सुश्रुत संहिता चौखम्बा — पृष्ठ 811–820

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 811–820

पृष्ठ 811

सुश्रुत संहिता चौखम्बा, पृष्ठ 811 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ऋ ० १ ९ pigitized by Arya aphai and eGangotri तत्र या वङ्क्षणस्था तां दहेदर्द्धेन्दुवक्त्रया ॥ २१ ॥

सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत् ।

त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्य्ययात् ॥ २२ ॥

अनेनैव विधानेन वृद्धी वातकफात्मिके ।

प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ॥ २३ ॥

शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् ।

व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये ॥ २४ ॥

उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः ।

सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः ॥ २५ ॥

हरेदुभर्यंतश्चापि दोषानत्यर्थमुच्छ्रितान् ।

सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः ॥ २६ ॥

यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् ।

निरूहेण हरेत् तस्य दोषानत्यर्थमुच्छ्रितान् ॥ २७ ॥

प्रपौण्डरीकयष्ट्याह्नवर्षाभू कुष्ठदारुभिः ।

" सरला गुरुरास्नाभिर्वातजं सम्प्रलेपयेत् ॥ २८ ॥

निचुलैरण्डबीजानि यवगोधूमसक्तवः । ६५३ त्वेन दोषरहितायामित्यर्थः । १ अर्धेन्दुवक्त्रया लौहशलाकयेत्यर्थः । २ वामान्त्रवृद्धौ दक्षिणाङ्गुष्ठमध्ये त्वङ्मात्रं छित्त्वा दहेत्, दक्षिणान्त्रवृद्धौ वामाङ्गुष्ठमध्ये त्वङ्मात्रं छित्वा दहेदिति ‘ अङ्गविपर्ययात् ' इत्यस्याशयः । ३ सेवनीं शारीरस्थानोक्ताम्, तथा हि— “ सप्त सेवन्यः — शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका, ताः परिहर्तव्याः श-स्त्रेण ” इति । ४ व्यत्यासात् = वामदक्षिणान्त्रवृद्धिभेदेन श्रङ्गविपर्ययादित्यर्थः । अथोपदंशचिकित्सा । ५ तत्रोपदंशे सामान्यचिकित्सा विधिमभिधत्ते – उपदंशेष्विति । ६ वापदेनात्र व्यवस्था बोध्या । श्रर्थाद् बहुदोषे सिरां विध्येत् अल्पदोषे तु जलौकां पातयेदिति । ७ उभयतः = वमनविरेचनाभ्याम् । बलवतो विषय एषः । ८ दुर्बलविषयं दर्शयति-यदीति । न वा प्राप्तं = न युक्तम् । ९ वातजन्योपदंशचिकित्सां निर्दिशति - प्रपौण्डरीकेति । प्रपौण्डरीकं = शालप-णपत्रतुल्यच्छदम्, ' पुण्डरिया ' इति ख्यातम् । वर्षाभूः = ' गदहपूना ' इति । १०. सर-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 812

सुश्रुत संहिता चौखम्बा, पृष्ठ 812 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५४, B Digitized by Arya Samaj - सनतसंहितायां and eGangotri [ श्र ० १ ९ Chennai एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् ॥ २ ९ ॥

प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते ।

गैरिकौञ्जनयष्ट्याह्नसारिवोशीरपद्मकैः ॥ ३० ॥

सचन्दनोत्पलैः स्निग्धैः पैत्तिकं सम्प्रलेपयेत् ।

पद्मोत्पल मृणालैश्च संसर्जार्जन वेतसैः ॥ ३१ ॥

सापःस्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् ।

सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ॥ ३२ ॥

अथवाऽपि सुशीतेन कषायेण वटादिना ।

शालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ॥ ३३ ॥

सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् ।

रजन्यतिविषामुस्तासुरसासुरदारुभिः ॥ ३४ ॥

सपत्रपाठात्तरैरथवा सम्प्रलेपयेत् ।

सुरसाऽऽरग्वधाद्योश्च काथाभ्यां परिषेचयेत् ॥ ३५ ॥

एवं संशोधनालेपसेकशोणितमोक्षणैः ।

प्रतिकुर्य्यात् क्रियायोगः प्राक्स्थानोक्तैर्हितैरपि ॥ ३६ ॥

नायाति च यथा पाकं प्रयतेत तथा भिषक् ।

विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते र्ध्वजः ॥ ३७ ॥

शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै तदाऽपोह्यं ' तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत् ॥ ३८ ॥

