकां विदुः " इति । ३ घृष्ट्वा = समुद्रफेनादिकं घृष्ट्वेत्यर्थः । ४ क्षीरिणां = न्यग्रोधादिक्षीरवृक्षाणाम् । ५ रजनी = हरिद्रा । ६ पयस्या = प्रर्कपुष्पी, कालीयम् = प्रगरचन्दनम् ।. ७ रा. जादनं = प्रियालः । ८ यौवनपिडकायाश्चिकित्सामभिदधाति — यौवन इति । एषः = लेपसमूहः, छर्दनं = वमनम् । ९ कुस्तुम्बुरु - ' धनिया ' इति । १० पद्मिनीकण्टक चिकित्सामाह – पद्मिनीति । ११ उत्सादने = उद्वर्तने । १२ परिवृत्तिचिकित्सा-माख्याति - परिवृत्तिमिति । १३ उपनाहयेत् = बध्नीयात् । १४ सर्पिषाऽभ्यज्ये • -त्यर्थः । १५ मणि = मेढ्राग्रम् ।