+ करवीरस्य " पत्राणि जात्यारग्वधयोस्तथा । ला = त्रिवृत् । १ सृखोष्णैः = ईषदुष्णैरित्यर्थः । २ प्रपौण्डरीकपूर्वैः = प्रपौण्ड-रीकादिभिः सप्तभिः । ३ पित्तजन्योपदंशचिकित्सितं ब्रवीति — गैरिकेति । श्रज्ज -नं = रसाञ्जनम् । ४ कफजन्योपदंशचिकित्सितमभिधत्ते - शालेति । शालाश्वकर्णौ शालभेदौ, अजकर्णः । अतिविषा ' अतीस ' इति ख्याता । : - गजहढः । ५ रजनी = हरिद्रा, ६ पत्तूरः = सिरवालिका । ७ उपदंशस्यामाद्यवस्थाभेदेन चिकित्सां दर्शयति - एव-मिति । ८ मिश्रकाध्यायोक्तक्रियायोगेरित्यर्थः । ९ ध्वजः = मेदः । १० अपोह्य = कुथितां शमुपहृत्य ११ पत्राणां कषाय इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 813

सुश्रुत संहिता चौखम्बा, पृष्ठ 813 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ९ ] Digitized by Ary.. कित्वायान ndnnai and eGangotri प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ॥ ३ ९ ॥

सौराष्ट्र गैरिकं तुत्थं पुष्पकासीससैन्धवम् ।

रोधं रसाञ्जनं दावीं हरितालं मनःशिलाम् ॥ ४० ॥

हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत् ।

तच्चूर्ण क्षौद्रसंयुक्तमुपदंशेषु पूजितम् ॥ ४१ ॥

जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः ।

शल्लकीबदरीबिल्व पलाशतिनिशत्त्रचः ॥ ४२ ॥

क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह ।

तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ॥ ४३ ॥

अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत् ।

गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ॥ ४४ ॥

एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते ।

सर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ॥ १५ ॥

मनःशिलासमैश्चूण व्रणवीसर्पनाशनम् ।

गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ॥ ४३ ॥

उपदंशविसर्पाणामेतच्छान्तिकरं परम् ।

मार्कर्वंस्त्रिफला दन्तो ताम्रचूर्णमयोरजः ॥ ४७ ॥

उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा ।

उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ॥। ४८ ॥

तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् ।

उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ॥ ४ ९ ॥

दुष्टव्रणविधिं कुर्य्यात् कुथितं मेहनं त्यजेत् । ६५५ १ सौराष्ट्री = ' फिटकिरी ' इति ख्याता । २ पल्लवशब्दो जम्ब्वादिभिः प्रत्येकम भिसम्बध्यते । ३ क्षीरिणां = वटाश्वत्थादीनाम् । ४ सर्वगन्धैः = चातुर्जातकादिभिरित्य-र्थः । यथा — ' चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत् ॥ ” इति । ५ गुन्द्रा - भद्रमुस्तकः । ६ माकवः = भृङ्गराजः । ७ असाध्यत्वेनोपदिष्टयोरुपदंशद्वयोश्चिकित्सितं ब्रवीति — उपदंशेति । उपदंश-द्वये = र क्तजसन्निपातजद्वये । ८ मेहनं लिङ्गं यावन्मात्रं कुथितं शटितं तावन्मात्र CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 814

सुश्रुत संहिता चौखम्बा, पृष्ठ 814 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५६ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १ ९ जैम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ॥ ५० ॥

सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत् ।

शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ॥ ५१ ॥

स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक् ।

कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ॥ ५२ ॥

समाप्यायितदेहं च बँस्तिभिः समुपाचरेत् ।

मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ॥ ५३ ॥

पयसौदनमश्नीयान्नागरक्कथितेन च ।

त्रै तं ' चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ॥ ५४ ॥

गुल्फँस्याधः सिरां विध्येच्छ्लीपदे पित्तसम्भवे ।

पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ॥ ५५ ॥

सिरां ' सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक् ।

मधुयुक्तानि चाभीक्ष्णं कषायाणि पिवेन्नरः ॥ ५६ ॥

पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च ।

कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ॥ ५७ ॥

हितं वा लेपने नित्यं भद्रदारु सचित्रकम् ।

विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ॥ ५८ ॥

भद्रदार्वेलुकाख्ये " च सर्वेषु लवणेषु च । II तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ॥ ५ ९ ॥ त्यजेत्, छिन्द्यादित्यर्थः । १ जम्ब्वोष्ठेन = कृष्णपाषाणरचितजम्बूफल सदृशश-स्त्रेणेत्यर्थः । अथ श्लीपद चिकित्सा । २ तत्र वातिकश्लीपदचिकित्सां निर्दिशति - स्नेहेति । ३ बस्तिभिः = निरूह-चस्तिभिः । ४ त्रिभिरवयवैवतं वृतं, स्नैहत्रितयमित्यर्थः । ५ पित्तजन्यश्लीपदचि-कित्सामभिधत्ते – गुल्फख्येति । ६ श्लैष्मिकश्लीपदचिकित्सितमभिदधाति — सिरामिति । श्रङ्गुष्ठे क्षिप्राख्यमर्मण उपरि चतुरङ्गुले सुविदितां सिरां विध्येदित्यर्थः । ७ अन्यतमेन मूत्रेण = भ्रष्टसु मूत्रेषु एकतमेन । ८ एलुकाख्यः = ' एलुआ ' इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 815

सुश्रुत संहिता चौखम्बा, पृष्ठ 815 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

` ० १ ९ ] Digitized by Arya S पि किस्सास्थानम् mai and eGangotri

पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये ।

पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ॥ ६० ॥

अनेनैव विधानेन पुत्रजीवकजं रसम् । ६५७ प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् । ६१ ॥

केवुकौकन्दनिर्यासं लवणं त्वथ पाकिमम् ।

रसं दत्त्वाऽथ ' पूर्वोक्तं पेयमेतद्भिषग्जितम् ॥ ६२ ॥

काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम् ।

कदम्बपुष्प मन्दारीं लम्बां शुकनसां तथा ॥ ६३ ॥

दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवित् ।

तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ॥ ६४ ॥

मदनाच्च फलात् क्वाथं शुकाख्यास्वरसं तथा ॥

एैष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ॥ ६५ ॥

अपचीं गलगण्डं च ग्रहणीदोषमेव च ।

भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ॥ ६६ ॥

-एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम् ।

एतानेवामयान् हन्ति ये च दुष्टब्रणा नृणाम् ॥ ६७ ॥

द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च ।

सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ॥ ६८ ॥

दद्याच्च त्रिफलाक्वाथमेव क्षारस्तु साधितः । १ पूतीकरअ: = कण्टकिकरअः । २ पुत्रञ्जीवकः = ' जीयापोता ' इति ख्यातः । ३ केबुका ' केमुश्रा ' इति । ४ पाकिमं = विडाख्यं लवणम् । ५ पूर्वोक्तं पुत्रञ्जीव-कोरवम् । ६ कदम्बपुष्पी = मुण्डी, लम्बा = कटुतुम्बी । ७ एष: -: - अनन्तरोक्तः क्षारः । क्षारपाकप्रकारस्तु षड्गुणेन गोमूत्रेण एकविंशति-चारान् काकादन्यादीनां क्षारं स्रावयेत् । तत्र काकोदुम्बरिकारसं मदनफलक्कार्थं शुकनासास्वरसं च प्रत्येकं गोमूत्रेण समम्, अपरेषां पादैकं प्रक्षिप्य क्षार-कल्पक्रमेण विपाच्य इति । | ८ एषु = काकादन्यादिषु । ९ नोलीं = श्रीफलम् । ४२ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 816

सुश्रुत संहिता चौखम्बा, पृष्ठ 816 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६५८ Digitized by Arya Samaj Foundation Chennai and eGangotri • सुश्रुतसंहितायां-[ अ ० २० अधो गच्छति पीतस्तु ' पूर्वैश्चाप्याशिषः समाः ॥ ६ ९ ॥ इति सुश्रुतसंहिताय चिकित्सास्थाने वृद्धयुपदंश श्लीपदचिकित्सितं नाम एकोनविंशोऽध्यायः ॥ १ ९ ॥

विंशतितमोऽध्यायः ।

अथोतः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

तंत्राजगल्लिकामामां जलौकोभिरुपाचरेत् ।

शुक्तिश्रुघ्नी यवक्षारकल्कैश्चाले पयेद्भिषक् ॥ ३ ॥

श्यामालाङ्गलकीपाठाकल्कैर्वाऽपि विचक्षणः ।

पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ॥ ४ ॥

अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा ।

पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ॥ ५ ॥

मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत् ।

परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ॥ ६ ॥

विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्द्धभम् । १ पूर्वैः = पूर्वक्षारयोगैरित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सा स्थानीय सुधाऽऽख्यटिप्पन्या. कोनविंशोऽध्यायः । विंशतितमोऽध्यायः । २ निदानस्थानक्रमागतं क्षुद्ररोगाणां चिकित्सितं विवृणोति - अथात इति । ३ श्रजगल्लिकायाश्चिकित्सां वक्ति - तत्रेति । ४ श्रुघ्नी स्वर्जिकाक्षारः । भावप्र-काशे— “ शुक्तिसौराष्ट्रिकाक्षारकर कैश्चाले पयेन्मुहुः " इति पठघते । अत्र प्राग् आले-पस्योपक्रमः, पश्चाज्जलौकोभिरिति ध्येयम् । ५ अन्धालजी - यवप्रख्या- पनसी - कच्छपी - पाषाणगर्दभानां चिकित्सितमभिधत्ते-अन्धेति । ६ भित्त्वा = शस्त्रेण विदार्य्यं । ७ विवृतेन्द्रवृद्वा - गर्दभी- जालगर्दभे. रिवेल्ला - गन्धनाग्नी - कक्षाणां चिकित्सां ब्रवीति - विवृतामिति । अस्या भावप्रका-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 817

सुश्रुत संहिता चौखम्बा, पृष्ठ 817 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २० ] Digitized by Ary र्वस्वपस्थाम hennai and eGangotri ९ ६५ " इरिवेल्लां गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ॥ ७ ॥

पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक् ।

रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ॥ ८ ॥

चिप्पमुष्णाम्बुना सिक्तमुत्कृत्यं स्रावयेद्भिषक् ।

चैक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ॥ ९ ॥

बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत् ।

मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् ॥ १० ॥

कुनखे विधिरप्येर्षं कार्यो हि भिषजा भवेत् ।

उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक् ॥ ११ ॥

विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत् ।

नर्गवृत्तिकवर्षाभू बिल्वमूलैः सुपेषितैः ॥ १२ ॥

व्रणभावगतायां वा कृत्वा संशोधनक्रियाम् ।

रोपणार्थं हितं तैलं कषायमधुरैः शृतम् ॥ १३ ॥

प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्का विदारिका ।

अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् ॥ १४ ॥

शे लक्षणम् - " मण्डलं वृत्तमुत्सन्न सरक्तं पिढकाचितम् । रुजाकरीं गर्दभिकां तो विद्याद् वातपित्तजाम् ॥ ” इति । १ “ पिडकामुत्तमाङ्गस्थां वृत्तामुपरुजां ज्वराम् । सर्वात्मिकां सर्वलिङ्गां जानीया-दिरिवेल्लिकाम् || " इति तल्लक्षणम् । गन्धनाम्न्या लक्षणं तु एकां तु तादृश दृष्ट्वा पिडकां स्फोटसन्निभाम् । त्वग्जातां पित्तकोपेन गन्धनाम्नीं प्रचक्षते ॥ ” इति । तादृशीं कक्षासदृश बाह्रादिषु कृष्णां सवेदनान्चेति तदर्थः । गर्दभिके. रिवेल्लिकयोर्विवृतायां गन्धनाम्न्याश्च कक्षायां यथाकथञ्चिदन्तर्भावो भविष्यतीति भगवता सुश्रुतेन निदानस्थानेऽनुपदिष्टा अपि एतास्तिस्रः अत्र प्रकरणे चिकि • रसासंशयनिवारणाय नाममात्रेणोपदिष्टा इति विभावनीयम् । २ मधुरौषधैः -का-कोल्यादिभिः । ३ चिप्पस्य चिकित्सामाह - चिप्पमिति । ४ उत्कृत्य = शस्त्रेण दुष्टमांसं दूरी • कृत्येत्यर्थः । ५ चक्रेण पीडितं तैलं चक्रतैलं तेन । ६ २ ष विधिः = चिप्पोक्तविधा-नमित्यर्थः । विदारिकायाश्चिकित्सां दर्शयति - विदारिकामिति । ७ समभ्यज्य = संस्वेद्य । ८ नगवृत्तिकः = ' जीयाल - जीअल ' इति लोके । ९ कषायो न्यग्रोधादिपठितः, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 818

सुश्रुत संहिता चौखम्बा, पृष्ठ 818 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६० सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri

पक्कां विदार्य्यं शस्त्रेण पटोलपिचुमर्दयोः ।

कल्केन तिलयुक्तेन समश्रेण लेपयेत् ॥ १५ ॥।

बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च ।

व्रणं प्रक्षालयेच्छुद्धास्ततस्ता रोपयेत् पुनः ॥ १६ ॥

मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम् । [ अ ० २० कंच्छं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् ॥ १७ ॥

लेपश्च शस्यते सिक्थॆशताह्नागौर सषपैः ।

वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् ॥ १८ ॥

सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम् ।

पार्दंदार्य्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् ॥ १ ९ ॥

मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः ।

यवाह्नगैरिकोन्मिश्रैः पादलेप: प्रशस्यते ॥ २० ॥

पादौ सिक्त्वाऽऽरनालेन लेपनं ह्यलसे हितम् ।

कल्कीकृतैर्निम्बतिलक सीसालैः ससैन्धवैः ॥ २१ ॥

लाक्षारसोऽभया वाऽपि कार्यं स्याद्रक्तमोक्षणम् ।

सिद्धं रसे कण्टकाय्र्यास्तैलं वा सार्षपं हितम् ॥ २२ ॥

कासीसरोचनशिला चूर्णैर्वा " प्रतिसारणम् ।

उत्कृत्यै ' दग्ध्वा स्नेहेन जयेत् कदरसंज्ञकम् ॥ २३ ॥

मधुरः काकोल्यादिः । १ पिचुमर्दः = निम्बः । स्थादिवृक्षस्य । २ क्षीरवृक्षस्य == न्यग्रोधोदुम्बराइव-३ शर्करार्बुदस्य चिकित्सामाह - मेद इति । ४ रकसा - विचचिका - पामाना चिकित्सा वक्ति - कच्छूरिति । कच्छू = रकसाम् । ५ सिक्थं = मधूच्छिष्टम्, ' मोम ' इति भाषायाम् । ‘ निक्थं नील्यां मधूच्छिष्टे ' इति हेमचन्द्रः । ६ सारतैलं = शिंशपा. ऽगुरुसरलदेवदार्वादिसिद्धतैलम् कटुकैः = कटुकौषधिभिः पिप्पल्यादिभिः । ७ पाद-दारिकायाश्चिकित्सामाइ - – पादेति । प्राक् स्नेहस्वेदौ पश्चात् सिरावेधनम् । ८ मधू. च्छिष्टं = ' मोम ' इति ख्यातम् । ९ अलसचिकित्सां वक्ति - पादाविति । १० कासीसः = ' कसीस ' इति, आलं = हरितालम् । ११ प्रतिसारणं = घषणमित्यर्थः । १२ कदरचिकित्सां ब्रवीति — उत्कृ · CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 819

सुश्रुत संहिता चौखम्बा, पृष्ठ 819 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २० ] Digitized by Any चिकित्सा hennai and eGangotri

इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत् ।

कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः ॥ २४ ॥

' कुटन्नटादारुकल्कैर्लेपनं वा प्रशस्यते ।

प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः ॥ २५ ॥

लेपयेदुपशान्त्यथ कुर्य्याद्वाऽपि रसायनम् ।

मालतीकरवीराग्निनक्तमालविपाचितम् ॥ २६ ॥

तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् ।

रूषिकां हृते रक्ते सेचयेन्निम्बवारिणा ॥ २७ ॥

दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु ।

हरितालनिशानिम्बकल्कैर्वा सपटोलजैः ॥ २८ ॥

यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत् । ६६१ सिरां दारुणके! विद्ध्वा स्निग्धस्विन्नस्य मूर्द्धनि ॥ २ ९ ॥

अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत् ।

क्षालने कोद्रवतृणचारतोयं प्रशस्यते ॥ ३० ॥

५०" उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम् ।

" मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ॥ ३१ ॥

त्येति । उत्कृत्य = शस्त्रेणावलिख्य, स्नेहेन = अग्नितप्ततै लेनेत्यर्थः । " दहेत्कदरमुद्धृ-स्य तैलेन दहनेन वा " इति भावमिश्रः । १ इन्द्रलुप्तचिकित्सितं निर्दिशति - इन्द्रलुप्त इति । ३ रसायनम् = अष्टादश दिव्यौषधयः । २ कुटन्नटः = तगरः । ४ श्रभ्यञ्जने = शिरोऽभ्यञ्जने । स्नेहपाककल्कपरिभाषया गोमूत्र-तत्तैलं जातीकरवीरचित्रककर अकल्पसिद्धेन चतुर्गुणेन कार्यम् । ५ श्ररूंषिकायाश्चिकित्सितं प्रतिपादयति - अरूषिकामिति । ६ वाजिविष्ठा. रसेन = अश्वपुरीषरसेनेत्यर्थः । ७ निशा = दरिद्रा! ८ मार्कवः = भृङ्गराजः । ९ दारुणकचिकित्सामभिदधाति - सिरामिति । १० पलितचिकित्सि माह-उपेति । उपरिष्टात् = पञ्चविंशतितमे मिश्रक चिकित्सिते । ११ मसूरिकायाश्चिकित्सां दर्शयति- मसूरिकायामिति । तत्र कुष्ठनाशकलेपनम् श्रादिशब्देन उद्वर्तनं घृतं च बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 820

सुश्रुत संहिता चौखम्बा, पृष्ठ 820 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां--३६२ ५४ D CC - 0. Gurukul Kangri Collection, Haridwar | अ ० २० ५५ • अनन्तरोक्त-Digitized by Arya Samaj Foundation Chennai and eGangotri

पित्तश्लेष्मविसर्पोक्ता क्रिया वा सम्प्रशस्यते ।

जंतूमणिं समुत्कृत्य मषकं तिलकालकम् ॥ ३२ ॥

क्षारेण प्रदहेद् युक्त्या वह्निना वा शनैः शनैः ।

न्यच्छे व्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ॥ ३३ ॥

यथान्यायं यथाभ्यासं लालाव्यादिसिराव्यधः ।

घृष्ट्वा दिह्यात् त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ॥ ३४ ॥

बलाऽतिबलयष्ट्याह्न ' रजनीर्वा प्रलेपनम् ।

पर्यंस्याऽगुरुकालीयलेपनं वा सगैरिकम् ॥ ३५ ॥

क्षौद्राज्ययुक्तया लिम्पेद् दंष्ट्र्या शूकरस्य च ।

कपित्थराजादनयोः कल्कं वा हितमुच्यते ॥ ३६ ॥

यौवने पिडकास्वेष विशेषाच्छर्दनं हितम् ।

लेपनं च वचारोघ्रसैन्धवैः सर्षपान्वितैः ॥ ३७ ॥

कुस्तुम्बुरुवचालकुष्ठैर्वा लेपनं हितम् ।

' पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ॥ ३८ ॥

तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत् ।

निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ॥ ३ ९ ॥

परिवृत्तिं ५२ घृताभ्यक्तां सुस्विन्नामुपनाहयेत् ३ ।

ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ॥ ४० ॥

१ जतुमणि - मशक तिलकालकाना चिकित्सा वक्ति - जत्विति । समुत्कृत्य = शस्त्रेण सम्यगवलिख्य । २ न्यच्छ - व्यङ्ग - नीलिकानां चिकित्सितमाचष्टे - न्यच्छ इति । - नीलिका व्यङ्गभेदः, तथा हि- ' कृष्णमेवं गुणं गात्रे मुखे वा नीलिकां विदुः " इति । ३ घृष्ट्वा = समुद्रफेनादिकं घृष्ट्वेत्यर्थः । ४ क्षीरिणां = न्यग्रोधादिक्षीरवृक्षाणाम् । ५ रजनी = हरिद्रा । ६ पयस्या = प्रर्कपुष्पी, कालीयम् = प्रगरचन्दनम् ।. ७ रा. जादनं = प्रियालः । ८ यौवनपिडकायाश्चिकित्सामभिदधाति — यौवन इति । एषः = लेपसमूहः, छर्दनं = वमनम् । ९ कुस्तुम्बुरु - ' धनिया ' इति । १० पद्मिनीकण्टक चिकित्सामाह – पद्मिनीति । ११ उत्सादने = उद्वर्तने । १२ परिवृत्तिचिकित्सा-माख्याति - परिवृत्तिमिति । १३ उपनाहयेत् = बध्नीयात् । १४ सर्पिषाऽभ्यज्ये • -त्यर्थः । १५ मणि = मेढ्राग्रम् ।